अथ मित्र-सम्प्राप्तिः
अथेदम् आरभ्यते मित्र-सम्प्राप्तिर् नाम द्वितीयं तन्त्रम् । यस्यायम् आद्यः श्लोकः-
असाधना अपि प्राज्ञा बुद्धिमनोत् बहु-श्रुताः ।
साधयन्त्य् आशु कार्याणि काकाखु-मृग-कूर्मवत् ॥पन्च्_२.१॥
तद् यथानुश्रूयते-
प्रस्तावना-कथा
लघुपतनक-चित्रग्रीव-वृत्तान्तः
अस्ति दाक्षिणात्ये जनपदे महिलारोप्यं नाम नगरम् । तस्य नातिदूरस्थो महोच्छ्रायवान् नाना-विहङ्गोपभुक्त-फलः कीटैर् आवृत-कोटरश् छायाश्वासित-पथिक-जन-समूहो न्यग्रोध-पादपो महान् । अथवा युक्तम्-
छाया-सुप्त-मृगः शकुन्त-निवहैर् विष्वग्-विलुप्त-च्छदः
कीटैर् आवृत-कोटरः कपि-कुलैः स्कन्धे कृत-प्रश्रयः ।
विश्रब्धं मधुपैर् निपीत-कुसुमः श्लाघ्यः स एव द्रुमः
सर्वाङ्गैर् बहु-सत्त्व-सङ्ग-सुखदो भू-भार-भूतो ऽपरः ॥पन्च्_२.२॥
तत्र च लघुपतनको नाम वायसः प्रतिवसति स्म । स कदाचित् प्राण-यात्रार्थं पुरम् उद्दिश्य प्रचलितो यावत् पश्यति, तावज् जाल-हस्तो ऽतिकृष्ण-तनुः स्फुटित-चरण ऊर्ध्व-केशो यम-किङ्कराकारो नरः संमुखो बभूव । अथ तं दृष्ट्वा शङ्कित-मना व्यचिन्तयत्-यद् अयं दुरात्माद्य ममाश्रय-वट-पादप-सम्मुखो ऽभ्येति । तन् न ज्ञायते किम् अद्य वट-वासिनां विहङ्गमानां सङ्क्षयो भविष्यति न वा ।
एवं बहुविधं विचिन्त्य तत्-क्षणान् निवृत्य तम् एव बट-पादपं गत्वा सर्वान् विहङ्गमान् प्रोवाच-भोः ! अयं दुरात्मा लुब्धको जाल-तण्डुल-हस्तः समभ्येति । तत् सर्वथा तस्य न विश्वसनीयम् । एष जालं प्रसार्य तण्डुलान् प्रक्षेप्स्यति । ते तण्डुला भवद्भिः सर्वैर् अपि कालकूट-सदृशा द्रष्टव्याः ।
एवं वदतस् तस्य स लुब्धकस् तत्र बट-तल आगत्य जालं प्रसार्य सिन्दु-वार-सदृशांस् तण्डुलान् प्रक्षिप्य नातिदूरं गत्वा निभृतः स्थितः । अथ ये पक्षिणस् तत्र स्थितास् ते लघु-पतनक-वाक्यार्गलया निवारितास् तांस् तण्डुलान् हालाहालाङ्कुरान् इव वीक्षमाणा निभृतास् तस्थुः ।
अत्रान्तरे चित्रग्रीवो नाम कपोतराजः सहस्र-परिवारः प्राण-यात्रार्थ-परिभ्रमंस् तांस् तण्डुलान् दूरतो ऽपि पश्यन् लघुपतनकेन निवार्यमाणो ऽपि जिह्वा-लौल्याद् भक्षणार्थम् अपतत् । स-परिवारो निबद्धश् च । अथवा साध्व् इदम् उच्यते-
जिह्वा-लौल्य-प्रसक्तानां जल-मध्य-निवासिनाम् ।
