ततः स्वामि-प्रसाद-रहितौ क्षुत्-क्षाम-कण्ठौ परस्परं करटक-दमनकौ मन्त्रयेते । तत्र दमनको ब्रूते– आर्य करटक ! आवां तावद् अप्रधानतां गतौ । एष पिङ्गलकः संजीवकानुरक्तः स्व-व्यापार-पराङ्मुखः संजातः । सर्वोऽपि परिजनो गतः । तत् किं क्रियते ।
करटक आह– यद्यपि त्वदीय-वचनं न करोति तथापि स्वामी स्व-दोष-नाशाय वाच्यः । उक्तं च–
अशृन्वन्न् अपि बोद्धव्यो मन्त्रिभिः पृथिवीपतिः ।
यथा स्व-दोष-नाशाय विदुरेणाम्बिकासुतः ॥१.१७१॥
तथा च–
मदोन्मत्तस्य भूपस्य कुञ्जरस्य च गच्छतः ।
उन्मार्गं वाच्यतां यान्ति महामात्राः समीपगाः ॥१.१७२॥
तत् त्वयैष शष्प-भोजी स्वामिनः सकाशम् आनीतः । तत् स्वहस्तेनाङ्गाराः कर्षिताः ।
दमनक आह– सत्यम् एतत् । ममायं दोषः । न स्वामिनः । उक्तं च–
जम्बूको हुडु-युद्धेन वयं चाषाढ-भूतिना ।
दूतिका पर-कार्येण त्रयो दोषाः स्वयं कृताः ॥१.१७३॥
करटक आह– कथम् एतत्?
सो ऽब्रवीत्–
अतोऽहं ब्रवीमि– “जम्बूको हुडु-युद्धेन” (१.१७३) इति ।
करटक आह– एवं-विधे व्यतिकरे किं कर्तव्यम् आवयोः ?
दमनको ऽब्रवीत्– एवं-विधेऽपि समये मम बुद्धि-स्फुरणं भविष्यति, येन सञ्जीवकं प्रभोर् विश्लेषयिष्यामि । उक्तं च, यतः–
एकं हन्यान् न वा हन्याद् इषुः क्षिप्तो धनुष्मता ।
प्राज्ञेन तु मतिः क्षिप्ता हन्याद् गर्भ-गतान् अपि ॥१.२१५॥
तद् अहं माया-प्रपञ्चेन गुप्तम् आश्रित्य तं स्फोटयिष्यामि ।
करटक आह– भद्र, यदि कथम् अपि तव माया-प्रवेशं पिङ्गलको ज्ञास्यति, सञ्जीवको वा तदा नूनं विघात एव ।
सो ऽब्रवीत् तात, मैवं वद । गूढ-बुद्धिभिर् आपत्-काले विधुरेऽपि दैवे बुद्धिः प्रयोक्तव्या । नोद्यमस् त्याज्यः । कदाचिद् घुणाक्षर-न्यायेन बुद्धेः साम्राज्यं भवति । उक्तं च–
त्याज्यं न धैर्यं विधुरेऽपि दैवे
धैर्यात् कदाचित् स्थित्म् आप्नुयात् सः ।
याते समुद्रेऽपि हि पोत-भङ्गे
सांयात्रिको वाञ्छति कर्म एव ॥१.२१६॥
तथा च–
उद्योगिनं सततम् अत्र समेति लक्ष्मीर्
दैवं हि दैवम् इति कापुरुषा वदन्ति ।
दैवं निहत्य कुरु पौरुषम् आत्म-शक्त्या
यत्ने कृते यदि न सिध्यति कोऽत्र दोषः ॥१.२१७॥
तद् एवं ज्ञात्वा सुगूढ-बुद्धि-प्रभावेण यथा तौ द्वाव् अपि न ज्ञास्यतः, तथा मिथो वियोजयिष्यामि । उक्तं च–
सुगुप्तस्यापि दम्भस्य ब्रह्माप्यन्तं न गच्छति ।
कौलिको विष्णु-रूपेण राज-कन्यां निषेवते ॥१.२१८॥
करटक आह– कथम् एतत्?
सो ऽब्रवीत्–
अतस् तूच्यते "सुगुप्तस्यापि दम्भस्य" (२१८) इति ।तच् छ्रुत्वा करटक आह– भद्र, अस्त्य् एवम् । परं तथापि महन् मे भयम् । यतो बुद्धिमान् सञ्जीवको रौद्रश् च सिंहः । यद्यपि ते बुद्धि-प्रागल्भ्यं तथापि त्वं पिङ्गलकात् तं वियोजयितुम् असमर्थ एव ।
दमनक आह– भ्रातः ! असमर्थोऽपि समर्थ एव । उक्तं च–
उपायेन हि यच् छक्यं न तच् छक्यं पराक्रमैः ।
काकी कनक-सूत्रेण कृष्ण-सर्पम् अघातयत् ॥१.२२८॥ +++(सम्पादकटिप्पनी- पुस्तके इदं पद्यम् अन्यथा वर्तते ।)+++
- उपायेन हि यत् कुर्यात् तन् न शक्यं पराक्रमैः ।
काक्या कनक-सूत्रेण कृष्ण-सर्पो निपातितः ॥+++(सम्पादकटिप्पनी - पुस्तके २२८ तमं पद्यम् । )+++
करटक आह कथम् एतत्?
सोऽब्रवीत्–
अतोऽहं ब्रवीमि– “उपायेन हि यत् कुर्यात्” इति ।
तन् न किंचिद् इह बुद्धिमताम् असाध्यम् अस्ति । उक्तं च–
यस्य बुद्धिर् बलं तस्य निर्बुद्धेस् तु कुतो बलम् ।
वने सिंहो मदोन्मत्तः शशकेन निपातितः ॥१.२३७॥
करटक आह– कथम् एतत् ?
स आह–
अतोऽहं ब्रवीमि– “यस्य बुद्धिर् बलं तस्य” इति ।
तद् यदि भवान् कथयति तत् तत्रैव गत्वा तयोः स्व-बुद्धि-प्रभावेण मैत्री-भेदं करोमि ।
करटक आह– भद्र ! यद्य् एवं तर्हि गच्छ । शिवास् ते पन्थानः सन्तु । यथाभिप्रेतम् अनुष्ठीयताम् ।