२-०४ चित्राङ्गमैत्रिसम्प्राप्तिः

अथैवं जल्पतां तेषां चित्राङ्गो नाम हरिणो लुब्धक-त्रासितस् तस्मिन्न् एव सरसि प्रविष्टः । अथायान्तं स-सम्भ्रमम् अवलोक्य लघुपतनको वृक्षम् आरूढः । हिरण्यकः शरस्तम्बं प्रविष्टः । मन्थरकः सलिलाशयम् आस्थितः । अथ लघुपतनको मृगं सम्यक् परिज्ञाय मन्थरकम् उवाच-एह्य् एहि सखे मन्थरक ! मृगो ऽयं तृषार्तो ऽत्र समायातः सरसि प्रविष्टः । तस्य शब्दो ऽयं न मानुष-सम्भव इति ।

तच् छ्रुत्वा मन्थरको देश-कालोचितम् आह-भो लघुपतनक ! यथायं मृगो दृश्यते प्रभूतम् उच्छ्वासम् उद्वहन्न् उद्भ्रान्त-दृष्ट्या पृष्ठतो ऽवलोकयति तन् न तृषार्त एष नूनं लुब्धक-त्रासितः । तज् ज्ञायताम् अस्य पृष्ठे लुब्धका आगच्छन्ति न वेति । उक्तं च-

भय-त्रस्तो नरः श्वासं प्रभूतं कुरुते मुहुः ।
दिशो ऽवलोकयत्य् एव न स्वास्थ्यं व्रजति क्वचित् ॥पन्च्_२.१६८॥

तच् छ्रुत्वा चित्राङ्ग आह-भो मन्थरक ! ज्ञातं त्वया सम्यङ् मे त्रास-कारणम् । अहं लुब्धक-शर-प्रहाराद् उद्धारितः कृच्छ्रेणात्र समायातः । मम यूथं तैर् लुब्धकैर् व्यापादितं भविष्यति । तच् छरणागतस्य मे दर्शय किंचिद् अगम्यं स्थानं लुब्धकानाम् ।

तद् आकर्ण्य मन्थरक आह-भोश् चित्राङ्ग ! श्रूयतां नीति-शास्त्रम् ।

द्वाव् उपायाव् इह प्रोक्तौ विमुक्तौ शत्रु-दर्शने ।
हस्तयोश् चालनाद् एको द्वितीयः पाद-वेग-जः ॥पन्च्_२.१६९॥

तद् गम्यतां शीघ्रं घनं वनं यावद् अद्यापि नागच्छन्ति ते दुरात्मानो लुब्धकाः ।

अत्रान्तरे लघुपतनकः सत्वरम् अभ्युपेत्योवाच-भो मन्थरक ! गतास् ते लुब्धकाः स्व-गृहोन्मुखाः प्रचुर-मांस-पिण्ड-धारिणः । तच् चित्राङ्ग ! त्वं विश्रब्धो जलाद् बहिर् भव ।

ततस् ते चत्वारो ऽपि मित्र-भावम् आश्रितास् तस्मिन् सरसि मध्याह्न-समये वृक्ष-च्छायाधस्तात् सुभाषित-गोष्ठी-सुखम् अनुभवन्तः सुखेन कालं नयन्ति । अथवा युक्तम् एतद् उच्यते-

सुभाषित-रसास्वाद-बद्ध-रोमाञ्च-कञ्चुकं ।
विनापि संगमं स्त्रीणां कवीनां सुखम् एधते ॥पन्च्_२.१७०॥

सुभाषित-मय-द्रव्य-सङ्ग्रहं न करोति यः ।
स तु प्रस्ताव-यज्ञेषु कां प्रदास्यति दक्षिणाम् ॥पन्च्_२.१७१॥

तथा च-

सकृद् उक्तं न गृह्णाति स्वयं वा न करोति यः ।
यस्य संपुटिका नास्ति कुतस् तस्य सुभाषितम् ॥पन्च्_२.१७२॥