तद् बलवताभियुक्त्स्यापसरण-समयो ऽयं न सन्धेर् विग्रहस्य च । एवम् अनुजीवि-मन्त्रो ऽपसरणस्य ।
अथ तस्य वचनम् आकर्ण्य प्रजीवनम् आह-भद्र ! त्वम् अप्य् आत्मनो ऽभिप्रायं वद ।
सो ऽब्रवीत्-देव ! मम सन्धि-विग्रह-यानानि त्रीण्य् अपि न प्रतिभान्ति । विशेषतश् चासनं प्रतिभाति । उक्तं च-
नक्रः स्व-स्थानम् आसाद्य
गजेन्द्रम् अपि कर्षति ।
स एव प्रच्युतः स्थानाच्
छुनापि परिभूयते ॥पन्च्_३.४५॥
तथा-
अभियुक्तो बलवता तिष्ठन् दुर्गे प्रयत्नवान् ।
तत्रस्थः सुहृदाह्वानं कुर्वीतात्म-विमुक्तये ॥पन्च्_३.४६॥
यो रिपोर् आगमं श्रुत्वा भय-सन्त्रस्त-मानसः ।
स्व-स्थानं हि त्यजेत् तत्र न तु भूयो विशेच् च सः ॥पन्च्_३.४७॥
दंष्ट्रा-विरहितः सर्पो मद-हीनो यथा गजः ।
स्थान-हीनस् तथा राजा गम्यः स्यात् सर्व-जन्तुषु ॥पन्च्_३.४८॥
निज-स्थान-स्थितो ऽप्य् एकः शतं योद्धुं सहेन् नरः ।
शक्तानाम् अपि शत्रूणां तस्मात् स्थानं न सन्त्यजेत् ॥पन्च्_३.४९॥
तस्माद् दुर्गं दृढं कृत्वा सुभटासार-संयुतम् ।
प्राकार-परिखा-युक्तं शस्त्रादिभिर् अलङ्कृतम् ॥पन्च्_३.५०॥
तिष्ठेन् मध्य-गतो नित्यं युद्धाय कृत-निश्चयः ।
जीवन् सम्प्राप्त्स्यति राज्यं मृतो वा स्वर्गम् एष्यति ॥पन्च्_३.५१॥ (युग्मकम्)
अन्यच् च-
बलिनापि न बाध्यन्ते लघवो ऽप्य् एक-संश्रयाः ।
विपक्षेणापि मरुता यथैक-स्थान-वीरुधाः ॥पन्च्_३.५२॥
महान् अप्य् एकजो वृक्षः बलवान् सुप्रतिष्ठितः ।
प्रसह्य इव वातेन शक्यो धर्षयितुं यतः ॥पन्च्_३.५३॥
अथ ये संहता वृक्षा सर्वतः सुप्रतिष्ठिताः ।
ते न रौद्रानिलेनापि हन्यन्ते ह्य् एक-संश्रयात् ॥पन्च्_३.५४॥
एवं मनुष्यम् अप्य् एकं शौर्येणापि समन्वितम् ।
शक्यं द्विषन्तो मन्यन्ते हिंसन्ति च ततः परम् ॥पन्च्_३.५५॥
एवं प्रजीव-मन्त्रः । इदम् आसन-संज्ञकम् ।
एतत् समाकर्ण्य चिरञ्जीविनं प्राह-भद्र ! त्वम् अपि स्वाभिप्रायं वद ।
सो ऽब्रवीत्-देव ! षाड्गुण्य-मध्ये मम संश्रयः सम्यक् प्रतिभाति । तत् तस्यानुष्ठानं कार्यम् । उक्तं च-
असहायः समर्थो ऽपि तेजस्वी किं करिष्यति ।
निर्वाते ज्वलितो वह्निः स्वयम् एव प्रशाम्यति ॥पन्च्_३.५६॥
सङ्गतिः श्रेयसी पुंसां स्व-पक्षे च विशेषतः ।
तुषैर् अपि परिभ्रष्टा न प्ररोहन्ति तण्डुलाः ॥पन्च्_३.५७॥
तद् अत्रैव स्थितेन त्वया कश्चित् समर्थः समाश्रयणीयः, यो विपत्-प्रतिकारं करोति । यदि पुनस् त्वं स्व-स्थानं त्यक्त्वान्यत्र यास्यसि । तत् को ऽपि ते वाङ्-मात्रेणापि सहायत्वं न करिष्यति । उक्तं च, यतः-
वनानि दहतो वह्नेः सखी भवति मारुतः ।
स एव दीप-नाशाय कृशे कस्यास्ति सौहृदम् ॥पन्च्_३.५८॥
अथवा नैतद् एकान्तं यद् बलिनम् एकं समाश्रयेत् । लघूनाम् अपि संश्रयो रक्षायै एव भवति । उक्तं च, यतः-
सङ्घातवान् यथा वेणुर् निविडैर् वेणुभिर् वृतः ।
न शक्येत समुच्छेत्तुं दुर्बलो ऽपि यथा नृपः ॥पन्च्_३.५९॥
यदि पुनर् उत्तम-संश्रयो भवति तत् किम् उच्यते ? उक्तं च-
महाजनस्य सम्पर्कः कस्य नोन्नति-कारकः ।
पद्म-पत्र-स्थितं तोयं धत्ते मुक्ता-फल-श्रियम् ॥पन्च्_३.६०॥
तद् एवं संश्रयं विना न कश्चित् प्रतीकारो भवति इति मेऽभिप्रायः । एवं चिरञ्जीवि-मन्त्रः ।
