अथ विहस्य निर्भर्त्सयन् वानरस् तम् आह-धिग् धिङ् मूर्ख विश्वास-घातक ! किं कस्यचिद् धृदय-द्वयं भवति ? तद् आशु गम्यतां जम्बू-वृक्षस्याधस्तान् न भूयो ऽपि त्वयात्रागन्तव्यम् । उक्तं च यतः-
सकृद् दुष्टं च यो मित्रं पुनः सन्धातुम् इच्छति ।
स मृत्युम् उपगृह्णाति गर्भम् अश्वतरी यथा ॥पन्च्_४.१५॥
तच् छ्रुत्वा मकरः संविलक्षं चिन्तितवान्-अहो ! मयातिमूढेन किम् अस्य स्व-चित्ताभिप्रायो निवेदितः । तद् यद्य् असौ पुनर् अपि कथञ्चिद् विश्वासं गच्छति, तद् भूयो ऽपि विश्वासयामि । आह च-मित्र ! हास्येन मया तेऽभिप्रायो लब्धः । तस्या न किञ्चित् तव हृदयेन प्रयोजनम् । तद् आगच्छ प्राघुणिक-न्यायेनास्मद्-गृहम् ।
वानर आह-भो दुष्ट ! गम्यताम् । अधुना नाहम् आगमिष्यामि । उक्तं च-
बुभुक्षितः किं न करोति पापं
क्षीणा जना निष्करुणा भवन्ति ।
आख्याहि भद्रे प्रिय-दर्शनस्य
न गङ्गदत्तः पुनर् एति कूपम् ॥पन्च्_४.१६॥
मकर आह-कथम् एतत् ?
स आह-
तद् भो दुष्ट-जलचर ! अहम् अपि गङ्गदत्त इव त्वद्-गृहे न कथञ्चिद् अपि यास्यामि ।
तच् छ्रुत्वा मकर आह-भो मित्र ! अथवात्राहम् अनशनात् प्राण-त्यागं तवोपरि करिष्यामि ।
वानर आह-मूढ ! किम् अहं लम्बकर्णो मूर्खः ? दृष्ट्वापायो ऽपि स्वयम् एव तत्र गत्वात्मानं व्यापादयामि ।
आगतश् च गतश् चैव गत्वा यः पुनर् आगतः ।
अकर्ण-हृदयो मूर्खस् तत्रैव निधनं गतः ॥पन्च्_४.३३॥
मकर आह-भद्र ! स को लम्भ-कर्णः । कथं दृष्टापायो ऽपि मृतः ? तन् मे निवेद्यताम् ।
वानर आह-
अतो ऽहं ब्रवीमि-आगतश् च गतश् चैव इति । तन् मूर्ख ! कपटं कृतं त्वया । परं युधिष्ठिरेणेव सत्य-वचनेन विनाशितम् । अथवा साध्व् इदम् उच्यते-
स्वार्थम् उत्सृज्य यो दम्भी सत्यं ब्रूते सुमन्द-धीः ।
स स्वार्थाद् भ्रश्यते नूनं युधिष्ठिर इवापरः ॥पन्च्_४.३८॥
मकर आह-कथम् एतत् ?
स आह-
अतो ऽहं ब्रवीमि-स्वार्थम् उत्सृज्य यो दम्भी (३८) इति ।
धिङ् मूर्ख ! यत् त्वया स्त्रियो ऽर्थ एतत्-कार्यम् अनुष्ठातुम् आरब्धम् । न हि स्त्रीणां कथञ्चिद् विश्वासम् उपगच्छेत् । उक्तं च-
यद्-अर्थे स्व-कुलं त्यक्तं जीवितार्धं च हारितम् ।
सा मां त्यजति निःस्नेहा कः स्त्रीणां विश्वसेन् नरः ॥पन्च्_४.४४॥
मकर आह-कथम् एतत् ?
वानर आह-
अतो ऽहं ब्रवीमि-यद्-अर्थे स्व-कुलं त्यक्तम् (४४) इति ।
वानरः पुनर् आह-साधु चेदम् उपाख्यानकं श्रूयते-
न किं दद्यान् न किं कुर्यात् स्त्रीभिर् अभ्यर्थितो नरः ।
अनश्वा यत्र ह्रेषन्ते शिरः पर्वणि मुण्डितम् ॥पन्च्_४.४५॥
मकर आह-कथम् एतत् ?
