१-०२ पिङ्गलकाश्वासनम्

दमनकप्रस्तावः

अथागच्छन्तं दमनकम् आलोक्य
पिङ्गलको द्वाःस्थम् अब्रवीत् -

“अपसार्यतां वेत्र-लता ।
अयम् अस्माकं चिरन्तनो मन्त्रिपुत्रो दमनको ऽव्याहत-प्रवेशः ।
तत् प्रवेश्यतां द्वितीय-मण्डल-भागी ।”

इति ।

स आह- “यथावादीद् भवान्” इति ।

अथोपसृत्य दमनको
निर्दिष्ट आसने पिङ्गलकं प्रणम्य
प्राप्तानुज्ञ उपविष्टः ।

स तु तस्य नख-कुलिशालङ्कृतं दक्षिण-पाणिम् उपरि दत्त्वा
मान-पुरःसरम् उवाच-

“अपि शिवं भवतः ।
कस्माच् चिराद् दृष्टोऽसि ।”

दमनक आह-

“न किंचिद् देव-पादानाम् अस्माभिः प्रयोजनम् ।
परं भवतां प्राप्त-कालं वक्तव्यं -
यत उत्तम-मध्यमाधमैः सर्वैर् अपि राज्ञां प्रयोजनम् ।”

उक्तं च -

दन्तस्य निष्कोषणकेन+++(=floss!)+++ नित्यं
कर्णस्य कण्डूयनकेन वापि ।
तृणेन कार्यं भवतीश्वराणां
किम् अङ्ग-वाग्+हस्तवता नरेण ॥ ७७॥ +++(४)+++

तथा वयं देव-पादानाम् अन्वयागता भृत्या
आपत्स्व् अपि पृष्ठ-गामिनो,
यद्य् अपि स्वम् अधिकारं न लभामहे।
तथापि देव-पादानाम् एतद् युक्तं न भवति ।
उक्तं च—

तथा शृगालो ऽयम् इति मन्यमानेन ममोपरि स्वामिना यद्य् अवज्ञा क्रियते
तद् अप्य् अयुक्तम् । उक्तं च यतः –

पिङ्गलक आह–

भवत्व् एवं तावत् ।
असमर्थः समर्थो वा
चिरन्तनस् त्वम् अस्माकं मन्त्रि-पुत्रः ।
तद् विश्रब्धं ब्रूहि यत् किञ्चिद् वक्तुकामः ।

दमनक आह – “देव ! विज्ञाप्यं किञ्चिद् अस्ति” ।

पिङ्गलक आह – “तन् निवेदयाभिप्रेतम्” ।

सोऽब्रवीत् –

अपि स्वल्पतरं कार्यं
यद् भवेत् पृथिवी-पतेः ।
तन् न वाच्यं सभा-मध्ये
प्रोवाचेदं बृहस्पतिः ॥१.१०७॥

तद् ऐकान्तिके मद्-विज्ञाप्यम् आकर्णयन्तु देव-पादाः ।
यतः –

षट्-कर्णो भिद्यते मन्त्रश्
चतुष्कर्णः स्थिरो भवेत् ।
तस्मात् सर्व-प्रयत्नेन
षट्-कर्णं वर्जयेत् सुधीः ॥१.१०८॥

अथ पिङ्गलकाभिप्रायज्ञा व्याघ्र-द्वीपि-वृक-पुरःसराः
सर्वेऽपि तद्-वचः समाकर्ण्य
संसदि तत्-क्षणादेव दूरीभूताः ।

ततश् च दमनक आह–

उदक-ग्रहणार्थं प्रवृत्तस्य स्वामिनः
किम् इह निवृत्त्या ऽवस्थानम् ।

पिङ्गलक आह – (स-विलक्ष-स्मितं) “न किञ्चिदपि” ।

सोऽब्रवीत् – “देव! यद्यनाख्येयं तत् तिष्ठतु” । उक्तं च –

दारेषु किञ्चित्, स्वजनेषु किञ्चिद्,
गोप्यं वयस्येषु, सुतेषु किञ्चित् ।
युक्तं न वा युक्तम् इदं विचिन्त्य
वदेद् विपश्चिन् महतो ऽनुरोधात् ॥१.[*१००]

तच् छ्रुत्वा पिङ्गलकश् चिन्तयामास-

योग्योऽयं दृश्यते ।
तत् कथयाम्य् एतस्याग्रय् आत्मनोऽभिप्रायम् ।

उक्तं च –

स्वामिनि गुणान्तरज्ञे
गुणवति भृत्ये ऽनुकूलिनि कलत्रे ।
सुहृदि निरन्तर-चित्ते
निवेद्य दुःखं सुखी भवति ॥१.[*१०१]

भो दमनक ! शृणोषि शब्दं दूरान् महान्तम् ।

सो ऽब्रवीत्– “स्वामिन् ! शृणोमि । ततः किम्” ?

