१-०७ करटकदमनकयोस् संवादः

एवम् अभिधाय दमनकः करटक-सकाशम् अगमत् । करटको ऽपि तम् आयान्तं दृष्ट्वा प्रोवाच-भद्र ! किं कृतं तत्रभवता ?

दमनक आह-मया तावन् नीति-बीज-निर्वापणं कृतम् । परतो दैव-विहितायत्तम् । उक्तं च- पराङ्मुखेऽपि दैवेऽत्र कृत्यं कार्यं विपश्चिता । आत्म-दोष-विनाशाय स्व-चित्त-स्तम्भनाय च ॥पन्च्_१.३९१॥

तथा च- उद्योगिनं पुरुष-सिंहम् उपैति लक्ष्मीर् दैवेन देयम् इति कापुरुषा वदन्ति । दैवं निहत्य कुरु पौरुषम् आत्म-शक्त्या यत्ने कृते यदि न सिध्यति को ऽत्र दोषः ॥पन्च्_१.३९२॥

करटक आह-तत् कथय कीदृक् त्वया नीति-बीजं निर्वापितम् ।

सो ऽब्रवीत्-मयान्योन्यं ताभ्यां मिथ्या-प्रजल्पेन भेदस् तथा विहितो यथा भूयो ऽपि मन्त्रयन्ताव् एक-स्थान-स्थितौ न द्रक्ष्यसि ।

करटक आह-अहो, न युक्तं भवता विहितं यत् परस्परं तौ स्नेहार्द्र-हृदयौ सुखाश्रयौ कोप-सागरे प्रक्षिप्तौ । उक्तं च-

अविरुद्धं सुख-स्थं यो दुःख-मार्गे नियोजयेत् । जन्म-जन्मान्तरे दुःखी स नरः स्याद् असंशयम् ॥पन्च्_१.३९३॥

अपरं त्वं यद् भेद-मात्रेणापि हृष्टस् तद् अप्य् अयुक्तम्, यतः सर्वतो ऽपि जनो विरूप-करणे समर्थो भवति नोपकर्तुम् । उक्तं च-

घातयितुम् एव नीचः पर-कार्यं वेत्ति न प्रसादयितुम् । पातयितुम् अस्ति शक्तिर् वायोर् वृक्षं न चोन्नमितुम् ॥पन्च्_१.३९४॥

दमनक आह-अनभिज्ञो भवान् नीति-शास्त्रस्य, तेनैतद् ब्रवीषि । उक्तं च यतः-

जात-मात्रं न यः शत्रुं व्याधिं च प्रशमं नयेत् । महा-बलो ऽपि तेनैव वृद्धिं प्राप्य स हन्यते ॥पन्च्_१.३९५॥

तच्-छत्रु-भूतो ऽयम् अस्माकं मन्त्रि-पदाहरणात् । उक्तं च-

पितृ-पैतामहं स्थानं यो यस्यात्र जिगीषते । स तस्य सहजः शत्रुर् उच्छेद्यो ऽपि प्रिये स्थितः ॥पन्च्_१.३९६॥

तन् मया स उदासीनतया समानीतो ऽभय-प्रदानेन यावत् तावद् अहम् अपि तेन साचिव्यात् प्रच्यावितः । अथवा साध्व् इदम् उच्यते-

दद्यात् साधुर् यदि निज-पदे दुर्जनाय प्रवेशं तन्-नाशाय प्रभवति ततो वाञ्छमानः स्वयं सः । तस्माद् देयो विपुल-मतिभिर् नावकाशो ऽधमानां जारापि स्याद् गृह-पतिर् इति श्रूयते वाक्यतो ऽत्र ॥पन्च्_१.३९७॥

तेन मया तस्योपरि वधोपाय एव विरच्यते । देश-त्यागाय वा भविष्यति । तच् च त्वां मुक्त्वान्यो न ज्ञास्यति । तद् उक्तम् एतत् ते स्वार्थायानुष्ठितम् । उक्तं च-

