३-०६ उलूकमन्त्रिणां संवादः

अथारिमर्दनस् तद् आकर्ण्य पितृ-पितामह-क्रमागत-मन्त्रिभिः सार्धं मन्त्रयांचक्रे । तस्य च पञ्च मन्त्रिणः । तद् यथा-रक्ताक्षः, क्रूराक्षः, दीप्ताक्षः, वक्रनासः, प्राकारकर्णश् चेति । तत्रादौ रक्ताक्षम् अपृच्छत्-भद्र ! एष तावत् तस्य रिपोर् मन्त्री मम हस्त-गतः । तत् किं क्रियताम् ? इति ।

रक्ताक्ष आह-देव ! किम् अत्र चिन्त्यते ? अविचारितम् अयं हन्तव्यः, यतः-

हीनः शत्रुर् निहन्तव्यो यावन् न बलवान् भवेत् ।
प्राप्त-स्व-पौरुष-बलः पश्चाद् भवति दुर्जयः ॥पन्च्_३.१३०॥

किं च स्वयम् उपागता श्रीस् त्यज्यमाना शपतीति लोके प्रवादः । उक्तं च-

कालो हि सकृद् अभ्येति यन् नरं काल-काङ्क्षिणम् ।
दुर्लभः स पुनस् तेन काल-कर्माचिकीर्षता ॥पन्च्_३.१३१॥

श्रूयते च यथा-

कश्चित् क्षुद्र-समाचारः प्राणिनां काल-सन्निभः ।
विचचार महारण्ये घोरः शुनि-लुब्धकः ॥पन्च्_३.१३२॥ +++(सम्पादकटिप्पनी - पुस्तके इदं पद्यं नास्ति ।)+++

  • चितिकां दीपितां पश्य फटां भग्नां मैव च ।
    भिन्नश्लिष्टा तु या प्रीतिर्न सा स्नेहेन वर्द्धते ॥ +++(सम्पादकटिप्पनी - पुस्तके इदं पद्यमत्र ।)+++

अरिमर्दनः प्राह-कथम् एतत् ?

रक्ताक्षः कथयति–

अतो ऽहं ब्रवीमि-चितिकां दीपितां पश्य इति । तद् अस्मिन् हतेऽयत्नाद् एव राज्यम् अकण्टकं भवतो भवति ।

तस्यैतद्-वचनं श्रुत्वा क्रूराक्षं पप्रच्छ-भद्र ! त्वं तु किं मन्यसे ?

सो ऽब्रवीत्-देव ! निर्दयम् एतद् यद् अनेनाभिहितम् । यत् कारणं शरणागतो न वध्यते सुष्ठु । खल्व् इदम् आख्यानम्-

श्रूयते हि कपोतेन शत्रुः शरणम् आगतः ।
पूजितश् च यथा-न्यायं स्वैश् च मांसैर् निमन्त्रितः ॥पन्च्_३.१३४॥

अरिमर्दनो ऽब्रवीत्-कथम् एतत् ?

क्रूराक्षः कथयति-

अतो ऽहं ब्रवीमि-श्रूयते हि कपोतेन (१३४) इत्य् आदि ।

तच् छ्रुत्वारिमर्दनो दीप्ताक्षं पृष्टवान्-एवम् अवस्थिते किं भवान् मन्यते ?

सो ऽब्रवीत्-देव ! न हन्तव्य एवायम् । यतः-

या ममोद्विजते नित्यं सा ममाद्यावगूहते ।
प्रिय-कारक भद्रं ते यन् ममास्ति हरस्व तत् ॥पन्च्_३.१८६॥

चोरेण चाप्य् उक्तम्-

हर्तव्यं ते न पश्यामि हर्तव्यं चेद् भविष्यति ।
पुनर् अप्य् आगमिष्यामि यदीयं नावगूहते ॥पन्च्_३.१८७॥

