[[पञ्चतन्त्रम् २ ३ Source: EB]]
[
[TABLE]
[TABLE]
अथेदमारभ्यते मित्रप्राप्तिकं नाम द्वितीयं तन्त्रं यस्यायमादिमः श्लोकः।
असाधना अपि प्राज्ञा बुद्धिमन्तो बहुश्रुताः।
साधयन्त्याशु कार्याणि काकाखुमृगकूर्मयत्॥१॥
तद्यथानुश्रूयते।
अस्ति दाक्षिणात्ये जनपदे महिलारोप्यं नाम नगरम्। तस्य नातिदूरेण महाञ्छायावान्न्यग्रोधपादपो नानाविहंगोपभुक्तफलः कीटैरावृतकोटरछायाश्वासितपथिकजनसमूहश्च। अथवा युक्तम्।
छायासुप्तमृगः शकुन्तिनिवहैर्विष्वग्विलुप्तच्छदः
कीटैरावृतकोटरः कपिकुलैः स्कन्धे कृतप्रश्रयः।
विश्रब्धं मधुपैर्निपातकुमुमः श्लाध्यः सतां सत्तरुः
सर्वाङ्गैर्बहुजीवसंघसुखदो भूभारभूतोपरः॥२॥
तत्र च लघुपतनको नाम वायसः प्रतिवसति स्म। स कदाचित्प्राणयात्रार्थं पुरमुद्दिश्य प्रचलितो यावत्पश्यति तावज्जालहस्तोतिकृष्णतनुः स्फुटितचरण ऊर्ध्वकेशो यमकिंकराकारो नरः संमुखो बभूव। अथ तं दृष्ट्वा व्यचिन्तयत्। यदयं दुरात्माद्यममाश्रयवटपादपसंमुखोभ्येति। तन्न ज्ञायते किमद्य वटवासिनां विहंगानां विनाशो भविष्यति न वा। एवं बहुविधं विचिन्त्य तत्क्षणान्निवृत्य तमेव वटपादपं गत्वा सर्वान्विहंगान्प्रोवाच। भो अयं दुरात्मा लुब्धको जालतण्डुलहस्तः समभ्येति। तत्सर्वथा तस्य न विश्वसनीयम्। एष जालं प्रसार्य तण्डुलान्प्रक्षेप्स्यति। ते भवद्भिः सर्वैरपि हालाहलसदृशा द्रष्टव्याः। एवं वदतस्तस्य स लुब्धकस्तत्र वटतलम्आगत्य जालं प्रसार्य सिन्दुवारसदृशांस्तण्डुलान्प्रक्षिप्य नातिदूरं गत्वा निभृतः स्थितः। अथ ये पक्षिणस्तत्र स्थितास्ते लघुपतनकवाक्यार्गलया निवारितास्तांस्तण्डुलान्हालाहलाङ्कुरानिव वीक्षमाणा निभृतास्तस्थुः। अत्रान्तरे चित्रग्रीवो नाम कपोतराजः सहस्रपरिवारः प्राणयात्रार्थं परिभ्रमंस्तांस्तण्डुलान्दूरतोपि पश्यंल्लघुपतनकेन निवार्यमाणापि जिह्वालौल्याद्भक्षणार्थमपतत्सपरिवारो निबद्धश्च। अथवा साध्विदमुच्यते।
जिह्वालौल्यप्रसक्तानां जलमध्यनिवासिनाम् \।
अचिन्तितो वधोज्ञानां मीनानामिव जायते॥३॥
अथवा न तस्य दोषोस्ति। उक्तं च।
पौलस्त्यः कथमन्यदारहरणे दोषं न विज्ञातवान्
रामेणापि कथं न हेमहरिणस्यासंभवो लक्षितः।
अक्षैश्चापि युधिष्ठिरेण सहसा प्राप्तो ह्यनर्थः कथं
प्रत्यासन्नविपत्तिमूढमनसां प्रायो मतिः क्षीयते॥४॥
तथा च।
कृतान्तपाशबद्धानां दैवोपहतचेतसाम्।
बुद्धयः कुब्जगामिन्यो भवन्ति महतामपि॥५॥
अत्रान्तरे लुब्धकस्तान्बद्धान्विज्ञाय प्रहृष्टमनाः प्रोद्यतयष्टिस्तद्वधार्थं प्रधावितः। चित्रग्रीवोप्यात्मानं सपरिवारं बद्धं मत्वा लुब्धकमायान्तं दृष्ट्वा तान्कपोतानूचे। अहो न भेतव्यम्। उक्तं च।
व्यसनेष्वेव सर्वेषु यस्य बुद्धिर्न हीयते।
स तेषां पारमभ्येति तत्प्रभावादसंशयम्॥६॥
तत्सर्वे हेलयोड्डीय सपाशजाला अस्यादर्शनं गत्वा मुक्तिं प्राप्नुमः। नो चेद्भयविक्लवाः सन्तो हेलया समुत्पातं न करिष्यथ ततो मृत्युमवाप्स्यथ। उक्तं च।
तनवोप्यायता नित्यं तन्तवो बहुलाः समाः।
बहून्बहुत्वादायासान्सहन्तीत्युपमा सताम्॥७॥
तथानुष्टिते लुब्धको जालमादायाकाशे गच्छतां तेषां पृष्ठतो भूमिस्थोपि पर्यधावत्। तत ऊर्ध्याननः श्लोकमपठत्।
जालमादाय गच्छन्ति संहताः पक्षिणोप्यमी।
यावच्च विवदिष्यन्ते पतिष्यन्ति न संशयः॥८॥
लघुपतनकोपि प्राणयात्राक्रियां त्यक्त्वाकिमत्र भविष्यतीति कुतूहलात्तत्पृष्ठलग्नोनुसरति। अथ दृष्टेरगोचरतां गतान्विज्ञाय लुब्धको निराशः श्लोकमपठन्निवृत्तश्च।
न हि भवति यन्नभाव्यं भवति च भाव्यं विनापि यत्नेन।
करतलगतमपि नश्यति यस्य हि भवितव्यता नास्ति॥९॥
तथा च।
पराङ्मुखे विधौ चेत्स्यात्कथंचिद्द्रविणोदयः।
तत्सोन्यदपि संगृह्य याति शङ्खनिधिर्यथा॥१०॥
तदास्तां तावद्विहंगामिषालाभः। कुटुम्बवर्तनोपायभूतं जालमपि मे नष्टम्। चित्रग्रीवोपि लुब्धकमदर्शनीभूतं ज्ञात्वा तानुवाच। भो निवृत्तः स दुरात्मा लुब्धकः। तत्सर्वैरपिस्वस्थैर्गम्यतां महिलारोप्यस्य प्रागुत्तरदिग्भागे। तत्र मम सुहृद्धिरण्यको नाम मूषकः। सर्वेषां स पाशच्छेदं विधास्यति। उक्तं च।
सर्वेषामेव मर्त्यानां व्यसने समुपस्थिते॥
वाङ्मात्रेणापि साहाय्यं मित्रादन्यो न संदधे॥११॥
एवं ते कपोताश्चित्रग्रीवेण संबोधिता महिलारोप्ये नगरे हिरण्यकबिलदुर्गं प्रापुः। हिरण्यकोपि सहस्रमुखबिलदुर्गं प्रविष्टोकुतोभयः सुखेनास्ते। अथवा साध्विदमुच्यते।
दंष्ट्राविरहितः सर्पो मदहीनो यथा गजः।
सर्वेषां जायते वश्यो दुर्गहीनस्तथा नृपः॥१२॥
तथा च।
न गजानां सहस्रेण न च लक्षेण वाजिनाम्।
तत्कर्म सिध्यते राज्ञां दुर्गेणैकेन यद्रणे॥१३॥
शतमेकोपि संधत्ते प्राकारस्थो धनुर्धरः।
तस्माद्दुर्गंप्रशंसन्ति नीतिशास्त्रविदो जनाः॥१४॥
अथ चित्रग्रीवो बिलमासाद्य तारस्वरेण प्रोवाच। भो भो मित्र हिरण्यक सत्वरमागच्छ।महती मे व्यसनावस्था वर्तते। तच्छ्रुत्वा हिरण्यकोपि बिलदुर्गान्तर्गतः सन्प्रोवाच। भोः को भवान्। किमर्थमायातः। किं कारणम्। कीदृक्ते व्यसनावस्थानम्। तत्कथ्यतामिति। तच्छ्रुत्वा चित्रग्रीव आह। भोश्चित्रग्रीवो नाम कपोतराजोहं ते सुहृत्। तत्सत्वरमागच्छ। गुरुतरं प्रयोजनमस्ति। तदाकर्ण्य पुलकिततनुः प्रहृष्टात्मा स्थिरमनास्त्वरमाणो निष्क्रान्तः। अथवा साध्विदमुच्यते।
सुहृदः स्नेहसंपन्ना लोचनानन्ददायिनः।
गृहे गृहवतां नित्यं नागच्छन्ति महात्मनाम्॥१५॥
तथा च।
भवनेतिथयो यस्य समागच्छन्ति नित्यशः।
यत्सौख्यं तस्य चित्ते स्यान्न तत्स्वर्गेपि जायते॥१६॥
अथ चित्रग्रीवं सपरिजनं बद्धमालोक्य हिरण्यकः सविषादमिदमाह। भोः किमेतत्। स आह। भो जानन्नपि किं पृच्छसि।
उक्तं च यतः।
यस्माच्च येन च यथा च यदा च यच्च
यावच्च यत्र च शुभाशुभमात्मकर्म।
तस्माच्च तेन च तथा च तदा च तच्च
तावच्च तत्र च कृतान्तवशादुपैति॥१७॥
तत्प्राप्तं मयैतद्व्यसनं जिह्वालौल्यात्। तत्त्वं पाशमोक्षं कुरु माविलम्बम्। तदाकर्ण्य हिरण्यकः प्राह।
अध्यर्धाद्योजनशतादामिषं वीक्षते खगः।
सोपि पार्श्वस्थितं दैवाद्बन्धनं न च पश्यति॥१८॥
तथा च।
रविनिशाकरयोर्ग्रहपीडनं
गजभुजंगविहंगमबन्धनम्।
मतिमतां च निरीक्ष्य दरिद्रतां
विधिरहो बलवानिति मे मतिः॥१९॥
तथा च।
व्योमैकान्तविहारिणोपि विहगाः संप्राप्नुवन्त्यापदं
बध्यन्ते निपुणैरगाधसलिलान्मीनाःसमुद्रादपि।
दुर्नीतं किमिहास्ति किं च सुकृतं कः स्थानलाभे गुणः
कालः सर्वजनान्प्रसारितकरो गृह्णाति दूरादपि॥२०॥
एवमुक्त्वाचित्रग्रीवस्य पाशं छेत्तुमुद्यतं स तमाह। भद्र मा मैवं कुरु। प्रथमं मम भृत्यानां पाशच्छेदं कुरु तदनु ममापि च। तच्छ्रुत्वा कुपितो हिरण्यकः प्राह। भो न युक्तमुक्तं भवता यतः स्वामिनोनन्तरं भृत्याः। स आह। भद्र मा मैवं वद। मदाश्रयाः सर्व एते वराकाः। अपरं स्वकुटुम्बं परित्यज्य समागताः। तत्कथमेतावन्मात्रमपि संमानं न करोमि। उक्तं च।
यः संमानं समाधत्ते भृत्यानां क्षितिपोधिकम्।
वित्ताभावेपि तं दृष्ट्वा ते त्यजन्ति न कर्हिचित्॥२१॥
तथा च।
विश्वासः संपदां मूलं तेन यूथपतिर्गजः।
सिंहो मृगाधिपत्येपि न मृगैरुपयुज्यते॥२२॥
अपरं मम कदाचित्पाशच्छेदं कुर्वतस्ते दन्तभङ्गो भवति। अथवा दुरात्मा लुब्धकः समभ्येति। तन्नूनं मम नरकपात एव। उक्तं च
सदाचारेषु भृत्येषु संसीदत्सु च यः प्रभुः।
मुखी स्यान्नरकं याति परत्रेह च सीदति॥२३॥
तच्छ्रुत्वा प्रहृष्टो हिरण्यकः प्राह। भो वेद्म्यहं राजधर्मम्। परं मया तव परीक्षा कृता। तत्सर्वेषां पूर्वं पाशच्छेदं करिष्यामि। भवानप्यनेन विधिना बहुकपोतपरिवारो भविष्यति। उक्तं च।
कारुण्यं संविभागश्च यस्य भृत्येषु सर्वदा।
संभवेत्स महीपालस्त्त्रैलोक्यस्यापि रक्षणे॥२४॥
एवमुक्त्वासर्वेषां पाशच्छेदं कृत्वा हिरण्यकश्चित्रग्रीवमाह। मित्र गम्यतामधुना स्वाश्रये। भूयोऽपि व्यसने प्राप्ते समागन्तव्यम्। इति तान्प्रेष्य पुनरपिदुर्गं प्रविष्टः। चित्रग्रीवोपि सपरिवारः स्वाश्रयमगमत्। अथवा साध्विदमुच्यते।
मित्रवान्साधयत्यर्थान्दुःसाध्यानपि वै यतः।
तस्मान्मित्राणि कुर्वीत समानान्येव चात्मनः॥२५॥
लघुपतनकोपि सर्वं तं चित्रग्रीवबन्धमोक्षमत्रलोक्य विस्मितमना व्यचिन्तयत्। अहो बुद्धिरस्य हिरण्यकस्य शक्तिश्च दुर्गस्य सामग्री च। तदीदृगेव विधिर्विहंगानां बन्धनमोक्षात्मकः। अहं च न कस्यचिद्विश्वसिमि चलप्रकृतिश्च। तथाप्येनं मित्रं करोमि। उक्तं च।
अपि संपूर्णतायुक्तैः कर्तव्याः सुहृदो बुधैः।
नदीशः परिपूर्णोपिचन्द्रोदयमुपेक्षते॥२६॥
एवं संप्रधार्य पादपादवतीर्य बिलद्वारमाश्रित्य चित्रग्रीववच्छब्देन हिरण्यकं समाहूतवान्। एह्येहि भो हिरण्यक एहि। तच्छब्दं श्रुत्वा हिरण्यको व्यचिन्तयत्। किमन्योऽपि कश्चित्कपोतो बन्धनशेषस्तिष्ठति येन मां व्याहरते। आह च। भोः को भवान्। स आह। अहं लघुपतनको नाम वायसः। तच्छ्रुत्वा विशेषादन्तर्लीनो हिरण्यक आह। भो द्रुतं गम्यतामस्मात्स्थानात्। वायस आह। अहं तव पार्श्वे गुरुकार्येण समागतः। तत्किं न क्रियते मया सह दर्शनम्। हिरण्यक आह। न मेस्ति त्वया सह संगमेन प्रयोजनमिति। स आह। भोश्चित्रग्रीवस्य मया तव सकाशात्पाशमोक्षणं दृष्टम्। तेन मम महती प्रीतिः संजाता। तत्कदाचिन्ममापि बन्धने जाते तव पार्श्वान्मुक्तिर्भवति। तत्क्रियतां मया सह मैत्री। हिरण्यक आह। अहो त्वंभोक्ता।अहं ते भोज्यभूतः। तत्का त्वया सह मम मैत्री। तद्गम्यतां मैत्रीविरोधभावात्। उक्तं च।
ययोरेव समं वित्तं ययोरेव समं कुलम् \।
तयोर्मैत्री विवाहश्च न तु पुष्टविपुष्टयोः॥२७॥
तथा च।
यो मित्रं कुरुते मूढ आत्मनो सदृशं कुधीः।
हीनं वाप्यधिकं वापि हास्यतां यात्यसौ जनः॥२८॥
तद्गम्यतामिति। वायस आह। भो हिरण्यक एषोहं तव दुर्गद्वार उपविष्टः। यदि त्वं मैत्रीं करोषि ततोहं प्राणयात्रां करिष्यामि। अन्यथा प्रायोपवेशनं मे स्यादिति। हिरण्यक आह। भोस्त्वया वैरिणा सह कथं मैत्रीं करोमि। उक्तं च।
वैरिणा न हि संदध्यात्सुश्लिष्टेनापि संधिना।
सुतप्तमपि पानीयं शमयत्येव पावकम्॥२९॥
वायस आह। भोस्त्वया सह दर्शनमपि नास्ति कुतो वैरम्। तत्किमनुचितं वदसि। हिरण्यक आह। द्विविधं वैरं भवति सहजं कृत्रिमं च। तत्सहजवैरी त्वमस्माकम्। उक्तं च।
कृत्रिमं नाशमभ्येति वैरं द्राक्कृत्रिमैर्गुणैः।
प्राणदानं विना नैव सहजं याति संक्षयम्॥३०॥
वायस आह। भो द्विविधस्य वैरस्य लक्षणं श्रोतुमिच्छामि। तत्कथ्यताम्। हिरण्यक आह। भोः कारणेन निर्वृत्तं कृत्रिमम्। तत्तदर्होपकारकरणाद्गच्छति। स्वाभाविकं च पुनः कथमपि न गच्छति। तद्यथा नकुलसर्पाणां शष्पभुङ्नखायुधानां जलवह्योर्देवदैत्यानां सारमेयमार्जाराणामीश्वरदरिद्राणां सपत्नीनां सिंहगजानां लुब्धकहरिणानां श्रोत्रियभ्रष्टक्रियाणां मूर्खपण्डितानां पतिव्रताकुलटानां सज्जनदुर्जनानाम्। न कश्चित्केनापि व्यापादितः। तथापि प्राणान्संतापयन्ति स्म। वायस आह। तद्कारणमेतत्। श्रूयतां मे वचनम्।
कारणान्मित्रतां याति कारणाद्याति शत्रुतां।
तस्मान्मित्रत्वमेवात्र योज्यं वैरं न धीमता॥३१॥
तस्मात्कुरु मया सह समागमं मित्रधर्मार्थम्। हिरण्यक आह। भोः श्रूयतां नीतिसर्वस्वम्।
सकृद्दुष्टमपीष्टं यः पुनः संधातुमिच्छति।
स मृत्युमुपगृह्णाति गर्भमश्वतरी यथा॥३१॥
अथवा गुणवानहं न मे कश्चिद्वैरयातनां करिष्यत्येतदपि न संभाव्यम्। उक्तं च।
सिंहो व्याकरणस्य कर्तुरहरत्प्राणान्प्रियान्पाणिने-
र्मीमांसाकृतमुन्ममाथ सहसा हस्ती मुनिं जैमिनिम्।
छन्दोज्ञाननिधिं जघान मकरो वेलातटे पिङ्गल-
मज्ञानावृतचेतसामतिरुषां कोर्थस्तिरश्चांगुणैः॥३२॥
वायस आह। अस्त्येतत्तथापि श्रूयताम्।
उपकाराच्च लोकानां निमित्तान्मृगपक्षिणाम्।
भयाल्लोभाच्च मूर्खाणां मैत्री स्याद्दर्शनात्सताम्॥३३॥
तत्साधुरहम्। अपरं त्वां शपथादिभिर्निर्भयं करिष्यामि। स आह। न मेस्ति ते शपथैः प्रत्ययः। उक्तं च।
शपथैः संधितस्यापि न विश्वासं व्रजेद्रिपोः।
अद्रोहशपथं कृत्वा वृत्रः शक्रेण सूदितः॥३४॥
न विश्वासं विना शत्रुर्देवानामपि सिध्यति।
विश्वासात्त्रिदशेन्द्रेण दितेर्गर्भो विदारितः॥३५॥
अन्यच्च।
बृहस्पतेरपि प्राज्ञस्तस्मान्नैवात्र विश्वसेत्।
य इच्छेदात्मनो वृद्धिमायुष्यं च सुखानि च॥३६॥
तथा च।
सुसूक्ष्मेणापि च्छिद्रेण प्रविश्याभ्यन्तरं रिपुः।
नाशयेच्च शनैः पश्चात्प्लवं सलिलपूरवत्॥३७॥
न विश्वसेदविश्वस्ते विश्वस्तेपिन विश्वसेत्।
विश्वासाद्भयमुत्पन्नं मूलान्यपि निकृन्तति॥३८॥
न वध्यते ह्यविश्वस्तो दुर्बलोपि बलोत्कटैः।
