उक्तञ्च - अपृष्टो ऽत्राप्रधानो यो ब्रूते राज्ञः पुरः कुधीः । न केवलम् असंमानं लभते च विडम्बनम् ॥ ३३॥ तथा च - वचस् तत्र प्रयोक्तव्यं यत्रोक्तं लभते फलम् । स्थायी भवति चात्यन्तं रागः शुक्ल-पटे यथा ॥ ३४॥