दमनकोऽपि सञ्जीवक-सकाशं गत्वा वृषभोऽयमिति परिज्ञाय हृष्ट-मना व्यचिन्तयत्– अहो! शोभनम् आपतितम् । अनेनैतस्य सन्धि-विग्रह-द्वारेण मम पिङ्गलको वश्यो भविष्यतीति । उक्तं च –
न कौलीन्यान् न सौहार्दान् नृपो वाक्ये प्रवर्तते ।
मन्त्रिणां वावद् अभ्येति व्यसनं शोकम् एव च ॥१.१२७॥
सदैवापद्गतो राजा भोग्यो भवति मन्त्रिणाम् ।
अतएव हि वाञ्छन्ति मन्त्रिणः सापदं नृपम् ॥१.१२८॥
यथा नेच्छति नीरोगः कदाचित् सुचिकित्सकम् ।
तथापद् रहितो राजा सचिवं नाभिवाञ्छति ॥१.१२९॥
एवं विचिन्तयन् पिङ्गलकाभिमुखः प्रतस्थे । पिङ्गलकोऽपि तमायान्तं प्रेक्ष्य स्वाकारं रक्षन् यथा-पूर्व-स्थितः दमनकोऽपि पिङ्गलक-सकाशं गत्वा प्रणम्योपविष्टः । पिङ्गलक आह – किं दृष्टं भवता तत् सत्त्वम् ?
दमनक आह– दृष्टं स्वामि-प्रसादात् ।
पिङ्गलक आह अपि सत्यम् ।
दमनक आह– किं स्वामि-पादानाम् अग्रेऽसत्यं विज्ञाप्यते । उक्तं च–
अपि स्वल्पम् असत्यं यः पुरो वदति भूभुजाम् ।
देवानां च विनश्यते स द्रुतं सुमहान् अपि ॥१.१३०॥
तथा च–
सर्व-देव-मयो राजा मनुना सम्प्रकीर्तितः ।
तस्मात् तं देववत् पश्येन् न व्यलीकेन कर्हिचित् ॥१.१३१॥
सर्व-देवमयस्यापि विशेषो नृपतेर् अयम् ।
शुभाशुभ-फलं सद्यो नृपाद् देवाद् भवान्तरे ॥१.१३२॥
पिङ्गलक आह– सत्यं दृष्टं भविष्यति भवता । न दीनिपरि महान्तः कुप्यन्तीति न त्वं तेन निपातितः । यतः–
तृणानि नोन्मूलयति प्रभञ्जनो
मृदूनि नीचैः प्रणतानि सर्वतः ।
स्वभाव एवोन्नत-चेतसाम् अयं
महान् महत्स्व् एव करोति विक्रमम् ॥१.१३३॥
अपि च–
गण्डस्थलेषु मद-वारिषु बद्ध-राग-
मत्त-भ्रमद्-भ्रमर-पाद-तलाहतो ऽपि ।
कोपं न गच्छति नितान्त-बलो ऽपि नागस्
तुल्ये बले तु बलवान् परिकोपम् एति ॥१.१३४॥
दमनक आह– अस्त्व् एवं स महात्मा । वयं कृपणाः । तथापि स्वामी यदि कथयति ततो भृत्यत्वे नियोजयामि ।
पिङ्गलक आह सोच्छ्वासं– किं भवान् शक्नोत्य् एवं कर्तुम् ।
दमनक आह किम् असाध्यं बुद्धेर् अस्ति । उक्तं च–
न तच् छस्त्रैर् न नागेन्द्रैर् न हयैर् न पदातिभिः ।
कार्यं संसिद्धिम् अभ्येति यथा बुद्ध्या प्रसाधितम् ॥१.१३५॥
पिङ्गलक आह– यद्येवं तर्ह्य् अमात्य-पदे ऽध्यारोपितस् त्वम् । अद्य-प्रभृति प्रसाद-निग्रहादिकं त्वयेव कार्यम् इति निश्चयः ।
अथ दमनकः सत्वरं गत्वा साक्षेपं तम् इदम् आह– एह्य् एहीतो दुष्ट-वृषभ । स्वामी पिङ्गलकस् त्वाम् आकारयति । किं निःशङ्को भूत्वा मुहुर् मुहुर् नदसि वृथा इति ।
तच् छ्रुत्वा सञ्जीवको ऽब्रवीत्– भद्र कोऽयं पिङ्गलकः ।
दमनक आह– किं स्वामिनं पिङ्गलकम् अपि न जानासि ? तत् क्षणं प्रतिपालय । फलेनैव ज्ञास्यसि । नन्व् अयं सर्व-मृग-परिवृतो बट-तले स्वामी पिङ्गलक-नामा सिंहस् तिष्ठति ।
तच् छ्रुत्वा गतायुषम् इवात्मानं मन्यमानः सञ्जीवकः परं विषादम् अगमत् । आह च– भद्र भवान् साधु-समाचारो वचनपटुश्च दृश्यते । तद् यदि माम् अवश्यं तत्र नयसि तद्-अभय-प्रदानेन स्वामिनः सकाशात् प्रसादः कारयितव्यः ।
दमनक आह– भोः सत्यम् अभिहितं भवता । नीतिर् एषा यतः–
पर्यन्तो लभ्यते भूमेः समुद्रस्य गिरेर् अपि ।
न कथञ्चिन् महीपस्य चित्तान्तः केनचित् क्वचित् ॥१.१३६॥