विश्वस्ताश्चाशु वध्यन्ते बलवन्तोपि दुर्बलैः॥३९॥
सुकृत्यं विष्णुगुप्तस्य मित्राप्तिर्भार्गवस्य च।
बृहस्पतेरविश्वासो नीतिसंधिस्त्रिधा स्थितः॥४०॥
तथा च।
महताप्यर्थसारेण यो विश्वासं समागतः।
भार्यासु सुविरक्तासु तदन्तं तस्य जीवितम्॥४१॥
तच्छ्रुत्वा लघुपतनकोपि निरुत्तरश्चिन्तयामास। अहो बुद्धिप्रागल्भ्यमस्य नीतिविषये। अथवात एवास्योपरि मैत्रीपक्षपातः। स आह। भो हिरण्यक।
सख्यं साप्तपदीनं भो इत्याहुर्विबुधा जनाः।
बलात्त्वं मित्रतां प्राप्तो वचनं मम तच्छृणु॥४२॥
दुर्गस्थेनापि त्वया मया सह नित्यमेवालापो गुणदोषसुभाषितगोष्ठीकथादिः सर्वदा कर्तव्यो यद्येवं न विश्वसिषि। तच्छ्रुत्वा हिरण्यकोपि व्यचिन्तयत्। विदग्धवचनोऽयं दृश्यते लघुपतनकः सत्यवाक्यश्च। तद्युक्तमनेन मैत्रीकरणम्। परं कदाचिन्मम दुर्गे चरणपातोपि न कार्यः। उक्तं च।
भीतभीतः पुरा शत्रुर्मन्दंमन्दं विसर्पति।
भूमौ प्रहेलया पश्चाज्जारहस्तोङ्गनास्विव॥४३॥
तच्छ्रुत्वा वायस आह। मद्र एवं भवतु। ततः प्रभृति द्वौ तावपि सुभाषितमोष्ठीसुखमनुभवन्तौ तिष्ठतः। परस्परं कृतोपकारौकालं नयतः। लघुपतनकोपि मांसशकलानि मेध्यानि बलिशेषाण्यन्यानि वत्सलाहृतानि पक्वान्नविशेषाणि हिरण्यकार्थमानयति। हिरण्यकोपि तण्डुलानन्यांश्च भक्षविशेषांल्लघुपतनकार्थं रात्रावाहृत्य तत्कालायातस्यार्पयति। अथवा युज्यते द्वयोरप्येतत्। उक्तं च।
ददाति प्रतिगृह्णाति गुह्यमाख्याति पृच्छति।
भुङ्क्ते भोजयते चैव षड्विधं प्रीतिलक्षणम्॥४४॥
नोपकारं विना प्रीतिः कथंचित्कस्यचिद्भवेत्।
उपयाचितदानेन यतो देवा अभीष्टदाः॥४५॥
तावत्प्रीतिर्भवेल्लोके यावद्दानं प्रदीयते।
वत्सः क्षीरक्षयं दृष्ट्वा परित्यजति मातरम्॥४६॥
पश्य दानस्य माहात्म्यं सद्यः प्रत्ययकारकम्।
यत्प्रभावादपि द्वेषी मित्रतां याति तत्क्षणात्॥४७॥
पुत्रादपि प्रियतरं खलु तेन दानं
मन्ये पशोरपि विवेकविवर्जितस्य।
दत्ते खलेपि निखिलं खलु येन दुग्धं
नित्यं ददाति महिषी ससुतापि पश्य॥४८॥
किं बहुना।
प्रीतिं निरन्तरां कृत्वा दुर्भेद्यां नखमांसवत्।
मूषको वायसश्चैव गतौ कृत्रिममित्रताम्॥४९
एवं स मूषकस्तदुपकाररञ्जितस्तथा विश्वस्तो यथा तस्य पक्षमध्ये प्रविष्टस्तेन सह सर्वदैव गोष्ठीं करोति। अथान्यस्मिन्नहनि वायसोश्रुपूर्णनयनः समभ्येत्य सगद्गदंतमुवाच। भद्र हिरण्यक विरक्तिः संजाता मे सांप्रतं देशस्यास्योपरि। तदन्यत्र यास्यामि। हिरण्यक आह। भद्र किं विरक्तेः कारणम्। स आह। भद्र श्रूयताम्। अत्र देशे महत्यानावृष्ट्या दुर्भिक्षं संजातम्। दुर्भिक्षत्वाज्जनो बुबुक्षापीडितः कोऽपि बलिमात्रमपि न प्रयच्छति। अपरं गृहे गृहे बभुक्षितजनैर्विहंगानां बन्धनाय पाशाः प्रगुणीकृताः सन्ति। अहमप्यायुःशेषतया पाशेन बद्ध उद्धरितोऽस्मि। एतद्विरक्तेः कारणम्। तेनाहं विदेशं चलित इति वाष्पमोक्षं करोमि। हिरण्यक आह। अथ भवान्क्वप्रस्थितः। स आह। अस्ति दक्षिणापथे वनगहनमध्ये महासरः। तत्र त्वत्तोधिकः परमसुहृत्कूर्मो मन्थरको नाम। स च मे मत्स्यमांसखण्डानि दास्यति। तद्भक्षणात्तेन सह सुभाषितगोष्टीसुखमनुभवन्सुखेन कालं नेष्यामि। नाहमत्र विहंगानां पाशबन्धनेन क्षयं द्रष्टुमिच्छामि। उक्तं च।
कोतिभारः समर्थानां किं दूरं व्यवसायिनाम्।
को विदेशः सविद्यानां कः परः प्रियवादिनाम्॥५०
विद्वत्त्वं च नृपत्वं च नैव तुल्यं कदाचन।
स्वदेशे पूज्यते राजा विद्वान्सर्वत्र पूज्यते॥५१॥
तथा च।
अनावृष्टिहते देशे सस्ये च प्रलयं गते।
धन्यास्तात न पश्यन्ति देशभङ्गं कुलक्षयम्॥५२॥
हिरण्यक आह। यद्येवं तदहमपि त्वया सहागमिष्यामि। ममापि महद्दुःखं वर्तते। वायस आह। भोस्तव किं दुःखम्। तत्कथय। हिरण्यक आह। भो बहु वक्तव्यमस्त्यत्र विषये। तत्रैव गत्वा सर्वं सविस्तरं कथयिष्यामि। वायसआह। अहं तावदाकाशगतिस्तत्कथं भवतो मया सह गमनम्। स आह। यदि मे प्राणान्रक्षसि तदा स्वपृष्टमारोप्य मां तत्र प्रापयिष्यसि। नान्यथा मम गतिरस्ति। तच्छ्रुत्वा सानन्दं वायस आह। यद्येवं तद्धन्योहं यद्भवतापि सह तत्र कालं नयामि। अहं संपातादिकानष्टावुड्डीनगतिविशेषान्वेद्मि। तत्समारोह मम पृष्ठं येन सुखेन त्वां तत्सरः प्रापयामि। हिरण्यक आह।उड्डीनानां नामानि श्रोतुमिच्छामि। स आह।
संपातं विप्रपातं च महापातं निपातनम्।
वक्रं तिर्यक्तथा चोर्ध्वमष्टमं लघुसंज्ञकम्॥५३॥
तच्छ्रुत्वा हिरण्यकस्तत्क्षणादेव तदुपरि समारूढः। सोऽपि शनैःशनैस्तमादाय संपातोड्डीनप्रस्थितक्रमेण तत्सरः प्राप्तः। ततो लघुपतनकं मूषकाधिष्ठितं विलोक्य दूरतोपि देशकालविदसामान्यकाकोयमिति ज्ञात्वा सत्वरं मन्थरको जले प्रविष्टः। लघुपतनकोपि तीरस्थतरूकोटरे हिरण्यकं मुक्त्वाशाखाग्रमारुह्य तारस्वरेण प्रोवाच। भो मन्थरक आगच्छागच्छ। तव मित्रमहं लघुपतनको नाम वायसश्चिरात्सोत्कण्ठः समायातः। तदागत्यालिङ्गयमाम्। उक्तं च।
किं चन्दनैः सकर्पूरैस्तुहिनैः किं च शीतलैः।
सर्वे ते मित्रगात्रस्य कलां नार्हन्ति षोडशीम्॥५४॥
तच्छ्रुत्वा निपुणतरं ज्ञात्वा सत्वरं सलिलान्निष्क्रम्य पुलकिततनुरानन्दाश्रुपूरितनयनो मन्थरकः प्रोवाच। एह्येहिंमित्र आलिङ्गयमाम्। चिरकालान्मया त्वं सम्यङ्नज्ञातः। तेनाहं सलिलान्तः प्रविष्टः। उक्तं च।
यस्य न ज्ञायते वीर्यं न कुलं न विचेष्टितम्।
न तेन संगतिं कुर्यादित्युवाच बृहस्पतिः॥५५॥
एवमुक्ते लघुपतनको वृक्षादवतीर्य तमालिङ्गितवान्। अथवा साध्विदमुच्यते।
अमृतस्य प्रवाहैःकिं कायक्षालनसंभवैः।
चिरान्मित्रपरिष्वङ्गोयोऽसौ मूल्यविवर्जितः॥५६॥
एवं द्वापि तौविहितालिङ्गनौ परस्परं पुलकितशरीरौवृक्षादधः समुपविष्टौ प्रोचतुरात्मचरित्रवृत्तान्तम्। हिरण्यकोऽपि मन्थरकस्य प्रणामं कृत्वा वायसाभ्यासे समुपविष्टः। अथ तं समालोक्य मन्थरको लघुपतनकमाह। भोः कोऽयं मूषकः। कस्मात्त्वया भक्षभूतोऽपिपृष्ठमारोप्यानीतः। तन्नात्र स्वल्पकारणेन भाव्यम्। तच्छ्रुत्वा लघुपतनक आह। भो हिरण्यको नाम मूषकोयम्। मम सुहृद्दितीयमिव जीवितम्। तत्किं बहुना।
पर्जन्यस्य यथा धारा यथा च दिवि तारकाः।
सिकता रेणवो यद्वत्संख्यया परिवर्जिताः॥५७॥
गुणसंख्या परित्यक्ता तद्वदस्य महात्मनः।
परं निर्वेदमापन्नः संप्राप्तोयं तवान्तिकम्॥५८॥
मन्थरक आह। किमस्य वैराग्यकारणम्। वायस आह। पृष्टोमया। परमनेनाभिहितम्। यद्वहु वक्तव्यमस्ति तत्रैव गतः कथयिष्यामि। ममापि न निवेदितम्। तद्भद्र हिरण्यक इदानीं निवेद्यतामुभयोरप्यावयोस्तदात्मनो वैराग्यकारणम्। सोऽब्रवीत्।
कथा १.
अस्ति दाक्षिणात्ये जनपदे महिलारोप्यं नाम नगरम्।तस्य नातिदूरे मठायतनं भगवतः श्रीमहादेवस्य। तत्र च ताम्रचूडो नाम परिव्राजकः प्रतिवसति स्म। स च नगरे भिक्षाटनं कृत्वा प्राणयात्रां समाचरति। भिक्षाशेषं च तत्रैव भिक्षापात्रे निधाय तद्भिक्षापात्रं नागदन्ते विलम्ब्य पश्चाद्रात्रौ स्वपिति। प्रत्यूषे च तदन्नं कर्मकराणां दत्त्वा सम्यक्तत्रैव देवतायतने संमार्जनोपलेपमण्डनादिकं समाज्ञापयति। अन्यस्मिन्नहनि मम बान्धवैर्निवेदितम्। स्वामिन् मठायतने सिद्धमन्नं मूषकभयात्तत्रैव भिक्षापात्रे निहितं नागदन्तेवलम्बितं तिष्ठति सदैव। तद्वयं भक्षयितुं न शक्नुमः। स्वामिनः पुनरगम्यं किमपि नास्ति। तत्किं वृथाटनेनान्यत्र। अद्य तत्र गत्वा यथेच्छं भुञ्ज्महे तव प्रसादात्। तदाकर्ण्याहं सकलयूथपरिवृतस्तत्क्षणादेव तत्र गतः। उत्पत्य च तस्मिन्भिक्षापात्रे समारूढः। तत्र भक्ष्यविशेषाणि सेवकानां दत्त्वा पश्चात्स्वयमेव भक्षयामि। सर्वेषां तृप्तो जातायां भूयः स्वगृहं गच्छामः। एवं नित्यमेव तदन्नं भक्षयामि। परिव्राजकोऽपि यथाशक्ति रक्षति। परं यदैव निद्रान्तरितो भवति तदाहं तत्रारुह्यात्मकृत्यं करोमि। अथ कदाचित्तेन मम रक्षणार्थं महान्यत्नः कृतः। जर्जरवंशः समानीतः। तेन सुप्तोऽपि मम भयाद्भिक्षापात्रं ताडयति। अहमप्यभक्षितेप्यन्नेप्रहारभयादपसर्पामि। एवं तेन सह सकलां रात्रिं विग्रहपरस्य कालो व्रजति। अथान्यस्मिन्नहनि तस्य मठे बृहत्स्फिङ्नामा परिव्राजकस्तस्य सुहृत्तीर्थयात्राप्रसङ्गेन पान्थः प्राघूर्णकः समायातः। तं दृष्ट्वा प्रत्युत्थानविधिना संभाव्य प्रतिपत्तिपूर्वकमभ्यागतक्रियया नियोजितः। ततश्च रात्रावेकत्र कुशसंस्तरे द्वावपि प्रसुप्तौ धर्मकथां कथयितुमारब्धौ। अथ बृहत्स्फिक्कथागोष्ठीषु स ताम्रचूडो मूषकत्रासाद्व्याक्षिप्तमना जर्जरवंशेन भिक्षापात्रं ताडयंस्तस्य शून्यं प्रतिवचनं प्रयच्छति। तन्मना न किंचिदुदाहरति। अथासावभ्यागतः परं कोपमुपागतस्तमुवाच। भोस्ताम्रचूड परिज्ञातस्त्वं सम्यङ्नसुहृत्। तेन मया सह साल्हादं न जल्पसि। तद्रात्रावपि त्वदीयं मठं त्यक्त्वान्यत्र मठे यास्यामि। उक्तं च।
एह्यागच्छ समाश्रयासनमिदं कस्माच्चिरादृश्यसे
का वार्ता अतिदुर्बलोसि कुशलं प्रीतोस्मि ते दर्शनात्।
एवं ये समुपागतान्प्रणयिनः प्रल्हादयन्त्यादरात्
तेषां युक्तमशङ्कितेन मनसा हर्म्याणि गन्तुं सदा॥५९॥
गृही यत्रागतं दृष्ट्वा दिशो वीक्षेत वाप्यधः।
तत्र ये सदने यान्ति ते शृङ्गरहिता वृषाः॥६०॥
नाभ्युत्थानक्रिया यत्र नालापा मधुराक्षराः।
गुणदोषकथा नैव तत्र हर्म्येन गम्यते॥६१॥
तदेकमठप्राप्त्यापि त्वं गर्वितः। त्यक्तः सुहृत्स्नेहः। नैतद्वेत्सि यत्त्वया मठाश्रयव्याजेन नरकोपार्जना कृता। उक्तं च।
नरकाय मतिस्ते चेत्पौरोहित्यं समाचर।
वर्षं यावत्किमन्येन मठचिन्तां दिनत्रयम्॥६२॥
तन्मूर्ख शोचितव्यस्त्वं गर्वं गतः। तदहं त्वदीयं मठं परित्यज्य यास्यामि। अथ तच्छ्रुत्वा भयत्रस्तमनास्ताम्रचूडस्तमुवाच।भो भगवन् मा मैवं वद। न त्वत्समोन्यो मम सुहृत्कश्चिदस्ति। परं तच्छ्रुयतां गोष्ठीशैथिल्यकारणम्। एष दुरात्मा मूषकः प्रोन्नतस्थाने धृतमपि भिक्षापात्रमत्प्लुत्यारोहतिभिक्षाशेषं च तत्रस्थं भक्षयति। तदभावादेव मठे मार्जनक्रियापि न भवति। तन्मूषकत्रासार्थमेतेन वंशेन भिक्षापात्रं मुहुर्मुहुस्ताडयामि। नान्यत्कारणमिति। अपरमेतत्कुतूहलं पश्यास्य दुरात्मनो यन्मार्जारमर्कठादयोऽपि तिरस्कृता
अस्योत्पतनेन बृहत्स्फिगाह। अथ ज्ञायते तस्य बिलं कस्मिंस्तत्प्रदेशे। ताम्रचूड आह। भगवन् न वेद्मि सम्यक्। स आह। नूनं निधानस्योपरि तस्य बिलम्।निधानोष्मणा प्रकूदते। उक्तं च।
ऊष्मापि वित्तजो वृद्धिं तेजो नयति देहिनाम्
किं पुनस्तस्य संभोगस्त्यागकर्म समन्वितः॥६३॥
तथा च।
नाकस्माच्छाण्डिलीमाता विक्रीणाति तिलैस्तिलान्।
लुञ्चितानितरैर्येन कार्यमत्रभविष्यति॥६४॥
ताम्रचूड आह। कथमेतत्। स आह।
कथा २.
यदहं कस्मिंश्चित्स्थाने प्रावृट्काले व्रतग्रहणनिमित्तं कंचिद्ब्राह्मणं वासार्थं प्रार्थितवान्। ततश्च तद्वचनात्तेनापि शुश्रूषितः सुखेन देवार्चनपरस्तिष्ठामि। अथान्यस्मिन्नहनि प्रत्यूषे प्रबुद्धोहं ब्राह्मणब्राह्मणीसंवादे दत्तावधानः शृणोमि। तत्र ब्राह्मण आह। ब्राह्मणि प्रभाते दक्षिणायनसंक्रान्तिरनन्तदानफलदा भविष्यति। तदहं प्रतिग्रहार्थंग्रामान्तरं यास्यामि। त्वया ब्राह्मणैकस्य भगवतः सूर्यस्योद्देशेन किंचिद्भोजनं दातव्यम्। अथ तच्छ्रुत्वा ब्राह्मणी परुषतरवचनैस्तं भर्त्सयमाना प्राह। कुतस्ते दारिद्र्योपहतस्य भोजनप्राप्तिः। तत्किं न लज्जस एवं ब्रुवाणः। किंच न मया तव हस्तलग्नया क्वचिदपि लब्धं सुखं न मिष्टान्नस्यास्वादनं न च हस्त पादकण्ठादिभूषणम्। तच्छ्रुत्वा भयत्रस्तोपि विप्रो मन्दंमन्दं प्राह। ब्राह्मणि नैतद्युज्यते वक्तम्। उक्तं च।
ग्रासादपि तदर्धं च कस्मान्नो दीयतेर्थिषु।
इच्छानुरूपो विभवः कदा कस्य भविष्यति॥६५॥
ईश्वरा भूरिदानेन यल्लभन्ते फलं किल।
दरिद्रस्तच्च काकिण्या प्राप्नुयादिति नः श्रुतिः॥६६॥
दाता लघुरपि सेव्यो भवति न कृपणो महानपि समृद्ध्या।
कूपोन्तःस्वादुजलः प्रीत्यै लोकस्य न समुद्रः॥६७॥
तथा च।
अकृतत्यागमहिम्ना मिथ्या किं राजराजशब्देन।
गोप्तारं न निधीनां कथयन्ति महेश्वरं विबुधाः॥६८॥
अपि च।
सदादानः परिक्षीणः शस्त एव करीश्वरः।
अदानः पीनगात्रोपि निन्द्य एव हि गर्दभः॥६९॥
यच्छञ्जलमपि जलदो वल्लभतामेति सकललोकस्य।
नित्यं प्रसारितकरो मित्रोऽपि न वीक्षितुं शक्यः॥७०॥
एवं ज्ञात्वा दारिद्र्याभिभूतैरपि स्वल्पात्स्वल्पतरं काले पात्रे च देयम्। उक्तं च।
सत्पात्रं महती श्रद्धा देशकालं यथोचितम्
यद्दीयते विवेकज्ञैस्तदनन्ताय कल्पते॥७१॥
तथा च।
अतितृष्णा न कर्तव्या तृष्णां नैव परित्यजेत्।
अतितृष्णाभिभूतस्य चूडा भवति मस्तके॥७२॥
ब्राह्मण्याह। कथमेतत्। स आह।
कथा ३.
