४-०४ मर्कटस्य चातुर्यम्

तथानुष्ठितेऽगाधे जलधौ गच्छन्तं मरकम् आलोक्य भय-त्रस्त-मना वानरः प्रोवाच-भ्रातः ! शनैः शनैर् गम्यताम् । जल-कल्लोलैः प्लाव्यते मे शरीरम् ।

तद् आकर्ण्य मकरश् चिन्तयामास-असाव् अगाधं जलं प्राप्तो मे वशः सञ्जातः । मत्-पृष्ठ-गतस् तिल-मात्रम् अपि चलितुं न शक्नोति । तस्मात् कथयाम्य् अस्य निजाभिप्रायम्, येनाभीष्ट-देवता-स्मरणं करोति । आह च-मित्र, त्वं मया वधाय समानीतो भार्या-वाक्येन विश्वास्य । तत् स्मर्यताम् अभीष्ट-देवता ।

स आह-भ्रातः ! किं मया तस्यास् तवापि चापकृतं येन मे वधोपायश् चिन्तितः ?

मकर आह-भोः ! तस्यास् तावत् तव हृदयस्यामृतमय-फल-रसास्वादन-मृष्टस्य भक्षणे दोहदः सञ्जातः । तेनैतद् अनुष्ठितम् ।

प्रत्युत्पन्न-मतिर् वानर आह-भद्र ! यद्य् एवं तत् किं त्वया मम तत्रैव न व्याहृतम् ? येन स्व-हृदयं जम्बू-कोटरे सदैव मया सुगुप्तं कृतम् । तद् भ्रातृ-पत्न्या अर्पयामि । त्वयाहं शून्य-हृदयो ऽत्र कस्माद् आनीतः ?

तद् आकर्ण्य मकरः सानन्दम् आह-भद्र ! यद्य् एवं तद् अर्पय मे हृदयम् । येन सा दुष्ट-पत्नी तद् भक्षयित्वानशनाद् उत्थिष्ठति । अहं त्वां तम् एव जम्बू-पादपं प्रापयामि । एवम् उक्त्वा निवर्त्य जम्बू-तलम् अगात् । वानरो ऽपि कथम् अपि जल्पित-विविध-देवतोपचार-पूजस् तीरम् आसादितवान् । ततश् च दीर्घतर-चङ्क्रमणेन तम् एव जम्बू-पादपम् आरूढश् चिन्तयामास-अहो ! लब्धास् तावत् प्राणाः । अथवा साध्व् इदम् उच्यते-

न विश्वसेद् अविश्वस्ते विश्वस्तेऽपि न विश्वसेत् ।
विश्वासाद् भयम् उत्पन्नं मूलान्य् अपि निकृन्तति ॥पन्च्_४.१४॥

तन् ममैतद् अद्य पुनर् जन्म-दिनम् इव सञ्जातम् ।

इति चिन्तयमानं मकर आह-भो मित्र ! अर्पय तद् धृदयं यथा ते भ्रातृ-पत्नी भक्षयित्वानशनाद् उत्तिष्ठति ।