४-०२ मकर्याः दुर्बुद्धिः

सो ऽपि मकरो भक्षित-शेषाणि जम्बू-फलानि गृहं गत्वा स्व-पत्न्यै प्रयच्छति । अथान्यतमे दिवसे तया स पृष्टः-नाथ ! क्वैवंविधान्य् अमृत-फलानि प्राप्नोषि ?

स आह-भद्रे ! ममास्ति परम-सुहृद् रक्तमुखो नाम वानरः । स प्रीति-पूर्वकम् इमानि फलानि प्रयच्छति ।

अथ तयाभिहितम्-यः सर्वदैवामृत-प्रायाणीदृशानि फलानि भक्षयति, तस्य हृदयम् अमृत-मयं भविष्यति । तद् यदि भार्यया ते प्रयोजनं, ततस् तस्य हृदयं मह्यं प्रयच्छ । येन तद् भक्षयित्वा जरा-मरण-रहिता त्वया सह भोगान् भुनज्मि ।

स आह-भद्रे ! मा मैवं वद । यतः स प्रतिपन्नो ऽस्माकं भ्राता । अपरं फल-दाता । ततो व्यापादयितुं न शक्यते । तत् त्यजैनं मिथाग्रहणम् । उक्तं च-

एकं प्रसूयते माता द्वितीयं वाक् प्रसूयते ।
वाग्-जातम् अधिकं प्रोचुः सोदर्याद् अपि बान्धवात् ॥पन्च्_४.६॥

अथ मकर्य् आह-त्वया कदाचिद् अपि मम वचनं नान्यथा कृतम् । तन् नूनं सा वानरी भविष्यति, यतस् तस्या अनुरागतः सकलम् अपि दिनं तत्र गमयसि । तत् त्वं ज्ञातो मया सम्यक् । यतः-

साह्लादं वचनं प्रयच्छति न मे नो वाञ्छितं किञ्चन
प्रायः प्रोच्छ्वसिषि द्रुतं हुतवह-ज्वाला समं रात्रिषु ।
कण्ठाश्लेष-परिग्रहे शिथिलता यन् नादराच् चुम्बसे
तत् ते धूर्त हृदि स्थिता प्रियतमा काचिन् ममेवापरा ॥पन्च्_४.७॥

सो ऽपि पत्न्याः पादोपसङ्ग्रहं कृत्वाङ्कोपरि निधाय तस्याः कोप-कोटिम् आपन्नायाः सुदीनम् उवाच-

मयि ते पाद-पतिते किङ्करत्वम् उपागते ।
त्वं प्राण-वल्लभे कस्मात् कोपने कोपम् एष्यसि ॥पन्च्_४.८॥

सापि तद्-वचनम् आकर्ण्याश्रु-प्लुत-मुखी तम् उवाच-

सार्धं मनोरथ-शतैस् तव धूर्त कान्ता
सैव स्थिता मनसि कृत्रिम-भाव-रम्या ।
अस्माकम् अस्ति न कथञ्चिद् इहावकाशं
तस्मात् कृतं चरण-पात-विडम्बनाभिः ॥पन्च्_४.९॥

अपरं सा यदि तव वल्लभा न भवति, तत् किं मया भणितो ऽपि तां न व्यापादयसि । अथ यदि स वानरस् तत् कस् तेन सह तव स्नेहः ? तत् किं बहुना ? यदि तस्य हृदयं न भक्षयामि, तन् मया प्रायोपवेशनं कृतं विद्धि ।

एवं तस्यास् तन् निश्चयं ज्ञात्वा चिन्ता-व्याकुलित-हृदयः स प्रोवाच-अथवा साध्व् इदम् उच्यते-

वज्र-लेपस्य मूर्खस्य नारीणां कर्कटस्य च ।
एको ग्रहस् तु मीनानां नीली-मद्य-पयोस् तथा ॥पन्च्_४.१०॥

तत् किं करोमि ? कथं स मे वध्यो भवति । इति विचिन्त्य वानर-पार्श्वम् अगमत् ।