मकर आह-भो मित्र ! अस्त्व् एतत् । परं किं करोमि ? ममानर्थ-द्वयम् एतत् सञ्जातम् । एकस् तावद् गृह-भङ्गः । अपरस् त्वद्-विधेन मित्रेण सह चित्त-विश्लेषः । अथवा भवत्य् एवं दैव-योगात् । उक्तं च यतः-
यादृशं मम पाण्डित्यं तादृशं द्विगुणं तव ।
नाभूज् जारो न भर्ता च किं निरीक्षसि नग्निके ॥पन्च्_४.६९॥
वानर आह-कथम् एतत् ?
मकरो ऽब्रवीत्-
तत् किं करोमि ? किम् अनेन सह युद्धं करोमि ? किं वा साम्नैव सम्बोध्य गृहान् निःसारयामि ? किं वा भेदं दानं वा करोमि ? अथवामुम् एव वानर-मित्रं पृच्छामि ? उक्तं च-
यः पृष्ट्वा कुरुते कार्यं प्रष्टव्यान् स्व-हितान् गुरून् ।
न तस्य जायते विघ्नः कस्मिंश्चिद् अपि कर्मणि ॥पन्च्_४.७३॥
एवं सम्प्रधार्य भूयो ऽपि तम् एव जम्बू-वृक्षम् आरूढं कपिम् अपृच्छत्-भो मित्र ! पश्य मे मन्द-भाग्यताम् । तत् सम्प्रति गृहम् अपि मे बलवत्तरेण मकरेण रुद्धम् । तद् अहं त्वां प्रष्टुम् अभ्यागतः । कथय किं करोमि ? सामादीनाम् उपायानां मध्ये कस्यात्र विषयः ?
स आह-भोः कृतघ्न पाप-चारिन् ! मया निषिद्धो ऽपि किं भूयो माम् अनुसरसि । नाहं तव मूर्खस्योपदेशम् अपि दास्यामि ।
तच् छ्रुत्वा मकरः प्राह-भो मित्र ! सापराधस्य मे पूर्व-स्नेहम् अनुस्मृत्य हितोपदेशं देहि ।