अस्ति कस्मिंश्चिद्वनोद्देशे पुलिन्दः। स च पापद्धिं कर्तुं प्रस्थितः। अथ तेन प्रसर्पता महानञ्जनपर्वतशिखराकारः क्रोडः समासादितः। तं दृष्ट्वा कर्णान्ताकृष्टनिशितसायकेन समाहतः। तेनापि कोपाधिष्टेन चेतसा बालेन्दुद्युतिना दंष्ट्राग्रेण पाटितोदरः पुलिन्दो गतासुर्भूतलेपतत्। अथ लुब्धकं व्यापाद्य सूकरोऽपि शरप्रहारवेदनया पञ्चत्वं गतः। एतस्मिन्नन्तरे कश्चिदासन्नमृत्युः शृगाल इतस्ततः परिभ्रमंस्तं प्रदेशमाजगाम। यावद्वराह पुलिन्दौ द्वावपि पश्यति तावत्प्रहृष्टो व्यचिन्तयत्। भोः सानुकूलो मे विधिः। तेनैतदप्यचिन्तितं भोजनमुपस्थितम्। अथवा साध्विदमुच्यते।
अकृतेप्युद्यमे पुंसामन्यजन्म कृतं फलम्।
शुभाशुभं समभ्येति विधिना संनियोजितम्॥७३॥
तथा च।
यस्मिन्देशे च काले च वयसा यादृशेन च।
कृतं शुभाशुभं कर्मं तत्तथा तेन भुज्यते॥७४॥
तदहं तथा भक्षयामि यथा बहून्यहानि मे प्राणयात्रा भवति। तत्तावदेवं स्नायुपाशं धनुष्कोटिगतं भक्षयामि। उक्तं च।
शनैःशनैश्च भोक्तव्यं स्वयं वित्तमुपार्जितम्।
रसायनमिव प्राज्ञैर्हेलया न कदाचन॥७५॥
एवं मनसा निश्चित्य चापचटितकोटिं मुखे प्रक्षिप्य स्नायुं भक्षितुं प्रवृत्तः। ततश्च कर्तिते पाशे तालुदेशं विदार्य चापकोटिर्मस्तकमध्येन निष्क्रान्ता।सोऽपि मृतः। अतोऽहं ब्रवीमि।
अतितृष्णा न कर्तव्या तृष्णां नैव परित्यजेत्।
अतितृष्णाभिभूतस्य चूडा भवति मस्तके॥७६॥
अथैवं सा तेन प्रबोधिता ब्राह्मण्याह। यद्येवं तदस्ति मे गृहे स्तो
कतिलराशिः। ततस्तिलांल्लुञ्चित्वा तिलचूर्णेन ब्राह्मणं भोजयिष्यामीति। ततस्तद्वचनं श्रुत्वा ब्राह्मणो ग्रामं गतः। सापि तिलानुष्णोदकेन संमर्द्य कुटित्वासूर्यातपे दत्तवती। अत्रान्तरे तस्या गृहकर्मव्यग्रायास्तिलानां मध्ये कश्चित्सारमेयो मूत्रोत्सर्गेचकार।तं दृष्ट्वा सा चिन्तितवती। अहो नैपुण्यं पश्य पराङ्मुखीभूतस्य विधेर्यदेते तिला अभोज्याः कृताः। तदहमेतान्समादाय कस्यचिन्गृहं गत्वा लुञ्चितैरलुञ्चितानानयामि। सर्वोऽपि जनोऽनेन विधिना प्रदास्यतीति। अथ यस्मिन्गृहेऽहं भिक्षार्थं प्रविष्टस्तत्र गृहे सापि तिलानादाय प्रविष्टा विक्रयं कर्तुम्। आह च। गृह्णातु कश्चिदलुञ्चितैर्लुञ्चितांस्तिलान्। अथ तद्गृहगृहिणी गृहं प्रविष्टा यावदलुञ्चितैर्लुञ्चितान्गृह्णाति तावदस्याः पुत्रेण कामन्दकिशास्त्रं दृष्ट्वा व्याहृतम्। मातः अग्राह्याः खल्विमे तिलाः। नास्या अलुञ्चैितैर्लुञ्चिता ग्राह्याः। कारणं किंचिद्भविष्यति। तेनैषालुञ्चितैर्लुञ्चितान्प्रयच्छति। तच्छ्रुत्वा तया परित्यक्तास्ते तिलाः। अतोऽहं ब्रवीमि।
नाकस्माच्छाण्डिलीमाता विक्रीणाति तिलैस्तिलान्।
लुञ्चितानितरैर्येन कार्यमत्र भविष्यति॥७७॥
एतदुक्त्वास भूयोऽपि प्राह। अथ ज्ञायते तरय क्रमणमार्गः। ताम्रचूड आह। भगवन् ज्ञायते यत एकाकी न समागच्छति। किंत्वसंख्ययूथपरिवृतः पश्यतो मे परिभ्रमन्नितस्ततः सर्वजनेन सहागच्छति याति च।अभ्यागत आह। अस्ति किंचित्खनित्रकम्। स आह। बाढमस्ति। एषा सर्वलोहमयी स्वहस्तिका। अभ्यागत आह। तर्हि प्रत्यूषे त्वया मया सह बोद्धव्यं येन द्वावपि जनचरणामलिनायां भूमौतत्पदानुसारेण गच्छावः। मयापि तद्वचनमाकर्ण्य चिन्तितम्। अहो विनष्टोऽस्मियतोऽस्य साभिप्रायवचांसि श्रूयन्ते। नूनं यथा निधानं ज्ञातं तथा दुर्गमप्यस्माकं ज्ञास्यति। एतदभिप्रायादेव ज्ञायते। उक्तं च।
सकृदषि दृष्ट्वा पुरुषं विबुधा जानन्ति सारतां तस्य।
हस्ततुलयापि निपुणाः पलप्रमाणं विजानन्ति॥७८॥
वान्छैव सूचयति पूर्वतरं भविष्यं
पुंसां यदन्यतनुजं त्वशुभं शुभं वा।
विज्ञायते शिशुरजातकलापचिह्नः
प्रत्युद्गतैरपसरन्सरसः कलापी॥७९॥
ततोऽहं भयत्रस्तमनाः सपरिवारोदुर्गमार्गं परित्यज्यान्यमार्गेण गन्तुं प्रवृत्तः। सपरिजनो यावदग्रतो गच्छामि तावत्संमुखो बृहत्कायो मार्जारः समायाति। स च मूषकवृन्दमवलोक्य तन्मध्ये सहसोत्पपात। अथ ते मूषका मां कुमार्गगामिनमवलोक्य गर्हयन्तो हतशेषा रुधिरप्लावितवसुंधरास्तमेव दुर्गं प्रविष्टाः। अथवा साध्विदमुच्यते।
छित्त्वा पाशमपास्य कूटरचनां भङ्क्त्वाबलाद्वागुरां
पर्यन्ताग्निशिखाकलापजटिलान्निर्गत्य दूरं वनात्।
व्याधानां शरगोचरादपि जवेनोत्पत्य धावन्मृगः
कूपान्तः पतितः करोतु विधुरे किंवा विधौ पौरुषम्॥८०॥
अथाहमेकोन्यत्र गतः। शेषा मूढतया तत्रैव दुर्गे प्रविष्टाः। अत्रान्तरे स दुष्टपरिब्राजको रुधिरबिन्दुचर्चितां भूमिमवलोक्य तेनैव दुर्गमार्गेणागत्योपस्थितः। ततश्च स्वहस्तिकया खनितुमारब्धः। अथ तेन खनता प्राप्तं तन्निधानं यस्योपरि सदैवाहं कृतवसतिर्यस्योष्मणा महादुर्गमपि गच्छामि। ततो हृष्टमनास्ताम्रचूडमिदमूचेभ्यागतः।भो भगवन् इदानीं स्वपिहि निःशङ्कः। अस्योष्मणा मूषकस्ते जागरणं करोति। एवमुक्त्वानिधानमादाय मठाभिमुखं प्रस्थितौ द्वावपि। अहमपि यावन्निधानमागच्छामि तावदरमणीयमुद्वेगकारकं तत्स्थानं वीक्षितुमपि न शक्नोमि। अचिन्तयं च। किं करोमि। क्व गच्छामि। कथं मे स्यान्मनसः प्रशान्तिः। एवं चिन्तयतो महाकष्टेन स दिवसो व्यतिक्रान्तः। अथास्तमितेर्केसोद्वेगो निरुत्साहस्तस्मिन्मठे सपरिवारः प्रविष्टः। अथास्मत्परिग्रहशब्दमाकर्ण्य ताम्रचूडोऽपि भूयो भिक्षापात्रं जर्जरवंशेन ताडयितुं प्रवृत्तः। अथासावभ्यागतः प्राह। सखे किमद्यापि निःशङ्को न निद्रां गच्छसि। सआह। भगवन् भूयोऽपि समायातः सपरिवारः स दुष्टात्मा मूषकः। तद्भयाज्जर्जरवंशेन भिक्षापात्रं ताडयामि। ततो विहस्याभ्यागतः प्राह।सखे मा भैषीः।वित्तेन सह गतोस्य कूर्दनोत्साहः। सर्वेषामपि जन्तूनामयमेव स्थितिः। उक्तं च।
यदुत्साही सदा मर्त्यः पराभवति यज्जनान्।
यदुद्धतं वदेद्वाक्यं तत्सर्वं वित्तजं बलम्॥८१॥
अथाहं तच्छ्रुत्वा कोपाविष्टो भिक्षापात्रमुद्दिश्य विशेषादुत्कूर्दितोऽप्राप्त एव भूमौ निपतितः। तच्छ्रुत्वासौ मे शत्रुर्विहस्य ताम्रचूडमुवाच। भोः पश्य पश्य कौतूहलम्। आह च।
अर्थेन बलवान्सर्वो अर्थयुक्तः स पण्डितः।
पश्यैनं मूषकं व्यर्थं स्वजातेः समतां गतम्॥८२॥
तत्स्वपिहि त्वं गतशङ्कः। यदस्योत्पतनकारणं तदावयोर्हस्तगतं जातम्। अथवा साध्विदमुच्यते।
दंष्ट्राविरहितः सर्पो मदहीनों यथा गजः।
तथार्थेन विहीनोत्र पुरुषो नामधारकः॥८३॥
तच्छ्रुत्वाहं मनसा विचिन्तितवान्। यतोऽङ्गुलिमात्रमपि कूर्दनशक्तिर्नास्ति तद्धिगर्थहीनस्य पुरुषस्य जीवितम्। उक्तं च।
अर्थेन च विहीनस्य पुरुषस्याल्पमेधसः।
उच्छिद्यन्ते क्रियाः सर्वा ग्रीष्मे कुसरितो यथा॥८४॥
यथा काकयवाः प्रोक्ता यथारण्यभवास्तिलाः।
नाममात्रा न सिद्धौ हि धनहीनास्तथा नराः॥८५॥
सन्तोऽपि न हि राजन्ते दरिद्रस्येतरे गुणाः।
आदित्य इव भूतानां श्रीर्गुणानां प्रकाशिनी॥८६॥
न तथा बाध्यते लोके प्रकृत्या निर्धनो जनः।
यथा द्रव्याणि संप्राप्य तैर्विहीनः सुखैधितः॥८७॥
शुष्कस्य कीटखातस्य वह्निदग्धस्य सर्वतः।
तरोरप्यूषरस्थस्य वरं जन्म न चार्थिनः॥८८॥
शङ्कनीया हि सर्वत्र निष्प्रतापा दरिद्रता।
उपकर्तुमपि प्राप्तं निःस्वं संत्यज्य गच्छति॥८९॥
उन्नम्योन्नम्य तत्रैव निर्धनानां मनोरथाः।
हृदयेष्वेवलीयन्ते विधवास्त्रीस्तनाविव॥९०॥
व्यक्तेऽपि वासरे नित्यं दौर्गत्यतमसावृतः।
अग्रतोऽपि स्थितो यत्नान्न केनापीह दृश्यते॥९१॥
एवं विलप्याहं भनोत्साहस्तन्निधानं गण्डोपधानीयकृतं दृष्ट्वा स्वं दुर्गं प्रभाते गतः। ततश्च मद्भृत्याः प्रभाते गछन्तो मिथो जल्पन्ति। अहो असमर्थोयमुदरपूरणेस्माकम्। केवलमस्य पृष्ठलग्नानां विडालादिविपत्तयः। तत्किमनेनाराधितेन। उक्तं च।
यत्सकाशान्न लाभः स्यात्केवलाः स्युर्विपत्तयः।
स स्वामी दूरतस्त्याज्यो विशेषादनुजीविभिः॥९२॥
एवं तेषां वचांसि श्रुत्वा स्वदुर्गं प्रविष्टोहम्। यावन्न कश्चिन्मम संमुखोभ्येति तावन्मया चिन्तितम्। धिगियं दरिद्रता। अथवासाध्विदमुच्यते।
मृतो दारीद्रः पुरुषो मृतं मैथुनमप्रजम्।
मृतमश्रोत्रियं श्राद्धं मृतो यज्ञस्त्वदक्षिणः॥९३॥
एवं मे चिन्तयतस्ते भृत्या मम शत्रूणां सेवका जाताः। ते च मामेकाकिनं दृष्ट्वा विडम्बनां कुर्वन्ति। अथ मयैकाकिना योगनिद्रां गतेनभूयो विचिन्तितम्। यत्तस्य कुतपस्विनः समाश्रयं गत्वा तद्गण्डोपधानवर्तिकृतां वित्तपेटां शनैःशनैर्विदार्य तस्य निद्रावशं गतस्य स्वदुर्गे तद्वित्तमानयामि येन भूयोऽपि मे वित्तप्रभावेनाधिपत्यं पूर्ववद्भवति। उक्तं च।
व्यथयन्ति परं चेतो मनोरथशतैर्जनाः।
नानुष्ठानैर्धनैर्हीनाः कुलजा विधवा इव॥९४॥
दौर्गत्यं देहिनां दुःखमपमानकरं परम्।
येन स्वैरपि मन्यन्ते जीवन्तोऽपि मृता इव॥९५॥
दैन्यस्य पात्रतामेति पराभूतेः परं पदम्।
विपदामाश्रयः शश्वद्दौर्गत्यकलुषीकृतः॥९६॥
लज्जन्ते बान्धवास्तेन संबन्धं गोपयन्ति च।
मित्राण्यमित्रतां यान्ति यस्य न स्युः कपर्दकाः॥९७॥
मूर्तं लाघवमेवैतदपायानामिदं गृहम्।
पर्यायो मरणस्यायं निर्धनत्वं शरीरिणाम्॥९८॥
अजाधूलिरिव त्रस्तैर्मार्जनीरेणुवज्जनैः।
दीपखट्वोत्थच्छायेव त्यज्यते निर्धनो जनैः॥९८॥
शौचावशिष्टयाप्यस्ति किंचित्कार्यं क्वचिन्मृदा।
निर्धनेन जनेनैव न तु किंचित्प्रयोजनम्॥९९॥
अधनो दातुकामोऽपि संप्राप्तो धनिनां गृहम्।
मन्यते याचकोयं धिग्दारिद्र्यं खलु देहिनाम्॥१००॥
अतो वित्तापहारं विदधतो यदि मे मृत्युः स्यात्तथापि शोभनम्। उक्तं च।
स्ववित्तहरणं दृष्ट्वा यो न रक्षत्यसौ नरः।
पितरोऽपि न गृह्णन्ति तद्दत्तं सलिलाञ्जलिम्॥१०१॥
तथा च।
गवार्थे ब्राह्मणार्थे च स्त्रीवित्तहरणे तथा।
प्राणांस्त्यजति यो युद्धे तस्य लोकाः सनातनाः॥१०२॥
एवं निश्चित्य रात्रौ तत्र गत्वा निद्रावशमुपागतस्य पेटायां मया छिद्रं कृतं यावत्तावत्प्रबुद्धो दुष्टतापसः। ततश्च जर्जरवंशप्रहारेण शिरसि ताडितः कथंचिदायुः शेषतया निर्गतोऽहं न मृतश्च। उक्तं च।
प्राप्तव्यमर्थं लभते मनुष्यो
देवोऽपि तं लङ्घयितुं न शक्तः।
तस्मान्न शोचामि न विस्मयो मे
यदस्मदीयं न हि तत्परेषाम्॥१०३॥
काककूर्मौपृच्छतः। कथमेतत्। हिरण्यक आह।
कथा ४.
अस्ति कस्मिंश्चिन्नगरे सागरदत्तो नाम बणिक्। तत्सूनुना रूपकशतेन विक्रीयमाणः पुस्तको गृहीतः। तस्मिंश्च लिखितमस्ति।
प्राप्तव्यमर्थं लभते मनुष्यो
देवोऽपि तं लङ्घयितुं न शक्तः।
तस्मान्न शोचामि नविस्मयोमे
यदस्मदीयं न हि तत्परेषाम्॥१०४॥
तद्दृष्ट्वा सागरदत्तेन तनुजः पृष्टः। पुत्र कियता मूल्येनैष पुस्तको गृहीतः। सोऽब्रवीत्। रूपकशतेन। तच्छ्रुत्वा सागरदत्तोऽब्रवीत्। धिङ्मुर्ख त्वं लिखितैकश्लोकं पुस्तकं रूपकशतेन यद्गृह्णास्येतथा बुद्ध्याकथं द्रव्योपार्जनं करिष्यसि। तदद्यप्रभृति त्वया मे गृहे न प्रवेष्टव्यम्। एवं निर्भर्त्स्यगृहान्निःसारितः। स च तेन निर्वेदेन विप्रकृष्टं देशान्तरं गत्वा किमपि नगरमासाद्यावस्थितः। अथ कतिपयदिवसैस्तन्नगरनिवासिनां केनचिदसौ पृष्टः। कुतो भवानागतः। किंनामा त्वम्। असावब्रवीत्। प्राप्तव्यमर्थं लभते मनुष्यः। अथान्येनापि पृष्टेनानेन तथैवोत्तरं दत्तम्। एवं च तस्य नगरस्य मध्ये प्राप्तव्यमर्थ इति तस्य प्रसिद्धं नाम जातम्। अथ राजकन्या चन्द्रवती नामाभिनवरूपयौवनसंपन्ना सखीद्वितीयैकस्मिन्दिवसे नगरं निरीक्षमाणास्ति। तत्रैव च कश्चिद्राजपुत्रोऽतीव रूपसंपन्नो मनोरमश्च कथमपि तस्या दृष्टिगोचरे गतः। तद्दर्शनसमकालमेव कुसुमवाणाहतया तया निजसख्यभिहिता। सखियथा किलानेन सह समागमो भवति तथाद्य त्वया यतितव्यम्। एवं च श्रुत्वा सा सखी तत्सकाशं गत्वा शीघ्रमब्रवीत्। यदहं चन्द्रवत्या तवान्तिकं प्रेषिता। भणितं च त्वां प्रति तया। यन्मम त्वद्दर्शनान्मनोभवेन पश्चिमावस्था कृता। तद्यदि शीघ्रमेव मदन्तिके न समेष्यसि तदा मे मरणं शरणम्। इति श्रुत्वा तेनाभिहितम्। यद्यवश्यंमया तत्रागन्तव्यं तत्कथय केनोपायेन प्रवेष्ठव्यम्। अथ सख्याभिहितम्। रात्रौ सौधावलम्बितया दृढवरत्रया त्वया तत्रारोढव्यम्। सोऽब्रवीत्। यद्येवं निश्चयो भवत्यास्तदहमेवं करिष्यामि। इति निश्चित्य सखी चन्द्रवतीसकाशं गता। अथागतायां रजन्यां स राजपुत्रः स्वचेतसा व्यचिन्तयत्। अहो महदकृत्यमेतत्। उक्तं च।
गुरोः सुतां मित्रभार्यां स्वामिसेवकगेहिनीम्।
यो गच्छति पुमांल्लोके तमाहुर्ब्रह्मघातिनम्॥१०५॥
अपरं च
अयशः प्राप्यते येन येन चापगतिर्भवेत्।
स्वर्गाच्च भ्रश्यते येन तत्कर्म न समाचरेत्॥१०६॥
