१-०६ दमनकेन सञ्जीवकबुद्धिभ्रंशनम्

इति कथयित्वा सञ्जीवक-सकाशं गतस् तं प्रणम्योपविष्टः । सञ्जीवको ऽपि सोद्वेगाकारं मन्द-गत्या समायान्तं तम् उद्वीक्ष्य सादरतरम् उवाच– भो मित्र ! स्वागतम् । चिराद् दृष्टो ऽसि । अपि शिवं भवतः । तत् कथय येनादेयम् अपि तुभ्यं गृहागताय प्रयच्छामि । उक्तं च–

ते धन्यास् ते विवेकज्ञास् ते सभ्या इह भूतले ।
आगच्छन्ति गृहे येषां कार्यार्थं सुहृदो जनाः ॥१.२८५॥

दमनक आह– भोः ! कथं शिवं सेवक-जनस्य ।

सम्पत्तयः परायत्ताः सदा चित्तम् अनिर्वृतम् ।
स्व-जीवितेऽप्य् अविश्वासस् तेषां ये राज-सेवकाः ॥१.२८६॥

तथा च–

सेवया धनम् इच्छद्भिः सेवकैः पश्य यत् कृतम् ।
स्वातन्त्र्यं यच् छरीरस्य मूढैस् तद् अपि हारितम् ॥१.२८७॥

तावज् जन्माति-दुःखाय ततो दुर्गतता सदा ।
तत्रापि सेवया वृत्तिर् अहो दुःख-परम्परा ॥१.२८८॥

जीवन्तो ऽपि मृताः पञ्च श्रूयन्ते किल भारते ।
दरिद्रो व्याधितो मूर्खः प्रवासी नित्य-सेवकः ॥१.२८९॥

नाश्नाति स्वच्छयोत्सुक्याद् विनिद्रो न प्रबुध्यते ।
न निःशङ्कं वचो ब्रूते सेवकोऽप्य् अत्र जीवति ॥१.२९०॥

सेवा श्व-वृत्तिर् आख्याता यैस् तैर् मिथ्या प्रजल्पितम् ।
स्वच्छन्दं चरति स्वात्र सेवकः पर-शासनात् ॥१.२९१॥

भू-शय्या ब्रह्मचर्यं च कृशत्वं लघु-भोजनम् ।
सेवकस्य यतेर् यद्वद् विशेषः पाप-धर्मजः ॥१.२९२॥

शीतातपादि-कष्टानि सहते यानि सेवकः ।
धनाय तानि चाल्पानि यदि धर्मान् न मुच्यते ॥१.२९३॥

मृदुनापि सुवृत्तेन सुश्लिष्टेनापि हारिणा ।
मोदकेनापि किं तेन निष्पत्तिर् यस्य सेवया ॥१.२९४॥

सञ्जीवक आह– अथ भवान् किं वक्तु-मनाः ?

सो ऽब्रवीत्– मित्र, सचिवानां मन्त्र-भेदं न युज्यते । उक्तं च–

यो मन्त्रं स्वामिनो भिद्यात् साचिव्ये सन्-नियोजितः ।
स हत्वा नृपकार्यं तत् स्वयं च नरकं व्रजेत् ॥१.२९५॥

येन यस्य कृतो भेदः सचिवेन महीपतेः ।
तेनाशस्त्र-वधस्-तस्य कृत इत्याह नारदः ॥१.२९६॥

तथापि मया तव स्नेह-पाश-बद्धेन मन्त्र-भेदः कृतः । यतस् त्वं मम वचनेनात्र राज-कुले विश्वस्तः प्रविष्टश् च । उक्तं च–

विश्रम्भाद् यस्य यो मृत्युम् अवाप्नोति कथञ्चन ।
तस्य हत्या तद् उत्था सा प्राहेदं वचनं मनुः ॥१.२९७॥

तत् तवोपरि पिङ्गलकोऽयं दुष्ट-बुद्धिः कथितं चाद्यानेन मत्-पुरतश् चतुष्कर्णतया यत् प्रभाते सञ्जीवकं हत्वा समस्त-मृग-परिवारं चिरात् तृप्तिं नेष्यामि ।

ततः स मयोक्तः स्वामिन् ! न युक्तम् इदं यन् मित्र-द्रोहेण जीवनं क्रियते । उक्तं च–

अपि ब्रह्म-वधं कृत्वा प्रायश्चित्तेन शुध्यति ।
तद् अर्थेन विचीर्णेन न कथञ्चित् सुहृद् द्रुहः ॥१.२९८॥