पिङ्गलक आह – “भद्र ! अहम् अस्माद् वनाद् गन्तुम् इच्छामि” ।

दमनक आह – “कस्मात्” ?

पिङ्गलक आह –

यतोऽद्य +अस्मद्-वने किम् अप्य् अपूर्वं सत्त्वं प्रविष्टं
यस्यायं महा-शब्दः श्रूयते ।
तस्य च शब्दानुरूपेण पराक्रमेण भवितव्यम् इति ।

दमनक आह –

“यच् छब्द-मात्राद् अपि भयम् उपगतः स्वामी
तद् अप्य् अयुक्तम् । उक्तं च –

अम्भसा भिद्यते सेतुस्
तथा मन्त्रोऽप्य् अरक्षितः ।
पैशुन्याद् भिद्यते स्नेहो,
भिद्यते वाग्भिर् आतुरः+++(=उद्विग्नः)+++ ॥१.१११॥

तन् न युक्तं स्वामिनः पूर्वोपार्जितं वनं त्यक्तुम् ।
यतो भेरी-वेणु-वीणा-मृदङ्ग-ताल-पटह-शङ्ख-काहलादि-भेदेन
शब्दा अनेक-विधा भवन्ति ।
तन् न केवलाच् छब्द-मात्राद् अपि भेतव्यम् । उक्तं च –

तद् एवं ज्ञात्वा स्वामिना धैर्यावष्टम्भः कार्यः । न शब्द-मात्राद् भेतव्यम् ।
अपि च –

पूर्वमेव मया ज्ञातं
पूर्णम् एतद् +धि मेदसा ।
अनुप्रविश्य विज्ञातं यावच्
चर्म च दारु च ॥१.११७॥”

पिङ्गलक आह – “कथम् एतत्” !

सो ऽब्रवीत्–

अतो न शब्द-मात्राद् भेतव्यम् ।

पिङ्गलक आह–

“भोः ! पश्यायं मम सर्वोऽपि परिग्रहो
भय-व्याकुलित-मनाः पलायितुम् इच्छति ।
तत् कथम् अहं धैर्याद् अवष्टम्भं करोमि ।

सोऽब्रवीत् –

स्वामिन् ! नैषाम् एष दोषः ।
यतः स्वामि-सदृशा एवं भवन्ति भृत्याः । उक्तं च –

अश्वः शस्त्रं शास्त्रं
वीणा वाणी नरश्च नारी च ।
पुरुष-विशेषं प्राप्ता
भवन्त्य् अयोग्याश्च योग्याश्च ॥१.११९॥

तत्-पौरुषावष्टम्भं कृत्वा
त्वं तावद् अत्रैव प्रतिपालय
यावद् अहम् एतच् छब्द-स्वरूपं ज्ञात्वा ऽऽगच्छामि ।
ततः पश्चाद् यथोचितं कार्यम्

इति ।

पिङ्गलक आह – “किं तत्र भवान् गन्तुम् उत्सहते ?”

स आह –

किं स्वाम्य्-आदेशात् सद्-भृत्य-कृत्याकृत्यम् अस्ति । उक्तं च –

पिङ्गलक आह – “भद्र ! यद्य् एवं तद् गच्छ । शिवास् ते पन्थानः सन्तु” इति ।

दमनकोऽपि तं प्रणम्य संजीवक-शब्दानुसारी प्रतस्थे ।

अथ दमनके गते भय-व्याकुल-मनाः पिङ्गलकश् चिन्तयामास ।

“अहो ! न शोभनं कृतं मया ।
यत् तस्य विश्वासं गत्वा ऽऽत्माभिप्रायो निवेदितः ।
कदाचिद् दमनको ऽयम् उभय-वेतनो भूत्वा
ममोपरि दुष्ट-बुद्धिः स्याद्
भ्रष्टाधिकारत्वात् । उक्तं च –

ये भवन्ति महीपस्य
सम्मानित-विमानिताः ।
यतन्ते तस्य नाशाय
कुलीना अपि सर्वदा ॥१.१२२॥

तत् तावद् अस्य चिकीर्षितं वेत्तुम्
अन्यत् स्थानान्तरं गत्वा प्रतिपालयामि ।
कदाचिद् दमनकस् तम् आदाय
मां व्यापादयितुम् इच्छति । उक्तं च –

एवं सम्प्रधार्य
स्थानान्तरं गत्वा
दमनक-मार्गम् अवलोकयन्न् एकाकी तस्थौ ।