५-०० क्षपणककथा

अथेदम् आरभ्यतेऽपरीक्षित-कारकं नाम पञ्चमं तन्त्रम् । तस्यायम् आदिमः श्लोकः-

कुदृष्टं कुपरिज्ञातं कुश्रुतं कुपरीक्षितम् ।
तन् नरेण न कर्तव्यं नापितेनात्र यत् कृतम् ॥पन्च्_५.१॥

तद् यथानुश्रूयते-अस्ति दाक्षिणात्ये जनपदे पाटलिपुत्रं नाम नगरम् । तत्र मणिभद्रो नाम श्रेष्ठी प्रतिवसति स्म । तस्य च धर्मार्थ-काम-मोक्ष-कर्माणि कुर्वतो विधि-वशाद् धन-क्षयः सञ्जातः । ततो विभव-क्षयाद् अपमान-परम्परया परं विषादं गतः । अथान्यदा रात्रौ सुप्तिश् चिन्तितवान्-अहो धिग् इयं दरिद्रता । उक्तं च-

एवं सम्प्रधार्य भूयो ऽप्य् अचिन्तयत्-तद् अहम् अनशनं कृत्वा प्राणान् उत्सृजामि । किम् अनेन व्यर्थ-जीवित-व्यसनेन ? एवं निश्चयं कृत्वा सुप्तः । अथ तस्य स्वप्ने पद्मनिधिः क्षपणक-रूपो दर्शनं दत्त्वा प्रोवाच-भोः श्रेष्ठिन् ! मा त्वं वैराग्यं गच्छ । अहं पद्मनिधिस् तव पूर्व-पुरुषोपार्जितः । तद् अनेनैव रूपेण प्रातस् त्वद्-गृहम् आगमिष्यामि । तत् त्वयाहं लगुड-प्रहारेण शिरसि ताडनीयः, येन कनक-मयो भूत्वाक्षयो भवामि ।

अथ प्रातः प्रबुद्धः सन् स्वप्नं स्मरंश् चिन्ता-चक्रम् आरूढस् तिष्ठति-अहो सत्यो ऽयं स्वप्नः किं वा असत्यो भविष्यति, न ज्ञायते । अथवा नूनं मिथ्यानेन भाव्यम् । यतो ऽहम् अहर्-निशं केवलं वित्तम् एव चिन्तयामि । उक्तं च-

व्याधितेन स-शोकेन चिन्ता-ग्रस्तेन जन्तुना ।
कामार्तेनाथ मत्तेन दृष्टः स्वप्नो निरर्थकः ॥पन्च्_५.११॥

एतस्मिन्न् अन्तरे तस्य भार्यया कश्चिन् नापितः पाद-प्रक्षालनायाहूतः अत्रान्तरे च यथा-निर्दिष्टः क्षपणकः सहसा प्रादुर्बभूव । अथ स तम् आलोक्य प्रहृष्ट-मना यथासन्न-काष्ठ-दण्डेन तं शिरस्य् अताडयत् । सो ऽपि सुवर्ण-मयो भूत्वा तत्-क्षणात् भूमौ निपतितः । अथ तं स श्रेष्ठी निभृतं स्व-गृह-मध्ये कृत्वा नापितं सन्तोष्य प्रोवाच-तद् एतद् धनं वस्त्राणि च मया दत्तानि गृहाण । भद्र ! पुनः कस्यचिन् नाख्येयो ऽयं वृत्तान्तः ।

नापितो ऽपि स्व-गृहं गत्वा व्यचिन्तयत्-नूनम् एते सर्वेऽपि नग्नकाः शिरसि ताडिताः काञ्चन-मया भवन्ति । तद् अहम् अपि प्रातः प्रभूतान् आहूय लगुडैः शिरसि हन्मि, येन प्रभूतं हाटकं मे भवति । एवं चिन्तयतो महता कष्टेन निशातिचक्राम ।

अथ प्रभातेऽभ्युत्थाय बृहल् लगुडम् एकं प्रगुणीकृत्य, क्षपणक-विहारं गत्वा जिनेन्द्रस्य प्रदक्षिण-त्रयं विधाय, जानुभ्याम् अवनिं गत्वा वक्त्र-द्वार-न्यस्तोत्तरीयाञ्चलस् तार-स्वरेणेमं श्लोकम् अपठत्-

जयन्ति ते जिना येषां केवल-ज्ञान-शालिनाम् ।
आ जन्मनः स्मरोत्पत्तौ मानसेनोषरायितम् ॥पन्च्_५.१२॥

अन्यच् च-
सा जिह्वा या जिनं स्तौति तच्-चित्तं यज् जिने रतम् ।
तौ एव तु करौ श्लाघ्यौ यौ तत्-पूजा-करौ करौ ॥पन्च्_५.१३॥

