यः कृत्वा सुकृतं राज्ञो
दुष्करं हितम् उत्तमम् ।
लज्जया वक्ति नो किञ्चित्
तेन राजा सहायवान् ॥ ९३॥
यस्मिन् कृत्यं समावेश्य
निर्विशङ्केन चेतसा ।
आस्यते सेवकः स स्यात्
कलत्रम् इव चापरम् ॥ ९४॥ +++(५)+++
यो ऽनाहूतः समभ्येति
द्वारि तिष्ठति सर्वदा ।
पृष्टः सत्यं मितं ब्रूते
स भृत्यो ऽर्हो महीभुजाम् ॥ ९५॥
अनादिष्टोऽपि भूपस्य
दृष्ट्वा हानिकरं च यः ।
यतते तस्य नाशाय स
भृत्योऽर्हो महीभुजाम् ॥ ९६॥
ताडितो ऽपि दुरुक्तो ऽपि
दण्डितो ऽपि महीभुजा ।
यो न चिन्तयते पापं
स भृत्यो ऽर्हो महीभुजाम् ॥ ९७॥
न गर्वं कुरुते माने
नापमाने च तप्यते ।
स्वाकारं रक्षयेद् यस्तु
स भृत्यो ऽर्हो महीभुजाम् ॥ ९८॥
न क्षुधा पीड्यते यस्तु
निद्रया न कदाचन ।
न च शीतातपाद्यैश् च स
भृत्यो ऽर्हो महीभुजाम् ॥ ९९॥
श्रुत्वा सांग्रामिकीं वार्तां
भविष्यां स्वामिनं प्रति ।
प्रसन्नास्यो भवेद् यस् तु
स भृत्यो ऽर्हो महीभुजाम् ॥ १००॥ +++(सामुराय्-सदृशम्!)+++
सीमा वृद्धिं समायाति
शुक्ल-पक्ष इवोडु+++(=तारा)+++राट् ।
नियोग-संस्थिते यस्मिन्
स भृत्यो ऽर्हो महीभुजाम् ॥ १०१॥
सीमा संकोचम् आयाति
वह्नौ चर्म इवाहितम् ।
स्थिते यस्मिन् स तु त्याज्यो
भृत्यो राज्यं समीहता ॥ १०२॥