३-०४ स्थिरजीवि-मेघवर्ण-संवादः

मेघवर्ण आह-तात ! एवं गतेऽस्माभिः किं क्रियते ?

स आह-वत्स ! एवं गतेऽपि षाड्गुण्याद् अपरः स्थूलो ऽभिप्रायो ऽस्ति । तम् अङ्गीकृत्य स्वयम् एवाहं तद्-विजयाय यास्यामि । रिपून् वञ्चयित्वा वधिष्यामि । उक्तं च-

बहु-बुद्धि-समायुक्ताः सुविज्ञाना बलोत्कटान् ।
शक्ता वञ्चयितुं धूर्ता ब्राह्मणं छागलद् इव ॥पन्च्_३.११६॥

मेघवर्ण आह-कथम् एतत् ?

सो ऽब्रवीत्-

अतो ऽहं ब्रवीमि-बहु-बुद्धि-समायुक्ताः (११६) इति । अथवा साध्व् इदम् उच्यते-

अभिनव-सेवक-विनयैः प्राघुणकोक्तैर् विलासिनीर् उदितैः ।
धूर्त-जन-वचन-निकरैर् इह कश्चिद् अवञ्चितो नास्ति ॥पन्च्_३.१२०॥

किं च-दुर्बलैर् अपि बहुभिः सह विरोधो न युक्तः । उक्तं च-

बहवो न विरोद्धव्या दुर्जया हि महाजनाः ।
स्फुरन्तम् अपि नागेन्द्रं भक्षयन्ति पिपीलिकाः ॥पन्च्_३.१२१॥

मेघवर्ण आह-कथम् एतत् ?

स्थिरजीवी कथयति-

अतो ऽहं ब्रवीमि-बहवो न विरोद्धव्या (१२१) इति । तद् अत्रास्ति मे किञ्चिद् वक्तव्यम् एव । तद् अवधार्य यथोक्तम् अनुष्ठीयताम् ।

मेघवर्ण आह-तत् समादेशय । तवादेशो नान्यथा कर्तव्यः ।

स्थिरजीवी प्राह-वत्स ! समाकर्णय तर्हि । सामादीन् अतिक्रम्य यो मया पञ्चम उपायो निरूपितः । तन् मां विपक्ष-भूतं कृत्वानि निष्ठुर-वचनैर् निर्भर्त्स्य । यथा विपक्ष-प्रणिधीनां प्रत्ययो भवति, तथा समाहृत-रुधिरैर् आलिप्यास्यैव न्यग्रोधस्याधस्तात् प्रक्षिप्य मां गम्यतां पर्वतम् ऋष्यमूकं प्रति । तत्र स-परिवारस् तिष्ठ, यावद् अहं समस्तान् सपत्नान् सुप्रणीतेन विधिना विश्वास्याभिमुखान् कृत्वा कृतार्थो ज्ञात-दुर्ग-मध्यो दिवसे तान् अन्धतां प्राप्तांस् त्वां नीत्वा व्यापादयामि । ज्ञातं मया सम्यक् नान्यथास्माकं सिद्धिर् अस्ति । यतो दुर्गम् एतद् अपसार-रहितं केवलं वधाय भविष्यति । उक्तं च-

अपसार-समायुक्तं न यज्ञैर् दुर्गम् उच्यते ।
अपसार-परित्यक्तं दुर्ग-व्याजेन बन्धनम् ॥पन्च्_३.१२२॥

न च त्वया मद्-अर्थं कृपा कार्या । उक्तं च-

अपि प्राण-समान् इष्टान् पालितान् लालितान् अपि ।
भृत्यान् युद्धे समुत्पन्ने पश्येच् छुष्कम् इवेन्धनम् ॥पन्च्_३.१२३॥

तथा च-

प्राणवद् रक्षयेद् भृत्यान् स्वकायम् इव पोषयेत् ।
सदैक-दिवसस्यार्थे यत्र स्याद् रिपु-सङ्गमः ॥पन्च्_३.१२४॥

तत् त्वयाहं नात्र विषये प्रतिषेधनीयः । इत्य् उक्त्वा तेन सह शुष्क-कलहं कर्तुम् आरब्धः । अथान्ये तस्य भृत्याः स्थिरजीविनम् उच्छृङ्खल-वचनैर् जल्पन्तम् अवलोक्य तस्य वधायोद्यता मेघवर्णेनाभिहिताः-अहो ! निवर्तध्वं यूयम् । अहम् एवास्य शत्रु-पक्षपातिनो दुरात्मनः स्वयं निग्रहं करिष्यांइ । इत्य् अभिधाय तस्योपरि समारुह्य, लघुभिश् चञ्चु-प्रहारैस् तं निहत्याहृत-रुधिरेण प्लावयित्वा तद्-उपदिष्टम् ऋष्यमूक-पर्वतं स-परिवारो गतः ।