वानरः कथयति-
सो ऽब्रवीत्-न किं दद्यात् (४५) इत्य् आदि । तद् भो दुस्ट मकर ! त्वम् अपि नन्द-वररुचि-वत् स्त्री-वश्यः । ततो भद्र आगतेन त्वया मां प्रति वधोपाय-प्रयासः प्रारब्धः । परं स्व-वाग्-दोषेणैव प्रकटीभूतः । अथवा साध्व् इदम् उच्यते-
आत्मनो मुख-दोषेण बध्यन्ते शुक-सारिकाः ।
बकास् तत्र न बध्यन्ते मौनं सर्वार्थ-साधनम् ॥पन्च्_४.४६॥
तथा च-
सुगुप्तं रक्ष्यमाणो ऽपि दर्शयन् दारुणं वपुः ।
व्याघ्र-चर्म-प्रतिच्छन्नो वाक्-कृते रासभो हतः ॥पन्च्_४.४७॥
मकर आह-कथम् एतत् ?
वानरः कथयति-
अतो ऽहं ब्रवीमि-सुगुप्तं रक्ष्यमाणो ऽपि (४७) इति ।
+++(सम्पादकटिप्पनी - इतः अग्रिमः पाठः (०४-०८, ०४-०९, ०४-१०, उपकथाः) पुस्तके न दृश्यन्ते ।)+++ तत्किं श्यामलकवदत्यपमानसहनादर्धचन्द्रदानेन यास्यसि ।
गर्गो हि पाद-शौचाल् लघ्व्-आसन-दानतो गतः सोमः ।
दत्तः कदशन-भोज्याच् छ्यामलकश् चार्ध-चन्द्रेण ॥पन्च्_४.४८॥
मकर आह-कथम् एतत् ?
वानर आह-
अतो ऽहं ब्रवीमि-
गर्गो हि पाद-शौचाल् लघ्व्-आसन-दानतो गतः सोमः ।
दत्तः कदशन-भोज्याच् छ्यामलकश् चार्ध-चन्द्रेण ॥पन्च्_४.४८॥
तत् किम् अहं रथकारवन् मूर्खो यतः स्वयम् अपि दृष्ट्वा ते विकार-पश्चाद् विश्वसिमि । उक्तं च-
प्रत्यक्षेऽपि कृते पापे मूर्खः साम्ना प्रशाम्यति ।
रथकारः स्वकां भार्यां सजारां शिरसावहत् ॥पन्च्_४.४९॥
मकर आह-कथम् एतत् ?
वानरः कथयति-
अतो ऽहं ब्रवीमि-प्रत्यक्षेऽपि कृते पापे (४९) ।
तन् मूढ ! दृष्ट-विकारस् त्वम्, तत् कथं तत्र गृहं गच्छामि । अथवा यन् मां त्वं विश्वासयसि तत् ते दोषो नास्ति, यत् ईदृशी स्वभाव-दुष्टा युष्मज्-जातिर् या शिष्ट-सङ्गाद् अपि सौम्यत्वं न याति । अथवा स्वभावो ऽयं दुष्टानाम् । उक्तं च-
सद्भिः सम्बोध्यमानो ऽपि दुरात्मा पाप-पौरुषः ।
घृष्यमाण इवाङ्गारो निर्मलत्वं न गच्छति ॥पन्च्_४.५४॥
तन् मूर्ख ! स्त्री-लुब्ध ! स्त्री-जित ! अन्येऽपि ये त्वद्-विधा भवन्ति ते स्व-कार्यं विभवं मित्रं च परित्यजन्ति तत्-कृते । उक्तं च-
या ममोद्विजते नित्यं साद्य माम् अवगूहते ।
प्रिय-कारक भद्रं ते यन् ममास्ति हरस्व तत् ॥पन्च्_४.५५॥
मकर आह-कथम् एतत् ?
