भृत्यानवज्ञा

कौशेयं कृमिजं, सुवर्णम् उपलाद्, दूर्वापि गोरोमतः,
पङ्कात् तामरसं, शशाङ्क उदधेर्, इन्दीवरं गोमयात् ।
काष्ठाद् अग्निर्, अहेः फणाद् अपि मणिर्, गो-पित्ततो रोचना,
प्राकाश्यं स्व-गुणोदयेन गुणिनो गच्छन्ति - किं जन्मनः ॥१०३॥+++(5)+++

मूषिका गृह-जातापि
हन्तव्या सापकारिणी ।
भक्ष्य-प्रदानैर् मार्जारो
हितकृत् प्राप्यते जनैः ॥१०४॥

एरण्ड-भिण्डार्क-नलैः
प्रभूतैर् अपि सञ्चितैः । दारु-कृत्यं यथा नास्ति
तथैवाज्ञैः प्रयोजनम् ॥१०५॥

किं भक्तेनासमर्थेन
किं शक्तेर् नापकारिणा । भक्तं शक्तं च मां राजन्
नावज्ञातुं त्वम् अर्हसि ॥१०६॥