अथैवम् अभिहिते स मेघवर्णो राजा चिरन्तनं पितृ-सचिवं दीर्घायुषं सकल-नीति-शास्त्र-पारङ्गतं स्थिरजीवि-नामानं प्रणम्य प्रोवाच-तात ! यद् एते मया पृष्टाः सचिवास् तावद् अत्र-स्थितस्यापि तव तत्-परीक्षार्थम्, येन त्वं सकलं श्रुत्वा यद् उचितं तन् मे समादिशसि । तद् यद्य् उक्तं भवति तस् समादेश्यम् ।
स आह-वत्स ! सर्वैर् अप्य् एतैर् नीति-शास्त्राश्रयम् उक्तं सचिवैः । तद् उपयुज्यते स्व-कालोचितं सर्वम् एव । परम् एष द्वैधी-भावस्य कालः । उक्तं च-
अविश्वासं सदा तिष्ठेत्
सन्धिना विग्रहेण च ।
द्वैधी-भावं समाश्रित्य
पापे शत्रौ बलीयसि ॥पन्च्_३.६१॥
तच् छत्रुं विश्वास्य
+अविश्वस्तैर् लोभं दर्शयद्भिः सुखेनोच्छिद्यते रिपुः । उक्तं च-
उच्छेद्यम् अपि विद्वांसो
वर्धयन्त्य् अरिम् एकदा ।
गुडेन वर्धितः श्लेष्मा
यतो निःशेषतां व्रजेत् ॥पन्च्_३.६२॥
तथा च-
स्त्रीणां शत्रोः कुमित्रस्य पण्य-स्त्रीणां विशेषतः ।
यो भवेद् एक-भावो ऽत्र न स जीवति मानवः ॥पन्च्_३.६३॥
कृत्यं देव-द्विजातीनाम् आत्मनश् च गुरोस् तथा ।
एक-भावेन कर्तव्यं शेषं द्वैध-समाश्रितम् ॥पन्च्_३.६४॥
एको भावः सदा शस्तो यतीनां भावितात्मनाम् ।
श्री-लुब्धानां न लोकानां विशेषेण मही-भुजाम् ॥पन्च्_३.६५॥
तद् द्वैधीभावं संश्रितस्य तव स्व-स्थाने वासो भविष्यति, लोभाश्रयाच् च शत्रुम् उच्चाटयिष्यसि अपरं-यदि किञ्चिच् छिद्रं तस्य पश्यसि, तद् गत्वा व्यापादयिष्यसि ।
मेघवर्ण आह-तात मया सो ऽविदित संश्रयः । तत् कथं तस्य छिद्रं ज्ञास्यामि ?
स्थिरजीव्य् आह-वत्स ! न केवलं स्थानं, छिद्राण्य् अपि तस्य प्रकटीकरिष्यामि प्रणधिभिः । उक्तं च-
गावो गन्धेन पश्यन्ति वेदैः पश्यन्ति वै द्विजाः ।
चारै पश्यन्ति राजानश् चक्षुर्भ्याम् इतरे जनाः ॥पन्च्_३.६६॥
उक्तं चात्र विषये-
यस् तीर्थानि निजे पक्षे पर-पक्षे विशेषतः ।
गुप्तैश् चारैर् नृपो वेत्ति न स दुर्गतिम् आप्नुयात् ॥पन्च्_३.६७॥
मेघवर्ण आह-तात, कानि तीर्थान्य् उच्यन्ते ? कति सङ्ख्यानि च ? कीदृशा गुप्तचराः ? तत् सर्वं निवेद्यताम् इति ।
स आह-अत्र विषये भगवता नारदेन युधिष्ठिरः प्रोक्तः । यच् छत्रु-पक्षेऽष्टादश-तीर्थानि, स्व-पक्षे पञ्चदश । त्रिभिस् त्रिभिर् गुप्तचरैस् तानि ज्ञेयानि । तैर् ज्ञातैः स्व-पक्षः पर-पक्षश् च वश्यो भवति । उक्तं च नारदेन युधिष्ठिरं प्रति- कच्चिद् अष्टदशान्य् एषु स्व-पक्षे दश पञ्च च । त्रिभिस् त्रिभिर् अविज्ञातैर् वेत्सि तीर्थानि चारकैः ॥पन्च्_३.६८॥
तीर्थ-शब्देनायुक्त-कर्माभिधीयते । तद् यदि तेषां कुत्सितं भवति तत् स्वामिनो ऽभिघाताय, यदि प्रधानं भवति तद्-वृद्धये स्याद् इति । तद् यथा-मन्त्री, पुरोहितः, सेनापतिः, युवराजः, दौवारिकः, अन्तर्वासिकः, प्रशासकः, समाहर्तृ-सन्निधातृ-प्रदेष्टृ-ज्ञापकाः, साधनाध्यक्षः, गजाध्यक्षः, कोशाध्यक्षः, दुर्गपाल-करपाल-सीमापाल-प्रोत्कट-भृत्याः । एषां भेदेन द्राग् रिपुः साध्यते । स्व-पक्षे च देवी, जननी, कञ्चुकी, मालिकः, शय्या-पालकः, स्पशाध्यक्षः, सांवत्सरिकः, भिषग्, ताम्बूल-वाहकः, आचार्यः, अङ्ग-रक्षकः, स्थान-चिन्तकः, छत्रधरः, विलासिनी । एषां वैर-द्वारेण स्व-पक्षे विघातः । तथा च-
वैद्य-सांवत्सराचार्याः स्व-पक्षेऽधिकृताश् चराः ।
तथाहि-तुण्डिकोन्मत्ताः सर्वं जानन्ति शत्रुषु ॥पन्च्_३.६९॥
तथा च-
कृत्वा कृत्य-विदस् तीर्थेष्व् अन्तः प्रणिधयः पदम् ।
विदाङ्कुर्वन्तु महतस् तलं विद्विषद्-अम्भसः ॥पन्च्_३.७०॥