ततस् तेनाहं सामर्षेणोक्तः– भो दुष्ट-बुद्धे, सञ्जीवकस् तावच् छष्प-भोजी, वयं मांसाशिनः । तद् अस्माकं स्वाभाविकं वैरम् इति कथं रिपुर् उपेक्ष्यते ? तस्मात् सामादिभिर् उपायैर् हन्यते । न च हते तस्मिन् दोषः स्यात् । उक्तं च–

दत्त्वापि कन्यकां वैरी निहन्तव्यो विपश्चिता ।
अन्योपायैर् अशक्यो यो हते दोषो न विद्यते ॥१.२९९॥

कृत्याकृत्यं न मन्येत क्षत्रियो युधि सङ्गतः ।
प्रसुप्तो द्रोण-पुत्रेण धृष्टद्युम्नः पुरा हतः ॥१.३००॥

तद् अहं तस्य निश्चयं ज्ञात्वा त्वत्-सकाशम् इहागतः । साम्प्रतं मे नास्ति विश्वास-घातक-दोषः । मया सुगुप्त-मन्त्रस् तव निवेदितः । अथ यत् ते प्रतिभाति तत् कुरुष्व इति । अथ सञ्जीवकस् तस्य तद्वज्र-पात-दारुणं वचनं श्रुत्वा मोहम् उपगतः । अथ चेतनां लब्ध्वा स-वैराग्यम् इदम् आह– भो साध्व् इदम् उच्यते–

दुर्जन-गम्या नार्यः प्रायेणास्नेहवान् भवति राजा ।
कृपणानुसारि च धनं मेघो गिरि-दुर्ग-वर्षी च ॥१.३०१॥

अहं हि सम्मतो राज्ञो य एवं मन्यते कुधीः ।
बलीवर्दः स विज्ञेयो विषाण-परिवर्जितः ॥१.३०२॥

वरं वनं वरं भैक्ष्यं वरं भारोपजीवनम् ।
वरं व्याधिर् मनुष्याणां नाधिकारेण सम्पदः ॥१.३०३॥

तद् युक्तं मया कृतं तद् अनेन सह मैत्री विहिता । उक्तं च–

ययोर् एव समं वित्तं ययोर् एव समं कुलम् ।
तयोर् मैत्री विवाहश् च न तु पुष्ट-विपुष्टयोः ॥१.३०४॥

तथा च–

मृगा मृगैः सङ्गम् अनुव्रजन्ति
गावश् च गोभिस् तुरगास् तुरगैः ।
मूर्खाश् च मूर्खैः सुधियः सुधीभिः
समान-शील-व्यसनेन सख्यम् ॥१.३०५॥

तद् यदि गत्वा तं प्रसादयामि, तथापि न प्रसादं यास्यति । उक्तं च–

निमित्तम् उद्दिश्य हि यः प्रकुप्यति
ध्रुवं स तस्यापगमे प्रशाम्यति ।
अकारण-द्वेष-परो हि यो भवेत्
कथं नरस् तं परितोषयति ॥१.३०६॥

अहो साधु चेदम् उच्यते–

भक्तानाम् उपकारिणां पर-हित-व्यापार-युक्तात्मनां
सेवा-संव्यवहार-तत्त्व-विदुषां द्रोह-च्युतानाम् अपि ।
व्यापत्तिः स्खलितान्तरेषु नियता सिद्धिर् भवेद् वा न वा
तस्माद् अम्बुपतेर् इवावनि-पतेः सेवा सदा शङ्किनी ॥१.३०७॥

तथा च–

भाव-स्निग्धैर् उपकृतम् अपि द्वेष्यतां याति लोके
साक्षाद् अन्यैर् अपकृतम् अपि प्रीतये चोपयाति ।
दुर्ग्राह्यत्वान् नृपति-मनसां नैक-भावाश्रयाणां
सेवा-धर्मः परम-गहनो योगिनाम् अप्य् अगम्यः ॥१.३०८॥

तत् परिज्ञातं मया मत्-प्रसादम् असहमानैः समीपवर्तिभिर् एष पिङ्गलकः प्रकोपितः । तेनायं ममादोषस्याप्य् एवं वदति । उक्तं च–

प्रभोः प्रसादम् अन्यस्य न सहन्तीह सेवकाः ।
सपत्न्य इव सङ्क्रुद्धाः सपत्न्याः सुकृतैर् अपि ॥१.३०९॥

भवति चैवं यद् गुणवत्सु समीप-वर्तिषु गुण-हीनानां न प्रसादो भवति । उक्तं च–

गुणवत्तर-पात्रेण छाद्यन्ते गुणिनां गुणाः ।
रात्रौ दीप-शिखा-कान्तिर् न भानाव् उदिते सति ॥१.३१०॥