इति सम्यग्विचार्य तत्सकाशं न जगाम। अथ प्राप्तव्यमर्थः पर्यटन्धवलगृहपार्श्वे रात्राववलम्बितवरत्रां दृष्ट्वा कौतुकाविष्टहृदयस्तामालम्ब्याधिरूढः। तया च राजपुत्र्या स एवायमित्याश्वस्तचित्तया स्नानखादनपानाच्छादनादिना संमान्य तेन सह शयनतलमाश्रितया तदङ्गसंस्पर्शसंजातहर्षरोमाञ्चितगात्रयोक्तम्। युष्मद्दर्शनमात्रानुरक्तपा मयात्मा प्रदत्तोऽयम्। त्वद्वर्जमन्यो भर्ता मनस्यपि मे न भविष्यतीति। तत्कस्मान्मया सह न ब्रवीषि। सोऽब्रवीत्। प्राप्तव्यमर्थं लभते मनुष्यः। इत्युक्ते तयान्योऽयमिति मत्वाधवलगृहादुत्तार्य मुक्तः। स तु खण्डदेवकुले गत्वा सुप्तः। अथ तत्र कयाचित्स्वैरिण्या दत्तसंकेतको यावद्दण्डपाशकः प्राप्तस्तावदसौ पूर्वसुप्तस्तेन दृष्टो रहस्यसंरक्षणार्थमभिहितश्च। को भवान्। सोऽब्रवीत्। प्राप्तव्यमर्थं लभते मनुष्यः। इति श्रुत्वा दण्डपाशकेनाभिहितम्। यच्छून्यं देवगृहमिदम्। तदत्र मदीयस्थाने गत्वा स्वपिहि। तथा प्रतिपद्य स मतिविपर्यासादन्यशयने सुप्तः। अथ तस्य रक्षकस्य बृहत्कन्या विनयवती नाम रूपयौवनसंपन्ना कस्यापि पुरुषस्यानुरक्ता संकेतं दत्त्वा तत्र शयने सुप्तासीत्। अथ सा तमायात दृष्ट्वा स एवायमस्मद्वल्लभ इति रात्रौ घनतरान्धकारव्यामोहितोत्थाय भोजनाच्छादनादिक्रियां कारयित्वा गान्धर्वविवाहेनात्मानं विवाहयित्वा तेन समं शयने स्थिता विकसितवदनकमला तमाह। किमद्यापि मया सह विश्रब्धं भवान्न ब्रवीति। सोऽब्रवीत्। प्राप्तव्यमर्थं लभते मनुष्यः। इति श्रुत्वा तया चिन्तितम्। यत्कार्यमसमीक्षितं क्रियते तस्येदृक्फलविपाको भवतीति। एवं विमृश्य सविषादया तया निःसारितोऽसौ। स च यावद्वीथीमार्गेण गच्छति तावदन्यविषयवासी वरकीर्तिर्नाम वरो महता वाद्यशब्देनागच्छति। प्राप्तव्यमर्थोऽपि तैः समं गन्तुमारब्धः। अथ यावत्प्रत्यासन्ने लग्नसमये राजमार्गासन्नश्रेष्ठिगृहद्वारे रचितमण्डपवेदिकायां कृतकौतुकमङ्गलवेषा बणिक्सुतास्ति तावन्मदमत्तो हत्यारोहकं हत्वा प्रणश्यज्जनकोलाहलेन लोकमाकुलयंस्तमेषोद्देशं प्राप्तः। तं च दृष्ट्वा सर्वे वरानुयायिनो वरेण सह प्रणश्य दिशो जग्मुः। अथास्मिन्नवसरे भयतरललोचनामेकाकिनीं कन्यामवलोक्य मा भैषीरहं परित्रातेति सुधीरं स्थिरीकृत्य दक्षिणपाणौ संगृह्य महासाहसिकतया प्राप्तव्यमर्थः परुषवाक्यैर्हस्तिनं निर्भत्सितवान्। ततः कथमपि दैवयोगादपयाते हस्तिनि यावत्ससुहृद्वान्धवोऽतिक्रान्तलग्नसमये वरकीर्तिरागच्छति तावत्तां कन्यामन्यहस्तगतां दृष्टाभिहितम्। भोः श्वशुरक विरुद्धमिदं त्वयानुष्ठितं यन्मह्यं प्रदाय कन्यान्यस्मै प्रदत्तेति। सोब्रवीत्। भी अहमपि हस्तिभय पलायितो भवद्भिः सहायातो न जाने किमिदं वृत्तम्। इत्यभिधाय दुहितरं प्रष्टुमारब्धः। वत्से न त्वया सुन्दरं कृतम्। तत्कथ्यतां कोऽयं वृत्तान्तः। साब्रवीत्। यदहमनेन प्राणसंशयाद्रक्षिता तदेनं मुक्त्वा मम जीवन्त्या नान्यः पाणिंग्रहीष्यतीति। अनेन वार्त्ताव्यतिकरेण रजनी व्युष्टा। अथ प्रातस्तत्र संजाते महाजनसमवाये वार्त्ताव्यतिकरं श्रुत्वा राजदुहिता तद्देशमागत। कर्णपरंपरयाश्रुत्वा दण्डपाशकसुतापि तत्रैवागता। अथ तं महाजनसमवायं श्रुत्वा राजापि तत्रैवाजगाम। प्राप्तव्यमर्थं प्राह। यद्विश्रब्धं कथय कीदृशोऽसौ वृत्तान्तः। अथ सोऽब्रवीत्। प्राप्तव्यमर्थं लभते मनुष्य इति। राजकन्या स्मृत्वाब्रवीत्। देवोऽपि तं लङ्कयितुं न शक्तः। ततो दण्डपाशकसुताब्रवीत्। तस्मान्न शोचामि न विस्मयो म इति। तमखिललोकवृत्तान्तमाकर्ण्य बणिक्सुताब्रवीत्। यदस्मदीयं न हि तत्परेषामिति। अभयदानं दत्त्वा राज्ञा पृथक्पृथग्वृत्तान्ताज्ञात्वावगततत्त्वस्तस्मै प्राप्तव्यमर्थाय स्वदुहितरं सबहुमानं ग्रामसहस्रेण समं सर्वालंकारपरिवारयुतां दत्त्वा त्वं मे पुत्रोऽसीति नगरविदितं तं यौवराज्येभिषिक्तवान्। दण्डपाशकेनापि स्वदुहिता स्वशक्त्या वस्त्रदानादिना संभाव्य प्राप्तव्यमर्थाय प्रदत्ता। अथ प्राप्तव्यमर्थेनापि स्वीयपितृमातरौ समस्तकुटुम्बावृतौ तस्मिन्नगरे संमानपुरःसरं समानीतौ। अथ सोपि स्वगोत्रेण सह विविधभोगानुपभुञ्जानः सुखेनावस्थितः। अतोऽहं ब्रवीमि।
प्राप्तव्यमर्थं लभते मनुष्यो देवोऽपि तं लङ्घयितुं न शक्तः।
तस्मान्न शोचामि न विस्मयो मे यदस्मदीयं न हि तत्परेषाम्॥१०७॥
तदेतत्सकलं सुखदुःखमनुभूय परं विषादमागतोऽनेन मित्रेण त्वत्सकाशमानीतः। तदेतन्मे वैराग्यकारणम्। मन्थरक आह। भद्र भवति सुहृदयमसंदिग्धं यः क्षुत्क्षामोऽपि शत्रुभूतं त्वां भक्षस्थाने स्थितमेवं पृष्ठमारोप्यानयति न मार्गेपि भक्षयति। उक्तं च यतः।
विकारं याति नो चित्तं वित्ते यस्य कदाचन।
मित्रस्य सुकुलीनस्य कारयेन्मित्रमुत्तमम्॥१०८॥
विद्वद्भिः सुहृदामत्र चिङ्गैरेतैरसंशयम्।
परीक्षाकरणं प्रोक्तं होमाग्नेरिव पण्डितैः॥१०९॥
तथा च।
आपत्काले तु संप्राप्ते यन्मित्रं मित्रमेव तत्।
वृद्धिकाले तु संप्राप्ते दुर्जनोपि सुहृद्भवेत्॥११०॥
तन्ममाप्यद्यास्य विषये विश्वासः समुत्पन्नो यतो नीतिविरुद्धेऽयं मैत्री मांसाशिभिर्वायसैः सह जलचराणाम्। अथवा साध्विदमुच्यते।
मित्रं कोऽपि न कस्यापि नितान्तं न च वैरकृत्।
दृश्यते मित्रविध्वस्तः कार्याद्वैरिप्ररक्षितः॥१११॥
तत्स्वागतं भवतः। स्वगृहवदास्यतामत्र सरस्तीरे। यच्च वित्तनाशो विदेशवासश्च ते संजातस्तत्र विषये संतापो न कर्तव्यः। उक्तं च।
अभ्रच्छाया खलप्रीतिः सिद्धमन्नंच योषितः।
किंचित्कालोपभोग्यानि यौवनानि धनानि च॥११२॥
अत एव विवेकिनो जितात्मानो धनस्पृहां न कुर्वन्ति। उक्तं च।
सुसंचितैर्जीवनवत्सुरक्षितै-
र्निजेऽपि देहे न वियोजितैः क्वचित्।
पुंसो यमान्तं व्रजतोऽपि निष्ठुरै-
रेतैर्धनैः पञ्चपदी न दीयते॥११३॥
अन्यच्च।
यथामिषं जले मत्स्यैर्भक्ष्यते श्वापदैर्भुवि।
आकाशे पक्षिभिश्चैव तथा सर्वत्र वित्तवान्॥११४॥
निर्दोषमपिवित्ताढ्यं दोषैर्योजयते नृपः।
निर्धनः प्राप्तदोषोऽपि सर्वत्र निरुपद्रवः ॥११५॥
अर्थानामर्जने दुःखमर्जितानां च रक्षणे।
नाशे दुःखं व्यये दुःखं धिगर्थाः कष्टसंश्रयाः॥११६॥
अर्थार्थी यानि कष्टानि मूढोऽयं सहते जनः।
शतांशेनापि मोक्षार्थी तानि चेन्मोक्षमाप्नुयात्॥११७॥
अपरं विदेशवासजमपि वैराग्यं त्वया न कार्यम्। यतः
को धीरस्य मनस्विनः स्वविषयः को वै विदेशः स्मृतो
यं देशं श्रयते तमेव कुरुते बाहुप्रतापार्जितम्।
यद्दंष्ट्रानखलाङ्गलप्रहरणैः सिंहो वनं गाहते
तस्मिन्नेव हतद्विपेन्द्ररुधिरेष्णां छिनत्त्यात्मनः॥११८॥
अर्थहीनः परे देशे गतोऽपि यः प्रज्ञावान्भवति स कथंचिदपि न सीदति। उक्तं च।
कोतिभारः समर्थानां किं दूरं व्यवसायिनाम्।
को विदेशः सुविद्यानां कः परः प्रियवादिनाम्॥११९॥
तत्प्रज्ञानिधिर्भवान्न प्राकृतपुरुषतुल्यः। अपरं प्राप्तोऽप्यर्थः कर्मप्राप्त्या नश्यति। तदेतावन्ति दिनानि त्वदीयमासीत्। मुहूर्तमप्यनात्मीयं भोक्तुं न लभ्यते। स्वयमागतमपिविधिनापह्रियते।
अर्थस्योपार्जनं कृत्वा नैव भोगं समश्नुते।
अरण्यं महदासाद्य मूढः सोमिलको यथा॥१२०॥
हिरण्यक आह। कथमेतत्। स आह।
कथा ५.
अस्ति कस्मिंश्चिदधिष्ठाने सोमिलको नाम कौलिको वसति स्म। सोनेकविधपटरचनारञ्जितानि पार्थिवोचितानेि सदैव वस्त्राण्युत्पादयति। परं तस्य चानेकविधपट्टरचनानिपुणस्यापि न भोजनाच्छादनाभ्यधिकं कथमप्यर्थमात्रं संपद्यते। अथान्ये तत्र सामान्यकौलिकाः स्थूलवस्त्रसंपादनविज्ञानिनो महर्द्धिसंपन्नाः। तानवलोक्य स स्वभार्यामाह। प्रिये पश्यैतान्स्थूलपट्टकारकान्धनकनकसमृद्धान्। तदधारणकं ममैतत्स्थानं। तदन्यत्रोपार्जनाय गच्छामि। सा प्राह। भोः प्रियतम मिथ्या प्रलपितमेतद्यदन्यत्र गतानां धनं भवति स्वस्थाने न भवति। उक्तं च।
उत्पतन्ति यदाकाशे निपतन्ति महीतले।
पक्षिणां तदपि प्रात्या नादत्तमुपतिष्ठति॥१२१॥
तथा च ।
न हि भवति यत्र भाव्यं भवति च भाव्यं विनापि यत्नेन।
करतलगतमपि नश्यति यस्य तु भवितव्यता नास्ति॥१२२॥
यथा धेनुसहस्त्रेषु वत्सो विन्दति मातरम्।
तथा पूर्वकृतं कर्म कर्तारमनुगच्छति॥१२३॥
शेते सह शयानेन गच्छन्तमनुगच्छति।
नराणां प्राक्तनं कर्म तिष्ठति तु सहात्मना॥१२४॥
यथा छायातपौ नित्यं सुसंबद्धौ परस्परम्।
एवं कर्म च कर्ता च संश्लिष्टावितरेतरम्॥१२५॥
तस्मादत्रैव व्यवसायपरो भव। कौलिक आह। प्रिये न सम्यगभिहितं भवत्या। व्यवसायं विना न कर्म फलति। उक्तं च।
यथैकेन न हस्तेन तालिका संप्रपद्यते।
तथोद्यमपरित्यक्तं न फलं कर्मणः स्मृतम्॥१२६॥
पश्य कर्मवशात्प्राप्तं भोज्यकालेऽपि भोजनम्।
हस्तोद्यमंविना वक्त्रेप्रविशेन्न कथंचन॥१२७॥
तथा च।
उद्योगिनं पुरुषसिंहमुपैति लक्ष्मी-
र्दैवं हि दैवमिति कापुरुषा वदन्ति।
दैवं निहत्य कुरु पौरुषमात्मशक्त्या
यत्ने कृते यदि न सिध्यति कोत्र दोषः॥१२८॥
तथा च।
उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः ।
न हि सुप्तस्य सिंहस्य विशन्ति वदने मृगाः॥१२९॥
उद्यमेन विना राजन्न सिध्यन्ति मनोरथाः।
कातरा इति जल्पन्ति यद्भाव्यं तद्भविष्यति॥१३०॥
स्वशक्त्या कुर्वतः कर्म न चेत्सिद्धिं प्रयच्छति।
नोपलभ्यः पुमांस्तत्र दैवान्तरितपौरुषः॥१३१॥
तन्मयावश्यं देशान्तरं गन्तव्यम्। इति निश्चित्य वर्धमानपुरं गत्वातत्र वर्षत्रयं स्थित्वा सुवर्णशतत्रयोपार्जनं कृत्वा भूयः स्वगृहं प्रस्थितः। अथार्धपथे गच्छतस्तस्य कदाचिदव्यां पर्यटतो भगवान्रविरस्तमुपागतः। तत्र च व्यालभयात्स्थूलतरवटस्कन्ध आरुह्य प्रसुप्तो यावत्तिष्ठति तावन्निशीथे द्वौ पुरुषौ रौद्राकारौ परस्परं जल्पन्तावशृणोत्। तत्रैक आह। भोः कर्तः त्वं किं सम्यङ्नवेत्सि यदस्य सोमिलकस्य भोजनाच्छादनादृतेऽधिका समृद्धिर्नास्ति।तत्किं त्वयास्य सुवर्णशतत्रयं दत्तम्। स आह। भोः कर्मन् मयावश्यं दातव्यं व्यवसायिनां तत्र च तस्य परिणतिस्त्वदायत्तेति।
अथ यावदसौ कौलिकः प्रबुद्धः सुवर्णग्रन्थिमवलोकयति तावद्रिक्तं पश्यति। ततः साक्षेपं चिन्तयामास। अहो किमेतत्। महताकष्टेनोपार्जितं वित्तं हेलया क्वापि गतम्। तद्यर्थश्रमोऽकिंचनः कथं स्वपत्न्या मित्राणां च मुखंदर्शयिष्यामि। इति निश्चित्य तदेव पत्तनं गतः। तत्र च वर्षमात्रेणापि सुवर्णशतपञ्चकमुपार्ज्यभूयोऽपि स्वस्थानं प्रति प्रस्थितः। यावदर्धपथे भूयोटवीगतस्य भगवान्भानुरस्तंजगामाथ सुवर्णनाशभयात्सुश्रान्तोऽपि न विश्राम्यति केवलं कृतगृहोत्कण्ठः सत्वरं व्रजति। अत्रान्तरे द्वौ पुरुषौ तादृशौ दृष्टिदेशे समागच्छन्तौ जल्पन्तौ च शृणोति। तत्रैकः प्राह। भोः कर्तः किं त्वयैतस्य सुवर्णशतपञ्चकं दत्तम्। तत्किं न वेत्सि यद्भोजनाच्छादनाभ्यधिकमस्य किंचिन्नास्ति। स आह। भोः कर्मन् मयावश्यं देयं व्यवसायिनाम्। तस्य परिणामस्त्वदायत्तः। तत्किं मामुपालम्भयसि। तच्छ्रुत्या सोमिलको यावद्रन्थिमवलोकयति तावत्सुवर्णं नास्ति। ततः परं दुःखमापन्नो व्यचिन्तयत्। अहो किं मम धनरहितस्य जीवितेन। तदत्र वटवृक्ष आत्मानमुहध्य प्राणांस्त्यजामि। एवं निश्चित्य दर्भमयीं रज्जुं विधाय स्वकण्ठे पाशं नियोज्य शाखायामात्मानं निबध्य यायत्प्रक्षिपति तावदेकः पुमानाकाशस्थ एवेदमाह। भो भोः सोमिलक मैवं साहसं कुरु। अहं ते वित्तापहारको न ते भोजनाच्छादनाम्यधिकं वराटिकामपि सहामि। तद्गच्छ स्वगृहं प्रति। अन्यच्च भवदीयसाहसेनाहं तुष्टः। तथा मे न स्याद्व्यर्थंदर्शनम्। तत्प्रार्थ्यतामभीष्टो वरः कश्चित्। सोमिलक आह। यद्येवंतद्देहि मे प्रभूतं धनम्। स आह। भोः किं करिष्यसि भोगरहितेन धनेन यतस्तव भोजनाच्छादनाभ्यधिका प्राप्तिरपि नास्ति। उक्तं च।
किं तया क्रियते लक्ष्म्या या वधूरिव केवला।
या न वेश्येव सामान्या पथिकैरुपभुज्यते॥१३२॥
सोमिलक आह। यद्यपि भोगो नास्ति तथापि भवतु मे धनम्। उक्तं च।
कृपणोप्यकुलीनोऽपि सदा संश्रितमानुषैः।
सेव्यते स नरो लोके यस्य स्याद्वित्तसंचयः॥१३३॥
तथा च।
शिथिलौ च सुबद्धौ च पततः पततो न वा।
निरीक्षितौ मया भद्रे दश वर्षाणि पञ्च च॥१३४॥
पुरुष आह। किमेतत्। सोऽब्रवीत्।
कथा ६
कस्मिंश्चिदधिष्ठाने तीक्ष्णविषाणो नाम महावृषभो वसति। स च मदातिरेकात्परित्यक्तनिजयूथः शृङ्गाभ्यां नदीतटानि विदारयन्स्वेच्छया मरकतसदृशानि शष्याणि भक्षयन्नरण्यचरो बभूव। अथ तत्रैववने प्रलोभको नाम शृगालः प्रतिवसति स्म। स कदाचित्सभार्यया सह नदीतीरे सुखोपविष्टस्तिष्ठति। अत्रान्तरे स तीक्ष्णविषाणो जलार्थंतदेव पुलिनमवतीर्णः। ततश्च तस्य लम्बमानौबृषणावालोक्य शृगाल्या शृगालोभिहितः। स्वामिन् पश्यास्य वृषभस्य मांसपिण्डौ लम्बमानौ यथा स्थितौ। ततः क्षणेन प्रहरेण वा पतिष्यतः। एवं ज्ञात्वा भवता पृष्ठयायिना भाव्यम्। शृगाल आह। प्रिये नज्ञायते कदाचिदेतयोः पतनं भविष्यति वा न वा। तत्किं वृथाश्रमाय मां नियोजयसि। अत्रस्थस्तावज्जलार्थमागतान्मूषकान्भक्षयिष्यामि समं त्वया मार्गोऽयं यतस्तेषाम्। अथ यदा त्वां मुक्त्वास्य तीक्ष्णविषाणस्य वृषभस्य पृष्ठे गमिष्यामि तदागत्यान्यः कश्चिदेतत्स्थानं समाश्रयिष्यति। नैतद्युज्यते कर्तुम्। उक्तं च।
यो ध्रुवाणि परित्यज्य अध्रुवाणि निषेवते।
ध्रुवाणि तस्य नश्यन्ति अध्रुवं नष्टमेव च॥१३५॥
शृगाल्याह। भोः कापुरुषस्त्वं यत्किंचित्प्राप्तं तेनापि संतोषं करोषि। उक्तं च।
सुपूरा स्यात्कुनदिका सुपूरो मूषिकाञ्जलिः।
सुसंतुष्टः कापुरुषः स्वल्पकेनापि तुष्यति॥१३६॥
तस्मात्पुरुषेण सदैवोत्साहवता भाव्यम्। उक्तं च।
यत्रोत्साहसमारम्भो यत्रालस्यविनिग्रहः।
नयविक्रमसंयोगस्तत्र श्रीरचला ध्रुवम्॥१३७॥
तद्दैवमिति संचिन्त्य त्यजेन्नोद्योगमात्मनः।
अनुयोगं विना तैलं तिलानां नोपजायते॥१३८॥
अन्यच्च।
यः स्तोकेनापि संतोषं कुरुते मन्दधीर्जनः।
तस्य भाग्यविहीनस्य दत्ताश्रीरपि मार्ज्यते॥१३९॥
यच्च त्वं वदसि। एतौ पतिष्यतो न वेति। तदप्ययुक्तम्। उक्तं च।
कृतनिश्चयिनो वन्द्यास्तुङ्गिमा नोपभुज्यते।
चातकः को वराकोयं यस्येन्द्रो वारिवाहकः॥१४०॥
अपरंमूषकमांसस्य निर्विण्णाहम्। एतौ च मांसपिण्डौ पतनप्रायो दृश्येते। तत्सर्वथा नान्यथा कर्तव्यमिति। अथासौ तदाकर्ण्य मूषकप्राप्तिस्थानं परित्यज्य तीक्ष्णविषाणस्य पृष्ठमन्वगच्छत्। अथवा साध्विदमुच्यते।
तावत्स्यात्सर्वकृत्येषु पुरुषोऽत्र स्वयं प्रभुः।
स्त्रीवाक्याङ्कुशविक्षुण्णो यावन्नो ध्रियते बलात्॥१४१॥
अकृत्यं मन्यते कृत्यमगम्यं मन्यते सुगम्।
अभक्ष्यं मन्यते भक्ष्यं स्त्रीवाक्यप्रेरितो नरः॥१४२॥
एवं स तस्य पृष्ठतः सभार्यः परिभ्रमंश्चिरकालमनयत्। न च तयोः पतनमभूत्। ततश्च निर्वेदात्पञ्चदशे वर्षे शृगालः स्वभार्यामाह।
शिथिलौ च सुबद्धौ च पततः पततो न वा।
निरीक्षितौ मया भद्रे दश वर्षाणि पञ्च च॥१४३॥
तयोस्तत्पश्चादपि पातो न भविष्यति। तत्तदेव स्वस्थानं गच्छावः अतोऽहं ब्रवीमि।
शिथिलौ च सुबद्धौ च पततः पततो न वा।
निरीक्षितौमया भद्रे दश वर्षाणि पञ्च च॥१४४॥
पुरुष आह। यद्येवंतद्गच्छ भूयोऽपि वर्धमानपुरम्। तत्र द्वौ बणिक्पुत्रौ वसतः। एको गुप्तधनः। द्वितीय उपभुक्तधनः। ततस्तयोः स्वरूपं बुद्धैकस्य वरः प्रार्थनीयः। यदि ते धनेन प्रयोजनमभक्षितेन ततस्त्वामपि गुप्तधनं करोमि। अथवा दत्तभोग्येन धनेन ते प्रयोजनं तदुपभुक्तधनं करोमीति। एवमुक्त्वादर्शनं गतः। सोमिलकोऽपि विस्मितमना भूयोऽपि वर्धमानपुरं गतः। अथ संध्यासमये श्रान्तः कथमपि तत्पुरं प्राप्तो गुप्तधनगृहं पृच्छन्कृच्छ्राल्लब्ध्वास्तमितसूर्ये प्रविष्टः। अथासौ भार्यापुत्रसमेतेन गुप्तधनेन निर्भर्त्यमानो हटाद्गृहं प्रविश्योपविष्टः। ततश्च भोजनवेलायां तस्यापि भक्तिवर्जितं किंचिदर्शनं दत्तम्। ततश्च भुक्त्वातत्रैव यावत्सुप्तो निशीथे पश्यति तावत्तावपि द्वौ पुरुषौ परस्परं मन्त्रयतः। तत्रैक आह। भोः कर्तः किं त्वयास्य गुप्तधनस्यान्योधिको व्ययो निर्मितो यत्सोमिलकस्यानेन भोजनं दत्तम्। तदयुक्तं त्वया कृतम्। स आह। भोः कर्मन् न ममात्र दोषः। मया पुरुषस्य लाभप्राप्तिर्दातव्या। तत्परिणतिः पुनस्त्वदायत्तेति। अथासौ यावदुत्तिष्ठति तावद्गुप्तधनो विसूचिकया खिद्यमानो रुजाभिभूतः क्षणं तिष्ठति। ततो द्वितीयेऽह्नितद्दोषेण कृतोऽपवासः संजातः। सोमिलकोऽपि प्रभाते तद्गृहान्निष्क्रम्योपभुक्तधनगृहं गतः। तेनापि चाभ्युत्थानादिना सत्कृतो विहितभोजनाच्छादनसंमानस्तस्यैव गृहे भव्यशय्यामारुह्यसुष्वाप। ततश्च निशीथे यावत्पश्यति तावत्तावेव द्वौ पुरुषौ मिथो मन्त्रयतः। अत्र तयोरेक आह। भोः कर्तः अनेन सोमिलकस्योपकारं कुर्वता प्रभूतो व्ययः कृतः। तत्कथय कथमस्योद्धारकविधिर्भविष्यति। अनेन सर्वमेतद्व्यवहारकगृहात्समानीतम्। स आह। भोः कर्मन् मम कृत्यमेतत्। परिणतिस्त्वदायत्तेति। अथ प्रभातसमये राजपुरुषो राजप्रसादजं वित्तमादाय समायात उपभुक्तधनाय समर्पयामास। तद्दृष्ट्वा सोमिलकश्चिन्तयामास। संचयरहितोऽपि वरमेष उपभुक्तधनो नासौ गुप्तधनः। उक्तं च।
