स्वामि-वशीकरणम्

यस्य यस्य हि यो भावस्
तेन तेन समाचरेत् ।
अनुप्रविश्य मेधावी
क्षिप्रम् आत्म-वशं नयेत् ॥ ७४॥ +++(४)+++

भर्तुश् चित्तानुवर्तित्वं
सुवृत्तं चानुजीविनाम् +++(अस्ति)+++।
राक्षसाश् चापि गृह्यन्ते
नित्यं छन्दानुवर्तिभिः ॥ ७५॥ +++(५)+++

सरुषि नृपे स्तुति-वचनं
तद्-अभिमते प्रेम तद्-द्विषि द्वेषः ।
तद्-दानस्य च शंसा
अमन्त्र-तन्त्रं वशीकरणम् ॥ ७६॥ +++(४)+++