अचिन्तितो वधो ऽज्ञानां मीनानाम् इव जायते ॥पन्च्_२.३॥
अथवा दैव-प्रतिपतिकूलतया भवत्य् एवम् । न तस्य दोषो ऽस्ति । उक्तं च-
पौलस्त्यः कथम् अन्य-दार-हरणे दोषं न विज्ञातवान्
रामेणापि कथं न हेम-हरिणस्यासम्भवो लक्षितः ।
अक्षैश् चापि युधिष्ठिरेण सहसा प्राप्तो ह्य् अनर्थः कथं
प्रत्यासन्न-विपत्ति-मूढ-मनसां प्रायो मतिः क्षीयते ॥पन्च्_२.४॥
तथा च-
कृतान्त-पाश-बद्धानां दैवोपहत-चेतसाम् ।
बुद्धयः कुब्ज-गामिन्यो भवन्ति महताम् अपि ॥पन्च्_२.५॥
अत्रान्तरे लुब्धकस् तान् बद्धान् विज्ञाय प्रहृष्ट-मनाः प्रोद्यत-यष्टिस् तद्-वधार्थं प्रधावितः । चित्रग्रीवो ऽप्य् आत्मानं स-परिवारं बद्धं मत्वा लुब्धकम् आयान्तं दृष्ट्वा तान् कपोतान् ऊचे-अहो, न भेतव्यम् । उक्तं च-
व्यसनेष्व् एव सर्वेषु यस्य बुद्धिर् न हीयते ।
स तेषां पारम् अभ्येति तत्-प्रभावाद् असंशयम् ॥पन्च्_२.६॥
सम्पत्तौ च विपत्तौ च महताम् एक-रूपता ।
उदये सविता रक्तो रक्तश् चास्त-मये तथा ॥पन्च्_२.७॥
तत् सर्वे वयं हेलयोड्डीय स-पाश-जाला अस्यादर्शनं गत्वा मुक्तिं प्राप्नुमः । नो चेद् भय-विक्लवाः सन्तो हेलया समुत्पातं न करिष्यथ । ततो मृत्युम् अवाप्स्यथ । उक्तं च-
तन्तवो ऽप्य् आयता नित्यं तन्तवो बहुलाः समाः ।
बहून् बहुत्वाद् आयासान् सहन्तीत्य् उपमा सताम् ॥पन्च्_२.८॥
तथानुष्ठिते लुब्धको जालम् आदायाकाशे गच्छतां तेषां पृष्ठतो भूमिस्थो ऽपि पर्यधावत् । तत ऊर्ध्वानन्ः श्लोकम् एनम् अपठत् ।
जालम् आदाय गच्छन्ति संहताः पक्षिणो ऽप्य् अमी ।
यावच् च विवदिष्यन्ते पतिष्यन्ति न संशयः ॥पन्च्_२.९॥
लघुपतनको ऽपि प्राण-यात्रा-क्रियां त्यक्त्वा किम् अत्र भविष्यन्तीति कुतूहलात् तत्-पृष्ठतो ऽनुसरति । अथ दृष्टेर् अगोचरतां गतान् विज्ञाय लुब्धको निराशः श्लोकम् अपठन् निवृत्तश् च-
नहि भवति यन् न भाव्यं भवति च भाव्यं विनापि यत्नेन ।
करतल-गतम् अपि नश्यति यस्य हि भवितव्यता नास्ति ॥पन्च्_२.१०॥
तथा च-
पराङ्मुखे विधौ चेत् स्यात् कथञ्चिद् द्रविणोदयः ।
तत् सो ऽन्यद् अपि सङ्गृह्य याति शङ्ख-निधिर् यथा ॥पन्च्_२.११॥
