३-०१ मेघवर्णस्य चिन्ता

अथेदम् आरभ्यते काकोलूकीयं नाम तृतीयं तन्त्रम् । यस्यायम् आद्यः श्लोकः-

न विश्वसेत् पूर्व-विरोधितस्य
शत्रोश् च मित्रत्वम् उपागतस्य ।
दग्धां गुहां पश्य उलूक-पूर्णां
काक-प्रणीतेन हुताशनेन ॥पन्च्_३.१॥

तद् यथानुश्रुयते-अस्ति दक्षिणात्ये जनपदे महिलारोप्यं नाम नगरम् । तस्य समीपस्थो ऽनेक-शाखासनाथो ऽतिघनतर-पत्र-च्छन्नो न्यग्रोध-पादपो ऽस्ति । तत्र च मेघ-वर्णो नाम वायस-राजो ऽनेक-काक-परिवारः प्रतिवसति स्म । स तत्र विहित-दुर्ग-रचनः सपरिजनः कालं नयति । तथान्यो ऽरि-मर्दनो नामोलूक-राजो ऽसङ्ख्योलूक-परिवारो गिरि-गुहा-दुर्गाश्रयः प्रतिवसति स्म । स च रात्राव् अभ्येत्य सदैव तस्य न्यग्रोधस्य समन्तात् परिभ्रमति । अथोलूकराजः पूर्व-विरोध-वशाद्यं कञ्चिद् वायस-समासादयति । तं व्यापाद्य गच्छति । एवं नित्याभिगमनाच् छनैः शनैस् तन् न्यग्रोध-पादपद्-दुर्गं तेन समन्तान् निर्वायसं कृतम् । अथवा भवत्य् एवम् । उक्तं च-

य उपेक्षेत शत्रुं स्वं प्रसरन्तं यदृच्छया ।
रोगं चालस्य-संयुक्तः स शनैस् तेन हन्यते ॥पन्च्_३.२॥

तथा च-

जात-मात्रं न यः शत्रुं व्याधिं च प्रशमं नयेत् ।
महाबलो ऽपि तेनैव वृद्धिं प्राप्य स हन्यते ॥पन्च्_३.३॥
+++(सम्पादकटिप्पनी- पुस्तकेऽत्र भिन्नः पाठः ।)+++

  • जातमात्रं न यः शत्रुं व्याधिं च प्रशमं नयेत् ।
    अतिपुष्टाङ्गयुक्तोऽपि स पश्चात्तेन हन्यते ॥३.३॥ +++(पुस्तकेऽयं पाठः ।)+++

अथान्येद्युः स वायस-राजः सर्वान् सचिवान् आहूय प्रोवाच-भोः ! उत्कटस् तावद् अस्माकं शत्रुर् उद्यम-सम्पन्नश् च कालविच् च नित्यम् एव निशागमे समेत्यास्मत्-पक्ष-कदनं करोति । तत् कथम् अस्य प्रतिविघातव्यम् ? वयं तावद् रात्रौ न पश्यामः । न च दिवा दुर्गं विजानीमो येन गत्वा प्रहरामः । तद् अत्र किं युज्यते सन्धि-विग्रह-यानासन-संश्रय–द्वैधी-भावानां मध्यात् । अथ ते प्रोचुः-युक्तम् अभिहितं देवेन यद् एष प्रश्नः कृतः । उक्तं च-

अपृष्टेनापि वक्तव्यं सचिवेनात्र किंचन ।
पृष्टेन तु विशेषेण वाच्यं पथ्यं महीपतेः ॥पन्च्_३.४॥
+++(सम्पादकटिप्पनी - पुस्तकेऽत्र पाठभेदः ।)+++

  • अपृष्टेनापि वक्तव्यं सचिवेनात्र किंचन ।
    पृष्टेन तु ऋतं पथ्यं वाच्यञ्च प्रियमप्रियम् ॥४॥

यो न पृष्टो हितं ब्रूते परिणामे सुखावहम् ।
मन्त्रो न प्रिय-वक्ता च केवलं स रिपुः स्मृतम् ॥पन्च्_३.५॥
तस्माद् एकान्तम् आसाद्य कार्यो मन्त्रो महीपते ।
येन तस्य वयं कुर्मो नियमं कारणं तथा ॥पन्च्_३.६॥

