४-०७ मर्कटस्य पुनर्भर्त्सनम्

वानर आह-नाहं ते कथयिष्यामि । यद् भार्या-वाक्येन भवताहं समुद्रे प्रक्षिप्तुं नीतः । तद् एवं न युक्तम् । यद्यपि भार्या सर्व-लोकाद् अपि वल्लभा भवति, तथापि न मित्राणि बान्धवाश् च भार्या-वाक्येन समुद्रे प्रक्षिप्यन्ते । तन् मूर्ख ! मूढत्वेन नाशस् तव मया प्राग् एव निवेदित आसीत्, यतः-

सतां वचनम् आदिष्टं मदेन न करोति यः ।
स विनाशम् अवाप्नोति घण्टोष्ट्र इव सत्वरम् ॥पन्च्_४.७४॥

मकर आह-कथम् एतत् ?

सो ऽब्रवीत्-

अतो ऽहं ब्रवीमि-सतां वचनम् आदिष्टम् (७४) इति ।

अथ तच् छ्रुत्वा मकरः प्राह-

  • भद्र -

प्राहुः साप्तपदं मैत्रं जनाः शास्त्रविचक्षणाः ।
मित्रताञ्च पुरस्कृत्य किञ्चिद्वक्ष्यामि तच्छृणु ॥ +++( सम्पादकटिप्पनी - पुस्तके ऽत्रायम् अधिकः पाठः ।)+++

उपदेश-प्रदातॄणां नराणां हितम् इच्छताम् । परस्मिन्न् इह लोके च व्यसनं नोपपद्यते ॥पन्च्_४.७५॥

तत सर्वथा कृतघ्नस्यापि मे कुरु प्रसादम् उपदेश-प्रदानेन । उक्तं च-

उपकारिषु यः साधुः साधुत्वे तस्य को गुणः ।
अपकारिषु यः साधुः स साधुः सद्भिर् उच्यते ॥पन्च्_४.७६॥

तद् आकर्ण्य वानरः प्राह-भद्र ! यद्य् एवं तर्हि तत्र गत्वा तेन सह युद्धं कुरु । उक्तं च-

हतस् त्वं प्राप्स्यसि स्वर्गं जीवन् गृहम् अथो यशः ।
युध्यमानस्य ते भावि गुण-द्वयम् अनुत्तमम् ॥पन्च्_४.७७॥
उत्तमं प्रणिपातेन शूरं भेदेन योजयेत् ।
नीचम् अल्प-प्रदानेन सम-शक्तिं पराक्रमैः ॥पन्च्_४.७८॥

मकर आह-कथम् एतत् ?

सो ऽब्रवीत्-

  • एवं त्वम् अपि तं रिपुं स्व-जातीयं युद्धेन परिभूय दिशो-भागं कुरु । नो चेत् पश्चाद् बद्ध-मूलाद् अस्मात् त्वम् अपि विनाशम् अवाप्स्यसि । उक्तं च यतः-

सम्भाव्यं गोषु सम्पन्नं सम्भाव्यं ब्राह्मणे तपः । सम्भाव्यं स्त्रीषु चापल्यं सम्भाव्यं जातितो भयम् ॥पन्च्_४.८२॥

अन्यच् च- +++(सम्पादकटिप्पनी - अत्रायं पुस्तकेऽधिकः पाठः । )+++

सुभिक्षाणि विचित्राणि शिथिलाः पौर-योषितः ।
एको दोषो विदेशस्य स्वजातिर् यद् विरुध्यते ॥पन्च्_४.८३॥

मकर आह-कथम् एतत् ?

वानरो ऽब्रवीत्-

सुभिक्षाणि विचित्राणि शिथिलाः पौर-योषितः (८३) इति पठति ।

सो ऽपि मकरस् तद्-उपदेशं श्रुत्वा कृत-मरण-निश्चयो वानरम् अनुज्ञाप्य स्वाश्रयं गतः । तत्र च तेन स्व-गृह-प्रविष्टेनाततायिना सह विग्रहं कृत्वा दृढ-सत्त्वावष्टम्भनाच् च तं व्यापाद्य स्वाश्रयं च लब्ध्वा सुखेन चिर-कालम् अतिष्ठत् । साध्व् इदम् उच्यते-

अकृत्वा पौरुषं या श्रीः किं तयालस-भाग्यया ।
कुरङ्गो ऽपि समश्नाति दैवाद् उपनतं तृणम् ॥पन्च्_४.८४॥

इति श्री-विष्णु-शर्म-विरचिते पञ्चतन्त्रे लब्ध-प्रणाशं नाम
चतुर्थं तन्त्रं समाप्तम् ॥४॥