अविश्वासः

न वध्यन्ते ह्य् अविश्वस्ता
बलिभिर् दुर्बला अपि ।
विश्वस्तास् त्व् एव वध्यन्ते
बलवन्तोऽपि दुर्बलैः ॥१.१२३॥

बृहस्पतेर् अपि प्राज्ञो
न विश्वासे व्रजेन् नरः ।
य इच्छेद् आत्मनो वृद्धिम्
आयुष्यं च सुखानि च ॥१.१२४॥

शपथैः सन्धितस्यापि
न विश्वासे व्रजेद् रिपोः ।
राज्य-लाभोद्यतो वृत्रः
शक्रेण शपथैर् हतः ॥१.१२५॥

न विश्वासं विना शत्रुर्
देवानाम् अपि सिद्ध्यति ।
विश्वासात् त्रि-दशेन्द्रेण
दितेर् गर्भो विदारितः ॥१.१२६॥