उक्तञ्च -
सुहृदाम् उपकार-कारणाद्
द्विषताम् अप्य् अपकार-कारणात् ।
नृप-संश्रय इष्यते बुधैर्
जठरं को न बिभर्ति केवलम् ॥ २२॥ +++(४)+++
किञ्च -
यस्मिञ् जीवन्ति जीवन्ति
बहवः सोऽत्र जीवतु ।
वयांसि+++(=पक्षिणः)+++ किं न कुर्वन्ति
चञ्च्वा स्वोदर-पूरणम् ॥ २३॥
तथा च -
यज् जीव्यते क्षणम् अपि प्रथितं मनुष्यैर्
विज्ञान-शौर्य-विभवार्य-गुणैः समेतम् ।
तन् नाम जीवितम् इह प्रवदन्ति तज्-ज्ञाः
काकोऽपि जीवति चिराय बलिं च भुङ्क्ते ॥ २४॥ +++(४)+++
यो नात्मना न च परेण च बन्धु-वर्गे
दीने दयां न कुरुते न च मर्त्य-वर्गे ।
किं तस्य जीवित-फलं हि मनुष्य-लोके
काकोऽपि जीवति चिराय बलिं च भुङ्क्ते ॥ २५॥
सुपूरा स्यात् कुनदिका
सुपूरो मूषिकाञ्जलिः ।
सुसंतुष्टः कापुरुषः
स्वल्पकेनापि तुष्यति ॥ २६॥ +++(४)+++
किं च -
किं तेन जातु जातेन
मातुर्-यौवन-हारिणा ।
आरोहति न यः स्वस्य
वंशस्याग्रे ध्वजो यथा ॥ २७॥ +++(५)+++
परिवर्तिनि संसारे
मृतः को वा न जायते ।
जातस्तु गण्यते सो ऽत्र
यः स्फुरेच् च श्रियाधिकः ॥ २८॥ +++(४)+++
किं च -
जातस्य नदी-तीरे
तस्यापि तृणस्य जन्म-साफल्यम् ।
यत् सलिल-मज्जनाकुल-जन-हस्तालम्बनं भवति ॥ २९॥ +++(५)+++
तथा च -
स्तिमितोन्नत-सञ्चारा
जन-सन्ताप-हारिणः ।
जायन्ते विरला लोके
जलदा इव सज्जनाः ॥ ३०॥ +++(५)+++
निरतिशयं गरिमाणं तेन
जनन्याः स्मरन्ति विद्वांसः ।
यत् कम् अपि वहति गर्भं
महताम् अपि यो गुरुर् भवति ॥ ३१॥ +++(४)+++
अप्रकटीकृत-शक्तिः
शक्तो ऽपि जनस् तिरस्क्रियां लभते ।
निवसन्न् अन्तर्-दारुणि
लङ्घ्यो वह्निर् न तु ज्वलितः ॥ ३२॥ +++(५)+++