वानरो ऽपि चिराद् आयान्तं तं सोद्वेगम् अवलोक्य प्रोवाच-भो मित्र ! किम् अद्य चिर-वेलायां समायातो ऽसि ? कस्मात् साह्लादं नालपसि ? न सुभाषितानि पठसि ।
स आह-मित्र ! अहं तव भ्रातृ-जायया निष्ठुरतरैर् वाक्यैर् अभिहितः-भोः कृतघ्न ! मा मे त्वं स्वमुखं दर्शय, यतस् त्वं प्रतिदिनं मित्रम् उपजीवसि । न च तस्य पुनः प्रत्युपकारं गृह-दर्शन-मात्रेणापि करोषि । तत् ते प्रायश्चित्तम् अपि नास्ति । उक्तं च-
ब्रह्मघ्ने च सुरापे च चौरे भग्न-व्रते शठे ।
निष्कृतिर् विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः ॥पन्च्_४.११॥
तत् त्वं मम देवरं गृहीत्वाद्य प्रत्युपकारार्थं गृहम् आनय । नो चेत् त्वया सह मे पर-लोके दर्शनम् इति । तद् अहं तयैवं प्रोक्तस् तव सकाशम् आगतः । तद् अद्य तया सह त्वद्-अर्थे कलहायतो ममेयती वेला विलग्ना । तद् आगच्छ मे गृहम् । तव भ्रातृ-पत्नी रचित-चतुष्का प्रगुणित-वस्त्र-मणि-माणिक्याद्य्-उचिताभरणा द्वार-देश-बद्ध-वन्दन-माला सोत्कण्ठा तिष्ठति । मर्कट आह-भो मित्र ! युक्तम् अभिहितं मद्-भ्रातृ-पत्न्या । उक्तं च-
वर्जयेत् कौलिकाकारं मित्रं प्राज्ञतरो नरः ।
आत्मनः सम्मुखं नित्यं य आकर्षति लोलुपः ॥पन्च्_४.१२॥
तथा च-
ददाति प्रतिगृह्णाति गुह्यम् आख्याति पृच्छति ।
भुङ्क्ते भोजयते चैव षड्-विधं प्रीति-लक्षणम् ॥पन्च्_४.१३॥
परं वयं वनचराः युष्मदीयं च जलान्ते गृहम् । तत् कथं शक्यते तत्र गन्तुम् । तस्मात् ताम् अपि मे भ्रातृ-पत्नीम् अत्रानय येन प्रणम्य तस्या आशीर्वादं गृह्णामि ।
स आह-भो मित्र ! अस्ति समुद्रान्तरे सुरम्ये पुलिन-प्रदेशेऽस्मद्-गृहम् æ तन् मम पृष्ठम् आरूधः सुखेनाकृत-भयो गच्छ ।
सो ऽपि तच् छ्रुत्वा सानन्दम् आह-भद्र ! यद्य् एवं तत् किं विलम्ब्यते । त्वर्यताम् । एषो ऽहं तव पृष्ठाम् आरूढः ।