अथ कुलाय-व्याजेन दुर्ग-द्वारे कृते काष्ठ-निचये, सञ्जाते सूर्योदये, अन्धतां प्राप्तेषूलूकेषु सत्सु स्थिरजीवी शीघ्रम् ऋष्यमूकं गत्वा मेघवर्णम् आह-स्वामिन् ! दाह-साध्या कृता रिपु-गुहाः । तत् सपरिवारः समेत्यैकैका वन-काष्ठिकां ज्वलन्ती गृहीत्वा गुहा-द्वारेऽस्मत्-कुलाये प्रक्षिप येन सर्वे शत्रवः कुम्भीपाक-नरक-प्रायेण दुःखेन म्रियन्ते ।
तच् छ्रुत्वा प्रहृष्टो मेघवर्ण आह-तात ! कथयात्म-वृत्तान्तम् । चिराद् अद्य दृष्टो ऽसि ।
स आह-वत्स ! नायं कथनस्य कालः । यतः कदाचित् तस्य रिपो कश्चित् प्रणिधिर् ममेहागमनं निवेदयिष्यति । यज् ज्ञानाद् अन्धो ऽन्यत्रापसरणं करिष्यति । तत् त्वर्यताम् । उक्तं च-
शीघ्र-कृत्येषु कार्येषु विलम्बयति यो नरः ।
तत् कृत्यं देवतास् तस्य कोपाद् विघ्नन्त्य् असंशयम् ॥पन्च्_३.२२२॥
तथा च-
यस्य यस्य हि कार्यस्य फलितस्य विशेषतः ।
क्षिप्रम् अक्रियमाणस्य कालः पिबति तत्-फलम् ॥पन्च्_३.२२३॥
तद्-गुहायाम् आयातस्य ते हत-शत्रोः सर्वं सविस्तरं निर्व्याकुलतया कथयिष्यामि अथासौ तद्-वचनम् आकर्ण्य स-परिजन एकैकां ज्वलन्तीं वन-काष्ठिकां चञ्च्व्-अग्रेण गृहीत्वा तद्-गुहा-द्वारं प्राप्य स्थिरजीवि-कुलाये प्राक्षिपत् । ततः सर्वे ते दिवान्धा रक्ताक्ष-वाक्यानि स्मरन्तो द्वारस्यावृतत्वाद् अनिःसरन्तो गुहा-मध्ये कुम्भीपाक-न्यायम् आपन्ना मृताश् च । एवं शत्रून् निःशेषतां नीत्वा भूयो ऽपि मेघवर्णस् तद् एव न्यग्रोध-पादप-दुर्गं जगाम । ततः सिंहासन-स्थो भूत्वा सभा-मध्ये प्रमुदित-मनाः स्थिरजीविनम् अपृच्छत्-तात ! कथं त्वया शत्रु-मध्ये गतेन एतावत्-पर्यन्तं कालो नीतः ? तद् अत्र कौतुकम् अस्माकं वर्तते, तत् कथ्यताम् । यतः-
वर-मग्नौ प्रदीप्ते तु प्रपातः पुण्य-कर्मणाम् ।
न चारिजन-संसर्गो मुहूर्तम् अपि सेवितः ॥पन्च्_३.२२४॥
तद् आकर्ण्य स्थिरजीव्य् आह-भद्र ! आगामि-फल-वाञ्छया कष्टम् अपि सेवको न जानाति । उक्तं च यतः-
कार्यस्यापेक्षया भुक्तं विषम् अप्य् अमृतायते ।
सर्वेषां प्राणिनां यत्र नात्र कार्या विचारणा ॥पन्च्_३.२२५॥
उपनत-भये यो यो मार्गो हितार्थ-करो भवेत्- स स निपुणया बुद्ध्या सेव्यो महान् कृपणो ऽपि वा ।
करिकर-निभौ ज्याघाता कौ महास्त्र-विशारदौ
वलय-रचितौ स्त्रीवद् बाहू कृतौ न किरीटिना ॥पन्च्_३.२२६॥
शक्तेनापि सता जनेन विदुषा कालान्तरापेक्षिणा
वस्तव्यं खलु वाक्य-वज्र-विषमे क्षुद्रेऽपि पापे जने ।
दर्वी-व्यग्र-करेण धूम-मलिनेनायास-युक्ते च
भीमेनातिबलेन मत्स्य-भवने किं नोषितं सूदवत् ॥पन्च्_३.२२७॥
