३-०३ काकोलूकवैरकारणम्

एवं मन्त्रि-वाक्यम् आकर्ण्यात्रान्तरे मेघवर्ण आह-तात ! अथ किं निमित्तम् एवंविधं प्राणान्तिकं सदैव वायसोलूकानां वैरम् ?

स आह-वत्स ! कदाचिद् धंस-शुक-कोकिल-चातक-उलूक-मयूर-कपात-पारावत-विष्किर-प्रभृतयः सर्वेऽपि पक्षिणः समेत्य सोद्वेगं मन्त्रयितुम् आरब्धाः । अहो अस्माकं तावद् वैनतेयो राजा, स च वासुदेव-भक्तो न काम् अपि चिन्ताम् अस्माकं करोति । तत् किं तेन वृथास्वामिना ? यो लुब्धक-पाशैर् नित्यं निबध्यमानानां न रक्षां विधत्ते । उक्तं च-

यो न रक्षति वित्रस्तान् पीड्यमानान् परैः सदा ।
जन्तून् पार्थिव-रूपेण स कृतान्तो न संशयः ॥पन्च्_३.७१॥

यदि न स्यान् नरपतिः सम्यङ् नेताः ततः प्रजाः ।
अकर्णधारा जलधौ विप्लवेतेह नौर् इव ॥पन्च्_३.७२॥

षड् इमान् पुरुषो जह्याद् भिन्नां नावम् इवार्णवे ।
अप्रवक्तारम् आचार्यम् अनधीयानम् ऋत्विजम् ॥पन्च्_३.७३॥

अरक्षितारं राजानं भार्यां चापिर्य-वादिनीम् ।
ग्राम-कामं च गोपालं वन-कामं च नापितम् ॥पन्च्_३.७४॥ (युग्मम्)

तत्, सञ्चित्यान्यः कश्चिद् राजा विहङ्गमानां क्रियताम् इति । अथ तैर् भद्राकारम् उलूकम् अवलोक्य सर्वैर् अभिहितम्-यद् एष उलूको राजास्माकं भविष्यति, तद् आनीयन्तां नृपाभिषेक-सम्बन्धिनः सम्भाराः इति ।

अथ साधिते विविध-तीर्थोदके, प्रगुणीकृतेऽष्टोत्तर-शत-मूलिका-सङ्घाते प्रदत्ते सिंहासने, वर्तिते सप्तद्वीप-समुद्र-भूधर-विचित्रे धरित्री-मण्डले, प्रस्तारिते व्याघ्र-चर्मणि आपूरितेषु हेम-कुम्भेषु दीपेषु वाद्येषु च सज्जीकृतेषु दर्पणादिषु माङ्गल्य-वस्तुषु, पठत्सु वन्दि-मुख्येषु, वेदोच्चारण-परेषु समुदित-मुखेषु ब्राह्मणेषु, गीत-परे युवति-जने, आनीतायाम् अग्र-महिष्यां कृकालिकायाम्, उलूको ऽभिषेकार्थं यावत् सिंहासने उपविशति तावत् कुतो ऽपि वायसः समायातः सो ऽचिन्तयत्-अहो ! किम् एष सकल-पक्षि-समागमो महोत्सवश् च ? अथ ते पक्षिणस् तं दृष्ट्वा मिथः प्रोचुः । पक्षिणां मध्ये वायसश् चतुरः श्रूयते । उक्तं च-

नराणां नापितो धूर्तः पक्षिणां चैव वायसः ।
दंष्ट्रिणां च शृगालस् तु श्वेभिक्षुस् तपस्विनाम् ॥पन्च्_३.७५॥

तद् अस्यापि वचनं ग्राह्यम् । उक्तं च-

बहुधा बहुभिः सार्धं चिन्तिताः सुनिरूपिताः ।
कथञ्चिन् न विलीयन्ते विद्वद्भिश् चिन्तिता नयाः ॥पन्च्_३.७६॥

अथ वायसः समेत्य तान् आह-अहो ! किं महाजन-समागमो ऽयं परम-महोत्सवश् च ।

ते प्रोचुः-भोः ! नास्ति कश्चिद् विहङ्गमानां राजा, तद् अस्योलूकस्य विहङ्ग-राज्याभिषेको निरूपितस् तिष्ठति समस्त-पक्षिभिः । तत्त्वम् अपि स्व-मतं देहि । प्रस्तावे समागतो ऽसि ।

अथासौ काको विहस्याह-अहो ! न युक्तम् एतत् । यन् मयूर-हंस-कोकिल-चक्रवाक-शुक-कारण्डव-हारीत-सारसादिषु पक्षि-प्रधानेषु विद्यमानेषु दिवान्धस्यास्य कराल-वक्त्रस्याभिषेकः क्रियते । तत्रैतन् मम मतम् । यतः-

वक्र-नासं सुजिह्माक्षं क्रूरम् अप्रिय-दर्शनम् ।
अक्रुद्धस्येदृशं वक्त्रं भवेत् क्रुद्धस्य कीदृशम् ॥पन्च्_३.७७॥

स्वभाव-रौद्रम् अत्युग्रं क्रूरम् अप्रिय-वादिनम् ।
उलूकं नृपतिं कृत्वा का नः सिद्धिर् भविष्यति ॥पन्च्_३.७८॥

अपरं वैनतेये स्वामिनि स्थिते किम् एष दिवान्धः क्रियते राजा ? तद् यद्यपि गुणवान् भवति, तथाप्य् एकस्मिन् स्वामिनि स्थिते नान्यो भूपः प्रशस्यते ।

एक एव हितार्थाय तेजस्वी पार्थिवो भुवः ।
युगान्त इव भास्वन्तो बहवो ऽत्र विपत्तये ॥पन्च्_३.७९॥

तत् तस्य नाम्नापि यूयं परेषाम् अगम्या भविष्यथ । उक्तं च-

गुरूणां नाम-मात्रेऽपि गृहीते स्वामि-सम्भवे ।
दुष्टानां पुरतः क्षेमं तत्-क्षणाद् एव जायते ॥पन्च्_३.८०॥

तथा च-

व्यपदेशेन महतां सिद्दिः सञ्जायते परा ।
शशिनो व्यपदेशेन वसन्ति शशकाः सुखम् ॥पन्च्_३.८१॥

पक्षिण ऊचुः-कथम् एतत् ?

