अथ लब्ध-प्रणाशम्
अथेदम् आरभते लब्ध-प्रणाशं नाम चतुर्थं तन्त्रम् । यस्यायम् आदिमः श्लोकः-
समुत्पन्नेषु कार्येषु बुद्धिर् यस्य न हीयते ।
स एव दुर्गं तरति जलस्थो वानरो यथा ॥पन्च्_४.१॥
तद् यथानुश्रूयते-
प्रस्तावना-कथा
अस्ति कस्मिंश्चित् समुद्रोपकण्ठे महान् जम्बू-पादपः सदा-फलः । तत्र च रक्तमुखो नाम वानरः प्रतिवसति स्म । तत्र च तस्य तरोर् अधः कदाचित् करालमुखो नाम मकरः समुद्र-सलिलान् निष्क्रम्य सुकोमल-बालुका-सनाथे तीरोपान्ते न्यविशत । ततश् च रक्तमुखेन स प्रोक्तः-भोः ! भवान् समभ्यागतो ऽतिथिः । तद् भक्षयतु मया दत्तान्य् अमृत-तुल्यानि जम्बू-फलानि । उक्तं च-
प्रियो वा यदि वा द्वेष्यो मूर्खो वा यदि पण्डितः ।
वैश्वदेवान्तम् आपन्नः सो ऽतिथिः स्वर्ग-सङ्क्रमः ॥पन्च्_४.२॥
न पृच्छेच् चरणं गोत्रं न च विद्यां कुलं न च ।
अतिथिं वैश्वदेवान्ते श्राद्धे च मनुर् अब्रवीत् ॥पन्च्_४.३॥
दूर-मार्ग-श्रम-श्रान्तं वैश्वदेवान्तम् आगतम् ।
अतिथिं पूजयेद् यस् तु स याति परमां गतिम् ॥पन्च्_४.४॥
अपूजितो ऽतिथिर् यस्य गृहाद् याति विनिःश्वसन् ।
गच्छन्ति पितरस् तस्य विमुखाः सह दैवतैः ॥पन्च्_४.५॥
एवम् उक्त्वा तस्मै जम्बू-फलानि ददौ । सो ऽपि तानि भक्षयित्वा तेन सह चिरं गोष्ठी-सुखम् अनुभूय भूयो ऽपि स्व-भवनम् अगात् । एवं नित्यम् एव तौ वानर-मकरौ जम्बू-च्छाया-स्थितौ विविध-शास्त्र-गोष्ठ्या कालं नयन्तौ सुखेन तिष्ठतः ।