दुराराध्या हि राजानः
पर्वता इव सर्वदा ।
व्यालाकीर्णाः सुविषमाः
कठिना दुष्ट-सेविताः ॥ ६८॥ +++(४)+++
तथा च -
भोगिनः कञ्चुकाविष्टाः
कुटिलाः क्रूर-चेष्टिताः ।
सुदुष्टा मन्त्र-साध्याश् च
राजानः पन्नगा इव ॥ ६९॥ +++(४)+++
द्वि-जिह्वाः क्रूर-कर्माणो
ऽनिष्टाश् छिद्रानुसारिणः ।
दूरतोऽपि हि पश्यन्ति
राजानो भुजगा इव ॥ ७०॥ +++(४)+++
स्वल्पम् अप्य् अपकुर्वन्ति
येऽभीष्टा हि महीपतेः ।
ते वह्नाव् इव दह्यन्ते
पतङ्गाः पाप-चेतसः ॥ ७१॥
दुरारोहं पदं राज्ञां
सर्व-लोक-नमस्कृतम् ।
स्वल्पेनाप्य् अपकारेण
ब्राह्मण्यम् इव दुष्यति ॥ ७२॥ +++(४)+++
दुराराध्याः श्रियो राज्ञां
दुरापा दुष्परिग्रहाः ।
तिष्ठन्त्य् आप इवाधारे +++(पात्रे)+++
चिरम् आत्मनि संस्थिताः ॥ ७३॥