निस्त्रिंशं हृदयं कृत्वा वाणीम् इक्षु-रसोपामाम् । विकल्पो ऽत्र न कर्तव्यो हन्यात् तत्रापकारिणम् ॥पन्च्_१.३९८॥

अपरं मृतो ऽप्य् अस्माकं भोज्यो भविष्यति । तद् एकं तावद् वर-साधनम् । अपरं साचिव्यं च भविष्यति तृप्तिश् चेति । तद्-गुण-त्रयेऽस्मिन्न् उपस्थिते कस्मान् मां दूषयसि त्वं जाड्य-भावात् । उक्तं च-

परस्य पीडनं कुर्वन् स्वार्थ-सिद्धिं च पण्डितः । मूढ-बुद्धिर् न भक्षेत वने चतुरको यथा ॥पन्च्_१.३९९॥

करटक आह-कथम् एतत् ?

स आह-

अतोऽहं ब्रवीमि “परस्य पीडनं कुर्वन्” (३९९) इति ।

अथ दमनके गते सञ्जीवकश् चिन्तयामास-अहो किम् एतन् मया कृतम् ? यच् छष्पादो ऽपि मांसाशितस् तस्यानुगः संवृत्तः । अथवा साध्व् इदम् उच्यते- अगम्यानि पुमान् याति यो ऽसेव्यांश् च निषेवते । स मृत्युम् उपगृह्णाति गर्भम् अश्वतरी यथा ॥पन्च्_१.४०१॥

तत् किं करोमि ? क्व गच्छामि ? कथं मे शान्तिर् भविष्यति ? अथवा तम् एव पिङ्गलकं गच्छामि । कदाचिन् मां शरणागतं रक्षति । प्राणैर् न वियोजयति । यत उक्तं च-

धर्मार्थं यतताम् अपीह विपदो देवाद् यदि स्युः क्वचित् तत् तासाम् उपशान्तये सुमतिभिः कार्यो विशेषान् नयः । लोके ख्यातिम् उपागतात्र सकले लोकोक्तिर् एषा यतो दग्धानां किल वह्निना हित-करः सेको ऽपि तस्योद्भवः ॥पन्च्_१.४०२॥

तथा च-
लोकेऽथवा तनु-भृतां निज-कर्म-पाकं
नित्यं समाश्रितवतां सुहित-क्रियाणाम् ।
भावार्जितं शुभम् अथाप्य् अशुभं निकामं
यद् भावि तद् भवति नात्र विचार-हेतुः ॥पन्च्_१.४०३॥

अपरं चान्यत्र गतस्यापि मे कस्यचिद् दुष्ट-सत्त्वस्य मांसाशिनः सकाशान् मृत्युर् भविष्यति । तद् वरं सिंहात् । उक्तं च-

महद्भिः स्पर्धमानस्य विपद् एव गरीयसी ।
दन्त-भङ्गेऽपि नागानां श्लाघ्यो गिरि-विदारणे ॥पन्च्_१.४०४॥

तथा च-
महतो ऽपि क्षयं लब्ध्वा श्लाघ्यं नीचो ऽपि गच्छति ।
दानार्थी मधुपो यद्वद् गज-कर्ण-समाहतः ॥पन्च्_१.४०५॥

एवं निश्चित्य स स्थलित-गतिं मन्दं गत्वा सिंहाश्रयं पश्यन्न् अपठत्-अहो, साध्व् इदम् उच्यते-

अन्तर्-लीन-भुजङ्गमं गृहम् इवान्तःस्थोग्र-सिंहं वनं
ग्राहाकीर्णम् इवाभिराम-कमल-च्छाया-सनाथं सरः ।
कालेनार्य-जनापवाद-पिशुनैः क्षुद्रैर् अनार्यैः श्रितं
दुःखेन प्रविगाह्यते स-चकितं राज्ञां मनः सामयम् ॥पन्च्_१.४०६॥ +++(सम्पादकटिप्पनी- पुस्तके ३,४ पादौ भिन्नौ वर्तेते ।)+++

