२-०३ मन्थरकमैत्रि-सम्प्राप्तिः

तच् छ्रुत्वा हिरण्यकस् तत्-क्षणाद् एव तद् उपरि समारूढः । सो ऽपि शनैः शनैस् तम् आदाय सम्पातोड्डीन-प्रस्थितः क्रमेण तत्-सरः प्राप्तः । ततो लघुपतनकं मूषकाधिष्ठितं विलोक्य दूरतो ऽपि देश-काल-विद-सामान्य-काको ऽयम् इति ज्ञात्वा सत्वरं मन्थरको जले प्रविष्टः । लघुपतनको ऽपि तीरस्थ-तरु-कोटरे हिरण्यकं मुक्त्वा शाखाग्रम् आरुह्य तार-स्वरेण प्रोवाच-भो मन्थरक ! आगच्छागच्छ । तव मित्रम् अहं लघुपतनको नाम वायसश् चिरात् सोत्कण्ठः समायातः । तद् आगत्यालिङ्गय माम् । उक्तं च-

किं चन्दनैः स-कर्पूरैस् तुहिनैः किं च शीतलैः ।
सर्वे ते मित्र-गात्रस्य कलां नार्हन्ति षोडशीम् ॥पन्च्_२.६०॥

तथा च-
केनामृतम् इदं सृष्टं मित्रम् इत्य् अक्षर-द्वयम् ।
आपदां च परित्राणं शोक-सन्ताप-भेषजम् ॥पन्च्_२.६१॥

तच् छ्रुत्वा निपुणतरं परिज्ञाय सत्वरं सलिलान् निष्क्रम्य पुलकित-तनुर् आनन्दाश्रु-पूरित-नयनो मन्थरकः प्रोवाच-एह्य् एहि मित्र, आलिङ्गय माम् । चिर-कालान् मया त्वं न सम्यक् परिज्ञातः । तेनाहं सलिलान्तः-प्रविष्टः । उक्तं च-

यस्य न ज्ञायते वीर्यं न कुलं न विचेष्टितम् ।
न तेन सङ्गतिं कुर्याद् इत्य् उवाच बृहस्पतिः ॥पन्च्_२.६२॥

एवम् उक्ते लघुपतनको वृक्षाद् अवतीर्य तम् आलिङ्गितवान् । अथवा साध्व् इदम् उक्तम्- अमृतस्य प्रवाहैः किं काय-क्षालन-सम्भवैः । चिरान् मित्र-परिष्वङ्गो यो ऽसौ मूल्य-विवर्जितः ॥पन्च्_२.६३॥

एवं द्वाव् अपि तौ विहितालिङ्गितौ परस्परं पुलकित-शरीरी वृक्षाद् अधः समुपविष्टौ प्रोचतुर् आत्म-चरित्र-वृत्तान्तम् । हिरण्यको ऽपि मन्थरकस्य प्रणामं कृत्वा वायसाभ्याशे समुपविष्टः । अथ तं समालोक्य मन्थरको लघुपतनकम् आह-भोः हिरण्यको नाम मूषको ऽयम् । मम सुहृद्-द्वितीयम् इव जीवितम् । तत् किं बहुना-

पर्जन्यस्य यथा धारा यथा च दिवि तारकाः ।
सिकता-रेणवो यद्वत् सङ्ख्यया परिवर्जिता ॥पन्च्_२.६४॥

गुणाः सङ्ख्या-परित्यक्तास् तद्वद् अस्य महात्मनः ।
परं निर्वेदम् आपन्नः सम्प्राप्तो ऽयं तवान्तिकम् ॥पन्च्_२.६५॥

मन्थरक आह-किम् अस्य वैराग्य-कारणम् ?

वायस आह-पृष्टो मया, परम् अनेनाभिहितं, यद् बहु वक्तव्यम् इति । तत् तत्रैव गतः कथयिष्यामि । ममापि न निवेदितम् । तद् भद्र हिरण्यक ! इदानीं निवेद्यताम् उभयोर् अप्य् आवयोस् तद् आत्मनो वैराग्य-कारणम् ।

सो ऽब्रवीत्-

  • उक्तं च-

प्राप्तव्यम् अर्थं लभते मनुष्यो
देवो ऽपि तं लङ्घयितुं न शक्तः ।
तस्मान् न शोचामि न विस्मयो मे
यद् अस्मदीयं न हि तत् परेषाम् ॥पन्च्_२.१११॥ +++(सम्पादकटिप्पनी- पुस्तकेऽत्राधिकः पाठः।)+++

काक-कूर्मौ पृच्छतः-कथम् एतत् ?

