टीका ऽत्र।
प्रवेशः
मित्र-भेदः ।
वर्धमान-वृत्तान्तः ।
अथातः प्रारभ्यते मित्र-भेदो नाम प्रथमं तन्त्रम्,
यस्यायम् आदिमः श्लोकः -
हिन्दी
अव यहां से मित्रभेद नाम का प्रथम तन्त्र प्रारम्भ किया जाता है जिसका यह सर्वप्रथम श्लोक है–
वर्धमानो महान् स्नेहः
सिंह–गो-वृषयोर् वने ।
पिशुनेनातिलुब्धेन
जम्बुकेन विनाशितः ॥ १॥
हिन्दी
वन में एक सिह और बैल के बीच जो अधिक स्नेह बढ़ा हुआ था, चुगलखोर और अत्यधिक लालची गीदड़ ने नष्ट कर दिया ॥ १ ॥
वणिक्चिन्ता
तद् यथा ऽनुश्रूयते -
अस्ति दक्षिणात्ये जनपदे महिलारोप्यं नाम नगरम् ।
तत्र धर्मोपार्जित-भूरि-विभवो वर्धमानको नाम
वणिक्-पुत्रो बभूव ।
तस्य कदाचिद् रात्रौ शय्यारूढस्य चिन्ता समुत्पन्ना -
हिन्दी
इस प्रकार सुना जाता है कि दक्षिण देश में महिलारोप्य नाम का एक नगर था । वहाँ धर्मपूर्वक अत्यधिक धन उपार्जन करनेवाला वर्द्धमान नाम का एक बनिये का पुत्र था । एक समय रात्रि में शय्या पर सोते हुए उसे चिन्ता उत्पन्न हुई–
सञ्जीवकसमस्या
इत्य् एवं संप्रधार्य मथुरा-गामीनि भाण्डान्य् आदाय शुभायां तिथौ गुरु-जनानुज्ञातः सुरथाधिरूढः प्रस्थितः । तस्य च मङ्गल-वृषभौ संजीवक-नन्दक-नामानौ गृहोत्पन्नौ धूर्वोढारौ स्थितौ । तयोर् एकः संजीवकाभिधानो यमुना-कच्छम् अवतीर्णः सन् पङ्कपूरम् आसाद्य कलित-चरणो युग-भङ्गं विधाय निषसाद ।
अथ तं तद्-अवस्थम् आलोक्य वर्धमानः परं विषादम् अगमत् । तदर्थं च स्नेहार्द्र-हृदयस् त्रि-रात्रं प्रयाण-भङ्गम् अकरोत् । अथ तं विषण्णमालोक्य सार्थिकैर् अभिहितम्—
भोः श्रेष्ठिन् ! किम् एवं वृषभस्य कृते सिंह-व्याघ्र-समाकुले बह्व्-अपायेऽस्मिन् वने समस्त-सार्थस्त्वया सन्देहे नियोजितः । उक्तञ्च -
न स्वल्पस्य कृते भूरि
नाशयेन् मतिमान् नरः ।
एतद् एवात्र पाण्डित्यं
यत् स्वल्पाद् भूरि-रक्षणम् ॥ १९॥ +++(र५)+++
अथासौ तद् अवधार्य संजीवकस्य रक्षा-पुरुषान् निरूप्याशेष-सार्थं नीत्वा प्रस्थितः ।
अथ रक्षा-पुरुषा अपि बह्व्-अपायं तद्-वनं विदित्वा संजीवकं परित्यज्य पृष्ठतो गत्वाऽन्येद्युस् तं सार्थवाहं मिथ्याऽहुः -
“स्वामिन् मृतो ऽसौ संजीवकः । अस्माभिस् तु सार्थवाहस्याभीष्ट इति मत्वा वह्निना संस्कृत” इति । +++(र५)+++
तच् छ्रुत्वा सार्थवाहः कृतज्ञतया स्नेहार्द्र-हृदयस् तस्यौर्ध्व-देहिक-क्रिया वृषोत्सर्गादिकाः सर्वाश् चकार । +++(र५)+++