यद् वा तद् वा विषम-पतितः साधु वा गर्हितं वा
कालापेक्षी हृदय-निहितं बुद्धिमान् कर्म कुर्यात् ।
किं गाण्डीव-स्फुरद्-उरु-गुणास्फालन-क्रूर-पाणिर्
नासील् लीला-नटन-विलसन् मेखली सव्यसाची ॥पन्च्_३.२२८॥
सिद्धिं प्रार्थयता जनेन विदुषा तेजो निगृह्य स्वकं
सत्त्वोत्साहवतापि दैव-विधिषु स्थैर्यं प्रकार्य क्रमात् ।
देवेन्द्र-द्रविणेश्वरान्तक-समैर् अप्य् अन्वितो भ्रातृभिः
किं क्लिष्टः सुचिरं विराट-भवने श्रीमान् न धर्मात्मजः ॥पन्च्_३.२२९॥
रूपाभिजन-सम्पन्नो माद्री-पुत्रौ बलान्वितौ ।
गोकर्म-रक्षा-व्यापारे विराट-प्रेष्यतां गतौ ॥पन्च्_३.२३०॥
रूपेणाप्रतिमेन यौवन-गुणैः श्रेष्ठे कुले जन्मना
कान्त्या श्रीर् इव यात्र सापि विदशां काल-क्रमाद् आगता ।
सैरन्ध्रीति स-गर्वितं युवतिभिः साक्षेपम् आख्यातया
द्रौपद्या ननु मत्स्य-राज-भवने धृष्टं न किं चन्दनम् ॥पन्च्_३.२३१॥
मेघवर्ण आह-तात ! असि-धारा-व्रतम् इदं मन्ये यद् अरिणा सह संवासः ।
सो ऽब्रवीत्-देव ! एवम् एतत् । परं न तादृङ्-मूर्ख-समागमः क्वापि मया दृष्टः । न च महाप्रज्ञम् अनेक-शास्त्रेष्व् अप्रतिम-बुद्धिं रक्ताक्षं विना धीमान् । यत्-कारणं तेन मदीयं यथावस्थितं चित्तं ज्ञातम् । ये पुनर् अन्ये मन्त्रिणस् ते महा-मूर्खा मन्त्रि-मात्र-व्यपदेशोपजीविनो ऽतत्त्व-कुशला, यैर् इदम् अपि न ज्ञातम् । यतः-
अरितो ऽभ्यागतो भृत्यो दुष्टस् तत्-सङ्ग-तत्-परः ।
अपसर्प-सधर्मत्वान् नित्योद्वेगी च दूषितः ॥पन्च्_३.२३२॥
आसने शयने याने पान-भोजन-वस्तुषु ।
दृष्ट्वान्तरं प्रमत्तेषु प्रहरन्त्य् अरयो ऽरिषु ॥पन्च्_३.२३३॥
तस्मात् सर्व-प्रयत्नेन त्रिवर्ग-निलयं बुधः ।
आत्मानम् आदृतो रक्षेत् प्रमादाद् धि विनश्यति ॥पन्च्_३.२३४॥
साधु चेदम् उच्यते-
सन्तापयन्ति कम् अपथ्य-भुजं न रोगा
दुर्मन्त्रिणं कम् उपयान्ति न नीति-दोषाः ।
कं श्रीर् न दर्पयति कं न निहन्ति मृत्युः
कं स्वीकृता न विषया परिपीडयन्ति ॥पन्च्_३.२३५॥
लुब्धस्य नश्यति यशः पिशुनस्य मैत्री
नष्ट-क्रियस्य कुल अर्थ-परस्य धर्मः ।
विद्या-फलं व्यसनिनः कृपणस्य सौख्यं
राज्यं प्रमत्त-सचिवस्य नराधिपस्य ॥पन्च्_३.२३६॥
तद् राजन् ! असि-धारा-व्रतं मयाचरितम् अरितम् अरि-संसर्गाद् इति यद् भवतोक्तं, तन् मया साक्षाद् एवानुभूतम् । उक्तं च-
अपमानं पुरस्कृत्य मानं कृत्वा तु पृष्ठतः ।
स्वार्थम् अभ्युद्धरेत् प्राज्ञः कार्य-ध्वंसो हि मूर्खता ॥पन्च्_३.२३७॥
स्कन्धेनापि वहेच् छत्रुं कालम् आसाद्य बुद्धिमान् ।
महता कृष्ण-सर्पेण मण्डूका बहवो हताः ॥पन्च्_३.२३८॥
मेघवर्ण आह-कथम् एतत् ?