हिरण्यक आह-

अतो ऽहं ब्रवीमि-प्राप्तव्यम् अर्थं लभते मनुष्यः इति ।

तद् एतत् सकलं सुख-दुःखम् अनुभूय परं विषादम् उपागतो ऽनेन मित्रेण त्वत्-सकाशम् आनीतः । तद् एतन् मे वैराग्य-कारणम् । मन्थरक आह-भद्र, भवति सुहृद् अयम् असन्दिग्धं यः क्षुत्-क्षामो ऽपि शत्रु-भूतं त्वां भक्ष्य-स्थाने स्थितम् एवं पृष्ठम् आरोप्यानयति न मार्गेऽपि भक्षयति । उक्तं च यतः-

विकारं याति नो चित्तं वित्ते यस्य कदाचन ।
मित्रं स्यात् सर्व-काले च कारयेन् मित्रम् उत्तमम् ॥पन्च्_२.११४॥

विद्वद्भिः सुहृदाम् अत्र चिह्नैर् एतैर् असंशयम् ।
परीक्षा-करणं प्रोक्तं होमाग्नेर् इव पण्डितैः ॥पन्च्_२.११५॥

तथा च-

आपत्-काले तु सम्प्राप्ते यन् मित्रं मित्रम् एव तत् ।
वृद्धि-काले तु सम्प्राप्ते दुर्जनो ऽपि सुहृद् भवेत् ॥पन्च्_२.११६॥

तन् ममाप्य् अद्यास्य विषये विश्वासः समुत्पन्नो यतो नीति-विरुद्धेयं मैत्री मांसाशिभिर् वायसैः सह जलचराणाम् । अथवा साध्व् इदम् उच्यते-

मित्रं को ऽपि न कस्यापि नितान्तं न च वैर-कृत् ।
दृश्यते मित्र-विध्वस्तात् कार्याद् वैरी परीक्षितः ॥पन्च्_२.११७॥

तत् स्वागतं भवतः । स्व-गृह-वदास्यताम् अत्र सरस्-तीरे । यच् च वित्त्-नाशो विदेश-वासश् च ते सञ्जातस् तत्र विषये सन्तापो न कर्तव्यः । उक्तं च-

अभ्रच्-छाया खल-प्रीतिः समुद्रान्ते च मेदिनी ।
अल्पेनैव विनश्यन्ति यौवनानि धनानि च ॥पन्च्_२.११८॥

अत एव विवेकिनो जितात्मानो धन-स्पृहां न कुर्वन्ति । उक्तं च-

सुसञ्चितैर् जीवनवत् सुरक्षितैर्
निजेऽपि देहे न वियोजितैः क्वचित् ।
पुंसो यमान्तं व्रजतो ऽपि निष्ठुरैर्
एतैर् धनैः पञ्चपदी न दीयते ॥पन्च्_२.११९॥

अन्यच् च-

यथामिषं जले मत्स्यैर् भक्ष्यते श्वापदैर् भुवि ।
आकाशे पक्षिभिश् चैव तथा सर्वत्र वित्तवान् ॥पन्च्_२.१२०॥

निर्दोषम् अपि वित्ताढ्य दोषैर् योजयते नृपः ।
निधनः प्राप्त-दोषो ऽपि सर्वत्र निरुपद्रवः ॥पन्च्_२.१२१॥

अर्थानाम् अर्जनं कार्यं वर्धनं रक्षणं तथा ।
भक्ष्यमाणो निरादायः सुमेरुरपि हीयते ॥पन्च्_२.१२२॥
+++(सम्पादकटिप्पनी- पुस्तकेऽत्र पद्ये भेदः ।)+++

  • अर्थानाम् अर्जनं दुःखम् अर्जितानां च रक्षणे ।
    नाशे दुःखं व्यये दुःखं धिगर्थान् कष्ट-संश्रयान् ॥ +++(सम्पादकटिप्पनी- पुस्तकेऽयं पाठः ।)+++

अर्थार्थी यानि कष्टानि मूढो ऽयं सहते जनः ।
शतांशेनापि मोक्षार्थी तानि चेन् मोक्षम् आप्नुयात् ॥पन्च्_२.१२३॥

  • अपरं च
    विदेशवासजम् अपि वैराग्यं त्वया न कार्य्यम् । यतः- +++(सम्पादकटिप्पनी - पुस्तकेऽत्राधिकः पाठः)+++

को धीरस्य मनस्विनः स्व-विषयः को वा विदेशः स्मृतो यं देशं श्रयते तम् एव कुरुते बाहु-प्रतापार्जितम् ।
यद् दंष्ट्रानखलाङ्गुल-प्रहरणैः सिंहो वनं गाहते
तस्मिन् एव हत-द्विपेन्द्र-रुधिरैस् तृष्णां छिनत्त्य् आत्मनः ॥पन्च्_२.१२४॥

अर्थ-हीनः परे देशे गतो ऽपि यः प्रज्ञावान् भवति स कथञ्चिद् अपि न सीदति । उक्तं च-

को ऽतिभारः समर्थानां किं दूरं व्यवसायिनाम् ।
को विदेशः सुव्द्यानां कः परः प्रिय-वादिनाम् ॥पन्च्_२.१२५॥

तत् प्रज्ञा-निधिर् भवान् न प्राकृत-पुरुष-तुल्यः । अथवा-

उत्साह-सम्पन्नम् अदीर्घ-सूत्रं क्रिया-विधिज्ञं व्यसनेष्व् असक्तम् ।
शूरं कृतज्ञं दृढ-सौहृदं च- लक्ष्मीः स्वयं वाञ्छति वास-हेतोः ॥पन्च्_२.१२६॥

अपरं प्राप्तो ऽप्य् अर्थः कर्म-प्राप्त्या नश्यति । तद् एतावन्ति दिनानि त्वदीयम् आसीत् । मुहूर्तम् अप्य् अनात्मीयं भोक्तुं न लभ्यते । स्वयम् आगतम् अपि विधिनापह्रियते ।

अर्थस्योपार्जनं कृत्वा नैवाभाग्यः समश्नुते ।
अरण्यं महदासाद्य मूढः सोमिलको यथा ॥पन्च्_२.१२७॥

हिरण्यक आह–कथम् एतत् ?