अग्निहोत्रफला वेदाः शीलवृत्तफलं श्रुतम्।
रतिपुत्रफला दारा दत्तभुक्तफलं धनम्॥१४५॥
तद्विधाता मां दत्तभुक्तधनं करोतु। न कार्यं मे गुप्तधनेन। ततः सोमिलको दत्तभुक्तधनः संजातः। अतोऽहं ब्रवीमि।
अर्थस्योपार्जनं कृत्वा नैव भोगं समश्नुते।
अरण्यं महदासाद्य मूढः सोमिलको यथा॥
तद्भद्र हिरण्यक एवं ज्ञात्वा धनविषये संतापो न कार्यः। अथ विद्यमानमपि धनं भोज्यबन्ध्यतया तदविद्यमानं मन्तव्यम्।
उक्तं च।
गृहमध्यनिखातेन धनेन धनिनो यदि।
भवामः किं न तेनैव धनेन धनिनो वयम्॥१४६॥
तथा च।
उपार्जितानामर्थानां त्याग एव हि रक्षणम्।
तडागोदरसंस्थानां परीवाह इवाम्भसाम्॥१४७॥
अन्यच्च।
दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य।
यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर्भवति॥१४८॥
एवं ज्ञात्वा विवेकिना न स्थित्यर्थं वित्तोपार्जनं कर्तव्यं यतो दुःखाय तत्। उक्तं च।
संतोषामृततृप्तानां यत्सुखं शान्तचेतसाम्।
कुतस्तद्धनलुब्धानामितश्चेतश्च धावताम्॥१४९॥
पीयूषमिव संतोषं पिबतां निर्वृतिः परा।
दुःखं निरन्तरं पुंसामसंतोषवतां पुनः॥ १५०॥
निरोधाच्चेतसोक्षाणि निरुद्धान्यखिलान्यपि
आच्छादिते रवौमेघैः संछन्नाः स्युर्गभस्तयः॥१५१॥
वाञ्छाविच्छेदनं प्राहुः स्वास्थ्यं शान्ता महर्षयः।
वाञ्छा निवर्तते नार्थैःपिपासेवाग्निसेवनैः॥१५२॥
अनिन्द्यमपि निन्दन्ति स्तुवन्त्यस्तुत्यमुच्चकैः।
स्वापतेयकृते मर्त्याः किं किं नाम न कुर्वते॥१५३॥
धर्मार्थं यस्य वित्तेहा तस्यापि न शुभावहा।
प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम्॥१५४॥
दानेन तुल्यो निधिरस्ति नान्यो
लोभाच्च नान्योऽस्ति परः पृथिव्याम्।
विभूषणं शीलसमं न चान्यत्
संतोषतुल्यं धनमस्ति नान्यत्॥१५५॥
दारिद्र्यस्य परा मूर्तिर्यन्मानद्रविणाल्पता।
जरद्गवधनः शर्वस्तथापि परमेश्वरः॥१५६॥
एवं ज्ञात्वा भद्र त्वया संतोषः कार्य इति। मन्थरकवचनमाकर्ण्य वायस आह। भद्र मन्थरको यदेवं वदति तत्त्वया चित्ते कर्तव्यम्। अथवा साध्विदमुच्यते।
सुलभाः पुरुषा राजन्सततं प्रियवादिनः।
अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः॥१५७॥
अप्रियाण्यपि पथ्यानि ये वदन्ति नृणामिह।
त एव सुहृदः प्रोक्ता अन्ये स्युर्नामधारकाः॥१५८॥
अथैवं जल्पतां तेषां चित्राङ्गो नाम हरिणो लुब्धकत्रासितस्तस्मिन्नेव सरसि प्रविष्टः। अथायान्तं ससंभ्रममवलोक्य लघुपतनको वृक्षमारूढः। हिरण्यकः शरस्तम्बं प्रविष्टः। मन्थरकः सलिलाशयमास्थितः। अथ लघुपतनको मृगं सम्यक्परिज्ञाय मन्थरकमुवाच। एह्येहि सखे मन्थरक मृगोऽयं तृषार्त्तोत्र समायातः सरसि प्रविष्टः। तस्य शब्दोऽयं न मानुषसंभव इति। तच्छ्रुत्वा मन्थरको देशकालोचितमाह। भो लघुपतनक यथायं मृगो दृश्यते प्रभूतमुच्छ्वासमुद्वहन्नुद्भान्तदृष्ट्या पृष्ठतोवलोकयति तन्न तृषार्त्त एष नूनं लुब्धकत्रासितः। तज्ज्ञायतामस्य पृष्ठे लुब्धका आगच्छन्ति न वेति। उक्तं च।
भयत्रस्तो नरः श्वासं प्रभूतं कुरुते मुहुः।
दिशोवलोकयत्येव न स्वास्थ्यं व्रजति क्वचित्॥१५९॥
तच्छ्रुत्वा चित्राङ्ग आह। भो मन्थरक ज्ञातं त्वया सम्यङ्मेत्रासकारणम्। अहं लुब्धकशरप्रहारादुद्वारितः कृच्छ्रेणात्र समायातः। मम यूथं तैर्लुब्धकैर्व्यापादितं भविष्यति। तच्छरणागतस्य मे दर्शय किंचिदगम्यं स्थानं लुब्धकानाम्। तदाकर्ण्य मन्थरक आह। भोश्चित्राङ्ग श्रूयतां नीतिशास्त्रम्।
द्वावुपायाविह प्रोक्तौ विमुक्तौ शत्रुदर्शने।
हस्तयोश्चालनादेको द्वितीयः पादवेगजः॥१६०॥
तद्गम्यतां शीघ्रं घनं वनं यावदद्यापि नागच्छन्ति ते दुरात्मानो लुब्धकाः। अत्रान्तरे लघुपतनकः सत्वरमभ्युपेत्योवाच। भो मन्थरक गतास्ते लुब्धकाः स्वगृहोन्मुखाः प्रचुरमांसपिण्डधारिणः। तच्चित्राङ्ग त्वं विश्रब्धो जलाद्बहिर्भव। ततस्ते चत्वारोऽपि मित्रभावमाश्रितास्तस्मिन्सरसि मध्याह्नसमये वृक्षच्छायाधस्तात्सुभाषितगोष्टीसुखमनुभवन्तः सुखेन कालं नयन्ति। अथवा युक्तमेतदुच्यते।
सुभाषितरसास्वादबद्धरोमाञ्चकञ्चुकम्।
विनापि संगमं स्त्रीणां कवीनां सुखमेधते॥१६१॥
तथा च
सकृदुक्तं न गृह्णाति स्वयं वा न करोति यः।
यस्य संपुटिका नास्ति कुतस्तस्य सुभाषितम्॥१६२॥
अथैकस्मिन्नहनि गोष्ठीसमये मृगो नायातः। अथ ते व्याकुलीभूताः परस्परं जल्पितुमारब्धाः। अहो किमद्य सुहृन्नसमायातः। किं सिंहादिभिः क्वचिद्व्यापादित उत लुब्धकैरथवानले प्रपतितो गर्ताविषमे वा नवतृणलौल्यादिति। अथवा साध्विदमुच्यते।
स्वगृहोद्यानगतेपि स्निग्धैः पापं विशङ्क्यते मोहात्।
किमु दृष्टबह्वपायप्रतिभयकान्तारमध्यस्थे॥१६३॥
अथ मन्थरको वायसमाह। भो लघुपतनक अहं हिरण्यकश्च तावद्द्ववप्यशक्तौ तस्यान्वेषणं कर्तुं मन्दगतित्वात्। तद्गत्वा त्वमरण्यं शोधय यदि कुत्रचित्तं जीवन्तं पश्यसीति। तदाकर्ण्य लघुपतनको नातिदूरे यावद्गच्छति तावत्पल्वलतीरे चित्राङ्गः कूटपाशनियन्त्रितस्तिष्ठति। तं दृष्ट्वा शोकव्याकुलितमनास्तमवोचत्। भद्र किमिदम्। चित्रापि वायसमवलोक्य विशेषेण दुःखितमना बभूव। अथवा युक्तमेतत्।
अपि मन्दत्वमापन्नो नष्टो वापीष्टदर्शनात्।
प्रायेण प्राणिनां भूयो दुःखावेगोधिकोभवेत्॥१६४॥
ततश्च वाष्पावसाने चित्राङ्गो लघुपतनकमाह। भो मित्र संजातोयं तावन्मम मृत्युः। तद्युक्तं संपन्नं यद्भवता सह मे दर्शनं संजातम्। उक्तं च।
प्राणात्यये समुत्पन्ने यदि स्यान्मित्रदर्शनम्।
तद्द्वाभ्यां सुखदं पश्चाज्जीवतोपि मृतस्य च॥१६५॥
तत्क्षन्तव्यं यन्मया प्रणयात्सुभाषितगोष्ठीष्वभिहितम्। तथा हिरण्यकमन्थरकौ मम वाक्याद्वाच्यौ।
अज्ञानाज्ज्ञानतो वापि दुरुक्तं यदुदाहृतम्।
मया तत्क्षम्यतामद्य द्वाभ्यामपि प्रसादतः॥१६६॥
तच्छ्रुत्वा लघुपतनक आह। भद्र न भेतव्यमस्मद्विधैर्मित्रैर्विद्यमानैः। यावदहं द्रुततरं हिरण्यकं गृहीत्वागच्छामि। अपरं ये सत्पुरुषा भवन्ति ते व्यसने न व्याकुलत्वमुपयान्ति। उक्तं च।
संपदि यस्य न हर्षो विपदि विषादो रणे न भीरुत्वम्।
तं भुवनत्रयतिलकं जनयति जननी सुतं विरलम्॥१६७॥
एवमुक्त्वा लघुपतनकश्चित्राङ्गमाश्वास्य यत्र हिरण्यकमन्थरकौतिष्ठतस्तत्र गत्वा सर्वं चित्राङ्गपाशपतनं कथितवान्। हिरण्यकं च चित्राङ्गपाशमोक्षणं प्रति कृतनिश्चयं पृष्ठमारोप्य भूयोऽपि सत्वरं चित्राङ्गसमीपे गतः। सोऽपि मूषकमवलोक्य किंचिज्जीविताशया संश्लिष्ट आह।
आपन्नाशाय विबुधैः कर्तव्याः सुहृदोमलाः।
न तरत्यापदं कश्चिद्योत्र मित्रविवर्जितः॥१६८॥
हिरण्यक आह। भद्र त्वं तावन्नीतिशास्त्रज्ञो दक्ष इति। तत्कथमत्र कूटपाशे पतितः। स आह। भो न कालोयं विवादस्य। तन्न यावत्स पापात्मा लुब्धकः समभ्येति तावद्दुततरं कर्तयेमं मत्पादपाशम्। तदाकर्ण्य विहस्याह हिरण्यकः। किं मय्यपिसमायाते लुब्धकाद्बिभेषि। ततः शास्त्रं प्रति महती मे विरक्तिः संपन्ना यद्भवद्विधा अपि नीतिशास्त्रविद एतामवस्थां प्राप्नुवन्ति। तेन त्वां पृच्छामि। स आह। भद्र कर्मणा बुद्धिरपि हन्यते। उक्तं च।
कृतान्तपाशबद्धानां दैवोपहतचेतसाम्।
बुद्धयः कुब्जगामिन्यो भवन्ति महतामपि॥ १६९॥
विधात्नारचिता या सा ललाटेक्षरमालिका।
न तां मार्जयितुं शक्ताः स्वशक्त्याप्यतिपण्डिताः॥१७०॥
एवं तयोः प्रवदतोः सुहृद्व्यसनसंतप्तहृदयो मन्थरकः शनैः शनैस्तं प्रदेशमाजगाम। तं दृष्ट्वा लघुपतनको हिरण्यकमाह। अहो न शोभनमापतितम्। हिरण्यक आह। किं स लुब्धकः समायाति। स आह।आस्तां तावल्लुब्धकवार्ता। एष मन्थरकः समागच्छति। तदनीतिरनुष्ठितानेन यतो वयमप्यस्य कारणान्नूनं व्यापादनं यास्यामो यदि स पापात्मा लुब्धकः समागमिष्यति। तदहं तावत्खमुत्वमुतिष्यामि। त्वं पुनर्बिलं प्रविश्यात्मानं रक्षयिष्यसि। चित्राङ्गोऽपि वेगेन दिगन्तरं यास्यति। एष पुनर्जलचरः स्थले कथं भविष्यतीति व्याकुलोऽस्मि। अत्रान्तरे प्राप्तोऽयं मन्थरकः। हिरण्यक आह। भद्र न युक्तमनुष्ठितं भवता यदत्र समायातः। तद्भूयोऽपि द्रुततरं गम्यतां यावदसौ लुब्धको न समायाति। मन्थरक आह। भद्र किं करोमि। न शक्नोमि तत्रस्थो मित्रव्यसनाग्निदाघं सोढुम्। तेनाहमत्रागतः। अथवा साध्विदमुच्यते।
दयितजनविप्रयोगो वित्तवियोगश्च केन सह्याः स्युः।
यदि सुमहौषधकल्पो वयस्यजनसंगमो न स्यात्॥१७१॥
एवं तस्य प्रवदत आकर्णपूरितशरासनो लुब्धकोप्युपागतः। तं दृष्ट्वा मूषकेण तस्य स्नायुपाशस्तत्क्षणात्खण्डितः। अत्रान्तरे चित्राङ्गः सत्वरं पृष्ठमवलोकयन्प्रधावितः। लघुपतनको वृक्षमारूढः। हिरण्यकश्च समीपवर्ति बिलं प्रविष्टः। अथासौ लुब्धको मृगगमनाद्विषण्णवदनो व्यर्थश्रमस्तं मन्थरकं मन्दं मन्दं स्थलमध्ये गच्छन्तं दृष्टवान्। अचिन्तयच्च। यद्यपि कुरंगो धात्रापहृतस्तथाप्ययं कूर्म आहारार्थं संपादितः।तदद्यास्यामिषेण मे कुटुम्बस्याहारनिर्वृत्तिर्भविष्यति। एवं विचिन्त्य तं दर्भैः संछाद्य धनुषि समारोप्य स्कन्धे कृत्वा गृहं प्रति प्रस्थितः। अत्रान्तरे तं नीयमानमवलोक्य हिरण्यको दुःखाकुलः पर्यदेवयत्।कष्टं भोः कष्टमापतितम्।
एकस्य दुःखस्य न यावदन्तं
गच्छाम्यहं पारमिवार्णवस्य।
तावद्वितीयं समुपस्थितं मे
छिद्रेष्वनर्थाबहुलीभवन्ति॥१७२॥
यदि तावत्कृतान्तेन मे धननाशो विहितस्तन्मार्गश्रान्तस्य मे विश्रामभूतं मित्रं कस्मादपहृतम्। अपरमपि मित्रं परं मन्थरकसमं न स्यात्। उक्तं च।
असंपत्तौ परो लाभो गुह्यस्य कथनं तथा।
आपद्विमोक्षणं चैव मित्रस्यैतत्फलत्रयम्॥१७३॥
तदस्य पश्चान्नान्यः सुहृन्मे। तत्किं ममोपर्यनवरतं व्यसनशरैर्वषति हन्त विधिः। यत आदौ तावद्वित्तनाशस्ततः परिवारभ्रंशस्ततो देशत्यागस्ततो मित्रवियोग इति। अथवा स्वरूपमेतत्सर्वेषामेव जन्तूनां जीवितधर्मस्य।उक्तं च।
कायः संनिहितापायः संपदः पदमापदाम्।
समागमाः सापगमाः सर्वमुत्पादभङ्गुरम्॥ १७४॥
तथा च।
क्षते प्रहारा निपतन्त्यभीक्ष्णं
धनक्षये वर्धति जाठराग्निः।
आपत्सु वैराणि समुद्भवन्ति
च्छिद्रेष्वनर्था बहुलीभवन्ति॥१७५॥
अहो साधुक्तं केनापि।
प्राप्ते भये परित्राणं प्रीतिविश्रम्भभाजनम्।
केन रत्नमिदं सृष्टं मित्रमित्यक्षरद्वयम्॥१७६॥
अत्रान्तर आक्रन्दपरौ चित्राङ्गलघुपतनकौतत्रैव समायातौ।अथ हिरण्यक आह। अहो किं वृथाप्रलपितेन। तद्यावदेष मन्थरको दृष्टिगोचरान्ननीयते तावदस्य मोक्षोपायश्चिन्त्यतामिति। उक्तं च।
व्यसनं प्राप्य यो मोहात्केवलं परिदेवयेत्।
क्रन्दनं वर्धयत्येव तस्यान्तं नाधिगच्छति॥१७७॥
केवलं व्यसनस्योक्तं भेषजं नयपण्डितैः।
तस्योच्छेदसमारम्भो विषादपरिवर्जनम्॥१७८॥
अन्यच्च।
अतीतलाभस्य च रक्षणार्थं
भविष्यलाभस्य च संगमार्थम।
आपत्प्रपन्नस्य च मोक्षणार्थं
यन्मन्त्र्यतेऽसौ परमो हि मन्त्रः॥१७९॥
तच्छ्रुत्वा वायस आह। भो यद्येवं तत्क्रियतां मद्वचः। एष चित्राङ्गोऽस्य मार्गे गत्वा किंचित्पल्वलमासाद्य तस्य तीरे निश्चेतनो भूत्वा पततु। अहमप्यस्य शिरसि समारुह्यमन्दैश्चञ्चुप्रहारैः शिर उल्लेखिष्यामि येनासौ लुब्धकोमुं मृतं मत्वा मम चञ्चुप्रहारप्रत्ययेन मन्थरकं भूमौ क्षिप्त्वा मृगार्थे धावति।अत्रान्तरे त्वया दर्भमयबन्धनवेष्टनानि खण्डनीयानि येनासौ मन्थरको द्रुततरं पल्वलं प्रविशति। चित्राङ्गः प्राह। भो भद्रोऽयं दृष्टो मन्त्रस्त्वया। नूनं मन्थरको मुक्तो मन्तव्यः। उक्तं च।
सिद्धिं वा यदिवासिद्धिं चित्तोत्साहो निवेदयेत्।
प्रथमं सर्वजन्तूनां प्राज्ञो वेत्ति न चेतरः॥ १८०॥
तत्तदेवं क्रियताम् ।तथानुष्ठिते स लुब्धकस्तथैव मार्गासन्नपल्वलतीरस्थं चित्राङ्गं वायससनाथमद्राक्षीत्। तं दृष्ट्वा हर्षितमना व्यचिन्तयत्।नूनं पाशवेदनया वराकोयं मृगो गत्वायुःशेषजीवितः पाशं त्रोटयित्वा कथमप्येतद्वनान्तरं प्रविष्टो यावन्मृतः। तद्वश्योऽयंमे कच्छपः सुयन्त्रितत्वात्। तदेनमपि तावद्गृह्णमीत्यवधार्य कच्छपं भूतले प्रक्षिप्य मृगमुपाद्रवत्। अत्रान्तरे हिरण्यकेन वज्रोपमदंष्ट्राप्रहारेण तद्दर्भवेष्टनं तत्क्षणात्खण्डशः कृतम्। मन्थरकोऽपि तृणमध्यान्निष्क्रम्य पल्वलं प्रविष्टः। चित्राङ्गनेप्यप्राप्तस्यापि तस्योत्थाय वायसेन सह द्रुतंप्रनष्टः। अत्रान्तरे विलक्षो विषादपरो निवृत्तो लुब्धको यावत्पश्यति तावत्कच्छपोऽपि गतः।ततश्च तत्रोपविश्येमं श्लोकमपठत्।
प्राप्तो बन्धनमप्ययं गुरु मृगस्तावत्त्वया मे हृतः
संप्राप्तः कमठः स चापि नियतं नष्टस्तवादेशतः।
क्षुत्क्षामोत्र वने भ्रमामि शिशुकैस्त्यक्तः समं भार्यया
यत्स्वामिन्न कृतं कृतान्त कुरु रे तत्रापि सज्जोस्म्यहम्॥१८१॥
एवं बहुत्रिधं विलप्य स्वगृहं गतः। अथ तस्मिन्दूरीभूते सर्वेऽपि ते काककूर्ममृगाखवः परमानन्दभाजो मिलित्वा परस्परमालिङ्ग्यपुनर्जातानिवात्मनो मन्यमानास्तदेव सरः प्राप्य महासुखेन सुभाषितगोष्ठीविनोदं कुर्वन्तः कालं नयन्ति स्म। एवं ज्ञात्वा विवेकिना मित्रसंग्रहः कार्यः। तथा मित्रेण सहाव्याजेन वर्तितव्यम्। उक्तं च।
यो मित्राणि करोत्यन्यत्कौटिल्येन न वर्तते।
स दुःखं न पराभूतेः प्राप्नोति हि कथंचन॥१८२॥
॥ समाप्तं चेदं मित्रसंप्राप्त्यभिधानं द्वितीयं तन्त्रम्॥
अथेदमारभ्यते काकोलूकीयं नाम तृतीयं तन्त्रं यस्यायमादिमः श्लोकः।
न विश्वसेत्पूर्वाविरोधितस्य
शत्रोश्वमित्रत्वमुपागतस्य।
दग्धां गुहां पश्य उलूकपूर्णां
काकप्रणीतेन हुताशनेन॥१॥
तद्यथानुश्रूयते।