  • नानादुष्टजनैरसत्यवचनासक्तैरनार्य्यैर्वृत्त्
    दुःखेन प्रतिगम्यते प्रचकिते राज्ञां गृहं वार्धिवत् ॥४०६॥

एवं पठन् दमनकोक्ताकारं पिङ्गलकं दृष्ट्वा प्रचकितः संवृत-शरीरो दूरतरं प्रणाम-कृतिं विनाप्य् उपविष्टः । पिङ्गलको ऽपि तथाविधं तं विलोक्य दमनक-वाक्यं श्रद्दधानः कोपात् तस्योपरि पपात ।

अथ सञ्जीवकः खर-नख-विकर्तित-पृष्ठः शृङ्गाभ्यां तद्-उदरम् उल्लिख्य कथम् अपि तस्माद् अपेतः शृङ्गाभ्यां हन्तुम् इच्छन् युद्धायावस्थितः । अथ द्वाव् अपि तौ पुष्पित-पलाश-प्रतिमौ परस्पर-वध-काङ्क्षिणौ दृष्ट्वा करटको दमनकम् आह-भो मूढ-मते ! अनयोर् विरोधं वितन्वता त्वया साधु न कृतम् । न च त्वं नीति-तत्त्वं वेत्सि । नीतिविद्भिर् उक्तं च-

कार्याण्य् उत्तम-दण्ड-साहस-फलान्य् आयास-साध्यानि ये प्रीत्या संशमयन्ति नीति-कुशलाः साम्नैव ते मन्त्रिणः ।
निःसाराल्प-फलानि ये त्व् अविधिना वाञ्छन्ति दण्डोद्यमैस्
तेषां दुर्नय-चेष्टितैर् नरपतेर् आरोप्यते श्रीस् तुलाम् ॥पन्च्_१.४०७॥

तद् यदि स्वाम्य्-अभिघातो भविष्यति तत् किं तव्दीय-मन्त्र-बुद्ध्या क्रियते । अथ सञ्जीवको न बध्यते तथाप्य् अभव्यम् । यतः प्राण-सन्देहात् तस्य च वधः । तन् मूढ ! कथं त्वं मन्त्रि-पदम् अभिलषसि । साम-सिद्धिं न वेत्सि । तद् वृथा मनोरथो ऽयं ते दण्डरुचेः । उक्तं च-

सामादि-दण्ड-पर्यन्तो नयः प्रोक्तः स्वयम्भुवा ।
तेषां दण्डस् तु पापीयांस् तं पश्चाद् विनियोजयेत् ॥पन्च्_१.४०८॥

तथा च-
साम्नैव यत्र सिद्धिर् न तत्र दण्डो बुधेन विनियोज्यः ।
पित्तं यदि शर्करया शाम्यति को ऽर्थः पटोलेन ॥पन्च्_१.४०९॥

तथा च-
आदौ साम प्रयोक्तव्यं पुरुषेण विजानता ।
साम-साध्यानि कार्याणि विक्रियां यान्ति न क्वचित् ॥पन्च्_१.४१०॥
न चन्द्रेण न चाउषध्या न सूर्येण न वह्निना ।
साम्नैव विलयं याति विद्वेष-प्रभवं तमः ॥पन्च्_१.४११॥

तथा यत् त्वं मन्त्रित्वम् अभिलषसि, तद् अप्य् अयुक्तम् । यतस् त्वं मन्त्रि-गतिं न वेत्सि । यतः पञ्च-विधो मन्त्रः । स च कर्मणाम् आरम्भोपायः, पुरुष-द्रव्य-सम्पत्, देश-काल-विभागः, विनिपात-प्रतीकारः, कार्य-सिद्धिश् चेति । सो ऽयं स्वाम्य्-अमात्ययोर् एकतमस्य किं वा द्वयोर् अपि विनिपातः समुत्पद्यते लग्नः । तद् यदि काचिच् छक्तिर् अस्ति तद् विचिन्त्यतां विनिपात-प्रतीकारः । भिन्न-सन्धाने हि मन्त्रिणां बुद्धि-परीक्षा । तन् मूर्ख ! तत् कर्तुम् असमर्थत्वं यतो विपरीत-बुद्धिर् असि । उक्तं च-