तद् आस्तां तावद् विहङ्गामिष-लोभो यावत् कुटुम्ब-वर्तनोपाय-भूतं जालम् अपि मे नष्टम् । चित्रग्रीवो ऽपि लुब्धकम् अदर्शनीभूतं ज्ञात्वा तान् उवाच-भोः ! निवृत्तः स दुरात्मा लुब्धकः । तत् सर्वैर् अपि स्वस्थैर् गम्यतां महिलारोप्यस्य प्राग्-उत्तर-दिग्-भागे । तत्र मम सुहृद् धिरण्यको नाम मूषकः सर्वेषां पाश-च्छेदं करिष्यति । उक्तं च-
सर्वेषाम् एव मर्त्यानां व्यसने समुपस्थिते ।
वाङ्-मात्रेणापि साहाय्यं मित्राद् अन्यो न सन्दधे ॥पन्च्_२.१२॥
एवं ते कपोताश् चित्रग्रीवेण सम्बोधिता महिलारोप्ये नगरे हिरण्यक-बिल-दुर्गं प्रापुः । हिरण्यको ऽपि सहस्र-मुख-बिल-दुर्गं प्रविष्टः सन्न् अकुतोभयः सुखेनास्त । अथवा साध्व् इदम् उच्यते-
- अनागतं भयं दृष्ट्वा नीतिशास्त्रविशारदः ।
अवसन्मूषकस्तत्र कृत्वा शतमुखं बिलम् ॥१३॥ +++(सम्पादकटिप्पनी - पुस्तकेऽत्रायम् अधिकः पाठः ।)+++
दंष्ट्रा-विरहितः सर्पो मद-हीनो यथा गजः ।
सर्वेषां जायते वश्यो दुर्ग-हीनस् तथा नृपः ॥पन्च्_२.१३॥
तथा च-
न गजानां सहस्रेण न च लक्षेण वाजिनाम् ।
तत् कर्म सिध्यते राज्ञां दुरेणैकेन यद् रणे ॥पन्च्_२.१४॥
शतम् एको ऽपि सन्धत्ते प्राकारस्थो धनुर्धरः ।
तस्माद् दुर्गं प्रशंसन्ति नीति-शास्त्र-विदो जनाः ॥पन्च्_२.१५॥
अथ चित्रग्रीवो बिलम् आसाद्य तार-स्वरेण प्रोवाच-भो भो मित्र हिरण्यक ! सत्वरम् आगच्छ । महती मे व्यसनावस्था वर्तते ।
तच् छ्रुत्वा हिरण्यको ऽपि बिल-दुर्गान्तर्गतः सन् प्रोवाच-भोः ! को भवान् ? किम् अर्थम् आयातः ? किं कारणम् ? कीदृक् ते व्यसनावस्थानाम् ? तत् कथ्यताम् इति ।
तच् छ्रुत्वा चित्रग्रीव आह-भोः ! चित्रग्रीवो नाम कपोत-राजो ऽहं ते सुहृत् । तत् सत्वरम् आगच्छ । गुरुतरं प्रयोजनम् अस्ति ।
तद् आकर्ण्य पुलकित-तनुः प्रहृष्टात्मा स्थिर-मनास् त्वरमाणो निष्क्रान्तः । अथवा साध्व् इदम् उच्यते-
सुहृदः स्नेह-सम्पन्ना लोचनानन्द-दायिनः ।
गृहे गृहवतां नित्यं नागच्छन्ति महात्मनाम् ॥पन्च्_२.१६॥
आदित्यस्योदयं तात ताम्बूलं भारती कथा ।
इष्टा भार्या सुमित्रं च अपूर्वाणि दिने दिने ॥पन्च्_२.१७॥
सुहृदो भवने यस्य समागच्छन्ति नित्यशः ।
चित्ते च तस्य सौख्यस्य न किञ्चित् प्रतिमं सुखम् ॥पन्च्_२.१८॥
अथ चित्रं ग्रीवं सपरिवारं पाश-बद्धम् आलोक्य हिरण्यकः स-विषादम् इदम् आह-भोः, किम् एतत् ?
