अप्रधानः प्रधानः स्यात्
सेवते यदि पार्थिवम् ।
प्रधानो ऽप्य् अप्रधानः स्याद्
यदि सेवा-विवर्जितः ॥ ३५॥ +++(५)+++
यत उक्तं च -
आसन्नम् एव नृपतिर् भजते मनुष्यं
विद्या-विहीनम् अकुलीनम् असंस्कृतं वा ।
प्रायेण भूमि-पतयः प्रमदा लताश् च
यत् पार्श्वतो भवति तत् परिवेष्टयन्ति ॥ ३६॥ +++(५)+++
तथा च -
कोप-प्रसाद-वस्तूनि
ये विचिन्वन्ति सेवकाः ।
आरोहन्ति शनैः पश्चाद्
धुन्वन्तम्+++(=कम्पमानम्)+++ अपि पार्थिवम् ॥ ३७॥ +++(४)+++
विद्यावतां महेच्छानां
शिल्प-विक्रम-शालिनाम् ।
सेवा-वृत्ति-विदां चैव
नाश्रयः पार्थिवं विना ॥ ३८॥ +++(४)+++
ये जात्य्-आदि-महोत्साहान्
नरेन्द्रान् नोपयान्ति च ।
तेषाम् आमरणं भिक्षा
प्रायश्चित्तं विनिर्मितम् ॥ ३९॥ +++(५)+++
ये च प्राहुर् दुरात्मानो
दुराराध्या महीभुजः ।
प्रमादालस्य-जाड्यानि
ख्यापितानि निजानि तैः ॥ ४०॥ +++(४)+++
सर्पान् व्याघ्रान् गजान् सिंहान्
दृष्टोपायैर् वशीकृतान् ।
राजेति कियती मात्रा
धीमताम् अप्रमादिनाम् ॥ ४१॥ +++(५)+++
राजानम् एव संश्रित्य
विद्वान् याति परां गतिम् ।
विना मलयम् अन्यत्र
चन्दनं न प्ररोहति ॥ ४२॥ +++(५)+++
धवलान्य् आतपत्राणि
वाजिनश् च मनोरमाः ।
सदा मत्ताश् च मातङ्गाः
प्रसन्ने सति भूपतौ ॥ ४३॥ +++(४)+++