मन्त्रणौचित्यम्

उक्तञ्च -

अपृष्टो ऽत्राप्रधानो यो
ब्रूते राज्ञः पुरः कुधीः ।
न केवलम् असंमानं
लभते च विडम्बनम् ॥ ३३॥

तथा च -

वचस् तत्र प्रयोक्तव्यं
यत्रोक्तं लभते फलम् ।
स्थायी भवति चात्यन्तं
रागः शुक्ल-पटे यथा ॥ ३४॥