स आह-भोः, जानन्न् अपि किं पृच्छसि ? उक्तं च यतः-
यस्माच् च येन च यदा च यथा च यच् च
यावच् च यत्र च शुभाशुभम् आत्म-कर्म ।
तस्माच् च तेन च तदा च तथा च तच् च
तावच् च तत्र च कृतान्त-वशाद् उपैति ॥पन्च्_२.१९॥
तत् प्राप्तं मयैतद् बन्धनं जिह्वा-लौल्यात् । साम्प्राप्तं त्वं सत्वरं पाश-विमोक्षं कुरु । तद् आकर्ण्य हिरण्यकः प्राह-
अर्धार्धाद् योजन-शताद् आमिषं वीक्षते खगः ।
सो ऽपि पार्श्व-स्थितं दैवाद् बन्धनं न च पश्यति ॥पन्च्_२.२०॥
तथा च-
रवि-निशाकरयोर् ग्रह-पीडनं
गज-भुजङ्ग-विहङ्गम-बन्धनम् ।
मतिमतां च निरीक्ष्य दरिद्रता
विधिर् अहो बलवान् इति मे मतिः ॥पन्च्_२.२१॥
तथा च-
व्योमैकान्त-विचारिणो ऽपि विहगाः सम्प्राप्नुवन्त्य् आपदं
बध्यन्ते निपुणैर् अगाध-सलिलान् मीनाः समुद्राद् अपि ।
दुर्नीतं किम् इहास्ति किं च सुकृतं कः स्थान-लाभे गुणः
कालः सर्व-जनान् प्रसारित-करो गृह्णाति दूराद् अपि ॥पन्च्_२.२२॥
एवम् उक्त्वा चित्रग्रीवस्य पाशं छेत्तुम् उद्यतं स तम् आह-भद्र, मा मैवं कुरु । प्रथमं मम भृत्यानां पाश-च्छेदं कुरु । तद् अनु ममापि च ।
तच् छ्रुत्वा कुपितो हिरण्यकः प्राह-भोः ! न युक्तम् उक्तं भवता । यतः स्वामिनो ऽनन्तरं भृत्याः ।
स आह-भद्र, मा मैवं वद । मद्-आश्रयाः सर्व एते वराकाः । अपरं स्व-कुटुम्बं परित्यज्य समागताः । तत् कथम् एतावन्-मात्रम् अपि संमानं न करोमि । उक्तं च-
यः संमानं सदा धत्ते भृत्यानां क्षितिपो ऽधिकम् ।
वित्ताभावेऽपि तं दृष्ट्वा ते त्यजन्ति न कर्हिचित् ॥पन्च्_२.२३॥
तथा च-
विश्वासः सम्पदां मूलं तेन यूथपतिर् गजः ।
सिंहो मृगाधिपत्येऽपि न मृगैः परिवार्यते ॥पन्च्_२.२४॥
अपरं मम कदाचित् पाश-च्छेदे कुर्वतस् ते दन्त-भङ्गो भवति । अथवा दुरात्मा लुब्धकः सम्भ्येति । तन् नूनं नरक-पात एव । उक्तं च-
सदाचारेषु भृत्येषु संसीदत्सु च यः प्रभुः ।
सुखी स्यान् नरकं याति परत्रेह च सीदति ॥पन्च्_२.२५॥
तच् छ्रुत्वा प्रहृष्टो हिरण्यकः प्राह-भोः, वेद्म्य् अहं राज-धर्मम् । परं मया तव परीक्षा कृता । तत् सर्वेषां पूर्वं पाश-च्छेदं करिष्यामि । भवान् अप्य् अनेन बहु-कपोत-परिवारेण भविष्यति । उक्तं च-
कारुण्यं संविभागश् च यथा भृत्येषु लक्ष्यते ।
चित्तेनानेन ते शङ्क्या त्रैलोक्यस्यापि नाथता ॥पन्च्_२.२६॥
- कारुण्यं संविभागश्च यथा भृत्येषु सर्वदा ।
सम्भवेत्स महीपालस्त्रैलोक्यस्यापि रक्षणे ॥२.२६॥ +++(सम्पादकटिप्पनी - पुस्तके अयं पाठः ।)+++
एवम् उक्त्वा सर्वेषां पाश-च्छेदं कृत्वा हिरण्यकश् चित्रग्रीवम् आह-मित्र, गम्यताम् अधुना स्वाश्रयं प्रति । भूयो ऽपि व्यसने प्राप्ते समागन्तव्यम् इति ।
तान् सम्प्रेष्य पुनर् अपि दुर्गं प्रविष्टः । चित्रग्रीवो ऽपि सपरिवारः स्वाश्रयम् अगमत् । अथवा साध्व् इदम् उच्यते-
मित्रवान् साधयत्य् अर्थान् दुःसाध्यान् अपि वै यतः ।
तस्मान् मित्राणि कुर्वीत समानान्य् एव चात्मनः ॥पन्च्_२.२७॥
लघुपतनको ऽपि वायसः सर्वं तं चित्रग्रीव-बन्धु-मोक्षम् अवलोक्य विस्मितमना व्यचिन्तयत्-अहो बुद्धिर् अस्य हिरण्यकस्य शक्तिश् च दुर्ग-सामग्री च । तद् ईदृग् एव विधि-विहङ्गानां बन्धन-मोक्षात्मकः । अहं च न कस्यचिद् विश्वसिमि चल-प्रकृतिश् च । तदाप्य् एनं मित्रं करोमि । उक्तं च-
अपि सम्पूर्णता-युक्तैः कर्तव्याः सुहृदो बुधैः ।
नदीशः परिपूर्णो ऽपि चन्द्रोदयम् अपेक्षते ॥पन्च्_२.२८॥
एवं सम्प्रधार्य पादपाद् अवतीर्य बिल-द्वारम् आश्रित्य चित्रग्रीववच् छब्देन हिरण्यकं समाहूतवान्-एह्य् एहि भो हिरण्यक, एहि ।
तच् छब्दं श्रुत्वा हिरण्यको व्यचिन्तयत्-किम् अन्यो ऽपि कश्चित् कपोतो बन्धन-शेषस् तिष्ठति येन मां व्याहरति । आह च-भोः ! को भवान् ?
