३-०५ स्थिरजीविनः उपायम्

एतस्मिन्न् अन्तरे कृकालिकया द्विषत्-प्रणिधी-भूतया तत् सर्वं तद्-अमात्य-व्यसनं क्वचित् प्रचलितः स-परिवार इति ।

अथोलूकाधिपस् तद् आकर्ण्यास्तम् अनवेलायां सामात्यः स-परिजनो वायस-वधार्थं प्रचलितः । प्राह च-त्वर्यतां त्वर्यतां भीतः शत्रुः पलायन-परः पुण्यैर् लभ्यते । उक्तं च-

शत्रोः प्रचलने छिद्रम् एकम् अन्यं च संश्रयम् ।
कुर्वाणो जायते वश्यो व्यग्रत्वे राज-सेविनाम् ॥पन्च्_३.१२५॥

एवं ब्रुवाणः समन्तान् न्यग्रोध-पादपम् अधः परिवेष्ट्य व्यवस्थितः । यावन् न कश्चिद् वायसो दृश्यते, तावच् छाखाग्रम् अधिरूढो हृष्ट-मना वन्दिभिर् अभिष्टूयमानो ऽरिमर्दनस् तान् परिजनान् प्रोवाच-अहो ! ज्ञायतां तेषां मार्गः । कतमेन मार्गेण प्रनष्टाः काकाः ? तद् यावन् न दुर्गं समाश्रयन्ति, तावद् एव पृष्ठतो गत्वा व्यापाद्या भवन्ति । उक्तं च-

वृत्तिम् अप्य् आश्रितः शत्रुर् अवध्यः स्याज् जिगीषुणा ।
किं पुनः संश्रितो दुर्गं सामग्र्या परया युतम् ॥पन्च्_३.१२६॥

अथैतस्मिन् प्रस्तावे स्थिरजीवी चिन्तयामास-यद् एतेऽस्मच् छत्रवो ऽनुलब्धास्मद्-वृत्तान्ता यथागतम् एव यान्ति ततो मया न किञ्चित् कृतं भवति । उक्तं च-

अनारम्भो हि कार्याणां प्रथमं बुद्धि-लक्षणम् ।
आरब्धस्यान्त-गमनं द्वितीयं बुद्धि-लक्षणम् ॥पन्च्_३.१२७॥

तद् वरम् अनारम्भो न चारम्भ-विघातः । तद् अहम् एतान् शब्दं संश्राव्य आत्मानं दर्शयामि इति विचार्य मन्दं मन्दं शब्दम् अकरोत् । तच् छ्रुत्वा ते सकला अप्य् उलूकास् तद्-वधाय प्रजग्मुः । अथ तेनोक्तं-अहो ! अहं स्थिरजीवी नाम मेघवर्णस्य मन्त्री । मेघवर्णेनैवेदृशीम् अवस्थां नीतः । तन् निवेदयतात्म-स्वामिने । तेन सह बहु वक्तव्यम् अस्ति ।

अथ तैर् निवेदितः स उलूक-राजो विस्मयाविष्टस् तत्-क्षणात् तस्य सकाशं गत्वा प्रोवाच-भोः भोः ! किम् एतां दशां गतस् त्वम्, तत् कथ्यताम् ।

स्थिरजीवी प्राह-देव ! श्रूयतां तद्-अवस्था-कारणम् । अतीत-दिने स दुरात्मा मेघवर्णो युष्मद्-व्यापादित-प्रभूत-वायसानां पीडया युष्माकम् उपरि कोप-शोक-ग्रस्तो युद्धार्थं प्रचलित आसीत् । ततो मयाभिहितं-स्वामिन् ! न युक्तं भवतस् तद्-उपरि गन्तुम् । बलवन्त एते, बल-हीनाश् च वयम् । उक्तं च-

बलीयसा हीन-बलो विरोधं
न भूति-कामो मनसापि वाञ्छेत् ।
न वध्यते वेतस-वृत्तिर् अत्र +++(सम्पादकटिप्पनी - पुस्तकेऽत्र पाठभेदः ।)+++

  • न वध्यन्तेऽत्यन्तबलो हि यस्मात् +++( इति पुस्तके तृतीयः पादः ।)+++
    व्यक्तं प्रणाशो ऽस्ति पतङ्ग-वृत्तेः ॥पन्च्_३.१२८॥

तत् तस्योआयन-प्रदानेन सन्धिर् एव युक्तः । उक्तं च-

बलवन्तं रिपुं दृष्ट्वा सर्वस्वम् अपि बुद्धिमान् ।
दत्त्वा हि रक्षयेत् प्राणान् रक्षितैस् तैर् धनं पुनः ॥पन्च्_३.१२९॥

तच् छ्रुत्वा दुर्जन-कोपितेन त्वत्-पक्ष-पातिनं माम् आशङ्कमानेनेमां दशां नीतः । तत् तव पादौ साम्प्रतं मे शरणं । किं बहुना विज्ञप्तेन ? यावद् अहं प्रचलितुं शक्नोमि तावत् त्वां तस्यावासं नीत्वा सर्व-वायस-क्षयं विधास्यामि इति ।