अस्ति दाक्षिणात्ये जनपदे महिलारोप्यं नाम नगरम्। तस्य समीपेनेकखगसनाथोतिघनतरपत्त्रच्छन्नो महान्न्यग्रधिपादपस्तिष्ठति। तत्र च मेघवर्णो नाम वायसराजोनेककाकपरिवारःप्रतिवसति स्म। स तत्र विहितदुर्गरचनः सपरिजनः कालं नयति। अथान्योरिमर्दनो नामोलूकराजोसंख्योलूकपरिवृतो गिरिगुहादुर्गाश्रयः प्रतिवसति स्म। स च रात्रावागत्य तस्य न्यग्रोधस्य समन्तात्प्ररिभ्रमति। यं कंचिद्वायसमासादयति तं व्यापादयति। एवं नित्याभिगमनाच्छनेःशनैस्तन्न्यग्रोधपादपदुर्गं निर्वायसं कृतम्। अथवाभवत्येवं यतः।
य उपेक्षते शत्रुं स्वं प्रचरन्तं यदृच्छया।
रोगं वालस्यसंयुक्तः स शनैस्तेन हन्यते॥२॥
तथा च।
जातमात्रं न यः शत्रुं व्याधिं च प्रशमं नयेत्।
महाबलोऽपि तेनैष वृद्धिं प्राप्य स हन्यते॥३॥
अथान्येद्युः स वायसराजः सर्वान्सचिवानाहूय प्रोवाच। भो उत्कटस्तावदस्माकं शत्रुरुद्यमसंपन्नश्च कालविन्नित्यमेव निशागमे समेत्य व्यापादनं करोति। तत्कथमस्य प्रतिविधातव्यम्। वयं तावद्रात्रौन पश्यामो न च तस्य दुर्गं विजानीमो येन गत्वा प्रहरामः। तदत्र किं युज्यते संधिविग्रहयानासनसंश्रयद्वैधीभावानामेकतमस्य क्रियमाणस्य। अथ ते प्रोचुः। युक्तमभिहितं देवेन यदेष प्रश्नः कृतः।
उक्तं च।
अपृष्टेनापि वक्तव्यं सचिवेनात्र किंचन।
पृष्टेन त्वरितं पथ्यं वाच्यं च प्रियमप्रियम्॥४॥
यो न पृष्टो हितं ब्रूते परिणामे सुखावहम्।
मन्त्री च प्रियवक्ता च केवलं स रिपुः स्मृतः॥५॥
सुलभाः पुरुषा राजन्सततं प्रियवादिनः।
अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः॥६॥
तस्मादेकान्तमासाद्य मन्त्रः कार्यो महीपते।
येन तस्य वयं कुर्मो नियमं कारणं तथा॥७॥
अथ तस्यान्वयगताः पञ्च सचिवाः। तद्यथा नामानि। उज्जीवी संजीव्यनुजीवी प्रजीवो चिरंजीवी च। स तेषामादौ तावदुज्जीविनं पृष्टवान्। भद्र एवं स्थिते किं मन्यते भवान्। स आह।राजन् बलवता सह विग्रहो न कार्यः। यतः स बलवान्कालप्रहर्ता च तस्मात्संधेयः। उक्तं च।
बलीयसि प्रणमतां काले प्रहरतामपि।
संपदो नापगच्छन्ति प्रतीप इव निम्नगाः॥८॥
सत्याढ्योधार्मिकश्चार्यो भ्रातृसंघातवान्बली।
अनेकविजयी चैव संधेयः स रिपुर्भवेत्॥९॥
संधिः कार्योप्यनार्येण विज्ञाय प्राणसंशयम्।
प्राणैः संरक्षितैः सर्वे यतो भवति रक्षितम॥१०॥
योनेकयुद्धविजयी स तेन विशेषात्संधेयः। उक्तं च।
अनेकयुद्धविजयी संधानं यस्य गच्छति।
तत्प्रभावेन तस्याशु वशमायान्त्यरातयः॥११॥
संधिमिच्छेत्समेनापि संदिग्धो विजयो युधि।
न हि सांशयिकं कुर्यादित्युवाच बृहस्पतिः॥१२॥
संदिग्धो विजयो नित्यं द्यूतेनापि हि युध्यताम्।
उपायत्रितयादूर्ध्वं तस्माद्युद्धं समाचरेत्॥१३॥
असंदधानो मानान्धः समेनापि हतो भृशम्।
आमकुम्भ इवान्येन करोत्युभयसंक्षयम्॥१४॥
समं शक्तिमता युद्धमशक्तस्य हि मृत्यवे।
दृषत्कुम्भभिवाभित्त्वा तावत्तिष्ठति शक्तिमान्॥१५॥
भूमिर्मित्रं हिरण्यं च विग्रहस्य फलत्रयम्।
नास्त्येकमपि यद्येषां विग्रहं न समाचरेत्॥१६॥
खनन्नाखुबिलं सिंह; पाषाणशकलाकुलम्।
प्राप्नोति नखभङ्गं हि फलं वा मूषको भवेत्॥१७॥
तस्मान्न स्यात्फलं यत्र पुष्ठं युद्धं च केवलम्।
न हि तत्स्वयमुत्पाद्यं कर्तव्यं च कथंचन॥१८॥
बलीयसा समाक्रान्तो वैतसीं वृत्तिमाश्रयेत्।
वाञ्छन्नभ्रंशिनीं लक्ष्मीं न भौजंगीं कदाचन॥१९॥
कुर्वन्हि वैतसी वृत्तिं प्राप्नोति महतीं श्रियम्।
भुजंगवृत्तिः प्राप्नोति वधमेव हि केवलम्॥२०॥
कूर्मसंकोचमास्थाय प्राहारानपि मर्षयेत्।
कालेकाले च मतिमानुत्तिष्ठेत्कृष्णसर्पवत्॥२१॥
आगतं विग्रहं दृष्ट्वा सुसाम्ना प्रशमं नयेत्।
विजयस्य ह्यनित्यत्वाद्रभसा न समुत्पतेत्॥२२॥
तथा च।
बलिना सह योद्धव्यमिति नास्ति निदर्शनम्।
प्रतिवातं न हि घनः कदाचिदुपसर्पति॥२३॥
एवमुज्जीवी साममन्त्रं संधिकारकं विज्ञप्तवान्। अथ तच्छ्रुत्वा संजीविनमाह। भद्र तवाभिप्रायं श्रोतुमिच्छामि। स आह। देव न ममैतत्प्रतिभाति यच्छत्रुणा सह संधानं क्रियते।
उक्तं च।
शत्रुणा न हि संदध्यात्सुश्लिष्टेनापि संधिना।
सुतप्तमपि पानीयं शमयत्येव पावकम्॥२४॥
अपरं च स क्रूरो लुब्धो धर्मरहितः।तत्त्वया विशेषादसंधेयः।
उक्तं च।
सत्यधर्मविहीनेन न संदध्यात्कथंचन।
सुसंधितोप्यसाधुत्वादचिराद्याति विक्रियाम्॥२५॥
तस्मात्तेन योद्धव्यमिति मे निश्चयः। उक्तं च।
क्रूरो लुब्धोलसोसत्यः प्रमादी भीरुरुत्थितः।
मूढो योधावमन्ता च सुखोच्छेद्यो भवेद्रिपुः॥२६॥
अपरं पराभूतास्तेन वयम्। तद्यदि संधानं करिष्यथ तद्भूयोऽपि काकविनाशं करिष्यति। उक्तं च।
चतुर्थोपायसाध्ये तु शत्रौ शान्त्वमपक्रिया।
स्वेद्यमानज्वरं प्राज्ञः कोम्भसा परिषिञ्चति॥२७॥
सामवादाः सकोपस्य तस्य प्रत्युत दीपकाः।
सुतप्तस्येव सहसा सर्पिषस्तोयबिन्दवः॥२८॥
यच्चैतद्वदति देवो रिपुर्बलवांस्तदप्यकारणम्। उक्तं च।
प्रमाणाभ्यधिकस्यापि महत्सत्त्वमधिष्ठितः।
पदं मूर्ध्नि समाधत्ते केशरी मत्तदन्तिनः॥२९॥
उत्साहशक्तिसंपन्नो हन्याच्छत्रुंलघुर्गुरुम्।
यथा कण्ठीरवो नागं भारद्वाजाः प्रचक्षते॥३०॥
मायया शत्रवो वध्या अधिकाः स्युर्बलेन ये।
यथा स्त्रीरूपमास्थाय हता भीमेन कीचकाः॥३१॥
तथा च।
मृत्योरियोग्रदण्डस्य राज्ञो यान्ति वशं द्विषः।
सर्वंसहं तु मन्यन्ते तृणाय रिपवश्च तम्॥३२॥
न जातु शमनं यस्य तेजस्तेजस्वितेजसाम्।
वृथाजातेन किं तेन मातुर्यौवनहारिणा॥३३॥
या लक्ष्मीर्ना नुलिप्ताङ्गी वैरिशोणितकुङ्कुमैः।
कान्तापि मनसः प्रीतिं न सा धत्ते मनस्विनाम्॥३४॥
रिपुरक्तेन संसिक्ता तत्स्त्रीनेत्राम्बुभिस्तथा।
न भूमिर्यस्य भूपस्य का श्लाघा तस्य जीविते॥३५॥
एवं संजीवीविग्रहमन्त्रंविज्ञापयामास। अथ तच्छ्रुत्वानुजीविनमाह। भद्र त्वमपि स्वाभिप्रायं वद। स आह देव दुष्टः स बलाधिको निर्मर्यादश्च। तत्र तेन न संधिर्न विग्रहो पुक्तः। केवलं यानम
र्हंस्यात्। उक्तं च।
बलोत्कृष्टेन दुष्टेन मर्यादारहितेन च।
न संधिर्विग्रहो नैव विना यानं प्रशस्यते॥३६॥
द्विधाकारं भवेद्यानं भये प्राणार्थरक्षणम्।
एकमन्यज्जिगीषोश्चयात्रालक्षणमुच्यते॥३७॥
कार्तिके वाथ चैत्रे वा विजिगीषोः प्रशस्यते।
यानमुत्कृष्टबीर्यस्य शत्रुदेशे न चान्यदा॥३८॥
अवस्कन्दप्रदानस्य सर्वे कालाः प्रकीर्तिताः।
व्यसने वर्तमानस्य शत्रोश्छिद्रान्वितस्य च॥३९॥
स्वस्थानं सुदृढं कृत्वा शूरैश्चाप्तैर्महाबलैः।
परदेशं ततो गच्छेत्प्रणिधिव्याप्तमग्रतः॥४०॥
अज्ञातवीवधासारतोयसस्यो व्रजेत्तु यः।
परराष्ट्रं न भूयः स स्वराष्ट्रमपि गच्छति॥४१॥
तत्ते युक्तं कर्तुमपसरणम्। अन्यच्च।
तत्र युक्तं प्रभो कर्तुं द्वितीयं यानमेव च।
न विग्रहो न संधानं बलिना तेन पापिना॥४२॥
अपरं कारणापेक्षया सरणं क्रियते बुधैः। उक्तं च।
यदपसरति मेषः कारणं तत्प्रहर्तुं
मृगपतिरतिकोपात्संकुचत्युत्पतिष्णुः।
हृदयनिहितभावा गूढमन्त्रप्रचाराः
किमपि विगणयन्तो बुद्धिमन्तः सहन्ते॥४३॥
अन्यच्च।
बलवन्तं रिपुं दृष्ट्वा देशत्यागं करोति यः।
युधिष्ठिर इवाप्नोति पुनर्जीवन्स मेदिनीम्॥ ४४॥
युध्यतेऽहंकृतिं कृत्वा दुर्बलो यो बलीयसा।
स तस्य वाञ्छितं कुर्यादात्मनश्च कुलक्षयम्॥४५॥
तद्बलवताभियुक्तस्यापसरणसमयोऽयं न संधिर्विग्रहश्च। एवमनुजीविमन्त्रोपसरणस्य।अथैतदाकर्ण्य प्रजीविनमाह। भद्र त्वमप्यामनोऽभिप्रायं वद। स आह।देव मम संधिविग्रहयानान्यपि त्रीण्येवन प्रतिभान्ति विशेषतश्चासनम्।
उक्तं च।
नक्रः स्वस्थानमासाद्य गजेन्द्रमपि कर्षति।
स एव प्रच्युतः स्थानाच्छुनापि परिभूयते॥४६॥
अन्यच्च।
अभियुक्तो बलवता दुर्गे तिष्ठेत्प्रयत्नवान्।
तत्रस्थः सुहृदाह्वानं प्रकुर्वीतात्ममुक्तये॥४७॥
यो रिपोरागमं श्रुत्वा भयसंत्रस्तमानसः।
स्वस्थानं हि त्यजेत्तत्र न तु भूयो विशेच्च सः॥४८॥
दंष्ट्राविरहितः सर्पो मदहीनो यथा गजः।
स्थानहीनस्तथा राजा गम्यः स्यात्सर्वजन्तुषु॥४९॥
निजस्थानस्थितोप्येकः शतं योद्धुं सहेन्नरः।
बलिनामपि शत्रूणां तस्मात्स्थानं न संत्यजेत्॥५०॥
तस्माद्दुर्गं दृढं कृत्वा धीवधासारसंयुतम्।
प्राकारपरिखायुक्तं यन्त्रादिभिरलंकृतम्॥५१॥
तिष्ठेन्मध्यगतो नित्यं युद्धाय कृतनिश्चयः।
जीवन्संप्राप्स्यति राज्यं मृतो वा स्वर्गमेष्यति॥५२॥
अन्यच्च।
बलिनापि न बाध्यन्ते लघवोप्येकसंश्रयाः।
प्रभञ्जनविपक्षेण यथैकस्था महीरुहः॥५३॥
महानप्येकजो वृक्षः सर्वतः सुप्रतिष्ठितः।
सुमन्देनापि वातेन शक्यो धूनयितुं यतः॥५४॥
एवं मनुष्यमप्येकं शौर्येणापि समन्वितम्।
शक्यं द्विषन्तो मन्यन्ते हिंसन्ति च ततः परम्॥५५॥
एवं प्रजीविमन्त्रः। इदमासनसंज्ञकम्। एतत्समाकर्ण्य चिरंजीविनमाह। भद्र त्वमपि स्वाभिप्रायं वद। स आह। देव षाड्गुण्यमध्ये मम संश्रयः प्रतिभाति। तस्यानुष्ठानं कार्यम्। उक्तं च।
असहायः समर्थोऽपि तेजस्वीकिं करिष्यति।
निर्वाते ज्वलितो वह्निः स्वयमेव प्रशाम्यति॥५६॥
तदत्रैव स्थितेन त्वया कश्चित्समर्थ आश्रयणीयो यो विपत्प्रतीकारं करोति। यदि पुनस्त्वं तव स्थानं त्यक्त्वाप्रयास्यसि तत्कोऽपि ते वाङ्मात्रेणापि सहायत्वं न करिष्यति। उक्तं च।
वनानि दहतो वह्नेः सखा भवति मारुतः।
स एव दीपनाशाय कृशे कस्यास्ति गौरवम्॥५७॥
अथवा नैष एकान्तो यद्बलिनमेकं समाश्रयेत्। लघूनामपि संश्रयो रक्षायै भवति। उक्तं च।
संघातवान्यथा वेणुर्निबिडैर्वेणुभिर्वृतः।
न शक्यते समुच्छेत्तुं दुर्बलोऽपि तथा नृपः॥५८॥
अथ ये संहता वृक्षाः सर्वतः सुप्रतिष्ठिताः।
ते न रौद्रानिलेनापि हन्यन्तेन्योन्यसंश्रयात्॥५९॥
महानप्येकजो वृक्षो बलवान्सुप्रतिष्ठितः।
प्रसह्य इव वातेन शक्यः स्यादपि मर्दितुम्॥६०॥
यदि पुनरुत्तमे संश्रयो भवति तत्किमुच्यते। उक्तं च।
महाजनस्य संपर्कः कस्य नोन्नतिकारकः।
पद्मपत्रस्थितं तोयं धत्ते मुक्ताफलश्रियम्॥६१॥
ततः संश्रयं विना न कश्चित्प्रतीकारो भवति। तस्मात्संश्रयास्कार्यो विग्रह इति मेभिप्रायः। एवं चिरंजीविमन्त्रः। अथैवं तेनाभिहिते स मेघवर्णो राजा चिरंतनं पितृसचिवं दीर्घायुषं सकलनीतिपारं गतं स्थिरजीविनामानं प्रणम्य प्रोवाच। तात यदेते मया पृष्टाः सचिवास्तावदत्रस्थितस्यापि तव तत्परीक्षार्थं येन त्वं सकलं श्रुत्वायदुचितं तन्मे समादिशसि। तद्यद्युक्तं भवति तत्समादेश्यम्। स आह। वत्स सर्वैरप्येतैर्नीतिशास्त्राश्रयमुक्तं सचिवैः। तदुपयुज्यते स्वकाले। परमेष द्वैधीभावस्य कालः। उक्तं च।
अविश्वासं सदा तिष्ठेत्संधिना विग्रहेण च।
द्वैधीभावं च संश्रित्य पार्श्वे शत्रोर्बलीयसः॥६२॥
तच्छत्रं विश्वास्याविश्वस्तैर्लोभं दर्शयद्भिः सुखेनोच्छिद्यते रिपुः। उक्तं च।
उच्छेद्यमपि विद्वांसो वर्धयन्त्यरिमेकदा।
गुडेन वर्धितः श्लेष्मा सुखं वृद्ध्या निपात्यते॥६३॥
तथा च।
स्त्रीणां शत्रोः कुमित्रस्य पण्यस्त्रीणां विशेषतः।
यो भवेदेकभावो न स जीवति मानवः॥६४॥
कृत्यं देवद्विजातीनामात्मनश्च गुरोस्तथा।
एकभावेन कर्तव्यं शेषं द्विर्भावमाश्रितैः॥६५॥
एको भावः सदा शस्तो यतीनां भावितात्मनाम्।
स्त्रीलुब्धानां न लोकानां विशेषेण महीभृताम्॥६६॥
तद्द्वैधीभावं संश्रितस्य तव स्वस्थाने वासो भविष्यति लोभाश्रयाच्च शत्रुमुच्चाटयिष्यसि। अपरं यदिकिंचिच्छिद्रं तस्य पश्यसि तद्गत्वा व्यापादयिष्यसि। मेघवर्ण आह। तात मयाविदितः संश्रयस्तस्य। तत्कथं छिद्रं ज्ञायते तस्य। स्थिरजीव्याह। वत्स न केवलं स्थानं छिद्राण्यपि तस्य प्रकटीकरिष्यामि प्रणिधिभिः। उक्तं च।
गन्धेनगावः पश्यन्ति वेदैः पश्यन्ति वै द्विजाः।
चारैः पश्यन्ति राजानश्चक्षुर्भ्यामितरे जनाः॥६७॥
उक्तं चात्र विषये।
यस्तीर्थानि निजे पक्षे परपक्षे विशेषतः।
गुप्तैश्चारैर्नृपो वेत्ति न स दुर्गतिमाप्नुयात्॥६८॥
मेघवर्ण आह। तात कानि तीर्थान्युच्यन्ते कतिसंख्यानि च। कीदृशा गुप्तचराः। तत्सर्वं निवेद्यतामिति। स आह। अत्रविषये भगवता नारदेन युधिष्ठिरः प्रोक्तः। यच्छत्रुपक्षेष्टादश तीर्थानि स्वपक्षे पञ्चदश। त्रिभिस्त्रिभिर्गुप्तचरैस्तानि ज्ञेयानि। तैर्ज्ञातैः स्वपक्षः परपक्षश्च वश्यो भवति। उक्तं च नारदेन युधिष्ठिरं प्रति।
कच्चिदष्टादशान्येषु स्वपक्षे दश पञ्च च।
त्रिभिस्त्रिभिरविज्ञातैर्वेत्सि तीर्थानि चारकैः॥६९॥
तीर्थशब्देनायुक्तकर्माभिधीयते। तद्यदि तेषां कुत्सितं भवतितत्स्वामिनोभिघाताय। प्रधानं भवति तद्दृद्धये स्यादिति। तद्यथा। मन्त्री पुरोहितः सेनापतिर्युवराजो दौवारिकोन्तर्वासिकः प्रशासकः समाहर्तृसंनिधातृप्रदेष्टृज्ञापकाः साधनाध्यक्षो गजाध्यक्षः कोशाध्यक्षो दुर्गपालकरपालसीमापालप्रोत्कटमृत्याः। एषां भेदेन द्राग्रिपुः साध्यते।स्वपक्षे च देवी जननी कञ्चुकी मालिकः शय्यापालकः स्पाशः सांवत्सरिको भिषग्जलवाहकस्ताम्बूलवाहकाचार्यावङ्गरक्षकः स्थानचिन्तकश्छत्तधरो विलासिनी। एषां वैरेद्वारेण स्वपक्षे विघातः।
तथा च।
वैद्यसांवत्सरिकाचार्याः स्वपक्षेधिकृताश्चराः।
यथाहितुण्डिकोन्मत्ताः सर्वं जानन्ति शत्रुषु॥७०॥
तथा च।
कृत्वा कृत्यविदस्तीर्थैरन्तः प्रणिधयः पदम्।
विदांकुर्वन्तु महतस्तलं विद्विषदम्भसः॥७१॥
एवं मन्त्रिवाक्यमाकर्ण्यात्रान्तरे मेघवर्ण आह। तात अथ किं निमित्तमेवंविधं प्राणान्तिकं सदैव वायसोलूकानां वैरम्। स आह। वत्स कदाचिद्धंसशुकबककोकिलचातकोलूकमयूरकपोतपारावतविष्किरप्रभृतयः सर्वेऽपि पक्षिणः समेत्य सोद्वेगं मन्त्रयितुमारब्धाः। अहो अस्माकं वैनतेयो राजा स च तावच्छ्रीवासुदेवासक्तो नास्माकं कामपि चिन्तां करोति। तत्किं तेन वृथास्वामिना यो लुब्धकपाशैर्नित्यं निबध्यमानानां न रक्षां विधत्ते। उक्तं च।
यो न रक्षति वित्रस्तान्पीड्यमानान्परैः सदा।
जन्तून्पार्थिवरूपेण स कृतान्तो न संशयः॥७२॥
यदि न स्यान्नरपतिः सम्यङ्नेता इमाः प्रजाः।
अकर्णधारा पुरुषा विप्लवन्ते ह नौरिव॥७३॥
षडिमान्पुरुषो जह्याद्भिन्नां नावमिवार्णवे।
अप्रवक्तारमाचार्यमनधीयानमृत्विजम्॥७४॥
अरक्षितारं राजानं भार्यां चाप्रियवादिनीम्।
ग्रामकामं च गोपालं वनकामं च नापितम्॥७५॥
