सेवानीतिः

सेवामाहत्यम्

सुवर्ण-पुष्पितां पृथ्वीं
विचिन्वन्ति नरास् त्रयः ।
शूरश् च कृत-विद्यश् च
यश् च जानाति सेवितुम् ॥ ४६॥ +++(४)+++

सेवारीतिः

सा सेवा या प्रभु-हिता
ग्राह्या वाक्य-विशेषतः ।
आश्रयेत् पार्थिवं विद्वांस्
तद् द्वारेणैव नान्यथा ॥ ४७॥

कः सेव्यः?

यो न वेत्ति गुणान्य् अस्य
न तं सेवेत पण्डितः ।
न हि तस्मात् फलं किञ्चित्
सुकृष्टाद् ऊषराद् इव ॥ ४८॥ +++(५)+++

द्रव्य-प्रकृति-हीनोऽपि
सेव्यः सेव्य-गुणान्वितः ।
भवत्य् आजीवनं तस्मात्
फलं कालान्तराद् अपि ॥ ४९॥ +++(५)+++

अपि स्थाणुवद् आसीनः
शुष्यन् परिगतः क्षुधा ।
न त्वेवानात्म+++(त्व् अज्ञानात्म)+++ -सम्पन्नाद्
वृत्तिम् ईहेत पण्डितः ॥ ५०॥ +++(५)+++

सेवकः स्वामिनं द्वेष्टि
कृपणं परुषाक्षरम् ।
आत्मानं किं स न द्वेष्टि
सेव्यासेव्यं न वेत्ति यः ॥ ५१॥ +++(५)+++

यमाश्रित्य न विश्रामं
क्षुधार्ता यान्ति सेवकाः ।
सो ऽर्कवन् नृपतिस् त्याज्यः
सदा पुष्प-फलोऽपि सन् ॥ ५२॥ +++(५)+++

परिचारकेषु

राज-मातरि देव्यां च
कुमारे मुख्य-मन्त्रिणि ।
पुरोहिते प्रतीहारे
सदा वर्तेत राजवत् ॥ ५३॥ +++(५)+++

स्वामिप्रीतिप्राप्तिः

जीवेति प्रब्रुवन् प्रोक्तः
कृत्याकृत्य-विचक्षणः ।
करोति निर्विकल्पं यः
स भवेद् राज-वल्लभः ॥ ५४॥

प्रभु-प्रसादजं वित्तं
सुप्राप्तं यो निवेदयेत् ।
वस्त्राद्यं च दधात्य् अङ्गे
स भवेद् राज-वल्लभः ॥ ५५॥

अन्तः-पुर-चरैः सार्धं
यो न मन्त्रं समाचरेत् ।
न कलत्रैर् नरेन्द्रस्य
स भवेद् राज-वल्लभः ॥ ५६॥

द्यूतं यो यम-दूताभं
हालां हालाहलोपमाम् ।
पश्येद् दारान् वृथाकारान्
स भवेद् राज-वल्लभः ॥ ५७॥

युद्ध-काले ऽग्रणीर् यः स्यात्
सदा पृष्ठानुगः पुरे ।
प्रभोर् द्वाराश्रितो हर्म्ये
स भवेद् राज-वल्लभः ॥ ५८॥

सम्मतोऽहं विभोर् नित्यम्
इति मत्वा व्यतिक्रमेत् ।
कृच्छ्रेष्व् अपि न मर्यादां
स भवेद् राज-वल्लभः ॥ ५९॥

द्वेषि-द्वेष-परो नित्यम्
इष्टानाम् इष्ट-कर्म-कृत् ।
यो नरो नर-नाथस्य
स भवेद् राज-वल्लभः ॥ ६०॥

प्रोक्तः प्रत्युत्तरं नाह
विरुद्धं प्रभुणा च यः ।
न समीपे हसत्य् उच्चैः
स भवेद् राज-वल्लभः ॥ ६१॥

यो रणं शरणं तद्वन्
मन्यते भय-वर्जितः ।
प्रवासं स्व-पुरावासं
स भवेद् राज-वल्लभः ॥ ६२॥

न कुर्यान् नर-नाथस्य
योषिद्भिः सह संगतिम् ।
न निन्दां न विवादं च
स भवेद् राज-वल्लभः ॥ ६३॥