  • अथ स मेघवर्णः अन्वयागतोज्जीवि-सञ्जीवि-अनुजीवि-प्रजीवि-चिरञ्जीविनाम्नः पञ्च सचिवान् प्रत्येकं प्रष्टुमारब्धः । तत्र एतेषामादौ तावदुज्जीविनं पृष्टवान् - “भद्र! एवं स्थिते किं मन्यते भवान्?” स आह - “राजन् ! बलवता सह विग्रहो न कार्य्यः । यथा स बलवान् कालप्रहर्त्ता च।” +++(सम्पादकटिप्पनी- अत्र पुस्तकेऽमधिकः पाठः ।)+++

उक्तं च-

बलीयसि प्रणमतां काले प्रहरताम् अपि ।
सम्पदो नावगच्छन्ति प्रतीपम् इव निम्नगाः ॥पन्च्_३.७॥

सत्याढ्यो धार्मिकश् चार्यो भ्रातृ-सङ्घातवान् बली ।
अनेक-विजयी चैव सन्धेयः स रिपुर् भवेत् ॥पन्च्_३.८॥

सन्धिः कार्यो ऽप्य् अनार्येण विज्ञाय प्राण-संशयम् ।
प्राणैः संरक्षितैः सर्वं यतो भवति रक्षितम् ॥पन्च्_३.९॥

  • येन अनेकयुद्धविजयी स तेन विशेषात् सन्दधनीयः । उक्तञ्च - +++(सम्पादकटिप्पनी- पुस्तकेऽत्रायम् अधिकः पाठः ।)+++

अनेक-युद्ध-विजयी सन्धानं यस्य गच्छति ।
तत्-प्रभावेण तस्याशु वशं गच्छन्त्य् अरातयः ॥पन्च्_३.१०॥

सन्धिम् इच्छेत् समेनापि सन्दिग्धो विजयी युधि ।
न हि सांशयिकं कुर्याद् इत्य् उवाच बृहस्पतिः ॥पन्च्_३.११॥

सन्दिग्धो विजयो युद्धे जनानाम् इह युद्ध्यताम् ।
उपाय-त्रितयाद् ऊर्ध्वं तस्माद् युद्धं समाचरेत् ॥पन्च्_३.१२॥

असन्दधानो मानान्धः समेनापि हतो भृशम् ।
आमकुम्भम् इवाभित्त्वा नावतिष्ठेत शक्तिमान् ॥पन्च्_३.१३॥

समं शक्तिमता युद्धम् अशक्तस्य हि मृत्यवे ।
वृषत्कुम्भं यथा भित्त्वा तावत् तिष्ठति शक्तिमान् ॥पन्च्_३.१४॥

अन्यच् च-

भूमिर् मित्रं हिरण्यं वा विग्रहस्य फल-त्रयम् ।
नास्त्य् एकम् अपि यद्य् एषां विग्रहं न समाचरेत् ॥पन्च्_३.१५॥

खनन्न् आखु-बिलं सिंहः पाषाण-शकलाकुलम् ।
प्राप्नोति नख-भङ्गं हि फलं वा मूषको भवेत् ॥पन्च्_३.१६॥

तस्मान् न स्यात् फलं यत्र पुष्टं युद्धं तु केवलम् ।
न हि तत् स्वयम् उत्पाद्यं कर्तव्यं न कथञ्चन ॥पन्च्_३.१७॥

बलीयसा समाक्रान्तो वैतसीं वृत्तिम् आश्रयेत् ।
वाञ्छन्न् अभ्रंशिनीं लक्ष्मीं न भौजङ्गी कदाचन ॥पन्च्_३.१८॥

कुर्वन् हि वैतसीं वृत्तिं प्राप्नोति महतीं श्रियम् ।
भुजङ्ग-वृत्तिम् आपन्नो वधम् अर्हति केवलम् ॥पन्च्_३.१९॥

कौर्मं सङ्कोचम् आस्थाय प्रहारान् अपि मर्षयेत् ।
काले काले च मतिमान् उत्तिष्ठेत् कृष्ण-सर्पवत् ॥पन्च्_३.२०॥

