भृत्योत्साहः

स्वाम्य्-आदेशात् सुभृत्यस्य
न भीः सञ्जायते क्वचित् ।
प्रविशेन् मुखम् आहेयं
दुस्तरं वा महार्णवम् ॥१.१२०॥

तथा च–

स्वाम्य्-आदिष्टस् तु यो भृत्यः
समं विषमम् एव च ।
मन्यते, न स सन्धार्यो
भूभुजा भूतिम् इच्छता ॥१.१२१॥