मन्त्रिणां भिन्न-सन्धाने भिषजां सांनिपातिके ।
कर्मणि व्यज्यते प्रज्ञा सुस्थे को वा न पण्डितः ॥पन्च्_१.४१२॥

अन्यच् च-
घातयितुम् एव नीचः पर-कार्यं वेत्ति न प्रसाधयितुम् ।
पातयितुम् एव शक्तिर् नाखोरुद्धर्तुम् अन्न-पिटकम् ॥पन्च्_१.४१३॥

अथवा न ते दोषो ऽयम् । स्वामिनो दोषः । यस् ते वाक्यं श्रद्दधाति । उक्तं च-

नराधिपा नीच-जनानुवर्तिनो
बुधोपदिष्टेन पथा न यान्ति ये ।
विशन्त्य् अतो दुर्गम-मार्ग-निर्गमं
समस्त-सम्बाधम् अनर्थ-पञ्जरम् ॥पन्च्_१.४१४॥

तद् यदि त्वम् अस्य मन्त्री भविष्यसि तदान्यो ऽपि कश्चिन् नास्य समीपे साधु-जनः समेष्यति । उक्तं च-

गुणालयो ऽप्य् असन् मन्त्री नृपतिर् नाधिगम्यते । प्रसन्न-स्वादु-सलिलो दुष्ट-ग्राह्यो यथा ह्रदः ॥पन्च्_१.४१५॥

तथा च शिष्ट-जन-रहितस्य स्वामिनो ऽपि नाशो भविष्यति । उक्तं च-

चित्रास्वाद-कथैर् भृत्यैर् अनायासित-कार्मुकैः ।
ये रमन्ते नृपास् तेषां रमन्ते रिपवः श्रिया ॥पन्च्_१.४१६॥

तत् किं मूर्खोपदेशेन । केवलं दोषो न गुणः । उक्तं च-

नानाम्यं नमते दारु नाश्मनि स्यात् क्षुर-क्रिया ।
सूची-मुखं विजानीहि नाशिष्यायोपश्यते ॥पन्च्_१.४१७॥

दमनक आह– कथम् एतत् ?

अतोऽहं ब्रवीमि “नानाम्यं नमते दारु” इत्यादि।

  • तथा च
    उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये ।
    पयःपानं भुजङ्गानां केवलं विषवर्द्धनम् ॥४२०॥ +++(सम्पादकटिप्पनी - पुस्तके इदमधिकम् पद्यम् ।)+++

अन्यच्च

उपदेशो न दातव्यो यादृशे तादृशे नरे ।
पश्य वानरमूर्खेण सुगृही निर्गृहीकृता ॥१.४२१॥

दमनक आह कथमेतत्?

सोऽब्रवीत्

अतोऽहं ब्रवीमि “उपदेशो न दातव्यः” इति ।

  • तन् मूर्ख ! शिक्षापितो ऽपि न शिक्षितस् त्वम् । अथवा न ते दोषो ऽस्ति, यतः साधोः शिक्षा गुणाय सम्पद्यते, नासाधोः । उक्तं च-

किं करोत्य् एव पाण्डित्यम् अस्थाने विनियोजितम् ।
अन्धकार-प्रतिच्छन्ने घटे दीप इवाहितः ॥पन्च्_१.४२५॥

तद्-व्यर्थ-पाण्डित्यम् आश्रित्य मम वचनम् अशृण्वन्न् आत्मनः शान्तिम् अपि वेत्सि । तन् नूनम् अपजातस् त्वम् । उक्तं च-