आगतं विग्रहं विद्वान् उपायैः प्रशमं नयेत् ।
विजयस्य ह्य् अनित्यत्वाद् रभसेन न सम्पतेत् ॥पन्च्_३.२१॥

बलिना सह योद्धव्यम् इति नास्ति निदर्शनम् ।
प्रतिवातं न हि घनः कदाचिद् उपसर्पति ॥पन्च्_३.२२॥

  • एवमुज्जीवी साममन्त्रं सन्धिकारं क्लृप्तवान् ।अथ तच्छ्रुत्वा सञ्जीविनमाह, - “भद्र ! तव अभिप्रायमपि श्रोतिमिच्छामि” । स आह,-“देव ! न मम एतत् प्रतिभाति यच्छत्रुणा सह सन्धिः क्रियते ।” उक्तञ्च यतः- +++(सम्पादकटिप्पनी - पुस्तकेऽयमत्राधिकः पाठः ।)+++

शत्रुणा न हि सन्दध्यात् सुश्लिष्टेनापि सन्धिना ।
सुतप्तम् अपि पानीयं शमयत्य् एव पावकम् ॥पन्च्_३.२३॥

  • अपरं च स क्रूरोऽत्यन्तलुब्धो धर्मरहितः । तत् त्वया विशेषात् न सन्धेयः । +++(सम्पादकटिप्पनी - पुस्तकेऽयमत्राधिकः पाठः ।)+++

उक्तं च-

सत्य-धर्म-विहीनेन न सन्दध्यात् कथञ्चन ।
सुगन्धितो ऽप्य् असाधुत्वाद् अचिराद् याति विक्रियाम् ॥पन्च्_३.२४॥

तस्मात् तेन योद्धव्यम् इति मे मतिः । उक्तं च यतः-

क्रूरो लुब्धो ऽलसो ऽसत्यः प्रमादी भीरुर् अस्थिरः ।
मूढो योधावमन्ता च सुखोच्छेद्यो भवेद् रिपुः ॥पन्च्_३.२५॥

अपरं तेन पराभूता वयम् । तद् यदि सन्धान-कीर्तनं करिष्यामस् तद् भूयो ऽत्यन्तं कोपं करिष्यति । उक्तं च-

चतुर्थोपाय-साध्ये तु रिपौ सान्त्वम् अपक्रिया ।
स्वेद्यम् आम-ज्वरं प्राज्ञः को ऽम्भसा परिषिञ्चति ॥पन्च्_३.२६॥

सामवादाः सकोपस्य शत्रोः प्रत्युत दीपिकाः ।
प्रतप्तस्येव सहसा सर्पिषस् तोय-बिन्दवः ॥पन्च्_३.२७॥

  • यदेव एतद्वदति रिपुर्बलवान् तदप्यकारणम् । उक्तञ्च यतः - +++(सम्पादकटिप्पनी- पुस्तकेऽयमत्राधिकः पाठः ।)+++

प्रमाणाभ्यधिकस्यापि महत्-सत्त्वम् अधिष्ठितः ।
पदं मूर्ध्नि समाधत्ते केसरी मत्त-दन्तिनः ॥पन्च्_३.२८॥
+++(सम्पादकटिप्पनी - पुस्तके इदं पद्यं नास्ति ।)+++

उत्साह-शक्ति-सम्पन्नो हन्याच् छत्रुं लघुर् गुरुम् ।
यथा कण्ठीरवो नागं भारद्वाजः प्रचक्षते ॥पन्च्_३.२९॥

मायया शत्रवो वध्या अवध्याः स्युर् बलेन ये ।
यथा स्त्री-रूपम् आस्थाय हतो भीमेन कीचकः ॥पन्च्_३.३०॥

तथा च-

मृत्योर् इवोग्र-दण्डस्य राज्ञो यान्ति वशं द्विषः ।
सर्वंसहं तु मन्यन्ते तृणाय रिपवश् च तम् ॥पन्च्_३.३१॥
+++(सम्पादकटिप्पनी - पुस्तकेऽत्र पाठभेदः)+++

  • मृत्योरिवोग्रदण्डस्य राज्ञो यान्ति वशं द्विषः ।
    शष्पतुल्यं हि मन्यन्ते दयालुं रिपवो नृपम् ॥३.३१॥

