१-०५ पिङ्गलकमतिचाञ्चल्यम्

अथ दमनकः सञ्जीवक-वियुक्तं पिङ्गलकम् अवलोक्य तत्रान्तरे प्रणम्याग्रे समुपविष्टः । पिङ्गलकोऽपि तम् आह– भद्र, किं चिराद् दृष्टः ?

दमनक आह– न कञ्चिद् देव-पादानाम् अस्माभिः प्रयोजनम् । तेनाहं नागच्छामि । तथापि राज-प्रयोजन-विनाशम् अवलोक्य सन्दह्यमान-हृदयो व्याकुलतया स्वयम् एवाभ्यागतो वक्तुम् । उक्तं च–

प्रियं वा यदि वा द्वेष्यं शुभं वा यदि वाशुभम् ।
अपृष्टो ऽपि हितं वक्ष्येद् यस्य नेच्छेत् पराभवम् ॥१.२६२॥

अथ तस्य साभिप्रायं वचनम् आकर्ण्य पिङ्गलक आह– किं वक्तुमना भवान् ? तत् कथ्यतां यत् कथनीयम् अस्ति ।

स प्राह– देव सञ्जीवको युष्मत् पादानामुपरि द्रोह-बुद्धिर् इति । विश्वास-गतस्य मम विजने इदम् आह– भो दमनक ! दृष्टा मयास्य पिङ्गलकस्य सारासारता । तद् अहम् एनं हत्वा सकल-मृगाधिपत्यं त्वत्-साचिव्य-पदवी-समन्वितं करिष्यामि । पिङ्गलको ऽपि तद्-वज्र-सार-प्रहार-सदृशं दारुणं वचः समाकर्ण्य मोहम् उपगतो न किञ्चिद् अप्य् उक्तवान् । दमनको ऽपि तस्य तम् आकारम् आलोक्य चिन्तितवान् अयं तावत् सञ्जीवक-निबद्ध-रागः । तन् नूनम् अनेन मन्त्रिणा राजा विनाशम् अवाप्स्यति इति । उक्तं च–

एकं भूमि-पतिः करोति सचिवं राज्ये प्रमाणं यदा
तं मोहाच् छ्रयते मदः स च मदाद् दास्येन निर्विद्यते ।
निर्विण्णस्य पदं करोति हृदये तस्य स्वतन्त्र-स्पृहा
स्वातन्त्र्य-स्पृहया ततः स नृपतेः प्राणान् अभिद्रुह्यति ॥१.२६३॥

तत् किम् अत्र युक्तम् इति । पिङ्गलको ऽपि चेतनां समासाद्य कथम् अपि तम् आह– सञ्जीवकस् तावत् प्राण-समो भृत्यः । स कथं ममोपरि द्रोह-बुद्धिं करोति ।

दमनक आह– देव, भृत्यो ऽभृत्य इत्य् अनेकान्तिकम् एतत् । उक्तं च–

न सोऽस्ति पुरुषो राज्ञां यो न कामयते श्रियम् ।
अशक्ता एव सर्वत्र नरेन्द्रं पर्युपासते ॥१.२६४॥

पिङ्गलक आह– भद्र, तथापि मम तस्योपरि चित्त-वृत्तिर् न विकृतिं याति । अथवा साध्व् इदम् उच्यते–

अनेक-दोष-दुष्टो ऽपि कायः कस्य न वल्लभः ।
कुर्वन्न् अपि व्यलीकानि यः प्रियः प्रिय एव सः ॥१.२६५॥

दमनक आह– अत एवायं दोषः । उक्तं च–

यस्मिन्न् एवाधिकं चक्षुर् आरोपयति पार्थिवः ।
अकुलीनः कुलीनो वा स श्रियो भाजनं नरः ॥१.२६६॥

अपरं केन गण-विशेषेण स्वामी सञ्जीवकं निर्गुणकम् अपि निकटे धारयति । अथ देव, यद्य् एवं चिन्तयसि महा-कायो ऽयम् । अनेन रिपून् व्यापादयिष्यामि । तद् अस्मान् न सिध्यति, यतो ऽयं शष्प-भोजी । देवपादानां पुनः शत्रवो मांसाशिनः । तद्-रिपु-साधनम् अस्य साहाय्येन न भवति । तस्माद् एनं दूषयित्वा हन्यताम् इति ।

पिङ्गलक आह–

उक्तो भवति यः पूर्वं गुणवान् इति संसदि ।
तस्य दोषो न वक्तव्यः प्रतिज्ञा-भङ्ग-भीरुणा ॥१.२६७॥

अन्यच् च । मयास्य तव वचनेनाभय-प्रदानं दत्तम् । तत् कथं स्वयम् एव व्यापादयामि । सर्वथा सञ्जीवको ऽयं सुहृद् अस्माकम् । न तं प्रति कश्चिन् मन्युर् इति । उक्तं च–

