२-०२ लघुपतनकविरक्तिः

एवं स मूषकस् तद्-उपकार-रञ्जितस् तथा विश्वस्तो यथा तस्य पक्ष-मध्ये प्रविष्टस् तेन सह सर्वदैव गोष्ठीं करोति । अथान्यस्मिन्न् अहनि वायसो ऽश्रु-पूर्ण-नयनः समभ्येत्य सगद्गदं तम् उवाच-भद्र हिरण्यक, विरक्तिः सञ्जाता मे साम्प्रतं देशस्यास्योपरि तद् अन्यत्र यास्यामि ।

हिरण्यक आह-भद्र किं विरक्तेः कारणम् ।

स आह-भद्र, श्रूयतां । अत्र देशे महत्यानावृष्ट्या दुर्भिक्षं सञ्जातम् । दुर्भिक्षत्वाज् जनो बुभुक्षा-पीडितः को ऽपि बलि-मात्रम् अपि न प्रयच्छति । अपरं गृहे गृहे बुभुक्षित-जनैर् विहङ्गानां बन्धनाय पाशाः प्रगुणीकृताः सन्ति । अहम् अप्य् आयुः-शेषतया पाशेन बद्ध उद्धरितो ऽस्मि । एतद् विरक्तेः कारणम् æ। तेनाहं विदेशं चलित इति बाष्प-मोक्षं करोमि ।

हिरण्यक आह-अथ भवान् क्व प्रस्थितः ?

स आह-अस्ति दक्षिणा-पथे वन-गहन-मध्ये महासरः । तत्र त्वत्तो ऽधिकः परम-सुहृत् कूर्मो मन्थरको नाम । स च मे मत्स्य-मांस-खण्डानि दास्यति । तद्-भक्षणात् तेन सह सुभाषित-गोष्ठी-सुखम् अनुभवन् सुखेन कालं नेष्यामि । नाहम् अत्र विहङ्गानां पाश-बन्धनेन क्षयं द्रष्टुम् इच्छामि । उक्तं च-

अनावृष्टि-हते देशे सस्ये च प्रलयं गते ।
धन्यास् तात न पश्यन्ति देश-भङ्गं कुल-क्षयम् ॥पन्च्_२.५६॥

को ऽतिभारः समर्थानां किं दूरं व्यवसायिनाम् ।
को विदेशः सविद्यानां कः परः प्रिय-वादिनाम् ॥पन्च्_२.५७॥

विद्वत्त्वं च नृपत्वं च नैव तुल्यं कदाचन ।
स्व-देशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते ॥पन्च्_२.५८॥

हिरण्यक आह-यद्य् एवं तद् अहम् अपि त्वया सह गमिष्यामि । ममापि महद् दुःखं वर्तते ।

वायस आह-भोः ! तव किं दुःखम् ? तत् कथय ।

हिरण्यक आह-भोः ! बहु वक्तव्यम् अस्त्य् अत्र विषये । तत्रैव गत्वा सर्वं सविस्तरं कथयिष्यामि ।

वायस आह-अहं तावद् आकाश-गतिः । तत् कथं भवतो मया सह गमनम् ?

स आह-यदि मे प्राणान् रक्षसि तदा स्व-पृष्ठम् आरोप्य मां तत्र प्रापयिष्यसि । नान्यथा मम गतिर् अस्ति ।

तच् छ्रुत्वा सानन्दं वायस आह-यद्य् एवं तद् धन्यो ऽहं यद् भवतापि सह तत्र कालं नयामि । अहं सम्पातादिकान् अषाव् उड्डीन-गति-विशेषान् वेद्मि । तत् समारोह मम पृष्ठं, येन सुखेन त्वां तत्-सरः प्रापयामि ।

हिरण्यक आह-उड्डीनानां नामानि श्रोतुम् इच्छामि ।

स आह-
सम्पातं विप्र-पातं च महा-पातं निपातनम् ।
वक्रं तिर्यक् तथा चोर्ध्वम् अष्टमं लघु-संज्ञकम् ॥पन्च्_२.५९॥