अरिमर्दनः पृष्टवान्-का च नावगूहते ? कश् चायं चौरः ? इति विस्तरतः श्रोतुम् इच्छामि ।

दीप्ताक्षः कथयति-

तच् छ्रुत्वा चौरो ऽप्य् आह-हर्तव्यं ते न पश्यामि (१८७) इत्य् आदि । तस्माच् चौरस्याप्य् उपकारः श्रेयश् चिन्त्यते किं पुनः शरणागतस्य । अपि चायं तैर् विप्रकृतो ऽस्माकम् एव पुष्टये भविष्यति तदीय-रन्ध्र-दर्शनाय चेति अनेन कारणेनायम् अवध्य इति ।

एतद् आकर्ण्यारिमर्दनो ऽन्यं सचिवं वक्रनासं पप्रच्छ-भद्र ! साम्प्रतम् एवं स्थिते किं करणीयम् इति ?

सो ऽब्रवीत्-देव ! अवध्यो ऽयम् । यतः-

शत्रवो ऽपि हितार्थैव विवदन्तः परस्परम् ।
चौरेण जीवितं दत्तं राक्षसेन तु गो-युगम् ॥पन्च्_३.१९०॥

अरिमर्दनः प्राह-कथम् एतत् ?

वक्रनासः कथयति-

अतो ऽहं ब्रवीमि-शत्रवो ऽपि हितार्थैव (१९०) इति ।

अथ तस्य वचनम् अवधार्यारिमर्दनः पुनर् अपि प्राकारकर्णम् अपृच्छत्-कथय, किम् अत्र मन्यते भवान् ?

सो ऽब्रवीत्-देव ! अवध्य एवायम्, यतो रक्षितेनानेन कदाचित् परस्पर-प्रीत्या कालः सुखेन गच्छति । उक्तं च-

परस्परस्य मर्माणि ये न रक्षन्ति जन्तवः ।
त एव निधनं यान्ति वल्मीकोदर-सर्पवत् ॥पन्च्_३.१९१॥

अरिमर्दनो ऽब्रवीत्-कथम् एतत् ?

प्राकारकर्णः कथयति-

अतो ऽहं ब्रवीमि-परस्परस्य मर्माणि इति ।

तच् च श्रुत्वा स्वयम् अरिर्दनो ऽप्य् एवं समर्थितवान् । तथा चानुष्ठितम् । दृष्ट्वान्तर्-लीनं विहस्य रक्ताक्षः पुनर् अब्रवीत्-कष्टम् । विनाशितो ऽयं भवद्भिर् अन्यायेन स्वामी । उक्तं च-

अपूज्या यत्र पूज्यन्ते पूज्यानां तु विमानना ।
त्रीणि तत्र प्रवर्तन्ते दुर्भिक्षं मरणं भयम् ॥पन्च्_३.१९२॥

तथा च-

प्रत्यक्षेऽपि कृते पापे मूर्खः साम्ना प्रशाम्यति ।
रथ-कारः स्वकां भार्यां सजारां शिरसावहत् ॥पन्च्_३.१९३॥

मन्त्रिणः प्राहुः-कथम् एतत् ?

रक्ताक्षः कथयति-

अतो ऽहं ब्रवीमि-प्रत्यक्षेऽपि कृते पापे (१९३) इति ।

तत् सर्वथा मूलोत्खाता वयं विनष्टाः स्मः । सुष्ठु खल्व् इदम् उच्यते-

मित्र-रूपा हि रिपवः सम्भाव्यन्ते विचक्षणैः ।
ये हितं वाक्यम् उत्सृज्य विपरीतोपसेविनः ॥पन्च्_३.१९७॥

तथा च-

सन्तो ऽप्य् अर्था विनश्यन्ति देश-काल-विरोधिनः ।
अप्राज्ञान् मन्त्रिणः प्राप्य तमः सूर्योदये यथा ॥पन्च्_३.१९८॥