स आह-अहं लघुपतनको नाम वायसः ।
तच् छ्रुत्वा विशेषाद् अन्तर्लीनो हिरण्यक आह-भोः ! द्रुतं गम्यताम् अस्मात् स्थानात् ।
वायस आह-अहं तव पार्श्वे गुरु-कार्येण समागतः । तत् किं न क्रियते मया सह दर्शनम् ?
हिरण्यक आह-न मेऽस्ति त्वया सह सङ्गमेन प्रयोजनम् इति ।
स आह-भोः ! चित्रग्रीवस्य मया तव सकाशात् पाश-मोक्षणं दृष्टम् । तेन मम महती प्रीतिः सञ्जाता । तत् कदाचिन् ममापि बन्धने जाते तव पार्श्वान् मुक्तैर् भविष्यति । तत् क्रियतां मया सह मैत्री ।
हिरण्यक आह-अहो त्वं भोक्ता । अहं ते भोज्य-भूतः । तत् का त्वया सह मम मैत्री ? तद् गम्यताम् । मैत्री विरोध-भावात् कथम् ? उक्तं च-
ययोर् एव समं वित्तं ययोर् एव समं कुलम् ।
तयोर् मैत्री विवाहश् च न तु पुष्ट-विपुष्टयोः ॥पन्च्_२.२९॥
तथा च-
यो मित्रं कुरुते मूढ आत्मनो ऽसदृशं कुधीः ।
हीनं वाप्य् अधिकं वापि हास्यतां यात्य् असौ जनः ॥पन्च्_२.३०॥
तद् गम्यताम् इति ।
वायस आह-भो हिरण्यक ! एषो ऽहं तव दुर्ग-द्वार उपविष्टः । यदि त्वं मैत्री न करोषि ततो ऽहं प्राण-मोक्षणं तवाग्रे करिष्यामि । अथवा प्रायोपवेशनं मे स्यात् इति ।
हिरण्यक आह-भोः ! त्वया वैरिणा सह कथं मैत्रीं करोमि ? उक्तं च-
वैरिणा न हि सन्दध्यात् सुश्लिष्टेनापि सन्धिना ।
सुतप्तम् अपि पानीयं शमयत्य् एव पावकम् ॥पन्च्_२.३१॥
वायस आह-भोः ! त्वया सह दर्शनम् अपि नास्ति । कुतो वैरम् ? तत् किम् अनुचितं वदसि ?
