न विना पार्थिवो भृत्यैर्
न भृत्याः पार्थिवं विना ।
तेषां च व्यवहारो ऽयं
परस्पर-निबन्धनः ॥ ८७॥ +++(४)+++
भृत्यैर् विना स्वयं राजा
लोकानुग्रह-कारिभिः ।
मयूखैर् इव दीप्तांशुस्
तेजस्व्य् अपि न शोभते ॥ ८८॥ +++(५)+++
अरैः सन्धार्यते नाभिर्
नाभौ चाराः प्रतिष्ठिताः ।
स्वामि-सेवकयोर् एवं
वृत्ति-चक्रं प्रवर्तते ॥ ८९॥ +++(५)+++
शिरसा विधृता नित्यं
स्नेहेन परिपालिताः ।
केशा अपि विरज्यन्ते
निःस्नेहाः किं +++(कुतो)+++ न सेवकाः ॥ ९०॥ +++(५)+++
राजा तुष्टो हि भृत्यानाम्
अर्थ-मात्रं प्रयच्छति ।
ते तु संमान-मात्रेण
प्राणैर् अप्य् उपकुर्वते ॥ ९१॥ +++(५)+++
एवं ज्ञात्वा नरेन्द्रेण
भृत्याः कार्या विचक्षणाः ।
कुलीनाः शौर्य-संयुक्ताः
शक्ता भक्ताः क्रमागताः ॥ ९२॥
- मूषिका गृहजातापि हन्तव्या स्वापकारिणी ।
भक्ष्य-प्रदानैर्जारो हितकृत्-प्राप्यते जनैः ॥१.१०४॥
एरण्डभिण्डार्कनलैः प्रभूतैरपि सञ्चितैः ।
दारुकृत्यं यथा नास्ति तथैवाज्ञैः प्रयोजनम् ॥१.१०५॥
किं भक्तेनासमर्थेन किं शक्तेर्नापकारिणा ।
भक्तं शक्तं च मां राजन्नावज्ञातुं त्वमर्हसि ॥१.१०६॥ +++(सम्पादकटिप्पनी - पुस्तके १०४, १०५, १०६ अत्र न क्रमः )+++