वानरो ऽब्रवीत्-
अतोऽहं ब्रवीमि या ममोद्विजते इत्यादि ।
अतो ऽहं ब्रवीमि-या ममोद्विजते इत्य् आदि । किं बहुना, तेन च स्त्री-लुब्धेन स्वं सर्वं चौरस्य समर्पितम् । त्वयापि तथानुष्ठितम् ।
+++(सम्पादकटिप्पनी- एतावत्पर्यन्तं पाठः पुस्तके न दृश्यते । )+++
अथैव तेन सह वदतो मकरस्य जलचरेणैकेनागत्याभिहितम्-भो मकर ! त्वदीया भार्यानशनोपविष्टा त्वयि चिरयति प्रणयाभिभवाद् विपन्ना । एवं तद्-वज्र-पात-सदृश-वचनम् आकर्ण्यातीव्र-व्याकुलित-हृदयः प्रलपितम् एवं चकार-अहो किम् इदं सञ्जातं मे मन्द-भागस्य । उक्तं च-
न गृहं गृहम् इत्य् आहुर् गृहिणी गृहम् उच्यते ।
गृहं तु गृहिणी-हीनं कान्तारान् नातिरिच्यते ॥पन्च्_४.५८॥ +++(सम्पादकटिप्पनी - पुस्तके इदं पद्यं नास्ति ।)+++
अन्यच् च-
वृक्ष-मूलेऽपि दयिता यत्र तिष्ठति तद् गृहम् ।
प्रासादो ऽपि तया हीनो ऽरण्य-सदृशः स्मृतः ॥पन्च्_४.५९॥
+++(सम्पादकटिप्पनी - पुस्तके इदं पद्यं नास्ति ।)+++
माता यस्य गृहे नास्ति भार्या च प्रिय-वादिनी ।
अरण्यं तेन गन्तव्यं यथारण्यं तथा गृहम् ॥पन्च्_४.६०॥
तन् मित्र ! क्षम्यताम् । मया तेऽपराधः कृतः । सम्प्रत्य् अहं तु स्त्री-वियोगाद् वैश्वानर-प्रवेशं करिष्यामि ।
- तत् श्रुत्वा वानरः प्रहसन् प्रोवाच, -“भो ज्ञातः मया प्रथममेव यत् त्वं स्त्रीवश्यः स्त्रीजितश्च । साम्प्रतञ्च प्रत्ययः सञ्जातः । +++(सम्पादकटिप्पनी - पुस्तके ऽत्राधिकः पाठः ।)+++
तन् मूढ ! आनन्देऽपि जाते त्वं विषादं गतः । तादृग्-भार्यायां मृतायाम् उत्सवः कर्तुं युज्यते । उक्तं च यतः-
या भार्या दुष्ट-चरित्रा सततं कलह-प्रिया ।
भार्या-रूपेण सा ज्ञेया विदग्धैर् दारुणा जरा ॥पन्च्_४.६१॥
तस्मात् सर्व-प्रयत्नेन नामापि परिवर्जयेत् ।
स्त्रीणाम् इह हि सर्वासां य इच्छेत् सुखम् आत्मनः ॥पन्च्_४.६२॥
यद्-अन्तस् तन् न जिह्वायां यज् जिह्वायां न तद्-बहिः ।
यद्-बहिस् तन् न कुर्वन्ति विचित्र-चरिताः स्त्रियः ॥पन्च्_४.६३॥
के नाम न विनश्यन्ति मिथ्या-ज्ञानान् नितम्बिनीम् ।
रम्यां ते उपसर्पन्ति दीपाभां शलभा यथा ॥पन्च्_४.६४॥
अन्तर्-विष-मया ह्य् एता बहिश् चैव मनोरमाः ।
गुञ्जा-फल-समाकारा योषितः केन निर्मिताः ॥पन्च्_४.६५॥
ताडिता अपि दण्डेन शस्त्रैर् अपि विखण्डिताः ।
न वशं योषितो यान्ति न दानैर् न च संस्तवैः ॥पन्च्_४.६६॥
आस्तां तावत् किम् अन्येन दौरात्म्येनेह योषिताम् ।
विधृतं स्वोदरेणापि घ्नन्ति पुत्रम् अपि स्वकम् ॥पन्च्_४.६७॥
रूक्षायां स्नेह-सद्-भावं कठोरायां सुमार्दवम् ।
नीरसायां रसं बालो बालिकायां विकल्पयेत् ॥पन्च्_४.६८॥