दमनक आह– भो मित्र ! यद्य् एवं तन् नास्ति ते भयम् । प्रकोपितोऽपि स दुर्जनैस् तव वचन-रचनया प्रसादं यास्यति ।

स आह– भोः ! न युक्तम् उक्तं भवता । लघूनाम् अपि दुर्जनानां मध्ये वस्तुं न शक्यते । उपायान्तरं विधाय ते नूनं घ्नन्ति । उक्तं च–

बहवः पण्डिताः क्षुद्राः सर्वे मायोपजीविनः ।
कुर्युः कृत्यम् अकृत्यं वा उष्ट्रे काकादयो यथा ॥१.३११॥

दमनक आह– कथम् एतत् ?

सोऽब्रवीत्–

अतोऽहं ब्रवीमि– “बहवः पण्डिताः क्षुद्राः” इति ।

तद् भद्र, क्षुद्र-परिवारो ऽयं ते राजा मया सम्यग् जातः । सताम् असेव्यं च । उक्तं च–

अशुद्ध-प्रकृतौ राज्ञि जनता नानुरज्यते ।
यथा गृध्र-समासन्नः कलहंसः समाचरेत् ॥१.३२४॥
तथा च–

गृध्राकारोऽपि सेव्यः स्याद् धंसाकारैः सभासदैः ।
हंसाकारो ऽपि सन्त्याज्यो गृध्राकारैः स तैर् नृपः ॥१.३२५॥

तन् नूनं ममोपरि केनचिद् दुर्जनेनायं प्रकोपितः, तेनैवं वदति । अथवा भवत्य् एतत् । उक्तं च–

मृदुना सलिलेन खन्यमानान्य्
अवद्धृष्यन्ति गिरेर् अपि स्थलानि ।
उपजापविदां च कर्ण-जापैः
किम् उ चेतांसि मृदूनि मानवानाम् ॥१.३२६॥

कर्ण-विषेण च भग्नः किं किं न करोति बालिशो लोकः ।
क्षपणकताम् अपि धत्ते पिबति सुरां नरक-पालेन ॥१.३२७॥

अथवा साध्व् इदम् उच्यते–

पादाहतो ऽपि दृढ-दण्ड-समाहतो ऽपि
यं दंष्ट्रया स्पृशति तं किल हन्ति सर्पः ।
कोऽप्य् एष एव पिशुनोग्र-मनुष्य-धर्मः
कर्णे परं स्पृशति हन्ति परं समूलम् ॥१.३२८॥

तथा च–

अहो खल-भुजङ्गस्य विपरीतो वध-क्रमः ।
कर्णे लगति चैकस्य प्राणैर् अन्यो वियुज्यते ॥१.३२९॥

तदेवं गतेऽपि किं कर्तव्यम् इत्यहं त्वां सुहृद् भावात् पृच्छामि ।

दमनक आह– तद्-देशान्तर-गमनं युज्यते । नैवं-विधस्य कुस्वामिनः सेवां विधातुम् । उक्तं च–

गुरोर् अप्य् अवलिप्तस्य कार्याकार्यम् अजानतः ।
उत्पथ-प्रतिपन्नस्य परित्यागो विधीयते ॥१.३३०॥

सञ्जीवक आह– अस्माकम् उपरि स्वामिनि कुपिते गन्तुं न शक्यते, न चान्यत्र गतानाम् अपि निर्वृतिर् भवति । उक्तं च–

महतां यो ऽपराध्येन दूरस्थो ऽस्मीति नाश्वसेत् ।
दीर्घौ बुद्धिमतो बाहू ताभ्यां हिंसति हिंसकम् ॥१.३३१॥

तद् युद्धं मुक्त्वा मे नान्यद् असित् श्रेयस्करम् । उक्तं च–

न तान् हि तीर्थैस् तपसा च लोकान्
स्वर्गैषिणो दान-शतैः सुवृत्तैः ।
क्षणेन यान् यान्ति रणेषु धीराः
प्राणान् समुज्झन्ति हि ये सुशीलाः ॥१.३३२॥

मृतैः सम्प्राप्यते स्वर्गो जीवद्भिः कीर्तिर् उत्तमा ।
तद् उभाव् अपि शूराणां गुणाव् एतौ सुदुर्लभौ ॥१.३३३॥

ललाटदेशे रुधिरं स्रवत् तु
शूरस्य यस्य प्रविशेच् च वक्त्रे ।
तत् सोमपानेन समं भवेच् च
सङ्ग्राम-यज्ञे विधिवत् प्रदिष्टम् ॥१.३३४॥

