स्वाम्य्-आदेशात् सुभृत्यस्य न भीः सञ्जायते क्वचित् । प्रविशेन् मुखम् आहेयं दुस्तरं वा महार्णवम् ॥१.१२०॥ तथा च– स्वाम्य्-आदिष्टस् तु यो भृत्यः समं विषमम् एव च । मन्यते, न स सन्धार्यो भूभुजा भूतिम् इच्छता ॥१.१२१॥