तत्त्वम् अत्रैव तिष्ठ यावद् अहं तं समये दृष्ट्वा ततः पश्चात् त्वाम् अनयामि इति । तथानुष्ठिते दमनकः पिङ्गलक-सकाशं गत्वेदम् आह– स्वामिन् न तत् प्राकृतं सत्त्वम् । स हि भगवतो महेश्वरस्य वाहन-भूतो वृषभ इति । मया पृष्ट इदम् ऊचे । महेश्वरेण परितुष्टेन कालिन्दी-परिसरे शष्पाग्राणि भक्षयितुं समादिष्टः । किं बहुना मम प्रदत्तं भगवता क्रीडार्थं वनम् इदम् ।
पिङ्गलक आह सभयम्– सत्यं ज्ञातं मयाधुना । न देवता-प्रसादं विना शष्प-भोजिनो व्यालाकीर्ण एवंविधे वने निःशङ्का नन्दतो भ्रमन्ति । ततस् त्वया किम् अभिहितम् ।
दमनक आह– स्वामिन् एतद् अभिहितं मया यद् एतद्-वनं चण्डिका-वाहन-भूतस्य पिङ्गलकस्य विषयीभूतम् । तद् भवान् अभ्यागतः प्रियो ऽतिथिः । तत् तस्य सकाशं गत्वा भ्रातृ-स्नेहेनैकत्र भक्षण-पान-विहरण-क्रियाभिर् एक-स्थानाश्रयेण कालो नेयः इति । ततस् तेनापि सर्वम् एतत् प्रतिपन्नम् । उक्तं च सहर्षं स्वामिनः सकाशाद् अभय-दक्षिणा दापयितव्या इति । तद् अत्र स्वामी प्रमाणम् ।
तच् छ्रुत्वा पिङ्गलक आह– साधु सुमते साधु । मन्त्रि श्रोत्रिय साधु । मम हृदयेन सह संमन्त्र्य भवएदम् अभिहितम् । तद् दत्ता मया तस्याभय-दक्षिणा । परं सो ऽपि मद्-अर्थेऽभय-दक्षिणां याचयित्वा द्रुततरम् आनीयताम् इति । अथ साधु चेदम् उच्यते–
अन्तःसारैर् अकुटिलैर् अच्छिद्रैः सुपरीक्षितैः ।
मन्त्रिभिर् धार्यते राज्यं सुस्तम्भैर् इव मन्दिरम् ॥१.१३७॥
तथा च–
मन्त्रिणां भिन्न-सन्धाने भिषजां सान्निपातिके ।
कर्मणि व्यज्यते प्रज्ञा स्वस्थे को वा न पण्डितः ॥१.१३८॥
दमनको ऽपि तं प्रणम्य संजीवक-सकाश प्रस्थितः सहर्षम् अचिन्तयत्– अहो प्रसाद-संमुखी नः स्वामी वचनवशगश् च संवृत्तः । तन् नास्ति धन्यतरो मम । उक्तं च–
अमृतं शिशिरे वह्निर् अमृतं प्रियदर्शनम् ।
अमृतं राज-संमानम् अमृतं क्षीर-भोजनम् ॥१.१३९॥
अथ संजीवक-सकाशम् आसाद्य स-प्रश्रयम् उवाच– भो मित्र प्रार्थितोऽसौ मया भवद्-अर्थे स्वाम्य्-अभय-प्रदानम् । तद्-विश्रब्धं गम्यताम् इति । परं त्वया राज-प्रसादम् आसाद्य मया सह समय-धर्मेण वर्तितव्यम् । न गर्वम् आसाद्य स्व-प्रभुतया विचरणीयम् । अहम् अपि तव सङ्केतेन सर्वा राज्य-धुरम्-अमात्य-पदवीम् आश्रित्योद्धरिष्यामि । एवं कृते द्वयोर् अप्य् आवयो राज-लक्ष्मी-भाग्या भविष्यति । यतः–
आखेटकस्य धर्मेण विभवाः स्युर् वशे नॄणाम् ।
नृ-प्रजाः प्रेरयत्य् एको हन्त्य् अन्यो ऽत्र मृगान् इव ॥१.१४० ॥
तथा च–
यो न पूजयते गर्वाद् उत्तमाधम-मध्यमान् ।
नृपासन्नान् स मान्यो ऽपि भ्रश्यते दन्तिलो यथा ॥१.१४१॥
संजीवक आह– कथम् एतत् ? सो ऽब्रवीत्–
अतो ऽहं ब्रवीमि– “यो न पूजयते गर्वात्” इति ।
संजीवक आह– भद्र एवम् एवैतत् । यद् भवताभिहितं तद् एव मया कर्तव्यम् इति । एवम् अभिहिते दमनकस् तम् आदाय पिङ्गलक-सकाशम् अगमत् । आह च–देव एष मयानीतः स संजीवकः । अधुना देवः प्रमाणम् । संजीवको ऽपि तं सादरं प्रणम्याग्रतः स-विनयं स्थितः । पिङ्गलको ऽपि तस्य पीनायत-ककुद्मतो नख-कुलिशालंकृतं दक्षिण-पाणिमुपरि दत्त्वा मान-पुरःसरम् उवाच– अपि शिवं भवतः । कुतस् त्वम् अस्मिन् वने विजने समायातोऽसि ?