जजातः पुत्रो ऽनुजातश् च अतिजातस् तथैव च ।
अपजातश् च लोकेऽस्मिन् मन्तव्याः शास्त्र-वेदिभिः ॥पन्च्_१.४२६॥

मातृ-तुल्य-गुणो जातस् त्व् अनुजातः पितुः समः ।
अतिजातो ऽधिकस् तस्माद् अपजातो ऽधमाधमः ॥पन्च्_१.४२७॥

अप्य् आत्मनो विनाशं गणयति न खलः पर-व्यसन-हृष्टः ।
प्रायो मस्तक-नाशे समर-मुखे नृत्यति कबन्धः ॥पन्च्_१.४२८॥ +++(सम्पादकटिप्पनी - पुस्तके अयमधिकः पाठः ।)+++

अहो, साध्व् इदम् उच्यते-

धर्म-बुद्धिः कुबुद्धिश् च द्वाव् एतौ विदितौ मम ।
पुत्रेण व्यर्थ-पाण्डित्यात् पिता धूमेन घातितः ॥पन्च्_१.४२९॥

दमनक आह–कथम् एतत् ?

सो ऽब्रवीत्-

तदनेन पापबुद्धिना उपायश्चिन्तितो नापायः । ततस्तत्फलं प्राप्तम् ।

धर्मबुद्धिः कुबुद्धिश्च द्वावेतौ विदितौ मम ।
पुत्रेण व्यर्थपाण्डित्यात्पिता धूमेन घातितः ॥१.४४१॥

एवं मूढ ! त्वयाप्य् अपायश् चिन्तितो नोपायः पाप-बुद्धिवत् । तन् न भवसि त्वं सज्जनः । केवलं पाप-बुद्धिर् असि । ज्ञातो मया स्वामिनः प्राण-सन्देहानयनात् । प्रकटीकृतं त्वया स्वयम् एवात्मनो दुष्टत्वं कौटिल्यं च । अथवा साध्व् इदम् उच्यते-

यत्नाद् अपि कः पश्येच् छिखिनाम् आहार-निःसरण-मार्गम् ।
यदि जलद-ध्वनि-मुदितास् त एव मूढा न नृत्येयुः ॥पन्च्_१.४४१॥

यदि त्वं स्वामिनम् एनां दशां नयसि तद् अस्मद्-विधस्य का गणना ? तस्मान् ममासन्नेन भवता न भाव्यम् । उक्तं च-

तुलां लोह-सहस्रस्य यत्र खादन्ति मूषकाः ।
राजंस् तत्र हरेच् छ्येनो बालकं नात्र संशयः ॥पन्च्_१.४४२॥

दमनक आह– कथम् एतत् ?

सो ऽब्रवीत्-

अतो ऽहं ब्रवीमि-तुलां लोह-सहस्रस्य इति । तन् मूर्ख ! सञ्जीवक-प्रसादम् असहमानेन त्वयैतत् कृतम् । अहो साध्व् इदम् उच्यते-

प्रायेणात्र कुलान्वितं कुकुलजाः श्री-वल्लभं दुर्भगा
दातारं कृपणा ऋजून् अनृजवो वित्ते स्थितं निर्धनाः ।
वैरूप्योपहृताश् च कान्त-वपुषं धर्माश्रयं पापिनो
नाना-शास्त्र-विचक्षणं च पुरुषं निन्दन्ति मूर्खाः सदा ॥पन्च्_१.४४८॥

तथा च-
मूर्खाणां पण्डिता द्वेष्या निर्धनानां महाधनाः ।
व्रतिनः पाप-शीलानाम् असतीनां कुल-स्त्रियः ॥पन्च्_१.४४९॥

तन् मूर्ख त्वया हितम् अप्य् अहितं कृतम् । उक्तं च-

पण्डितो ऽपि वरं शत्रुर् न मूर्खो हित-कारकः ।
वानरेण हतो राजा विप्राश् चीरेण रक्षिताः ॥पन्च्_१.४५०॥

दमनक आह– कथम् एतत् ?

