अभीतिः

अत्युत्कटे च रौद्रे च
शत्रौ प्राप्ते न हीयते
धैर्यं यस्य, महीनाथो
न स याति पराभवम् ॥१.११२॥

दर्शित-भयेऽपि धातरि
धैर्य-ध्वंसो भवेन् धीराणाम् ।
शोषित-सरसि निदाघे
नितराम् एवोद्धतः सिन्धुः ॥१.११३॥

तथा च –

यस्य न विपदि विषादः
सम्पदि हर्षो रणे न भीरुत्वम् ।
तं भुवन-त्रय-तिलकं
जनयति जननी सुतं विरलम् ॥१.११४॥

तथा च –

शक्ति-वैकल्य-नम्रस्य
निःसारत्वाल् लघीयसः ।
जन्मिनो मान-हीनस्य
तृणस्य च समा गतिः ॥१.११५॥

अपि च –

अन्य-प्रतापम् आसाद्य
यो दृढत्वं न गच्छति ।
जतु+++(=wax)+++-जाभरणस्येव
रूपेणापि हि तस्य किम् ॥१.११६॥