स्थिरजीवी कथयति-
अतो ऽहं ब्रवीमि- स्कन्धेनापि वहेच् छत्रुम् (२३८) इत्य् आदि ।
अथ राजन् ! यथा मन्दविषेण बुद्धि-बलेन मण्डूका निहतास् तथा मयापि सर्वे वैरिणः । साधु चेदम् उच्यते-
वने प्रज्वलितो वह्निर् दहन् मूलानि रक्षति ।
समूलोन्मूलनं कुर्याद् वायुर् यो मृदु-शीतलः ॥पन्च्_३.२४२॥
मेघवर्ण आह-तात ! सत्यम् एवैतत् । ये महात्मानो भवन्ति ते महा-सत्त्वा आपद्-गता अपि प्रारब्धं न त्यजन्ति । उक्तं च यतः-
महत्त्वम् एतन् महतां नयालङ्कार-धारिणाम् ।
न मुञ्चन्ति यद् आरब्धं कृच्छ्रेऽपि व्यसनोदये ॥पन्च्_३.२४३॥
तथा च-
प्रारभ्यते न खलु विघ्न-भयेन नीचैः
प्रारभ्य विघ्न-विहता विरमन्ति मध्याः ।
विघ्नैः सहस्र-गुणितैर् अपि हन्यमानाः
प्रारब्धम् उत्तम-गुणा न परित्यजन्ति ॥पन्च्_३.२४४॥
तत् कृतं निष्कण्टकं मम राज्यं शत्रून् निःशेषतां नयता त्वया । अथवा युक्तम् एतन् नय-वेदिनाम् । उक्तं च यतः-
ऋण-शेषं चाग्नि-शेषं च शत्रु-शेषं तथैव च ।
व्याधि-शेषं च निःशेषं कृत्वा प्राज्ञो न सीदति ॥पन्च्_३.२४५॥
सो ऽब्रवीत्-देव ! भाग्यवान् त्वम् एवासि, यस्यारब्धं सर्वम् एव संसिद्ध्यति । तन् न केवलं शौर्यं कृत्यं साधयति, किन्तु प्रज्ञया यत् क्रियते तद् एव विजयाय भवति । उक्तं च-
शस्त्रैर् हता न हि हता रिपवो भवन्ति
प्रज्ञा-हतास् तु रिपवः सुहता भवन्ति ।
शस्तं निहन्ति पुरुषस्य शरीरम् एकं
प्रज्ञा कुलं च विभवश् च यशश् च हन्ति ॥पन्च्_३.२४६॥
तद् एवं प्रज्ञा-पुरुषकाराभ्यां युक्तस्यायत्नेन कार्य-सिद्धयः सम्भवन्ति । उक्तं च-
प्रसरति मतिः कार्यारम्भे दृढीभवति स्मृतिः
स्वयम् उपनयन्न् अर्थान् मन्त्रो न गच्छति विप्लवम् ।
स्फुरति सफलस् तर्कश् चित्तं समुन्नतिम् अश्नुते
भवति च रतिः श्लाघ्ये कृत्ये नरस्य भविष्यतः ॥पन्च्_३.२४७॥
तथा च नय-त्याग-शौर्य-सम्पन्ने पुरुषे राज्यम् इति । उक्तं च-
त्यागिनि शूरे विदुषि च संसर्ग-रुचिर् जनो गुणी भवति ।
गुणवति धनं धनाच् छ्रीः श्रीमत्य् आज्ञा ततो राज्यम् ॥पन्च्_३.२४८॥
मेघवर्ण आह-नूनं सद्यः-फलानि नीति-शास्त्राणि यत् त्वयानुकृत्येनानुप्रविश्यारि-मर्दनः सपरिजनो निःशेषितः ।
स्थिरजीव्य् आह-
तीक्ष्णोपाय-प्राप्ति-गम्यो ऽपि यो ऽर्थस्
तस्याप्य् आदौ संश्रयः साधु युक्तः ।
उत्तुङ्गाग्रः सार-भूतो वनानां
मान्याभ्यर्च्य च्छिद्यते पादपेन्द्रः ॥पन्च्_३.२४९॥
अथवा स्वामिन् ! किं तेनाभिहितेन ? यद् अनन्तर-जाले क्रिया-रहितम् असुख-साध्यं वा भवति । साधु चेदम् उच्यते-
अनिश्चितैर् अध्यवसाय-भीरुभिर्
यथेष्ट-संलाप-रति-प्रयोजनैः ।
फले विसंवादम् उपागता गिरः
प्रयान्ति लोके परिहास-वस्तुताम् ॥पन्च्_३.२५०॥
न च लघुष्व् अपि कर्तव्येषु धीमद्भिर् अनादरः कर्तव्यः । यतः-
शक्ष्यामि कर्तुम् इदम् अल्पम् अयत्न-साध्यम्
अनादरः क इति कृत्यम् उपेक्षमाणाः ।
केचित् प्रमत्त-मनसः परिताप-दुःखम्
आपत्-प्रसङ्ग-सुलभं पुरुषा प्रयान्ति ॥पन्च्_३.२५१॥