तथा च-
ध्यान-व्याजम् उपेत्य चिन्तयसि काम् उन्मील्य चक्षुः क्षणं
पश्यानङ्ग-शरातुरं जनम् इमं त्रातापि नो रक्षसि ।
मिथ्या-कारुणिको ऽसि निर्घृणतरस् त्वत्तः कुतो ऽन्यः पुमान्
सेर्ष्यं मार-वधूभिर् इत्य् अभिहितो बौद्धो जिनः पातु वः ॥पन्च्_५.१४॥

एवं संस्तूय, ततः प्रधान-क्षपणकणम् आसाद्य क्षिति-निहित-जानु-चरणः-नमो ऽस्तु वन्दे इत्य् उच्चार्य, लब्ध-धर्म-वृद्ध्य्-आशीर्वादः सुख-मालिकानुग्रह-लब्ध-व्रतादेश उत्तरीय-निबद्ध-ग्रन्थिः सप्रश्रयम् इदम् आह-भगवन् अद्य विहरण-क्रिया समस्त-मुनि-समेतेनास्मद्-गृहे कर्तव्या ।

तच् छ्रुत्वा नापित आह-भगवन् ! वेद्म्य् अहं युष्मद्-धर्मम् । परं भवतो बहु-श्रावका आह्वयन्ति । साम्प्रतं पुनः पुस्तकाच्छादन-योग्यानि कर्पटानि बहु-मूल्यानि प्रगुणीकृतानि । तथा पुस्तकानां लेखनार्थं लेखकानां च वित्तं सञ्चितम् आस्ते तत् सर्वथा कालोचितं कार्यम् ।

ततो नापितो ऽपि स्व-गृहं गतः । तत्र च गत्वा खदिर-मयं लगुडं सज्जीकृत्य कपाट-युगलं द्वारि समाधाय सार्ध-प्रहरैक-समये भूयो ऽपि विहार-द्वारम् आश्रित्य सर्वान् भक्ति-युक्तान् अपि परिचित-श्रावकान् परित्यज्य प्रहृष्ट-मनसस् तस्य पृष्ठतो ययुः । अथवा साध्व् इदम् उच्यते-

एकाकी गृह-सन्त्यक्तः पाणि-पात्रो दिगम्बरः ।
सो ऽपि सम्बाध्यते लोके तृष्णया पश्य कौतुकम् ॥पन्च्_५.१५॥
जीर्यन्ते जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः ।
चक्षुः श्रोत्रे च जीर्येते तृष्णैका तरुणायते ॥पन्च्_५.१६॥

ततः परं गृह-मध्ये तान् प्रवेश्य द्वारं निभृतं पिधाय, लगुड-प्रहारैः शिरस्य् अताडयत् । तेऽपि ताड्यमाना एके मृताः, अन्ये भिन्न-मस्तका फूत्कर्तुम् उपचक्रमिरे । अत्रान्तरे तम् आक्रन्दम् आकर्ण्य कोटर-क्षपालेनाभिहितम्-भो भोः किम् अयं कोलाहलो नगर-मध्ये ? तद् गम्यताम् ।

ते स सर्वे तदादेशकारिणस् तत्-सहिता वेगात् तद्-गृहं गता यावत् पश्यन्ति तावद् रुधिर-प्लावित-देहाः पलायमाना नग्नका दृष्टाः पृष्टाश् च-भोः किम् एतत् ? ते प्रोचुर् यथावस्थितं नापित-वृत्तम् ।

तैर् अपि स नापितो बद्धो हत-शेषैः सह धर्माधिष्ठानं नीतः । तैर् नापितः पृष्टः-भोः ! किम् एतत् भवता कुकृत्यम् अनुष्ठितम् ?

स आह-किं करोमि ? मया श्रेष्ठि-मणिभद्र-गृहे दृष्ट एवंविधो व्यतिकरः । सो ऽपि सर्वं मणिप्रभ-वृत्तान्तं यथा-दृष्टम् अकथयत् ।

ततः श्रेष्ठिनम् आहूय ते भणितवन्तः-भोः श्रेष्ठिन् ! किं त्वया कश्चित् क्षपणको व्यापादितः ?

ततः तेनापि सर्वः क्षपणक-वृत्तान्तस् तेषां निवेदितः । अथ तैर् अभिहितम्-अहो शूलम् आरोप्यताम् असौ दुष्टात्मा कुपरिक्षितकारी नापितः । तथानुष्ठिते तैर् अभिहितम्-

कुक्कुटं कुपरिज्ञातं कुश्रुतं कुपरीक्षितम् ।
तन् नरेण न कर्तव्यं नापितेनात्र यत् कृतम् ॥पन्च्_५.१६अ॥

अथवा साध्व् इदम् उच्यते-

अपरीक्ष्य न कर्तव्यं कर्तव्यं सुपरीक्षितम् ।
पश्चाद् भवति सन्तापो ब्राह्मणी नकुलं यथा ॥पन्च्_५.१७॥

मणिभद्र आह-कथम् एतत् ?

ते धर्माधिकारिणः प्रोचुः-

इति श्री-विष्णु-शर्म-विरचिते पञ्चतन्त्रे अपरीक्षित-कारकं नाम
पञ्चमं तन्त्रं समाप्तम् ॥५॥