उत्तराद् उत्तरं वाक्यं
वदतां संप्रजायते ।
सुवृष्टि-गुण-सम्पन्नाद्
बीजाद् बीजम् इवापरम् ॥ ६४॥ +++(५)+++
अपाय-संदर्शनजां विपत्तिम्
उपाय-संदर्शनजां च सिद्धिम् ।
मेधाविनो नीति-गुण-प्रयुक्तां
पुरः स्फुरन्तीम् इव वर्णयन्ति ॥ ६५॥ +++(५)+++
एकेषां वाचि शुकवद्
अन्येषां हृदि मूकवत् ।
हृदि वाचि तथान्येषां
वल्गु वल्गन्ति सूक्तयः ॥ ६६॥
न च अहम् अप्राप्त-कालं वक्ष्ये । आकर्णितं मया नीति-सारं पितुः पूर्वम् उत्सङ्गं हि निषेवता ।
अप्राप्त-कालं वचनं
बृहस्पतिर् अपि ब्रुवन् ।
लभते बह्व्-अवज्ञानम्
अपमानं च पुष्कलम्+++(=भूरि)+++ ॥ ६७॥