न जातु +++(“याति” इति पुस्तके)+++ शमनं यस्य तेजस् तेजस्वि-तेजसाम् ।
वृथा जातेन किं तेन मातुर् यौवन-हारिणा ॥पन्च्_३.३२॥

या लक्ष्मीर् नानुलिप्ताङ्गी वैर्-शोणित-कुङ्कुमैः ।
कान्तापि मनसः प्रीतिं न सा धत्ते मनस्विनाम् ॥पन्च्_३.३३॥

रिपु-रक्तेन संसिक्ता तत्-स्त्री-नेत्राम्बुभिस् तथा ।
न भूमिर् यस्य भूपस्य का श्लाघा तस्य जीविते ॥पन्च्_३.३४॥

  • एवं सञ्जीवी विग्रहमन्त्रं विज्ञापयामास । अथ तच्छ्रुत्वा अनुजीविनमपृच्छत्-“भद्र ! त्वमपि स्वाभिप्रायं निवेदय” । सोऽब्रवीत् - “देव ! दुष्टः स बलाधिको निर्मर्य्यादश्च तत् तेन सह सन्धिविग्रहौ न युक्तौ केवलं यानमर्हं स्यात् ।” उक्तञ्च- +++(सम्पादकटिप्पनी- पुस्तके अधिकः पाठः ।)+++

बलोत्कटेन दुष्टेन मर्यादा-रहितेन च ।
न सन्धि-विग्रहौ नैव विना यानं प्रशस्यते ॥पन्च्_३.३५॥

द्विधाकारं भवेद् यानं भवेत् प्राणार्थ-रक्षणम् ।
एकम् अन्यज् जिगीषोश् च यात्रालक्षणम् उच्यते ॥पन्च्_३.३६॥

कार्त्तिके वाथ चैत्रे वा विजिगीषोः प्रशस्यते । यानम् उत्कृष्ट-वीर्यस्य शत्रु-देशे न चान्यदा ॥पन्च्_३.३७॥

अवस्कन्द-प्रदानस्य सर्वे कालाः प्रकीर्तिताः ।
व्यसने वर्तमानस्य शत्रोच्छिद्रान्वितस्य च ॥पन्च्_३.३८॥

स्वस्थानं सुदृढं कृत्वा शूरैश् चातैर् महाबलैः ।
पर-देशं ततो गच्छेत् प्रणिधि-व्याप्तम् अग्रतः ॥पन्च्_३.३९॥

अज्ञातवी-वधासार-तोय-शस्यो व्रजेत् तु यः ।
पर-राष्ट्रं न भूयः स स्व-राष्ट्रम् अधिगच्छति ॥पन्च्_३.४०॥

तत् ते युक्तं कर्तुम् अपसरणम् । अन्यच् च-

तन् न युक्तं प्रभो कर्तुं द्वितीयं यानम् एव च ।
न विग्रहो न सन्धानं बलिना तेन पापिना ॥पन्च्_३.४१॥ +++(सम्पादकटिप्पनी - पुस्तकेऽन्यथा पाठः ।)+++

  • न विग्रहं न सन्धानं बलिना तेन पापिना ।
    कार्य्यलाभमपेक्ष्यापसरणं क्रियते बुधैः ॥ +++( पुस्तके इत्थं पाठः ।)+++

अपरं कारणापेक्षयापसरणं क्रियते बुधैः । उक्तं च-

यद् अपसरति मेषः कारणं तत् प्रहर्तुं
मृग-पतिर् अपि कोपात् सङ्कुचत्य् उत्पतिष्णुः ।
हृदय-निहित-भावा गूढ-मन्त्र-प्रचाराः
किम् अपि विगणयन्तो बुद्धिमन्तः सहन्ते ॥पन्च्_३.४२॥

अन्यच् च-
बलवन्तं रिपुं दृष्ट्वा देश-त्यागं करोति यः ।
युधिष्ठिर इवाप्नोति पुनर् जीवन् स मेदिनीम् ॥पन्च्_३.४३॥

युध्यतेऽहङ्कृतिं कृत्वा दुर्बलो यो बलीयसा ।
स तस्य वाञ्छितं कुर्याद् आत्मनश् च कुल-क्षयम् ॥पन्च्_३.४४॥