ततस् तद्-वचो ऽनादृत्य सर्वे ते स्थिरजीविनम् उत्क्षिप्य स्व-दुर्गम् आनेतुम् आरब्धाः । अथानीयमानः स्थिरजीव्य् आह-देव ! अद्याकिञ्चित्करेणैतद् अवस्थेन किं मयोपसङ्गृहीतेन ? यत् कारणम् इच्छामि दीप्तं वह्निम् अनुप्रवेष्टुम् । तद् अर्हसि माम् अग्नि-प्रदानेन समुद्धर्तुम् ।

अथ रक्ताक्षस्यान्तर्गत-भावं ज्ञात्वाह-किम्-अर्थम् अग्नि-पतनम् इच्छसि ?

सो ऽब्रवीत्-अहं तावद् युष्मद्-अर्थम् इमाम् आपदं मेघवर्णेन प्रापितः । तद् इच्छामि तेषां वैर-यातनार्थम् उलूकत्वम् इति ।

तच् च श्रुत्वा राजनीति-कुशलो रक्ताक्षः प्राह-भद्र ! कुटिलस् त्वं कृतक-वचन-चतुरश् च । तावद् उलूक-योनि-गतो ऽपि स्वकीयाम् एव वायस-योनिं बहु मन्यसे । श्रूयते चैतद् आख्यानकम् ।

सूर्यं भर्तारम् उत्सृज्य पर्जन्यं मारुतं गिरिम् ।
स्व-जातिं मूषिका प्राप्ता स्वजातिर् दुरतिक्रमा ॥पन्च्_३.१९९॥

मन्त्रिणः प्रोचुः–कथम् एतत् ?

रक्ताक्षः कथयति-

+++(सम्पादकटिप्पनी- इतः अग्रिमा कथा पुस्तके नास्ति । )+++

अतो ऽहं ब्रवीमि-सूर्यं भर्तारम् उत्सृज्य इत्यादि ।

अथ रक्ताक्ष-वचनम् अनादृत्य तैः स्व-वंश-विनाशाय स स्व-दुर्गम् उपनीतः । नीयमानश् चान्तर्-लीनम् अवहस्य स्थिरजीव्य् अचिन्तयत्-

हन्यताम् इति येनोक्तं स्वामिनो हित-वादिना ।
स एवैको ऽत्र सर्वेषां नीति-शास्त्रार्थ-तत्त्व-वित् ॥पन्च्_३.२१५॥

तद् यदि तस्य वचनम् अचरिष्यन्न् एते, ततो न स्वल्पो ऽप्य् अनर्थो ऽभविष्यद् एतेषाम् ।

अथ दुर्ग-द्वारं प्राप्यारिमर्दनो ऽब्रवीत्-भो भो हितैषिणो ऽस्य स्थिरजीविनो यथा-समीहितं स्थानं प्रयच्छत ।

तच् च श्रुत्वा स्थिरजीवी व्यचिन्तयत्-मया तावद् एतेषां वधोपायश् चिन्तनीयः । स मया मध्यस्थेन न साध्यते । यतो मदीयम् इङ्गितादिकं विचारयन्तस् तेऽपि सावधाना भविष्यन्ति । तद् दुर्ग-द्वारम् अधिश्रितो ऽभिप्रेतं साधयामि । इति निश्चित्योलूक-पतिम् आह-देव ! युक्तम् इदं यत् स्वामिना प्रोक्तम् । परम् अहम् अपि नीतिज्ञस् तेऽहितश् च । यद्यप्य् अनुरक्तः शुचिस् तथापि दुर्ग-मध्ये आवासो नार्हः । तद् अहं अत्रैव दुर्ग-द्वार-स्थः प्रत्यहं भवत्-पाद-पद्म-रजः पवित्री-कृत-तनुः सेवां करिष्यामि ।