तत्संचिन्त्यान्यः कश्चिद्राजा विहंगमानां क्रियतामिति। अथ तैर्भद्राकारमुलूकमवलोक्य सर्वैरभिहितम्। यदेव उलूको राजास्माकं भविष्यति। तदानीयन्तां नृपाभिषेकसंबन्धिनः संभारा इति। अथ साधिते विविधतीर्थोदके प्रगुणीकृतेष्टोत्तरशतमूलिकासंघाते प्रदत्ते सिंहासने वर्तितेसप्तद्वीपवतीधरित्रीमण्डले प्रस्तारिते व्याघ्रचर्मण्यापूरीतेषु हेमकुम्भेषु दीपेषु वाद्येषु च सज्जीकृतेषु दर्पणादिषु माङ्गल्यवस्तुषु पठत्सु वन्दिमुख्येषु वेदोच्चारणपरेषु समुदितमुखेषु ब्राह्मणेषु गीतपरे युवतीजन आनीतायामग्रमहिष्यां कृकालिकायामुलूकोऽभिषेकार्थं यावत्सिंहासन उपविशति तावत्कुतोऽपि वायसः समायातः। सोऽचिन्तयत्।अहो किमेष पक्षिमेलापको महोत्सवश्च। अथ ते पक्षिणस्तं दृष्ट्वा मिथः प्रोचुः। पक्षिणां मध्ये वायसश्चतुरः श्रूयते। उक्तं च।
नराणां नापितो धूर्तः पक्षिणां चैव वायसः।
दंष्ट्रिणां च शृगालस्तु श्वेतभिक्षुस्तपस्विनाम्॥७६॥
तदस्यापि वचनं ब्राह्यम्। उक्तं च।
बहुधा बहुभिः सार्धं चिन्तिताः सुनिरूपिताः।
कथंचिन्न विलीयन्ते विद्वद्भिश्चिन्तिता नयाः॥७७॥
अथ वायसः समेत्य तानाह। अहो किं महाजनसमागमोऽयं परममहोत्सवश्च। ते प्रोचुः। भो नास्ति कश्चिद्विहंगानां राजा। तदस्योलूकस्य विहंगराजाभिषेको निरूपितस्तिष्ठति समस्तपक्षिभिः। तत्त्व
मपिमतं देहि।प्रस्तावे समागतोऽसि। अथासौ काको विहस्याह। अहो न युक्तमेतद्यन्मयूरहंसकोकिलचक्रवाकशुकहारीतसारसादिषु पक्षिप्रधानेषु विद्यमानेषु दिवान्धस्यास्य करालवक्तस्याभिषेकः क्रियते। तन्नैतन्मम मतम्। यतः।
वक्रनासश्च कर्काक्षो रौद्रश्चाप्रियदर्शनः।
अक्रुद्धोऽयं दिवान्धः स्यात्क्रुद्धः कीदृग्भविष्यति॥७८॥
तथा च।
स्वभावरौद्रमत्युग्रं क्रूरमप्रियदर्शनम्।
उलूकं नृपतिं कृत्वा का नः सिद्धिर्भविष्यति॥७९॥
अवरं वैनतेये स्वामिनि स्थिते किमेष दिवान्धः स्वामी क्रियते।तद्यद्यपि गुणवान्भवति तथाप्येकस्मिन्स्वामिनि स्थिते नान्यो भूपः प्रशस्यते।
एक एव हितार्थो यस्तेजस्वी पार्थिवो भुवः।
युगान्त इव भास्वन्तो बहवोऽत्र विपत्तये॥८०
तत्तस्य नाम्नापि यूयं परेषामगम्या भविष्यथ। उक्तं च।
गुरूणां नाममात्रेपि गृहीतेस्वामिसंभवे।
दुष्टानां पुरतः क्षेमं तत्क्षणादेव जायते॥८१॥
तथा च।
व्यपदेशेन महतां सिद्धिः संजायते परा।
शशिनो व्यपदेशेन बसन्ति शशकाः सुखम्॥८२॥
त ऊचुः। कथमेतत्। स आह \।
कथा १
अस्ति कस्मिंश्चिद्वने चतुर्दन्तो नाम महागजो यूथाधिपः प्रतिवसति स्म। तत्र कदाचिन्महत्यनावृष्टिः संजाता प्रभूतवर्षाणि यावत्। तया तडागहृदपल्वलसरांसि शोषमुपागतानि। अथ तैः समस्तगजैः स गजराजः प्रोक्तः। देव पिपासाकुला गजकलभा मृतप्राया अपरे मृताश्च। तदन्विष्यतां कश्चिज्जलाशयो यत्र जलपानेन स्वस्थतां व्रजन्ति। ततश्चिरं ध्यात्वा तेनाभिहितम्। अस्ति महान्ह्रदो विविक्ते प्रदेशे स्थलमध्यगतः पातालगङ्गाजलेन सदैव पूर्णः। तत्तत्र गम्यतामिति। तथानुष्ठिते पञ्चरात्रमुपसर्पद्भिः समासादितस्तैः सहृदः। तत्र स्वेच्छया जलमवगाह्यास्तमनवेलायां निष्क्रान्ताः। तस्य च हृदस्य समन्ताच्छशकबिला असंख्याः सुकोमलभूमौ तिष्ठन्ति। तेऽपि समस्तैरपि तैर्गजैरितस्ततो भ्रमद्भिः परिभग्नाः। बहवः शशका भग्नपादशिरोग्रीवा विहिताः केचिन्मृताः केचिज्जीवशेषा जाताः। अथ गते तस्मिन्गजयूथे शशकाः सोद्वेगा गजपादक्षुण्णसमावासाः केचिद्भग्नपादा अन्ये जर्जरितकलेवरा रुधिरप्लुताअन्ये हतशिशषो वाष्पपिहितलोचनाः समेत्य मिथो मन्त्रं चकुः। अहो विनष्टावयम्। नित्यमेवैतद्गजयूथमागमिष्यति यतो नान्यत्र जलमस्ति। तत्सर्वेषां नाशो भविष्यति। उक्तं च।
स्पृशन्नपि गजो हन्ति जिघ्रन्नपिभुजंगमः।
हसन्नपिनृपो हन्ति मानयन्नपि दुर्जनः॥८३॥
तच्चिन्त्यतां कश्चिदुपायः। तत्रैकः प्रोवाच। गम्यतां देशत्यागेन। किमन्यत्। उक्तं च मनुना व्यासेन च।
त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत्।
ग्रामं जनपदस्यार्थ आत्मार्थे पृथिवीं त्यजेत्॥८४॥
मनुः।
क्षेम्यां सस्यप्रदां नित्यं पशुवृद्धिकरीमपि।
परित्यजेन्नृपो भूमिमात्मार्थमविचारयन्॥८५॥
आपदर्थे धनं रक्षेद्दारान्रक्षेद्धनैरपि।
आत्मानं सततं रक्षेद्दारैरपि धनैरपि॥८६॥
ततश्चान्ये प्रोचुः। भोः पितृपैतामहं स्थानं न शक्यते सहसा त्यक्तुम्। तत्क्रियतां तेषां कृते काचिद्विभीषिका यत्कथमपि दैवान्न समायान्ति। उक्तं च।
निर्विषेणापि सर्पेण कर्तव्या महतो फटा।
विषं भवतु मा वास्तु फटाटोपो भयंकरः॥८७॥
अथान्ये प्रोचुः। यद्येवं ततस्तेषां महद्विभीषिकास्थानमस्ति येन नागमिष्यन्ति। सा च चतुरदूतायत्ता विभीषिका। यतो विजयदत्तो नाम राजास्मत्स्वामी शशकश्चन्द्रमण्डले निवसति तत्प्रेष्यतां कश्चिन्मिथ्यादूतो यूथाधिपसकाशं यच्चन्द्रस्त्वामत्र हृद आगच्छन्तं निषेधयति यतोस्मत्परिग्रहोऽस्य समन्ताद्वसति। एवमभिहिते श्रद्धेयवचनात्कदापि निवर्तते। अथान्ये प्रोचुः। यद्येवं तदस्ति लम्बकर्णो नाम शशकः। स च वचनरचनाचतुरो दूतकर्मज्ञः। स तत्र प्रेष्यतामिति। उक्तं च।
साकारो निःस्पृहो वाग्मी नानाशास्त्रविचक्षणः।
परचित्तावगन्ता च राज्ञो दूतः स इष्यते॥८८॥
अन्यच्च।
यो मूर्खं लौल्यसंपन्नं राजद्वारिकमाचरेत्।
मिथ्यावाद विशेषेण तस्य कार्यं न सिध्यति॥८९॥
तदन्विष्यतां यद्यस्माद्व्यसनादात्मनां सुनिर्मुक्तिः। अथान्ये प्रोचुः। अहो युक्तमेतत्। नान्यः कश्चिदुपायोस्माकं जीवितस्य। तथैव क्रियताम्। अथ लम्बकर्णो गजयूथाधिपसमीपे निरूपितो गतश्च। तथानुष्ठिते लम्बकर्णोऽपि गजमार्गमासाद्यागम्यं स्थलमारुह्य तं गजमुवाच। भो भो दुष्टगज किमेवं लीलया निःशङ्कतयात्र चन्द्रहृदआगच्छसि। तन्नागन्तव्यं निवर्त्यतामिति। तदाकर्ण्य विस्मितमना गज आह। भोः कस्त्वम्। स आह। अहं विजयदत्तो नाम शशकश्चन्द्रमण्डले वसामि। सांप्रतं भगवता चन्द्रमसा तव पार्श्वे प्रहितस्तस्य वचनस्य श्रद्धेयत्वात्। तच्छ्रुत्वा स आह। भोः शशक तत्कथय भगवतश्चन्द्रमसः संदेश येन सत्वरं क्रियते। स आह। भवतातीतदिवसे यूथेन सहागच्छता प्रभूताः शशका निपातिताः। तत्किं न वेत्ति भवान्यन्मम परिग्रहोयम्। तद्यदि जीवितेन ते प्रयोजनं तदा केनापि प्रयोजनेनाप्यत्र दे नागन्तव्यमिति संदेशः। गज आह। अथ क्व वर्तते भगवान्स्वामी चन्द्रः। स आह। अत्र हृदेसांप्रतं शशकानां भवद्यूथमथितानां हतशेषाणां समाश्वासनाय समायातस्तिष्ठति। अहं पुनस्तवान्तिकं प्रेषितः। गज आह। यद्येवं तद्दर्शय मे तं स्वामिनं येन प्रणम्यान्यत्र गच्छामः। शशक आह। भो आगच्छ मया सहैकाकी येन दर्शयामि। तथानुष्ठिते शशको निशासमये तं गजं हदतीरे नीत्वा जलमध्ये स्थितं चन्द्रबिम्बमदर्शयत्। आह च। भो एष नः स्वामी जलमध्ये समाधिस्थस्तिष्ठति तन्निभृतं प्रणम्य सत्वरं व्रजेति। नो चेत्समाधिभङ्गाद्भूयोपि प्रभूतं कोपं करिष्यति। अथ गजोऽपि त्रस्तमनास्तं प्रणम्य पुनर्गमनाय प्रस्थितः शशकाश्च तद्विनादारभ्य सपरिवाराः सुखेन स्वेषु स्थानेषु तिष्ठन्ति स्म। अतोऽहं ब्रवीमि।
व्यपदेशेन महतां सिद्धिः संजायते परा।
शशिनो व्यपदेशेन वसन्ति शशकाः सुखम्॥९०॥
तथा च।
क्षुद्रमर्थपतिं प्राप्य न्यायान्वेषणतत्परौ
उभावपि क्षयं प्राप्तौ पुरा शशकपिञ्जलौ॥९१॥
ते प्रोचुः। कथमेतत्। स आह।
कथा २.
अस्ति कस्मिंश्चिदृक्षे पुराह वसामि। तत्राधस्तात्कोटरे कपिञ्जलो नाम चटकः प्रतिवसति स्म। अथ सदैवास्तमनवेलायामागतपोर्द्वयोरनेकसुभाषितगोष्ठ्या देवर्षिब्रह्मर्षिराजर्षिपुराणचरितकीर्तनेन च पर्यटनदृष्टानेककौतूहलप्रकथनेन च परमसुखमनुभवतोः कालो व्रजति। अर्थ कदाचित्कपिञ्जलः प्राणयात्रार्थमन्येश्चटकैः सहाभ्यं पक्वशालिप्रायं देशं गतः। ततो यावन्निशासमयेषि नायातस्तावदहं सोद्वेगमनास्तद्वियोगदुःखितश्चिन्तितवान्। अहो किमद्य कपिञ्जलो नायातः। किं केनापि पाशेन बद्ध उताहोस्वित्केनापि व्यापादितः।सर्वथा यदि कुशली भवति तन्मां विनां न तिष्ठति। एवं मे चिन्तयतो बहून्यहानि व्यतिक्रान्तानि। ततश्च तत्र कोटरे कदाचिच्छीघ्रगो नाम शशकोस्तमनवेलायामागत्य प्रविष्टः। मयापि कपिञ्जलनिराशत्वेन न निवारितः। अथान्यस्मिन्नहनि कपिञ्जलः शालिमक्षणादतीव पीवरतनुः स्वमाश्रमं स्मृत्वा भूयोप्यत्रैव समायातः। अथवासाध्विदमुच्यते।
न तादृग्ज्ञायते सौख्यमपि स्वर्गे शरीरिणाम्।
दरिद्रेऽपि हि यावस्यात्स्वदेशे स्वपुरे गृहे॥९२॥
अथासौ कोटरान्तर्गतं शशकं दृष्ट्वा साक्षेपमाह। भो मदीयमेतद्गृहम् \। तच्छीघ्रं निष्क्रम्यताम्। शशक आह। न तवेदं गृहं किंतु ममैव। तत्किं मिथ्या परुषाणि जल्पसि। उक्तं च।
वापीकूपतडागानां देवालयकुजन्मनाम्।
उत्सर्गात्परतः स्वाम्यमपि कर्तुं न शक्यते॥९३॥
तथा च।
प्रत्यक्षं यस्य यद्भुक्तं गृहाद्यंदश वत्सरान्।
तत्र भुक्तिः प्रमाणं स्यान्न साक्षी नाक्षराणि च॥९४॥
मानुषाणामयं न्यायो मुनिभिः परिकीर्तितः।
तिरश्चां च विहंगानां यावच्छिशुसमाश्रयः॥९५॥
तन्ममैतद्गृहं न तवेति। कपिञ्जल आह। भो यदि स्मृतं प्रमाणीकरोषि तदागच्छ मया सह येन स्मृतिपाठकं पृष्ट्वा स यस्य ददाति स गृह्णातु। तथानुष्ठिते मयापि चिन्तितम्। किमत्र भविष्यति। मया द्रष्टव्योऽयं न्यायः। ततः कौतुकादहमपि तावनु प्रस्थितः। अत्रान्तरे तीक्ष्णदंष्ट्रो नामारण्यमार्जारस्तयोर्विवादं श्रुत्वा मार्गासन्नं नदीतटमासाद्य कृतकुशोपग्रहो निमीलितैकनयन ऊर्ध्वबाहुरर्धपादस्पृष्टभूमिः श्रीसूर्याभिमुख इमां धर्मदेशनामकरोत्। अहो असारोऽयं संसारः। क्षणभङ्गुराः प्राणाः। स्वप्नसदृशः प्रियसमागमः। इन्द्रजालवत्कुटुम्बपरिग्रहोयम्। तद्धर्मं मुक्त्वानान्या गतिरस्ति। उक्तं च।
यस्य धर्मविहीनानिदिनान्यायान्ति यान्ति च।
स लोहकारभस्त्रेवश्वसन्नपि न जीवति॥९६॥
नाच्छादयति कौपीनं नदंशमशकापहम्।
शुनः पुच्छमिवानर्थं पाण्डित्यं धर्मवर्जितम्॥९७॥
अन्यच्च।
पुलका इव धान्येषु पूतिका इव पक्षिषु।
मशका इव मर्त्येषु येषां धर्मो न कारणम्॥९८॥
श्रेयः पुष्पफलं वृक्षाद्दध्नःश्रेयो घृतं स्मृतम्।
श्रेयस्तैलं च पिण्याकाच्छ्रेयान्धर्मस्तु मानुषात्॥९९॥
सृष्टा मूत्रपुरीषार्थमाहाराय च केवलम्।
धर्महीनाः परार्थाय पुरुषाः पशवो यथा॥१००॥
स्थैर्यं सर्वेषु कृत्येषु शंसन्ति नयपण्डिताः।
बह्वन्तराययुक्तस्य धर्मस्य त्वरिता गतिः॥१०१॥
संक्षेपात्कथ्यते धर्मो जनाः किं विस्तरेण वः।
परोपकारः पुण्याय पापाय परपीडनम्॥१०२॥
श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवावधार्यताम्।
आत्मनः प्रतिकूलानि परेषां न समाचरेत्॥१०३॥
अथ तस्य तां धर्मदेशनां श्रुत्वा शशक आह। भोः कपिञ्जल एष नदीतीरे तपस्वी धर्मवादी तिष्ठति। तदेनं पृच्छावः। कपिञ्जल आह। ननु स्वभावतोयमस्माकं शत्रुभूतः। तद्दरे स्थित्वा पृच्छावः। कदाचिदस्य व्रतवैकल्यं संपत्स्यते। ततो दूरस्थौ तावूचतुः। मोस्तपस्विन्धर्मदेशक आवयोर्विवादो वर्तते। तद्धर्मशास्त्रद्वारेणास्माकं निर्णयं देहि। यो हीनवादी स ते भक्ष्य इति। स भाह। भद्रौ मा मैवं वदतः। निवृत्तोऽहं नरकमार्गाद्धिंसाकर्मणः। अहिंसैव धर्ममार्गः। उक्तं च।
अहिंसापूर्वको धर्मो यस्मात्सद्भिरुदाहृतः।
यूकमस्कुणदंशादींस्तस्मात्तानपि रक्षयेत्॥१०४॥
हिंसकान्येव भूतानि यो हिनस्ति स निर्घृणः।
स याति नरकं घोरं किं पुमर्थः शुभानि च॥१०५॥
एते ये याज्ञिका अपि यज्ञकर्मणि पशून्घ्नन्ति ते मूर्खाः। परमार्थं श्रुतेर्न जानन्ति। तत्र किलैतदुक्तं यदजैर्यष्टव्यम्।अजा व्रीहयस्तावत्सप्तषार्षिकाः कथ्यन्ते न पुनः पशुविशेषाः। उक्तं च।
वृक्षांश्छित्त्वा पशून्हत्वा कृत्वा रुधिरकर्दमम्।
यद्येवं गम्यते स्वर्गे नरकं केन गम्यते॥१०६॥
तन्नाहं भक्षयिष्यामि। जयपराजयनिर्णयं करिष्यामि। परं वृद्वीहं दूरान्नयथावच्छृणोमि। एवं ज्ञात्वा समीपवर्तिनौभूत्वा विवादं वदतं येन मे विज्ञातपरमार्थं विवादं वदतः परनं न विरुध्यते। उक्तं च।
मानाद्वा यदिवा लोभात्क्रोधाद्वा यदिवा भयात्।
यो न्यायमन्यथा ब्रूते स याति नरकं नरः॥१०७॥
तथा च।
एकमश्वानृते हन्ति दश हन्ति गवानृते।
शतं कन्यानृते हन्ति सहस्रं पुरुषानृते॥१०८॥
उपविष्टः सभामध्ये यो न वक्ति स्फुटं वचः।
तस्माद्दूरेण स त्याज्यो न्यायो वा कीर्तयेदृतम्॥१०९॥
तस्माद्विश्रब्धैर्भूत्वा कर्णोपान्ते निवेद्यताम्। किं बहुना। तेन क्षुद्रेण तूर्णं विश्वासितावुभौ यथा बुद्धिविहीनौ तौ संजातावङ्कवर्तिनौ। ततश्च तेनापि समकालमेकः पादान्तेनाक्रान्तोऽन्योदंष्ट्राक्रकचेन। ततो गतप्राणौ तौ भक्षिताविति। अतोऽहं ब्रवीमि।
क्षुद्रमर्थपतिं प्राप्य न्यायान्वेषणतत्परौ।
उभावपि क्षयं प्राप्तौ पुरा शशकपिञ्जलौ॥११०॥
तद्भवतोप्येवं दिवान्धमर्थपतिमासाद्य रात्र्यन्धाः शशकपिञ्जलमार्गेण यास्यन्ति। एवं ज्ञात्वा यदुचितं तद्विधेयम्। अथ तस्य तद्वचनं श्रुत्वा साध्वनेनाभिहितमित्युक्त्वाभूयोऽपि पार्थिवार्थ समेत्य मन्त्रयिष्याम इति ब्रुवाणाः सर्वे यथाभिमतं जग्मुः। केवलमवशिष्टो भद्रासनोपविष्टोऽभिषेकार्थं दिवान्धः कृकालिकया सहास्ते। अथ तेनाभिहितम्। कः कोत्र। भोः किमद्यापि न क्रियते मेभिषेकः। अथ कृकालिकयाभिहितम्। भद्र कृतोऽयं विघ्नस्ते काकेन। गतास्ते विहगा यथेप्सितासु दिक्षु। केवलमेक एवायं वायसः केनापि हेतुना तिष्ठति। तदुत्तिष्ठ येन त्वां स्वाश्रयं प्रापयिष्यामि। तच्छ्रुत्वा स सविषादं वायसमाह। भो दुष्टात्मन् किं मया तेपकृतं यद्राज्याभिषेको मे विघ्नितः। तदद्यप्रभृति सान्वयमावयोर्वैरम्। उक्तं च।
रोहते सायकैर्विद्धं वनं परशुना हतम्।
वाचा दुरुक्तं बीभत्सं न संरोहति वाक्क्षतम्॥१११॥
इत्येवमभिधाय कृकालिकया सह स्वाश्रयं गतः। अथ भयव्याकुलो वायसो व्यचिन्तयत्। अहो अकारणवैरमासादयता मया किं व्याहृतम्। उक्तं च।
अदेशकालज्ञमनायतिक्षमं
यदप्रियं लाघवकारि चात्मनः।
योत्राब्रवीत्कारणवर्जितं वचो
न तद्वचः स्याद्विषमेव तद्भबेत्॥११२॥
बलोपपन्नोऽपि हि बुद्धिमान्नरः
परं नयेन्नस्वयमेव वैरिताम्।
भिषङ्ममास्तीति विचिन्त्य भक्षयेत्
अकारणात्को हि विचक्षणो विषम्॥११३॥
एवमुक्त्वाकाकोऽपि स्वभवनं प्रति प्रायात्। तद्वत्स एवमस्माभिः सहबैरं कौशिकानामन्वयागतम्। मेघवर्ण आह। तात तदेवं गतेऽस्माभिः किं क्रियते। स आह। वत्स एवं गतेऽपि षाड्गुण्यादपरःस्थूलोऽभिप्रायोऽस्ति। तमङ्गीकृत्य स्वयमेवाहं तद्विजयाय यास्यामि रिपून्वञ्चयित्वा वधिष्यामि। उक्तं च।
बहुबुद्धिसमुपेताः सुविज्ञाना बलोत्कटान्।
शक्ता वञ्चयितुं धूर्ता ब्राह्मणं छागलादिव॥११४॥
मेघवर्ण आह। कथमेतत्। सोऽब्रवीत्।
कथा ३.