तेनाप्य् आत्मक-वृत्तान्तः कथितः । यथा वर्धमानेन सह वियोगः संजातस् तथा सर्वं निवेदितम् । तच् छ्रुत्वा पिङ्गलकः सादरतरं तम् उवाच–वयस्य न भेतव्यम् । मद्-भुज-पञ्जर-परिरक्षितेन यथेच्छं त्वयाधुना वर्तितव्यम् । अन्यच् च नित्यं मत्-समीप-वर्तिना भाव्यम् । यतः कारणाद् बह्व्-अपायं रौद्र-सत्त्व-निषेवितं वनं गुरूणामपि सत्त्वानाम् असेव्यम् । कुतः शष्प-भोजिनाम् ।
एवम् उक्त्वा सकल-मृग-परिवृतो यमुना-कच्छम् अवतीर्योदक-ग्रहणं कृत्वा स्वेच्छया तद् एव वनं प्रविष्टः । ततश् च करकट-दमनक-निक्षिप्त-राज्यभारः संजीविकेन सह सुभाषित-गोष्ठीम् अनुभवन्न् आस्ते । अथवा साध्व् इदम् उच्यते–
यदृच्छयाप्य् उपनतं सकृत् सज्जन-सङ्गतम् ।
भवत्य् अजरम् अत्यन्तं नाभ्यास-क्रमम् ईक्षते ॥१.१६२॥
संजीवकेनाप्य् अनेक-शास्त्रावगाहनाद् उत्पन्न-बुद्धि-प्रागल्भ्येन स्तोकैर् एवाहोभिर् मूढ-मतिः पिङ्गलको धीमांस् तथा कृतो यथारण्य-धर्माद् वियोज्य ग्राम्य-धर्मेषु नियोजितः । किं बहुना प्रत्यहं पिङ्गलक-संजीवकाव् एव केवलं रहसि मन्त्रयतः । शेषः सर्वोऽपि मृगजनो दूरीभूतस् तिष्ठति । करटक-दमनकाव् अपि प्रवेशं न लभेते । अन्यच् च सिंह-पराक्रमाभावात् सर्वोऽपि मृग-जनस् तौ च शृगालौ क्षुधा-व्याधि-बाधिता एकां दिशम् आश्रित्य स्थिताः ।
उक्तं च–
फल-हीनं नृपं भृत्याः कुलीनम् अपि चोन्नतम् ।
सन्त्य् अज्यान्य् अत्र गच्छन्ति शुष्कं वृक्षम् इवाण्डजाः ॥१.१६३॥
तथा च–
अपि सम्मान-संयुक्ताः कुलीना भक्ति-तत्-पराः ।
वृत्ति-भङ्गान् महीपालं त्यजन्त्य् एव हि सेवकाः ॥१.१६४॥
अन्यच् च–
कालातिक्रमणं वृत्तेर् यो न कुर्वीत भूपतिः ।
कदाचित् तं न मुञ्चन्ति भर्त्सिता अपि सेवकाः ॥१.१६५॥
तथा च केवलं सेवका इत्थम्भूता यावत् समस्तम् अप्य् एतज् जगत् परस्परं भक्षणार्थं सामादिभिर् उपायैस् तिष्ठति । तद् यथा–
देशानाम् उपरि क्ष्माभृद् आतुराणां चिकित्सकाः ।
वणिजो ग्राहकाणां च मूर्खाणाम् अपि पण्डिताः ॥१.१६६॥
प्रमादिनां तथा चौरा भिक्षुका गृह-मेधिनाम् ।
गणिकाः कामिनां चैव सर्वलोकस्य शिल्पिनः ॥१.१६७॥
सामादि-सज्जितैः पाशैः प्रतीक्षन्ते दिवा-निशम् ।
उपजीवन्ति शक्त्या हि जलजा जलदान् इव ॥१.१६८॥
अथवा साध्विदम् उच्यते–
सर्पाणां च खलानां च पर-द्रव्यापहारिणाम् ।
अभिप्राया न सिध्यन्ति तेनेदं वर्तते जगत् ॥१.१६९॥
अत्तुं वाञ्छति शाम्भवो गणपतेर् आखुं क्षुधार्तः फणी
तं च क्रौञ्च-रिपोः शिखी गिरि-सुता-सिंहो ऽपि नागाशनम् ।
इत्थं यत्र परिग्रहस्य घटना शम्भोर् अपि स्याद् गृहे
तत्राप्य् अस्य कथं न भावि जगतो यस्मात् स्वरूपं हि तत् ॥१.१७०॥