स आह-

अतो ऽहं ब्रवीमि व्यपदेशेन महताम् इति । अपि च-

क्षुद्रम् अलसं कापुरुषं व्यसनिनम् अकृतज्ञं जीवित-कामः ।
पृष्ठ-प्रलपन-शीलं स्वामित्वे नाभियोजयेत् ॥पन्च्_३.९०॥ +++(सम्पादकटिप्पनी- पुस्तके इदं पद्यम् अन्यथा वर्तते ।)+++

  • अकृतज्ञं कापुरुषं व्यसनिनमलसं तथ सदा क्षुद्रम् ।
    पृष्ठप्रलपनशीलं स्वामित्वे नाभियोजयेज्जातु ॥९०॥ +++(सम्पादकटिप्पनी - पुस्तकेऽत्रायं श्लोकः ।)+++

तथा च-

क्षुद्रम् अर्थपतिं प्राप्य न्यायान्वेषण-तत्-परौ ।
उभाव् अपि क्षयं प्राप्तौ पुरा शशक-पिञ्जलौ ॥पन्च्_३.९१॥

ते प्रोचुः-कथम् एतत् ?

स आह-

अतो ऽहं ब्रवीमि-क्षुद्रम् अर्थ-पतिं प्राप्य (९१) इति ।

भवन्तो ऽप्य् एनं दिवान्धं क्षुद्रम् अर्थ-पतिम् आसाद्य रात्र्य्-अन्धाः सन्तः शशक-पिञ्जल-मार्गेण यास्यन्ति । एवं ज्ञात्वा यद् उचितं तद् विधेयम् । अथ तस्य तद्-वचनम् आकर्ण्य साध्व् अनेनाभिहितम् इत्य् उक्ता, भूयो ऽपि पार्थिवाथं समेत्य मन्त्रयिष्यामहे इति ब्रुवाणाः सर्वे पक्षिणो यथाभिमतं जग्मुः । केवलम् अवशिष्टो भद्रासनोपविष्टो ऽभिषेकाभिमुखो दिवान्धः कृकालिकया सहास्ते । आह च-कः को ऽत्र भोः ! किम् अद्यापि न क्रियते ममाभिषेकः ?

इति श्रुत्वा कृकालिकयाभिहितम्-भद्र ! कुतो ऽयं विघ्नस् ते काकेन ? गताश् च सर्वेऽपि विहगा यथेप्सितासु दिक्षु केवलम् एको ऽयं वायसो ऽवशिष्टस् तिष्ठति केनापि कारणेन । तत् त्वरितम् उत्तिष्ठ, येन त्वां स्वाश्रयं प्रापयामि ।

तच् छ्रुत्वा स-विषादम् उलूको वायसम् आह-भो भो दुष्टात्मन् ! किं मया तेऽपकृतं यद् राज्याभिषेको मे विघ्नितः ? तद् अद्य-प्रभृति सान्वयम् आवयोर् वैरं सञ्जातम् । उक्तं च-

रोहते सायकैर् विद्धं छिन्नं रोहति चासिना ।
वचो दुरुक्तं बीभत्सं न प्ररोहति वाक्-क्षतम् ॥पन्च्_३.१११॥

इत्य् एवम् अभिधाय कृकालिकया सह स्वाश्रमं गतः । अथ भय-व्याकुलो वायसो व्यचिन्तयत्-अहो ! अकारणं वैरम् आसादितं मया । किम् इदं व्याहृतम् ? उक्तं च-

अदेश-कालज्ञम् अनायति-क्षमं
यद् अप्रियं लाघव-कारि चात्मनः ।
यो ऽत्राब्रवीत् कारण-वर्जितं वचो
न तद् वचः स्याद् विषम् एव तद् भवेत् ॥पन्च्_३.११२॥

बलोपपन्नो ऽपि हि बुद्धिमान् नरः
परे नयेन् न स्वयम् एव वैरिताम् ।
भिषङ् ममास्तीति विचिन्त्य भक्षयेद्
अकारणात् को हि विचक्षणो विषम् ॥पन्च्_३.११३॥

परिवादः परिषदि न कथञ्चित् पण्डितेन वक्तव्यः ।
सत्यम् अपि तन् न वाच्यं यद् उक्तम् असुखावहं भवति ॥पन्च्_३.११४॥

सुहृद्भिर् आप्तैर् असकृद्-विचारितं
स्वयं हि बुद्ध्या प्रविचारिताश्रयम् ।
करोति कार्यं खलु यः स बुद्धिमान्
स एव लक्ष्म्या यशसां च भाजनम् ॥पन्च्_३.११५॥

एवं विचिन्त्य काको ऽपि प्रयातः । तदा-प्रभृत्य् अस्माभिः सह कौशिकानाम् अन्वया-गतं वैरम् अस्ति ।