अथैकस्मिन्न् अहनि गोष्ठी-समये मृगो नायातः । अथ ते व्याकुलीभूताः परस्परं जल्पितुम् आरब्धाः । “अहो किम् अद्य सुहृन् न समायातः । किं सिंहादिभिः क्वचिद् व्यापादित उत लुब्धकैर्, अथ वानले, प्रपतितो गर्ता-विषमे वा नव-तृण-लौल्याद्” इति । अथवा साध्व् इदम् उच्यते-
स्व-गृहोद्यान-गतेऽपि
स्निग्धैः पापं विशङ्क्यते मोहात् ।
किम् उ दृष्ट-बह्व्-अपाय-
प्रतिभय-कान्तार-मध्य-स्थे ॥पन्च्_२.१७३॥
अथ मन्थरको वायसम् आह-भो लघुपतनकाहं हिरण्यकश् च तावद् द्वाव् अप्य् अशक्तौ तस्यान्वेषणं कर्तुं मन्दगतित्वात् । तद् गत्वा त्वम् अरण्यं शोधय यदि कुत्रचित् तं जीवन्तं पश्यसीति ।
तद् आकर्ण्य लघुपतनको नातिदूरे यावद् गच्छति तावत् पल्वल-तीरे चित्राङ्गः कूट-पाश-नियन्त्रितस् तिष्ठति । तं दृष्ट्वा शोक-व्याकुलित-मनास् तम् अवोचत् । भद्र किम् इदम् ? चित्राङ्गो ऽपि वायसम् अवलोक्य विशेषेण दुःखित-मना बभूव । अथवा युक्तम् एतत्-
अपि मन्दत्वम् आपन्नो नष्टो वापीष्ट-दर्शनात् ।
प्रायेण प्राणिनां भूयो दुःखावेगो ऽधिको भवेत् ॥पन्च्_२.१७४॥
ततश् च वाष्पावसाने चित्राङ्गो लघुपतनकम् आह-भो मित्र संजातो ऽयं तावन् मम मृत्युः । तद् युक्तं सम्पन्नं यद् भवता सह मे दर्शनं सञ्जातम् । उक्तं च-
प्राणात्यये समुत्पन्ने यदि स्यान् मित्र-दर्शनं ।
तद् द्वाभ्यां सुख-दं पश्चाज् जीवतो ऽपि मृतस्य च ॥पन्च्_२.१७५॥
तत् क्षन्तव्यं यन् मया प्रणयात् सुभाषित-गोष्ठीष्व् अभिहितं । तथा हिरण्यक-मन्थरकौ मम वाक्याद् वाच्यौ ।
अज्ञानाज् ज्ञानतो वापि दुरुक्तं यद् उदाहृतम् ।
मया तत् क्षम्यताम् अद्य द्वाभ्याम् अपि प्रसादतः ॥पन्च्_२.१७६॥
तच् छ्रुत्वा लघुपतनक आह-भद्र न भेतव्यम् अस्मद्-विधैर् मित्रैर् विद्यमानैः । यावद् अहं द्रुततरं हिरण्यकं गृहीत्वागच्छामि । अपरं ये सत्-पुरुषा भवन्ति ते व्यसने न व्याकुलत्वम् उपयान्ति । उक्तं च-
सम्पदि यस्य न हर्षो विपदि विषादो रणे न भीरुत्वं ।
तं भुवन-त्रय-तिलकं जनयति जननी सुतं विरलं ॥पन्च्_२.१७७॥
एवम् उक्त्वा लघुपतनकश् चित्राङ्गम् आश्वास्य यत्र हिरण्यक-मन्थरकौ तिष्ठतस् तत्र गत्वा सर्वं चित्राङ्ग-पाश-पतनं कथितवान् । हिरण्यकं च चित्राङ्ग-पाश-मोक्षणं प्रति कृत-निश्चयं पृष्ठम् आरोप्य भूयो ऽपि सत्वरं चित्राङ्ग-समीपे गतः । सो ऽपि मूषकम् अवलोक्य किंचिज् जीविताशया संश्लिष्ट आह-
आपन्-नाशाय विबुधैः कर्तव्याः सुहृदो ऽमलाः ।
न तरत्य् आपदं कश्चिद् यो ऽत्र मित्र-विवर्जितः ॥पन्च्_२.१७८॥
हिरण्यक आह-भद्र त्वं तावन् नीति-शास्त्र-ज्ञो दक्ष इति । तत् कथम् अत्र कूट-पाशे पतितः ?
