२-०६ वायसोपायेन मन्थरकरक्षणम्

एवं विचिन्त्य तं दर्भैः सञ्छाद्य धनुषु समारोप्य स्कन्धे कृत्वा गृहं प्रति प्रस्थितः । अत्रान्तरे तं नीयमानम् अवलोक्य हिरण्यको दुःखाकुलः पर्यदेवयत्-कष्टं भोः कष्टम् आपतितम् ।

एकस्य दुःखस्य न यावद् अन्तं
गच्छाम्य् अहं पारम् इवार्णवस्य ।
तावद् द्वितीयं समुपस्थितं मे
छिद्रेष्व् अनर्था बहुली-भवन्ति ॥पन्च्_२.१८३॥

तावद् अस्खलितं यावत् सुखं याति समे पथि ।
स्खलिते च समुत्पन्ने विषमे च पदे पदे ॥पन्च्_२.१८४॥

यन् नम्रं सरलं चापि यच् चापत्सु न सीदति ।
धनुर् मित्रं कलत्रं च दुर्लभं शुद्ध-वंशजम् ॥पन्च्_२.१८५॥

न मातरि न दारेषु न सोदर्ये न चात्मजे ।
विश्रम्भस् तादृशः पुंसां यादृङ् मित्रे निरन्तरे ॥पन्च्_२.१८६॥

यदि तावत् कृतान्तेन मे धन-नाशो विहितस् तन्-मार्ग-श्रान्तस्य मे विश्राम-भूतं मित्रं कस्माद् अपहृतं । अपरम् अपि मित्रं परं मन्थरक-समं न स्यात् । उक्तं च-

असम्पत्तौ परो लाभो गुह्यस्य कथनं तथा ।
आपद्-विमोक्षणं चैव मित्रस्यैतत् फल-त्रयम् ॥पन्च्_२.१८७॥

तद् अस्य पश्चान् नान्यः सुहृन् मे । तत् किं ममोपर्य् अनवरतं व्यसन-शरैर् वर्षति हन्त विधिः । यत आदौ तावद् वित्त-नाशस् ततः परिवार-भ्रंशस् ततो देश-त्यागस् ततो मित्र-वियोग इति । अथवा स्वरूपम् एतत् सर्वेषाम् एव जन्तूनां जीवित-धर्मस्य । उक्तं च-

कायः संनिहितापायः सम्पदः पदम् आपदाम् ।
समागमाः सापगमाः सर्वम् उत्पादि भङ्गुरम् ॥पन्च्_२.१८८॥

तथा च-

क्षते प्रहारा निपतन्त्य् अभीक्ष्णं
धन-क्षये वर्धति जाठराग्निः ।
आपत्सु वैराणि समुद्भवन्ति
च्छिद्रेष्व् अनर्था बहुली-भवन्ति ॥पन्च्_२.१८९॥

अहो साधूक्तं केनापि ।

प्राप्ते भये परित्राणं प्रीति-विश्रम्भ-भाजनं ।
केन रत्नम् इदं सृष्टं मित्रम् इत्य् अक्षर-द्वयं ॥पन्च्_२.१९०॥

अत्रान्तरे आक्रन्द-परौ चित्राङ्ग-लघुपतनकौ तत्रैव समायातौ । अथ हिरण्यक आह-अहो किं वृथा-प्रलपितेन । तद् यावद् एष मन्थरको दृष्टि-गोचरान् न नीयते तावद् अस्य मोक्षोपायश् चिन्त्यताम् इति । उक्तं च-

व्यसनं प्राप्य यो मोहात् केवलं परिदेवयेत् ।
क्रन्दनं वर्धयत्य् एव तस्यान्तं नाधिगच्छति ॥पन्च्_२.१९१॥

केवलं व्यसनस्योक्तं भेषजं नय-पण्डितैः ।
तस्योच्छेद-समारम्भो विषाद-परिवर्जनं ॥पन्च्_२.१९२॥

अन्यच् च-

अतीत-लाभस्य सुरक्षणार्थं
भविष्य-लाभस्य च सङ्गमार्थम् ।
आपत्-प्रपन्नस्य च मोक्षणार्थं
यन् मन्त्र्यतेऽसौ परमो हि मन्त्रः ॥पन्च्_२.१९३॥