सो ऽब्रवीत्–

अतो ऽहं ब्रवीमि- पण्डितो ऽपि वरं शत्रुः इति ।

अथैवं संवदतोः सञ्जीवकः क्षणम् एकं पीङ्गलकेन सह युद्धं कृत्वा तस्य खर-नखर-प्रहाराभिहितो गतासुर् वसुन्धरा-पीठे निपपात । अथ तं गतासुम् अवलोक्य पिङ्गलकस् तद्-गुण-स्मरणार्द्र-हृदयः प्रोवाच-भोः, अयुक्तं मया पापेन कृतं सञ्जीवकं व्यापादयता । यतो विश्वास-घाताद् अन्यन् नास्ति पापतरं कर्म । उक्तं च-

मित्र-द्रोही कृतघ्नश् च यश् च विश्वास-घातकः ।
ते नरा नरकं यान्ति यावच् चन्द्र-दिवाकरौ ॥पन्च्_१.४५४॥

भूमि-क्षये राज-विनाश एव
भृत्यस्य वा बुद्धिमतो विनाशे ।
नो युक्तम् उक्तं ह्य् अनयोः समत्वं
नष्टापि भूमिः सुलभा न भृत्याः ॥पन्च्_१.४५५॥

तथा मया सभा-मध्ये स सदैव प्रशंसितः । तत् किं कथयिष्यामि तेषाम् अग्रतः । उक्तं च-

उक्तो भवति यः पूर्वं गुणवान् इति संसदि ।
न तस्य दोषो वक्तव्यः प्रतिज्ञा-भङ्ग-भीरुणा ॥पन्च्_१.४५६॥

एवं-विधं प्रलपन्तं दमनकः समेत्य सहर्षम् इदम् आह-देव, कातरतमस् तवैष न्यायो यद् द्रोह-कारिणं शष्प-भुजं हत्वेत्थं शोचसि । तन् नैतद् उपपन्नं भूभुजाम् । उक्तं च-

पिता वा यदि वा भ्राता पुत्रो भार्याथवा सुहृत् ।
प्राण-द्रोहं यदा गच्छेद् धन्तव्यो नास्ति पातकम् ॥पन्च्_१.४५७॥

तथा च-
राजा घृणी ब्राह्मणः सर्व-भक्षी
स्त्री चात्रपा दुष्टमतिः सहायः ।
प्रेष्यः प्रतीपो ऽधिकृतः प्रसादी
त्याज्या अमी यश् च कृतं न वेत्ति ॥पन्च्_१.४५८॥

अपि च-
सत्यानृता च परुषा प्रिय-वादिनी च
हिंस्रा दयालुर् अपि चार्थ-परा वदान्या ।
भूरि-व्यथा प्रचुर-वित्त-समागमा च
वेश्याङ्गनेव नृप-नीतिर् अनेक-रूपा ॥पन्च्_१.४५९॥

अपि च-
अकृतोपद्रवः कश्चिन् महान् अपि न पूज्यते ।
पूजयन्ति नरा नागान् न तार्क्ष्यं नाग-घातिनम् ॥पन्च्_१.४६०॥

तथा च-
अशोच्यान् अन्वशोचस् त्वं प्रज्ञा-वादांश् च भाषसे ।
गतासून् अगतासूंश् च नानुशोचन्ति पण्डिताः ॥पन्च्_१.४६१॥

एवं तेन सम्बोधितः पिङ्गलकः सञ्जीवक-शोकं त्यक्त्वा दमनक-साचिव्येन राज्यम् अकरोत् ।

इति श्री-विष्णु-शर्म-विरचिते पञ्चतन्त्रे मित्र-भेदो नाम प्रथमं तन्त्रम्
॥१॥