तथा च–

होमार्थैर् विधिवत् प्रदान-विधिना सद्-विप्र-वृन्दार्चनैर्
यज्ञैर् भूरि-सुदक्षिणैः सुविहितैः सम्प्राप्यते यत् फलम् ।
सत्-तीर्थाश्रम-वास-होम-नियमैश् चान्द्रायणाद्यैः कृतैः
पुम्भिस् तत्-फलम् आहवे विनिहितैः सम्प्राप्यते तत्-क्षणात् ॥१.३३५॥

तद् आकर्ण्य दमनकश् चिन्तयामास– युद्धाय कृत-निश्चयोऽयं दृश्यते दुरात्मा । तद् यदि कदाचित् तीक्ष्ण-शृगालाभ्यां स्वामिनं प्रहरिष्यति तन् महान् अनर्थः सम्पत्स्यते । तद् एनं भूयो ऽपि स्व-बुद्ध्या प्रबोध्य तथा करोमि, यथा देशान्तर-गमनं करोति । आह च– भो मित्र ! सम्यग् अभिहितं भवता । परं कः स्वामि-भृत्ययोः सङ्ग्रामः । उक्तं च–

बलवन्तं रिपुं दृष्ट्वा किलात्मानं प्रगोपयेत् ।
बलवद्भिश् च कर्तव्या शरच्-चन्द्र-प्रकाशता ॥१.३३६॥

अन्यच् च–

शत्रोर् विक्रमम् अज्ञात्वा वैरम् आरभते हि यः ।
स पराभवम् आप्नोति समुद्रष् टिट्टिभाद् यथा ॥१.३३७॥

सञ्जीवक आह– कथम् एतत्?

सो ऽब्रवीत्–

अतो ऽहं ब्रवीमि-शत्रोर् बलम् अविज्ञाय इति । तस्मात् पुरुषेणोद्यमो न त्याज्यः ।

तद् आकर्ण्य सञ्जीवकस् तम् एव भूयो ऽपि पप्रच्छ-भो मित्र ! कथं ज्ञेयो मयासौ दुष्ट-बुद्धिर् इति । इयन्तं कालं यावद् उत्तरोत्तर-स्नेहेन प्रसादेन चाहं दृष्टः । न कदाचित् तद्-विकृतिर् दृष्टा । तत् कथ्यतां येनाहम् आत्म-रक्षार्थं तद्-वधायोद्यमं करोमि ।

दमनक आह-भद्र, किम् अत्र ज्ञेयम् ? एष ते प्रत्ययः । यदि रक्त-नेत्रस् त्रिशिखां भ्रूकुटिं दधानः सृक्कणी परिलेलिहन् त्वां दृष्ट्वा भवति, तद् दुष्ट-बुद्धिः । अन्यथा सुप्रसादश् चेति । तद् आज्ञापय माम् । स्वाश्रयं प्रति गच्छामि । त्वया च यथायं मन्त्र-भेदो न भवति तथा कार्यम् । यदि निशामुखं प्राप्य गन्तुं शक्नोषि तद्-देश-त्यागः कार्यः । यतः-

त्यजेद् एकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् । ग्रामं जनपदस्यार्थे स्वात्मार्थे पृथिवीं त्यजेत् ॥पन्च्_१.३८६॥ आपद्-अर्थे धनं रक्षेद् दारान् रक्षेद् धनैर् अपि । आत्मानं सततं रक्षेद् दारैर् अपि धनैर् अपि ॥पन्च्_१.३८७॥

बलवताभिभूतस्य विदेश-गमनं तद्-अनुप्रवेशो वा नीतिः । तद्-देश-त्यागः कार्यः । अथवात्मा सामादिभिर् उपायैर् आभरक्षणीयः । उक्तं च-

अपि पुत्र-कलत्रैर् वा प्राणान् रक्षेत पण्डितः । विद्यमानैर् यतस् तैः स्यात् सर्वं भूयो ऽपि देहिनाम् ॥पन्च्_१.३८८॥

तथा च- येन केनाप्य् उपायेन शुभेनाप्य् अशुभेन वा । उद्धरेद् दीनम् आत्मानं समर्थो धर्मम् आचरेत् ॥पन्च्_१.३८९॥ यो मायां कुरुते मूढः प्राण-त्यागे धनादिषु । तस्य प्राणाः प्रणश्यन्ति तैर् नष्टैर् नष्टम् एव तत् ॥पन्च्_१.३९०॥