तच् छ्रुत्वा वायस आह-भो यद्य् एवं तत् क्रियतां मद्-वचः । एष चित्राङ्गो ऽस्य मार्गे गत्वा किंचित् पल्वलम् आसाद्य तस्य तीरे निश्चेतनो भूत्वा पततु । अहम् अप्य् अस्य शिरसि समारुह्य मन्दैश् चञ्चु-प्रहारैः शिर उल्लेखिष्यामि येनासौ लुब्धको ऽमुं मृतं मत्वा मम चञ्चु-प्रहार-प्रत्ययेन मन्थरकं भूमौ क्षिप्त्वा मृगार्थे धावति । अत्रान्तरे त्वया दर्भ-मय-बन्धन-वेष्टनानि खण्डनीयानि येनासौ मन्थरको द्रुततरं पल्वलं प्रविशति ।

चित्राङ्गः प्राह-भो भद्रो ऽयं दृष्टो मन्त्रस् त्वया । नूनं मन्थरको मुक्तो मन्तव्यः । उक्तं च-

सिद्धिं वा यदि वासिद्धिं चित्तोत्साहो निवेदयेत् ।
प्रथमं सर्व-जन्तूनां प्राज्ञो वेत्ति न चेतरः ॥पन्च्_२.१९४॥

तत् तद् एवं क्रियताम् । तथानुष्ठिते स लुब्धकस् तथैव मार्गासन्न-पल्वल-तीरस्थं चित्राङ्गं वायस-सनाथम् अद्राक्षीत् । तं दृष्ट्वा हर्षित-मना व्यचिन्तयत् । नूनं पाश-वेदनया वराको ऽयं मृगो गत्वायुः-शेष-जीवितः पाशं त्रोटयित्वा कथम् अप्य् एतद् वनान्तरं प्रविष्टो यावन् मृतः । तद् वश्यो ऽयं मे कच्छपः सुयन्त्रितत्वात् । तद् एनम् अपि तावद् गृह्णामीत्य् अवर्धाय कच्छपं भू-तले प्रक्षिप्य मृगम् उपाद्रवत् ।

अत्रान्तरे हिरण्यकेन वज्रोपम-दंष्ट्रा-प्रहारेण तद् दर्भ-वेष्टनं तत्-क्षणात् खण्डशः कृतं । मन्थरको ऽपि तृण-मध्यान् निष्क्रम्य पल्वलं प्रविष्टः । चित्राङ्गो ऽप्य् अप्राप्तस्यापि तस्योत्थाय वायसेन सह द्रुतं प्रनष्टः । अत्रान्तरे विलक्षो विषाद-परो निवृत्तो लुब्धको यावत् पश्यति तावत् कच्छपो ऽपि गतः । ततश् च तत्रोपविश्येमं श्लोकम् अपठत्-

प्राप्तो बन्धनम् अप्य् अयं गुरु-मृगस् तावत् त्वया मे हृतः
सम्प्राप्तः कमठः स चापि नियतं नष्टस् तवादेशतः ।
क्षुत्-क्षामो ऽत्र वने भ्रमामि शिशुकैस् त्यक्तः समं भार्यया
यच् चान्यन् न कृतं कृतान्त कुरुते तच् चापि सह्यं मया ॥पन्च्_२.१९५॥

एवं बहु-विधं विलप्य स्व-गृहं गतः । अथ तस्मिन् दूरी-भूते सर्वेऽपि ते काक-कूर्म-मृगाखवः परमानन्द-भाजो मिलित्वा परस्परम् आलिङ्ग्य पुनर् जातान् इवात्मनो मन्यमानस् तद् एव सरः प्राप्य महा-सुखेन सुभाषित-गोष्ठी-विनोदं कुर्वन्तः कालं नयन्ति स्म । एवं ज्ञात्वा विवेकिना मित्र-सङ्ग्रहः कार्यः । तथा मित्रेण सहाव्याजेन वर्तितव्यम् । उक्तं च-

यो मित्राणि करोत्य् अत्र न कौटिल्येन वर्तते ।
तैः समं न पराभूतिं सम्प्राप्नोति कथञ्चन ॥पन्च्_२.१९६॥

इति श्री-विष्णु-शर्म-विरचिते पञ्चतन्त्रे मित्र-सम्प्राप्तिर् नाम
द्वितीयं तन्त्रं समाप्तम्
॥२॥