सञ्जीवको जीवति
संजीवको ऽप्यायुः-शेषतया यमुना-सलिल-मिश्रैः शिशिरतर-वातैर् आप्यायित-शरीरः कथंचिद् अप्य् उत्थाय यमुना-तटम् उपपेदे । +++(र४)+++
तत्र मरकत-सदृशानि बाल-तृणाग्राणि भक्षयन् कतिपयैर् अहोभिर् हर-वृषभ इव पीनः ककुद्मान् बलवांश् च संवृत्तः ।
प्रत्यहं वल्मीक-शिखराग्राणि शृङ्गाभ्यां विदारयन् गर्जमान आस्ते । साधु चेदम् उच्यते -
अरक्षितं तिष्ठति दैव-रक्षितं
सुरक्षितं दैव-हतं विनश्यति ।
जीवत्य् अनाथोऽपि वने विसर्जितः
कृत-प्रयत्नो ऽपि गृहे विनश्यति ॥ २०॥ +++(४)+++
पिङ्गलकभीतिः
अथ कदाचित् पिङ्गलको नाम सिंहः सर्व-मृग-परिवृतः पिपासाकुल उदक-पानार्थं यमुना-तटम् अवतीर्णः संजीवकस्य गम्भीरतर-रावं दूराद् एवाशृणोत् ।
तच् छ्रुत्वाऽतीव व्याकुल-हृदयः ससाध्वसम्+++(=सभयम्)+++ आकारं प्रच्छाद्य वट-तले {चतुर्-मण्डलावस्थानेनावस्थितः} +++(र५)+++। चतुर्-मण्डलावस्थानं त्व् इदं - सिंहः, सिंहानुयायिनः, काकरवाः, किंवृत्ता इति ।
शृगालमन्त्रणम्
अथ तस्य करटक-दमनक-नामानौ द्वौ शृगालौ मन्त्रि-पुत्रौ भ्रष्टाधिकारौ सदानुयायिनाव् आस्ताम् । तौ च परस्परं मन्त्रयतः ।
तत्र दमनको ऽब्रवीत् -
भद्र करटक!
अयं तावद् अस्मत् स्वामी पिङ्गलक
उदक-ग्रहणार्थं यमुना-कच्छम् अवतीर्य स्थितः ।
स किं निमित्तं पिपासाकुलोऽपि
निवृत्त्य व्यूह-रचनां विधाय
दौर्मनस्येनाभिभूतो ऽत्र वट-तले स्थितः?
करटक आह -
भद्र किमावयोरनेन व्यापारेण । उक्तं च यतः -
अव्यापरेषु व्यापारं यो नरः कर्त्तुम् इच्छति ।
स एव निधनं याति कीलोत्पाटीव वानरः ॥१.२१॥
अतोऽहं ब्रवीमि - अव्यापारेषु इति ।
आवयोर् भक्षित-शेष आहारोऽस्त्य् एव । तत् किम् अनेन व्यापारेण ।
दमनक आह - “तत् किं भवान् आहारार्थी केवलम् एव । तन् न युक्तम् ।”
करटक आह - “आवां तावद् अप्रधानौ। तत् किम् आवयोर् अनेन व्यापारेण?”
दमनक आह - मा मैवं वद ।
करटक आह - “अथ भवान् किं कर्तुमनाः ?”
सोऽब्रवीत् -
अद्यास्मत्-स्वामी पिङ्गलको
भीतो भीत-परिवारश् च वर्तते ।
तद् एनं गत्वा, भय-कारणं विज्ञाय, सन्धि-विग्रह-यानाऽऽसन-संश्रय–द्वैधी-भावानाम् एकतमेन संविधास्ये ।
करटक आह - “कथं वेत्ति भवान् यद् भयाविष्टो ऽयं स्वामी ?”
सोऽब्रवीत् - ज्ञेयं किम् अत्र ।
तद् अद्यैनं भयाकुलं प्राप्य
स्व-बुद्धि-प्रभावेन निर्भयं कृत्वा, वशीकृत्य च
निजां साचिव्य-पदवीं समासादयिष्यामि ।
करटक आह - “अनभिज्ञो भवान् सेवा-धर्मस्य । तत् कथम् एनं वशीकरिष्यसि ?”
सोऽब्रवीत् -
कथम् अहं सेवानभिज्ञः ।
मया हि तातोत्सङ्गे क्रीडता
ऽभ्यागत-साधूनां नीति-शास्त्रं पठतां यच् छ्रुतं,
सेवाधर्मस्य सारं, तद् हृदि स्थापितम् ।
श्रूयतां तच् चेदम् -
करटक आह - “अथ भवांस् तत्र गत्वा किं तावत् प्रथमं वक्ष्यति तत् तावद् उच्यताम् ।”
दमनक आह -
करटक आह -
दमनक आह - सत्यम् एतत् परम् । किन्तु -
करटक आह -
यद्य् एवम् अभिमतं तर्हि
शिवास् ते पन्थानः सन्तु ।
यथाभिलषितम् अनुष्ठीयताम् ।
सोऽपि प्रणम्य
पिङ्गलकाभिमुखं प्रतस्थे ।