हिरण्यक आह-द्विविधं वैरं भवति । सहजं कृत्रिमं च । तत् सहज-वैरी त्वम् अस्माकम् । उक्तं च-
कृत्रिमं नाशम् अभ्येति वैरं द्राक् कृत्रिमैर् गुणैः ।
प्राण-दानं विना वैरं सहजं याति न क्षयम् ॥पन्च्_२.३२॥
वायस आह-भोः ! द्विविधस्य वैरस्य लक्षणं श्रोतुम् इच्छामि । तत् कथ्यताम् ।
हिरण्यक आह-भोः ! कारणेन निर्वृतं कृत्रिमम् । तत्-तद्-अर्होपकार-करणाद् गच्छति । स्वाभाविकं पुनः कथम् अपि न गच्छति । तद् यथा नकुल-सर्पाणां, शष्पभुङ्-नखायुधानां, जल-वह्न्योः, देव-दैत्यानां, सारमेय-मार्जराणां, ईश्वर-दरिद्राणां, सपत्नीनां, सिंह-गजानां, लुब्धक-हरिणानां, श्रोत्रिय-भ्रष्ट-क्रियाणां, मूर्क-पण्डितानां, पतिव्रता-कुलटानां, सज्जन-दुर्जनानाम् । न कश्चित् केनापि व्यापादितः, तथापि प्राणान् सन्तापयन्ति ।
वायस आह-भोः ! अकारणम् एतत् । श्रूयतां मे वचनम्-
कारणान् मित्रताम् एति कारणाद् याति शत्रुताम् ।
तस्मान् मित्रत्वम् एवात्र योज्यं वैरं न धीमता ॥पन्च्_२.३३॥
तस्मात् कुरु मया सह समागमं मित्र-धर्मार्थम् ।
हिरण्यक आह-भोः, श्रूयतां नीति-सर्वस्वम्-
सकृद् दुष्टम् अपीष्टं यः पुनः सन्धातुम् इच्छति ।
स मृत्युम् उपगृह्णाति गर्भम् अश्वतरी यथा ॥पन्च्_२.३४॥
अथवा गुणवान् अहं, न मे कश्चिद् वैर-यातनां करिष्यति । एतद् अपि न सम्भाव्यम् । उक्तं च-
सिंहो व्याकरणस्य कर्तुर् अहरत् प्राणान् पिर्यान् पाणिनेर्
मीमांसा-कृतम् उन्ममाथ सहसा हस्ती मुनिं जैमिनिम् ।
छन्दो-ज्ञान-निधिं जघान मकरो वेला-तटे पिङ्गलम्
अज्ञानावृत-चेतसाम् अतिरुषा को ऽर्थस् तिरश्चां गुणैः ॥पन्च्_२.३५॥
वायस आह-अस्त्य् एतत् । यथापि श्रूयताम्-
उपकाराच् च लोकानां निमित्तान् मृग-पक्षिणाम् ।
भयाल् लोभाच् च मूर्खाणां मैत्री स्याद् दर्शनात् सताम् ॥पन्च्_२.३६॥
मृद्-घट इव सुख-भेद्यो दुःसन्धानश् च दुर्जनो भवति ।
सुजनस् तु कनक-घट इव दुर्भेदः सुकर-सन्धिश् च ॥पन्च्_२.३७॥
इक्षोर् अग्रात् क्रमशः पर्वणि पर्वणि यथा रस-विशेषः ।
तद्वत् सज्जन-मैत्री-विपरीतानां तु विपरीता ॥पन्च्_२.३८॥
तथा च-
आरम्भ-गुर्वी क्षयिणी क्रमेण लघ्वी पुरा वृद्धिमती च पश्चात् ।
दिनस्य पूर्वार्ध-परार्ध-भिन्ना छायेव मैत्री खल-सज्जनानाम् ॥पन्च्_२.३९॥
तत् साधुर् अहम् । अपरं त्वां शपथादिभिर् निर्भयं करिष्यामि ।
स आह-न मेऽस्ति ते शपथैः प्रत्ययः । उक्तं च-
शपथैः सन्धितस्यापि न विश्वासं व्रजेद् रिपोः ।
श्रूयते शपथं कृत्वा वृत्रः शक्रेण सूदितः ॥पन्च्_२.४०॥
न विश्वासं विना शत्रुर् देवानाम् अपि सिध्यति ।
विश्वासात् त्रिदशेन्द्रेण दितेर् गर्भो विदारितः ॥पन्च्_२.४१॥
अन्यच् च-
बृहस्पतेर् अपि प्राज्ञस् तस्मान् नैवात्र विश्वसेत् ।
य इच्छेद् आत्मनो बुद्धिम् आयुष्यं च सुखानि च ॥पन्च्_२.४२॥
तथा च-
सुसूक्ष्मेणापि रन्ध्रेण प्रविश्याभ्यन्तरं रिपुः ।
नाशयेच् च शनैः पश्चात् प्लवं सलिल-पूरवत् ॥पन्च्_२.४३॥
न विश्वसेद् अविश्वस्ते विश्वस्तेऽपि न विश्वसेत् ।
विश्वासाद् भयम् उत्पन्नं मूलान्य् अपि निकृन्तति ॥पन्च्_२.४४॥
न बध्यते ह्य् अविश्वस्तो दुर्बलो ऽपि बलोत्कटैः ।
विश्वस्ताश् चाशु बध्यन्ते बलवन्तो ऽपि दुर्बलैः ॥पन्च्_२.४५॥
सुकृत्यं विष्णु-गुप्तस्य मित्राप्तिर् भार्गवस्य च ।
बृहस्पतेर् अविश्वासो नीतिर्-सन्धिस् त्रिधा स्थितः ॥पन्च्_२.४६॥
तथा च-
महताप्य् अर्थ-सारेण यो विश्वसिति शत्रुषु ।
भार्यासु सुविरक्तासु तद्-अन्तं तस्य जीवितम् ॥पन्च्_२.४७॥
तच् छ्रुत्वा लघुपतनको ऽपि निरुत्तरश् चिन्तयामास-अहो, बुद्धि-प्रागल्भ्यम् अस्य नीति-विषये । अथवा स एवास्योपरि मैत्री-पक्षपातः । स आह-भो हिरण्यक !