इतः स दैत्यः प्राप्त-श्रीर् नेत एवार्हति क्षयम् ।
विष-वृक्षो ऽपि संवर्ध्य स्वयं छेत्तुम् असाम्प्रतम् ॥१.२६८॥

आदौ न वा प्रणयिनां प्रणयो विधेयो
दत्तो ऽथवा प्रतिदिनं परिपोषणीयः ।
उत्क्षिप्य यत् क्षिपति तत् प्रकरोति लज्जां
भूमौ स्थितस्य पतनाद् भयम् एव नास्ति ॥१.२६९॥

उपकारिषु यः साधुः साधुत्वे तस्य को गुणः ।
अपकारिषु यः साधुः स साधुः सद्भिर् उच्यते ॥१.२७०॥

तद् द्रोह-बुद्धेर् अपि मयास्य न विरुद्धम् आचरणीयम् ।

दमनक आह– स्वामिन् ! नैष राज-धर्मो यद् द्रोह-बुद्धिर् अपि क्षम्यते । उक्तं च–

तुल्यार्थं तुल्यसामर्थ्यं मर्मज्ञं व्यवसायिनम् ।
अर्ध-राज्य-हरं भृत्यं यो न हन्यात् स हन्यते ॥१.२७१॥

अपरं त्वयास्य सखित्वात् सर्वो ऽपि राज-धर्मः परित्यक्तः राज-धर्माभावात् सर्वोऽपि परिजनो विरक्तिं गतः । यः सञ्जीवकः शष्प-भोजी । भवान् मांसादः । तव प्रकृतयश् च यत् तवावध्यव्यसाय-बाह्यं कुतस् तासां मांसाशनम् । यद् रहितास् त्वां त्यक्त्वा यास्यन्ति । ततोऽपि त्वं विनष्ट एव । अस्य सङ्गत्या पुनस् ते न कदाचिद् आखेटके मतिर् भविष्यति । उक्तं च–

यादृशः सेव्यते भृत्यैर् यादृशांश् चोपसेवते ।
कदाचिन् नात्र सन्देहस् तादृग् भवति पूरुषः ॥१.२७२॥

तथा च–

सन्तप्तायसि संस्थितस्य पयसो नामापि न ज्ञायते
मुक्त-कारतया तद् एव नलिनी-पत्र-स्थितं राजते ।
स्वातौ सागरशुक्तिकुक्षिपतितं तज् जायते मौक्तिकं
प्रायेणाधम-मध्यमोत्तम-गुणः संवासतो जायते ॥१.२७३॥

तथा च–

असतां सङ्गदोषेण सती याति मतिर् भ्रमम् ।
एक-रात्रि-प्रवासेन काष्ठं मुञ्जे प्रलम्बितम् ॥१.२७४॥ +++(सम्पादकटिप्पनी - पुस्तके इदं पद्यम् अन्यथा वर्तते ।)+++

  • असतां सङ्गदोषेण साधवो यान्ति विक्रियाम् ।
    दुर्य्योधन-प्रसङ्गेन भीष्मो गो-हरणे गतः ॥२७४॥ +++(सम्पादकटिप्पनी - पुस्तके २७४तमं पद्यम् ।)+++

अत एव सन्तो नीच-सङ्गं वर्जयन्ति । उक्तं च–

न ह्य् अविज्ञात-शीलस्य प्रदातव्यः प्रतिश्रयः ।
मत् कुणस्य च दोषेण हता मन्द-विसर्पिणी ॥१.२७५॥

पिङ्गलक आह– कथम् एतत्?

सोऽब्रवीत्–

अतोऽहं ब्रवीमि– “न ह्य् अविज्ञात-शीलस्य” इति ।

एवं ज्ञात्वा त्वया एष वध्यः । नो चेत् त्वां व्यापादयिष्यतीति । उक्तं च–

त्यक्ताश् चाभ्यन्तरा येन बाह्याश् चाभ्यन्तरीकृताः ।
स एव मृत्युम् आप्नोति यथा राजा ककुद्-द्रुमः ॥१.२८२॥

पिङ्गलक आह– कथम् एतत्?

सो ऽब्रवीत्–

अतोऽहं ब्रवीमि– “त्यक्ताश् चाभ्यन्तरा येन” इति ।

तद् आकर्ण्य पिङ्गलक आह– भो दमनक ! कः प्रत्ययो ऽत्र विषये यत् स ममोपरि दुष्ट-बुद्धिः ।

स आह– यद् अद्य ममाग्रे तेन निश्चयः कृतो यत् प्रभाते पिङ्गलकं वधिष्यामि । तद् अत्रैव प्रत्ययः । प्रभातेऽवसर-वेलायाम् आरक्त-मुख-नयनः स्फुरिताधरो दिशो ऽवलोकयन्न् अनुचित-स्थानोपविष्टस् त्वां क्रूर-दृष्ट्या विलोकयिष्यति । एवं ज्ञात्वा यद् उचितं तत् कर्तव्यम् ।