स्थानेष्व् एव नियोक्तव्या
भृत्या आभरणानि च ।
न हि चूडामणिः पादे
प्रभवामीति बध्यते ॥ ७८॥ +++(५)+++
यतः-
अनभिज्ञो गुणानां यो
न भृत्यैर् अनुगम्यते ।
धनाढ्यो ऽपि कुलीनो ऽपि
क्रमायातो ऽपि भूपतिः ॥ ७९॥
उक्तञ्च-
असमैः समीयमानः समैश् च
परिहीयमाण-सत्-कारः ।
धुरि यो न युज्यमानस् त्रिभिर्
अर्थ-पतिं त्यजति भृत्यः ॥ ८०॥ +++(र४)+++
यच् चाविवेकितया राजा भृत्यानुत्तम-पद-योग्यान् हीनाधम-स्थाने नियोजयति, न ते तत्रैव तिष्ठन्ति। स भूपतेर् दोषो न तेषाम् । उक्तं च-
कनक-भूषण-सङ्ग्रहणोचितो
यदि मणिस् त्रपुणि प्रतिबध्यते ।
न स विरौति न चापि स शोभते
भवति योजयितुर् वचनीयता ॥ ८१॥ +++(५)+++
यच् च स्वाम्य् एवं वदति चिराद् दृश्यते । तद् अपि श्रूयताम्-
सव्य-दक्षिणयोर् यत्र
विशेषो नास्ति हस्तयोः ।
कस् तत्र क्षणम् अप्यार्यो
विद्यमान-गतिर् भवेत् ॥ ८२॥
काचे मणिर् मणौ काचो
येषां बुद्धिर् विकल्पते ।
न तेषां सन्निधौ भृत्यो
नाम-मात्रो ऽपि तिष्ठति ॥ ८३॥ +++(४)+++
परीक्षका यत्र न सन्ति देशे
नार्घन्ति रत्नानि समुद्रजानि ।
आभीर-देशे किल चन्द्रकान्तं
त्रिभिर् वराटैर् विपणन्ति गोपाः ॥ ८४॥ +++(५)+++
लोहिताख्यस्य च मणेः
पद्मरागस्य चान्तरम् ।
यत्र नास्ति कथं तत्र
क्रियते रत्न-विक्रयः ॥ ८५॥
निर्विशेषं यदा स्वामी
समं भृत्येषु वर्तते ।
तत्रोद्यम-समर्थानाम्
उत्साहः परिहीयते ॥ ८६॥ +++(५)+++