स आह-

अतो ऽहं ब्रवीमि-अर्थस्योपार्जनं कृत्वा इति ।

गृह-मध्य-निखातेन धनेन धनिनो यदि ।
भवामः किं न तेनैव धनेन धनिनो वयं ॥पन्च्_२.१५१॥

तद् भद्र ! हिरण्यकैवं ज्ञात्वा धन-विषये सन्तापो न कार्यः । अथ विद्यमानम् अपि धनं भोज्य-बन्ध्यतया तद्-अविद्यमानं मन्तव्यम् । उक्तं च-

उपार्जितानाम् अर्थानां त्याग एव हि रक्षणम् ।
तडागोदर-संस्थानां परीवाह इवाम्भसाम् ॥पन्च्_२.१५२॥

तथा च-

उपार्जितानाम् अर्थानां त्याग एव हि रक्षणम् ।
तडागोदर-संस्थानां परिवाह इवाम्भसाम् ॥पन्च्_२.१५३॥

अन्यच् च-

दानं भोगो नाशस् तिस्रो गतयो भवन्ति वित्तस्य ।
यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर् भवति ॥पन्च्_२.१५४॥

एवं ज्ञात्वा विवेकिना न स्थित्य्-अर्थं वित्तोपार्जनं कर्तव्यं यतो दुःखाय तत् । उक्तं च-

धनादिकेषु विद्यन्ते येऽत्र मूर्खाः सुखाशयाः ।
तप्त-ग्रीष्मेण सेवन्ते शैत्यार्थं ते हुताशनम् ॥पन्च्_२.१५५॥

सर्पाः पिबन्ति पवनं न च दुर्बलास् ते
शुष्कैस् तृणैर् वन-गजा बलिनो भवन्ति ।
कन्दैः फलैर् मुनि-वरा गमयन्ति कालं
सन्तोष एव पुरुषस्य परं निधानम् ॥पन्च्_२.१५६॥

सन्तोषामृत-तृप्तानां यत् सुखं शान्त-चेतसाम् ।
कुतस् तद्-धन-लुब्धानाम् इतश् चेतश् च धावताम् ॥पन्च्_२.१५७॥

पीयूषम् इव संतोषं पिबतां निर्वृतिः परा ।
दुःखं निरन्तरं पुंसाम् असंतोषवतां पुनः ॥पन्च्_२.१५८॥

निरोधाच् चेतसो ऽक्षाणि निरुद्धान्य् अखिलान्य् अपि ।
आच्छादिते रवौ मेघैः सञ्छन्नाः स्युर् गभस्तयः ॥पन्च्_२.१५९॥

वाञ्छा-विच्छेदनं प्राहुः स्वास्थ्यं शान्ता मह-र्षयः ।
वाञ्छा निवर्तते नार्थैः पिपासेवाग्नि-सेवनैः ॥पन्च्_२.१६०॥

अनिन्द्यम् अपि निन्दन्ति स्तुवन्त्य् अस्तुत्यम् उच्चकैः ।
स्वापतेय-कृते मर्त्याः किं किं नाम न कुर्वते ॥पन्च्_२.१६१॥

धर्मार्थं यस्य वित्तेहा तस्यापि न शुभावहा ।
प्रक्षालनाद्द् हि पङ्कस्य दूराद् अस्पर्शनं वरम् ॥पन्च्_२.१६२॥

दानेन तुल्यो निधिर् अस्ति नान्यो
लोभाच् च नान्यो ऽस्ति परः पृथिव्याम् ।
विभूषणं शील-समं न चान्यत्
सन्तोष-तुल्यं धनम् अस्ति नान्यत् ॥पन्च्_२.१६३॥

दारिद्र्यस्य परा मूर्तिर् यन् मान-द्रविणाल्पता ।
जरद्-गव-धनः शर्वस् तथापि परमेश्वरः ॥पन्च्_२.१६४॥

एवं ज्ञात्वा भद्र त्वया सन्तोषः कार्य इति । मन्थरकवचनम् आकर्ण्य वायस आह-भद्र मन्थरको यद् एवं वदति तत् त्वया चित्ते कर्तव्यम् । अथवा साध्व् इदम् उच्यते-

सुलभाः पुरुषा राजन् सततं प्रिय-वादिनः ।
अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः ॥पन्च्_२.१६६॥

अप्रियाण्य् अपि पथ्यानि ये वदन्ति नृणाम् इह ।
त एव सुहृदः प्रोक्ता अन्ये स्युर् नाम-धारकाः ॥पन्च्_२.१६७॥