शीलं शौचं क्षान्तिर् दाक्षिण्यं मधुरता कुले जन्म ।
न विराजन्ति हि सर्वे वित्त-विहीनस्य पुसुषस्य ॥पन्च्_५.२॥
मानो वा दर्पो वा विज्ञानं विभ्रमः सुबुद्धिर् वा ।
सर्वं प्रणश्यति समं वित्त-विहीनो यदा पुरुषः ॥पन्च्_५.३॥
प्रतिदिवसं याति लयं वसन्त-वाताहतेव शिशिर-श्रीः ।
बुद्धिर् बुद्धिमताम् अपि कुटुम्ब-भर-चिन्तया सततम् ॥पन्च्_५.४॥
नश्यति विपुलमतेर् अपि बुद्धिः पुरुषस्य मन्द-विभवस्य ।
घृत-लवण-तैल-तण्डुल-वस्त्रेन्धन-चिन्तया सततम् ॥पन्च्_५.५॥
गणनम् इव नष्ट-तारकं
सुष्कम् इव सरः श्मशानम् इव रौद्रम् ।
प्रिय-दर्शनम् अपि रूक्षं
भवति गृहं धन-विहीनस्य ॥पन्च्_५.६॥
न विभाव्यन्ते लघवो वित्त-विहीनाः पुरो ऽपि निवसन्तः ।
सततं जात-विनष्टाः पयसाम् इव बुद्बुदाः पयसि ॥पन्च्_५.७॥
सुकुलं कुशलं सुजनं विहाय कुल-कुशल-शील-विकलेऽपि ।
आढ्ये कल्प-तराव् इव नित्यं रज्यन्ति जन-निवहाः ॥पन्च्_५.८॥
विफलम् इह पूर्व-सुकृतं विद्यावन्तो ऽपि कुल-समुद्भूताः ।
यस्य यदा विभवः स्यात् तस्य तदा दासतां यान्ति ॥पन्च्_५.९॥
लघुर् अयम् आह न लोकः कामं गर्जन्तम् अपि पतिं पयसाम् ।
सर्वम् अलज्जाकरम् इह यद् यत् कुर्वन्ति परिपूर्णाः ॥पन्च्_५.१०॥