तद् अद्य जितारेर् मद्-विभोर् यथा-पूर्वं निद्रा-लाभो भविष्यति । उच्यते चैतत्-
निःसर्पे बद्ध-सर्पे वा भवने सुष्यते सुखम् ।
सदा दृष्ट-भुजङ्गे तु निद्रा दुःखेन लभ्यते ॥पन्च्_३.२५२॥
तथा च-
विस्तीर्ण-व्यवसाय-साध्य-महतां स्निघ्दोपयुक्ताशिषां
कार्याणां नय-साहसोन्नति-मताम् इच्छापद्-आरोहिणाम् ।
मानोत्सेक-पराक्रम-व्यसनिनः पारं न यावद्-गताः
सामर्षे हृदयेऽवकाश-विषया तावत् कथं निर्वृतिः ॥पन्च्_३.२५३॥
तद् अवसित-कार्यारम्भस्य विश्राम्यतीव मे हृदयम् । तद् इदम् अधुना निहत-कण्टकं राज्यं प्रजा-पालन-तत्परो भूत्वा पुत्र-पौत्रादि-क्रमेणाचल-च्छत्रासन-श्रीः चिरं भुङ्क्ष्व । अपि च-
प्रजा न रञ्जयेद् यस् तु राजा रक्षादिभिर् गुणैः ।
अजागल-स्तनस्येव तस्य राज्यं निरर्थकम् ॥पन्च्_३.२५४॥
गुणेषु रागो व्यसनेष्व् अनादरो
रतिः सुभृत्येषु च यस्य भूपतेः ।
चिरं स भुङ्क्ते चल-चामरांशुकां
सितातपत्राभरणां नृप-श्रियम् ॥पन्च्_३.२५५॥
न च त्वया प्राप्त-राज्यो ऽहम् इति मत्वा श्री-मदेनात्मा व्यसयितव्यः । यत् कारणम्-चला हि राज्ञो विभूतयः वंशारोहणवद् राज्य-लक्ष्मी-दुरारोहा, क्षण-विनिपात-रता, प्रयत्न-शतैर् अपि धार्यमाणा दुर्धरा, प्रशस्ताराधिताप्य् अन्ते विप्रलम्भिनी, वानर-जातिर् इव विद्रुतानेक-चित्ता, पद्म-पत्रम् इवाघटित-संश्लेषा, पवन-गतिर् इवातिचपला, अनार्य-सङ्गतिर् इवास्थिरा, आशीविष इव दुरुपचारा, सन्ध्याभ्र-लेखेव मुहूर्त-रागा, जल-बुद्बुदावलीव स्वभाव-भङ्गुरा, शरीर-प्रकृतिर् इव कृतघ्ना, स्वप्न-लब्ध-द्रव्य-राशिर् इव क्षण-दृष्ट-नष्टा । अपि च-
यदैव राज्ये क्रियतेऽभिषेकस्
तदैव बुद्धिर् व्यसनेषु योज्या ।
घटा हि राज्ञाम् अभिषेक-काले
सहाम्भसैवापदम् उद्गिरन्ति ॥पन्च्_३.२५६॥
न च कश्चिद् अनधिगमनीयो नामास्त्य् आपदाम् । उक्तं च-
रामस्य व्रजनं वने निवसनं पाण्डोः सुतानां वने
वृष्णीनां निधनं नलस्य नृपते राज्यात् परिभ्रंशनम् ।
नाट्याचार्यकम् अर्जुनस्य पतनं सञ्चिन्त्य लङ्केश्वरे
सर्वे काल-वशाज् जनो ऽत्र सहते कः कं परित्रायते ॥पन्च्_३.२५७॥
क्व स दशरथः स्वर्गे भूत्वा महेन्द्र-सुहृद् गतः
क्व स जलनिधेर् वेलां बद्ध्वा नृपः सगरस् तथा ।
क्व स करतलाज् जातो वैन्यः क्व सूर्य-तनुर् मनुः
ननु बलवता कालेनैते प्रबोध्य निमीलिताः ॥पन्च्_३.२५८॥
मान्धाता क्व गतस् त्रिलोक-विजयी राजा क्व सत्यव्रतः
देवानां नृपतिर् गतः क्व नहुषः सच्-छास्त्रवान् केशवः ।
मन्यन्ते सरथाः स-कुञ्जर-वराः शक्रासनाध्यासिनः
कालेनैव महात्मना त्व् अनुकृताः कालेन निर्वासिताः ॥पन्च्_३.२५९॥
अपि च-
स च नृपतिस् ते सचिवास् ताः प्रमदास् तानि कानन-वनानि ।
स च ते च ताश् च तानि च कृतान्त-दृष्टानि नष्टानि ॥पन्च्_३.२६०॥
एवं मत्त-करि-कर्ण-चञ्चलां राज्य-लक्ष्मीम् अवाप्य न्यायैक-निष्ठो भूत्वोपभुङ्क्ष्व ।
इति श्री-विष्णु-शर्म-विरचिते पञ्चतन्त्रे काकोलूकीयं नाम
तृतीयं तन्त्रं समाप्तम्
॥३॥