यत उक्तं च -
उदीरितो ऽर्थः पशुनापि गृह्यते
हयाश् च नागाश् च वहन्ति चोदिताः ।
अनुक्तम् अप्यूहति पण्डितो जनः
परेङ्गित-ज्ञान-फला हि बुद्धयः ॥ ४४॥
तथा च मनुः (८।२६) -
आकारैर् इङ्गितैर् गत्या
चेष्टया भाषणेन च ।
नेत्र-वक्त्र-विकारैश् च
लक्ष्यते ऽन्तर्गतं मनः ॥ ४५॥