तथेति प्रतिपन्ने प्रतिदिनम् उलूक-पति-सेवकास् ते प्रकामम् आहारं कृत्वोलूक-राजादेशात् प्रकृष्ट-मांसाहारं स्थिरजीविने प्रयच्छन्ति । अथ कतिपयैर् एवाहोभिर् मयूर इव स बलवान् संवृत्तः । अथ रक्ताक्षः स्थिरजीविनं पोष्यमाणं दृष्ट्वा स-विस्मयो मन्त्रि-जनं राजानं च प्रत्य् आह-अहो मूर्खो ऽयं मन्त्रि-जनो भवांश् चेत्य् एवम् अहम् अवगच्छामि । उक्तं च-

पूर्वं तावद् अहं मूर्खो द्वितीयः पशु-बन्धकः ।
ततो राजा च मन्त्री च सर्वं वै मूर्ख-मण्डलम् ॥पन्च्_३.२१६॥

ते प्राहुः-कथम् एतत् ?

रक्ताक्षः कथयति-

अतो ऽहं ब्रवीमि-पूर्वं तावद् अहं मूर्खः इति ।

अथ ते पुनर् अपि प्रतिकूल-दैवतया हितम् अपि रक्ताक्ष-वचनम् अनादृत्य भूयस् तं प्रभूत-मांसादि-विविधाहारेण पोषयामासुः । अथ रक्ताक्षः स्व-वर्गम् आहूय रहः प्रोवाच-अहो ! एतावद् एवास्मद्-भूपतेः कुशलं दुर्गं च । तद् उपदिष्टं मया यत् कुल-क्रमागतः सचिवो ऽभिधत्ते । तद् वयम् अन्यत् पर्वत-दुर्गं सम्प्रति समाश्रयामः । उक्तं च यतः-

अनागतं यः कुरुते स शोभते
स शोचते यो न करोत्य् अनागतम् ।
वने वसन्न् एव जराम् उपागतो
बिलस्य वाचा न कदापि हि श्रुता ॥पन्च्_३.२१७॥

ते प्रोचुः-कथम् एतत् ?

रक्ताक्षः कथयति-

शृगालो ऽपि पलायमान इमं श्लोकम् अपठत्-अनागतं यः कुरुते स शोभते इत्य् आदि ।

तद् एवं मत्वा युष्माभिर् मया सह गन्तव्यम् इति । एवम् अभिधायात्मानुयायि-परिवारानुगतो दूर-देशान्तरं रक्ताक्षो जगाम ।

अथ रक्ताक्षे गते स्थिरजीव्य् अतिहृष्ट-मना व्यचिन्तयत्-अहो ! कल्याणम् अस्माकम् उपस्थितम्, यद् रक्तांशो गतः स दीर्घदर्शी एते च मूढ-मनसः । ततो मम सुख-घात्याः सञ्जाताः । उक्तं च यतः-

न दीर्घ-दर्शिनो यस्य मन्त्रिणः स्युर् महीपतेः ।
क्रमायाता ध्रुवं तस्य न चिरात् स्यात् परिक्षयः ॥पन्च्_३.२१९॥

अथवा साध्व् इदम् उच्यते-

मन्त्रि-रूपा हि रिपवः सम्भाव्यास् ते विचक्षणैः ।
ये सन्तं नयम् उत्सृज्य सेवन्ते प्रतिलोमतः ॥पन्च्_३.२२०॥

एवं विचिन्त्य स्व-कुलाय एकैकां वन-काष्ठिकां गुहा-प्रदीपनार्थं दिने दिने प्रक्षिपति । न च ते मूर्खा उलूका विजानन्ति, यद् एष कुलायम् अस्मद्-दाहाय वृद्धिं नयति । अथवा साध्व् इदम् उच्यते-

अमित्रं कुरुते मित्रं मित्रं द्वेष्टि हिनस्ति च ।
शुभं वेत्त्य् अशुभं पापं भद्रं दैव-हतो नरः ॥पन्च्_३.२२१॥