सतां साप्तपदं मैत्रम् इत्य् आहुर् विबुधा जनाः ।
तस्मात् त्वं मित्रतां प्राप्तो वचनं मम तच् छृणु ॥पन्च्_२.४८॥
दुर्गस्थेनापि त्वया मया सह नित्यम् एवालापो गुण-दोष-सुभाषित-गोष्ठी-कथाः सर्वदा कर्तव्याः, यद्य् एवं न विश्वसिषि ।
तच् छ्रुत्वा हिरण्यको ऽपि व्यचिन्तयत्-विदग्ध-वचनो ऽयं दृश्यते लघुपतनकः सत्य-वाक्यश् च तद् युक्तम् अनेन मैत्री-करणम् । परं कदाचिन् मम दुर्गे चरण-पातो ऽपि न कार्यः । उक्तं च-
भीत-भीतैः पुरा शत्रुर् मन्दं मन्दं विसर्पति ।
भूमौ प्रहेलया पश्चाज् जार-हस्तो ऽङ्गनास्व् इव ॥पन्च्_२.४९॥
तच् छ्रुत्वा वायस आह-भद्र, एवं भवतु । ततः-प्रभृति तौ द्वाव् अपि सुभाषित-गोष्ठी-सुखम् अनुभवन्तौ तिष्ठतः । परस्परं कृतोपकारौ कालं नयतः । लघुपतनको ऽपि मांस-शकलानि मेध्यानि बलिशेषाण्य् अन्यानि वात्सल्याहृतानि पक्वान्न-विशेषाणि हिरण्यकार्थम् आनयति । हिरण्यको ऽपि तण्डुलान् अन्यांश् च भक्ष्य-विशेषाल् लघुपतनकार्थं रात्राव् आहृत्य तत्-कालायातस्यार्पयति । अथवा युज्यते द्वयोर् अप्य् एतत् । उक्तं च-
ददाति प्रतिगृह्णाति गुह्यम् आख्याति पृच्छति ।
भुङ्क्ते भोजायते चैव षड्-विधं प्रीति-लक्षणम् ॥पन्च्_२.५०॥
नोपकारं विना प्रीतिः कथञ्चित् कस्यचिद् भवेत् ।
उपयाचित-दानेन यतो देवा अभीष्टदाः ॥पन्च्_२.५१॥
तावत् प्रीतिर् भवेल् लोके यावद् दानं प्रदीयते ।
वत्सः क्षीर-क्षयं दृष्ट्वा परित्यजति मातरम् ॥पन्च्_२.५२॥
पश्य दानस्य माहात्म्यं सद्यः प्रत्यय-कारकम् । यत्-प्रभावाद् अपि द्वेषो मित्रतां याति तत्-क्षणात् ॥पन्च्_२.५३॥
पुत्राद् अपि प्रियतरं खलु तेन दानं
मन्ये पशोर् अपि विवेक-विवर्जितस्य ।
दत्ते खले तु निखिलं खलु येन दुग्धं
नित्यं ददाति महिषी ससुतापि पश्य ॥पन्च्_२.५४॥
किं बहुना-
प्रीतिं निरन्तरां कृत्वा दुर्भेद्यां नख-मांसवत् ।
मूषको वायसश् चैव गतौ कृत्रिम-मित्रताम् ॥पन्च्_२.५५॥