स आह-भो न कालो ऽयं विवादस्य । तन् न यावत् स पापात्मा लुब्धकः समभ्येति तावद् द्रुततरं कर्तयेमं मत्-पाद-पाशं ।
तद् आकर्ण्य विहस्याह हिरण्यकः-किं मय्य् अपि समायाते लुब्धकाद् बिभेषि ततः शास्त्रं प्रति महती मे विरक्तिः सम्पन्ना यद् भवद्-विधा अपि नीति-शास्त्र-विद एताम् अवस्थां प्राप्नुवन्ति । तेन त्वां पृच्छामि ।
स आह-भद्र कर्मणा बुद्धिर् अपि हन्यते । उक्तं च-
कृतान्त-पाश-बद्धानां दैवोपहत-चेतसां ।
बुद्धयः कुब्ज-गामिन्यो भवन्ति महताम् अपि ॥पन्च्_२.१७९॥
विधात्रा रचिता या सा ललाटेऽक्षर-मालिका ।
न तां मार्जयितुं शक्ताः स्व-शक्त्याप्य् अतिपण्डिताः ॥पन्च्_२.१८०॥
एवं तयोः प्रवदतोः सुहृद्-व्यसन-सन्तप्त-हृदयो मन्थरकः शनैः शनैस् तं प्रदेशम् आजगाम । तं दृष्ट्वा लघुपतनको हिरण्यकम् आह-अहो न शोभनम् आपतितम् । हिरण्यक आह-किं स लुब्धकः समायाति ?
स आह-आस्तां तावल् लुब्धक-वार्ता । एष मन्थरकः समागच्छति । तद् अनीतिर् अनुष्ठितानेन यतो वयम् अप्य् अस्य कारणान् नूनं व्यापादनं यास्यामो यदि स पापात्मा लुब्धकः समागमिष्यति । तद् अहं तावत् खम् उत्पतिष्यामि । त्वं पुनर् बिलं प्रविष्यात्मानं रक्षयिष्यसि । चित्राङ्गो ऽपि वेगेन दिग्-अन्तरं यास्यति । एष पुनर् जलचरः स्थले कथं भविष्यतीति व्याकुलो ऽस्मि । अत्रान्तरे प्राप्तो ऽयं मन्थरकः ।
हिरण्यक आह-भद्र, न युक्तम् अनुष्ठितं भवता यद् अत्र समायातः । तद् भूयो ऽपि द्रुततरं गम्यतां यावद् असौ लुब्धको न समायाति ।
मन्थरक आह-भद्र, किं करोमि ? न शक्नोमि तत्र-स्थो मित्र-व्यसनाग्नि-दाघं सोढुम् । तेनाहम् अत्रागतः । अथवा साध्व् इदम् उच्यते-
दयित-जन-विप्रयोगो वित्त-वियोगश् च सह्याः स्युः ।
यदि सुमहौषध-कल्पो वयस्य-जन-संगमो न स्यात् ॥पन्च्_२.१८१॥
वरं प्राण-परित्यागो न वियोगो भवादृशैः ।
प्राणा जन्मान्तरे भूयो न भवन्ति भवद्-विधाः ॥पन्च्_२.१८२॥
एवं तस्य प्रवदत आकर्ण-पूरित-शरासनो लुब्धको ऽप्य् उपागतः । तं दृष्ट्वा मूषकेण तस्य स्नायु-पाशस् तत्-क्षणात् खण्डितः । अत्रान्तरे चित्राङ्गः सत्वरं पृष्ठम् अवलोकयन् प्रधावितः । लघुपतनको वृक्षम् आरूढः । हिरण्यकश् च समीप-वर्ति बिलं प्रविष्टः । अथासौ लुब्धको मृग-गमनाद् विषण्ण-वदनो व्यर्थ-श्रमस् तं मन्थरकं मन्दं मन्दं स्थल-मध्ये गच्छन्तं दृष्टवान् । अचिन्तयच् च-यद्य् अपि कुरङ्गो धात्रापहृतस् तथाप्य् अयं कूर्म आहारार्थं सम्पादितः । तद् अद्यास्यामिषेण मे कुटुम्बस्याहार-निर्वृत्तिर् भविष्यति ।