अस्ति कस्मिंश्चिदधिष्ठाने मित्रशर्मा नाम ब्राह्मणः कृताग्निहोत्रपरिग्रहः प्रतिवसति स्म। स कदाचिन्माघमासे सौम्यानिले प्रवाति मेघाच्छादिते गगणे मन्दं मन्दं वर्षति पर्जन्ये पशुप्रार्थनार्थं कंचिद्ग्रामान्तरं गतः। कश्चिद्व्यजमानो याचितः। भो यजमान आगाम्यमावास्यायां यक्ष्यामि यज्ञम्। तद्यजनार्थे पशुमेकं समर्पय। अथ तेनातीव पीवरतनुः पशुः प्रदत्तः। सोऽपि समर्थस्तं पशुमितश्चेतश्चगच्छन्तं विज्ञाय स्कन्धे कृत्वा सत्वरं पुराभिमुखं प्रतस्थे। अथ तस्यगच्छतो मार्गे त्रयो धूर्ताः क्षुत्क्षामकण्ठाः संमुखा बभूवुः। तैस्तादृशं पीवरतनुं पशुं स्कन्धे कृतमालोक्य मिथोऽभिहितम्। भो अस्यपशोर्भक्षणादद्यतनीयो हिमपातो व्यर्थतां नीयते। तदेनं वञ्चयित्वास्य सकाशाद्गृह्यते। अथ तेषामेकतमो वेषपरिवर्तनं विधाय संभुखो भूत्वापरमार्गेण समाहिताग्निमूचे। भो भो बालाग्निहोत्रन् किमेवं जनविरुद्धं हास्यकार्यमनुष्टीयते यदेष सारमेयोऽपवित्रः स्कन्धाधिरूढो नीयते। उक्तं च।
श्वानकुक्कुटचाण्डालाः समस्पर्शाः प्रकीर्तिताः।
रासभ्रोष्ट्रौविशेषेण तस्मात्तान्नैव संस्पृशेत्॥११६॥
ततश्च तेन कोपाविष्टेनाभिहितम्। अहो किमन्धो भवान्यत्पशुं सारमेयत्वे न प्रतिपादयसि। स आह। ब्रह्मन् न कोपः कार्यः। यथेच्छं गम्यताम्। अथ यावत्किंचिद्वनान्तरं गच्छति तावद्द्वितीयो धूर्तः संमुखमभ्युपेत्य तमुवाच। भो ब्रह्मन् कष्टं कष्टम्। यद्यपि वल्लभोऽयंमृतवत्सस्तथापि स्कन्ध आरोपयितुमशक्यः।
उक्तं च।
तिर्यञ्चं मानुषं वापि यो मृतं संस्पृशेत्कुधीः।
पञ्चगव्येन शुद्धिः स्यात्तस्य चान्द्रायणेन वा॥११६॥
अथासौ सकोपमाह।भोः किमन्धो भवान्यत्पशं मृतवत्सं वदसि। सोऽब्रवीत्। भगवन् मा कोपं कुरु। अज्ञानान्मयाभिहितम्। तत्त्वमात्मन उचितेन समाचरेति। अथ यावत्स्तोकं वनान्तरं गच्छति तावत्तृतीयो धूर्तः संमुखमुपेत्य तमुवाच। भो अयुक्तमेतद्यद्रासभं स्कन्धारूढं नयसि। तत्त्यज्यतामेषः। उक्तं च।
यः स्पृशेद्रासभं मर्त्यो ज्ञानादज्ञानतोथवा।
सचैल स्नानमुद्दिष्टं तस्य पापप्रशान्तये॥११७॥
तत्त्यजैनं यावत्कोऽपि न पश्यति। अथासौ तं पशुं राक्षसं मन्यमानो भयाद्भूमौ प्रक्षिप्य स्वगृहमुद्दिश्य पलायितुं प्रारब्धः। ततस्तेऽपि त्रयो मिलित्वा पशुमादाय यथेच्छं भक्षितुमारब्धाः। अतोऽहं ब्रवीमि।
बहुबुद्धिसमुपेताः सुविज्ञाना बलोत्कटान्।
शक्ता वञ्चयितुं धूर्ता ब्राह्मणं छागालदिव॥११८॥
अथवा साध्विदमुच्यते।
अभिनवसेवकविनयैः प्राघूर्णोक्तैर्विलासिनीरुदितैः।
धूर्तजनवचननिकरैरिह कश्चिदवञ्चितोनास्ति॥११९॥
तदत्रास्ति किंचिद्वक्तव्यमेव। तदवधार्य यथोक्तमनुष्ठीयताम्। स आह। तर्हि समादिश। तवादेशोनान्यथा कार्यः। स्थिरजीव्याह।वत्स आकर्णय तर्हि सामादीनतिक्रम्य यो मया पञ्चम उपायो निरूपितः। तन्मां विपक्षभूतं कृत्वातिनिष्ठुरवचनैर्भर्त्सय। यथाविपक्षप्रणिधीनां प्रत्ययो भवति तथा समाहृतरुधिरैरालिप्य मां न्यग्रोधस्याधः प्रक्षिप्य गम्यतां पर्वतमृष्यमूकं प्रति। तत्र सपरिवारस्तिष्ठ यावदहं सपत्नान्सुप्रणीतेन विधिना विश्वास्याभिमुखान्कृत्वा कृतार्थो ज्ञानदुर्गमध्यो दिवसे तानन्धतां प्राप्तांस्त्वां नीत्वा व्यापादयिष्यामि ज्ञातं मया सम्यक्। नान्यथा सिद्धिरस्ति। मत्वेक्षस्व। यतो दुर्गमेतदपसाररहितं केवलं वधाय भवति। उक्तं च।
अपसारसमायुक्तं नयज्ञैर्दुर्गमुच्यते।
अपसारपरित्यक्तं दुर्गव्याजेन बन्धनम्॥१२०॥
न च त्वयास्मदर्थं कृपा कार्या। उक्तं च।
अपि प्राणसमानिष्टान्पालितालालितानपि।
भृत्यान्युद्धसमुत्पन्नान्पश्येन्मलानामिव स्रजम्॥१२१॥
तथा च।
प्राणचंद्रक्षयेद्भृत्यान्स्वकायमिव पोषयेत्।
सदैकदिवसस्यार्थे यत्र स्याच्छत्रुसंगमः॥१२२॥
तत्त्वया नात्र विषये निषेधनीयोऽहम्। इत्युक्त्वातेन सह शुष्ककलहं कर्तुमारब्धः। अथान्ये ते तस्य भृत्याः स्थिरजीविनमुच्छृङ्खलवाचा जल्पन्तमवलोक्य तस्य वधायोद्यता मेघवर्णेनाभिहिताः। अहोनिवर्तध्वं यूयम्। अहमेवास्य शत्रुपक्षपातिनो दुरात्मनः स्वयं निग्रहं करिष्यामि। इत्यभिधाय तस्योपरि समारुह्य लघुचञ्चुप्रहारैस्तं निहत्य रुधिरेण प्लावयित्वा यथाभिप्रेतं सपरिजनो गतः। अत्रान्तरे कृकाकिया द्विषत्प्रणिधिभूतया सर्वंतदमात्यव्यसनं मेघवर्णस्य गमनं चोलूकराजाय निवेदितम्। यत्तवारिः संप्रति क्वापि भीतो भोतपरिवारश्च प्रचलितः। उलूकोऽपि तदाकर्ण्यास्तमनवेलायां सामात्यपरिजनो वायसवधार्थंप्रचलितः। प्राह च। यदहो त्वर्यतां त्वर्यताम्। भीतः शत्रुः पलायनपरः पुण्यैर्लभ्यते। उक्तं च।
शत्रोः प्रचलने छिद्रमेकमन्यत्र संश्रयम्।
कुर्वाणो जायते वश्यो व्यग्रत्वे राजसेविनाम्॥१२३॥
न च च्छिद्रं विना शत्रुर्देवानामपि सिध्यति।
छिद्रं शक्रेण संप्राप्य दितेर्गर्भो विदारितः॥१२४॥
एवं ब्रुवाणाः समन्तात्तं न्यग्रोधपादपमधः परिवेष्ट्यावस्थिताः। यावन्न कश्चिद्वायसो दृश्यते तावच्छाखाग्रसमारूढो दृष्टमनाः स्तूयमानो वन्दिभिरुलकराज एतदुवाच। अहो ज्ञायतां तेषां मार्गः।यत्कतमेन मार्गेण ते प्रनष्टाः काकाः। तन्नयावद्दुर्गं समाश्रयन्ति तावदेव पृष्ठतो गत्वा व्यापाद्या भवन्ति। उक्तं च।
वृतिमप्याश्रितः शत्रुरवध्यः स्याज्जिगीषुणा।
किं पुनः संश्रितो दुर्गं सामग्र्या परया युतम्॥१२५॥
अथास्मिन्प्रस्तावे स्थिरजीवी मन्दं मन्दं शब्दमकरोत्।तच्छ्रुत्वा
ते सर्वेऽप्युलूकास्तस्य वधार्थं प्रजग्मुः। अथ तेनोक्तम्।अहोअहं स्थिरजीविनामा मेघवर्णस्य मन्त्री मेघवर्णेनेदृशीमवस्थां नीतः। तन्निवेदयध्वमात्मनः स्वामिने। तेन सह बहु वक्तव्यमस्ति। अथ तैर्निवेदिते स उलूकराजो विस्मयमाविष्टस्तत्सकाशं गत्वा प्रोवाच। भोः किमेतां दशां गतस्त्वम्। तत्कथ्यताम्। स्थिरजीव्याह। देव श्रूयताम्। अतीतदिने स दुरात्मा मेघवर्णो युष्मद्व्यापादितप्रभूतवायसान्दृष्ट्वायुष्माकमुपरि कोपशोकग्रस्तो युद्धार्थं प्रचलित आसीत्। ततो मयाभिहितम्।स्वामिन् न युक्तं भवतस्तदुपरि गन्तुम्। उक्तं च।
बलीयसा हीनबलो विरोध
न भूतिकामो मनसापि वाञ्छेत्।
न वध्यते वेतसवृत्तिरत्र
व्यक्तं प्रणाशो हि पतंगवृत्तेः॥१२६॥
तत्तस्योपप्रदानेन संधिर्विधातुं युक्तः। उक्तं च।
बलवन्तं रिपुं दृष्ट्वासर्वस्वमपि बुद्धिमान्।
दत्त्वा प्ररक्षयेत्प्राणान्रक्षितस्तैर्धनं पुनः॥१२७॥
तच्छ्रुत्वा तेन दुर्जनप्रकोपितेन त्वत्पक्षपातिनं मामशङ्कमनिनाहमीदृशमिवस्थां नीतः। तत्तव पादाः सांप्रतं मे शरणम्। किं बहुना विज्ञप्तेन। यावदहं प्रचलितुं शक्नोमि तावत्त्वां तस्याश्रये नीत्वा सर्ववायसक्षयं विधास्यामि।अथारिमदर्न एतदाकर्ण्य पितृपैतामहान्सचिवानेकत्र स्थान आकार्य तैः सह मन्त्रितवान्। रक्ताक्षः क्रूराक्षो दीप्ताक्षो वक्रनास एते तस्य चत्वारः सचिवाः। तत आदौ रक्ताक्षंपृष्टवान्। भद्र तावदेष तस्य रिपोर्मन्त्री मम हस्तगतः। तत्किं क्रियताम्। स ह। देव एव तस्याद्यो मन्त्री यद्यपि वेलामुहूर्तगुणेनदुर्जनोक्तेन वाक्येन वियोजितस्तदप्यस्य वाक्यं श्रोतव्यं यतो न सदैव विग्रहासक्तेन भूभुजा भाव्यम्। उक्तं च।
कोशक्षयो न निद्रा च न विलासेषु च स्पृहा।
विग्रहासक्तचित्तानां न रतिः क्वापि जायते॥१२८॥
तस्मादस्य द्वारेण तेन सह साम्ना वर्तितव्यम्। उक्तं च।
सामादिदण्डपर्यन्तो नयः प्रोक्तः स्वयंभुवा।
तेषां दण्डस्तु पापीयांस्तं पश्चाद्विनियोजयेत्॥१२९॥
तथा च।
सामसिद्धानि कार्याणि विकृतिं यान्ति न क्वचित्।
सज्जनानां मनांसीव भवन्ति प्रमुदे सदा॥१३०॥
सामसाध्येषु कार्येषु यो दण्डं योजयेद्बुधः।
स पित्ते शर्कराशाम्ये पटोलं कटुकं पिबेत्॥१३१॥
यत्केचिच्चैवं वदन्ति। यच्छत्रवो दण्डसाध्याः स्युर्न सामसाध्यास्तदप्ययुक्तम्।उक्तं च।
पर्णशब्दमपि श्रुत्वा त्रस्यन्ति हरिणाश्च ये।
तेऽपि साम्नात्र बध्यन्ते लुब्धकैः पश्य सर्वदा॥१३२॥
अन्यच्च।
शत्रोरुच्छेदनार्थाय न साम्नोस्त्यन्यदोषधम्॥
हेमन्ते हिमपातेन पद्मिनी किं न दह्यते॥१३३॥
तद्यदि मद्वचः प्रमाणं तत्संधानाय वधाय वा रिपोः साम प्रयोक्तव्यं यतो नीतावप्युक्तम्।
शनैः शनैर्ददात्येष पादौ भूतानुकम्पया।
अहो जलचरः प्राणी वकः परमधार्मिकः॥१३४॥
एवं तस्याभिप्रायं बुद्ध्वा क्रूराक्षमाह। भद्र तवामिप्रायमपिश्रोतुमिच्छामि। एवंविधे कृत्ये समुपस्थिते किं मम कृत्यं भवति। स आह। देव तेन निसर्गवैरिणा यत्सामप्रयोजनं तन्मम न भाति।
उक्तं च।
चतुर्थोपायसाध्ये तु शत्रौ शान्त्वमपक्रिया।
स्वेद्यमानज्वरं प्राज्ञः कोम्भसा परिषिञ्चति॥१३५॥
तद्भेदसाध्यो दुष्टोऽपि रिपुर्भवति। उक्तं च।
अपि वीर्योत्कटः शत्रुर्यतो भेदेन सिध्यति।
तस्माद्भेदः प्रयोक्तव्यः शत्रूणां विजिगीषुणा॥१३६॥
असाध्यं शत्रुमालोक्य दायादं तस्य भेदयेत्।
राज्यकामं समर्थं च यथा रामो विभीषणम्॥१३७॥
कूटलेख्यैर्धनोत्सर्गैर्दूषयेच्छत्रुपक्षजम्।
प्रधानपुरुषं यद्वद्विष्णुगुप्तेन राक्षसः॥१३८॥
भेदयेच्च बलं राजा दुर्भेद्यमपि वित्ततः।
यतः सुखेन भज्येत घुणोत्कीर्णसुदारुवत्॥१३९॥
एवं ज्ञात्वा विवेकिना शत्रुसाधनाय भेदः प्रयोक्तव्यः। सर्वो विजिगीषुर्गुणयुक्तोऽपि शत्रुर्भेदात्तव वश्यो भवति। उक्तं च।
अत्यच्छेनाविरुद्धेन सुवृत्तेनातिचारुणा।
अन्तर्भिन्नेन संप्राप्तं मौक्तिकेनापि बन्धनम्॥१४०॥
यदि मम मतमनुष्ठीयते तदा स्वपक्षे भेदो रक्ष्यः परपक्षे प्रयोक्तव्यः। एवं तस्याभिप्रायं विदित्वा दीप्ताक्षमाह। भद्र अत्र विषये तव कोऽभिप्रायः। स आह।देव मम सामभेदौ द्वावपि न प्रतिभासेते यतो न साम्ना न च भेदेन तथा शत्रुः सिध्यति यथोपप्रदानलुब्धउपप्रदानेन विश्वास्य वध्यः स्यात्। उक्तं च।
लोभाविष्टो नरो वित्तं वीक्षते न स चापदम्।
दुग्धं पश्यति मार्जारो यतो न लकुटाहतिम्॥१४१॥
शत्रु वाञ्छाविघाताय बुद्धियुक्तो महीपतिः।
साम्यं नयति सौम्येन यथैवाग्निंमहोदधिः॥१४२॥
अपि स्थात्पितृहा वैरी सोऽपि दानविलोभितः।
गत्वा विश्वासभावं स शत्रोरात्मानमर्पयेत्॥१४३॥
दुर्गस्था अपि वध्यन्ते शत्रवो दानसंश्रयात्।
स्वल्पमांसप्रदानेन कैवर्तैस्तिमयो यथा॥१४४॥
अपरं यच्छत्रोरूपप्रदानं वर्जयन्ति तदप्ययुक्तं यत उपप्रदानव्याजाच्छत्रुर्निर्मूलतां याति। उक्तं च।
उच्छेद्यमपि विद्वांसो वर्धयन्त्यरिमेकदा।
गुडेन वर्धितः श्लेष्मा यतो निःशेषतां व्रजेत्॥१४५॥
एवं तद्वचनमाकर्ण्य बक्रनासमूचे। भो निवेद्यतामात्मनोऽभिप्रायः। स आह।देव किं वदामि यत्त्रयाणामप्येषां मध्यान्नैकेनापि नीतिशास्त्राश्रयमभिहितं यतोशक्तानामेते सामभेदोपप्रदामोपायाः शक्तानां पुनः शत्रुविषये दण्ड एव। उक्तं च।
दण्डं मुक्त्वानृपो योन्यानुपायान्योजयेद्रिपोः।
स तं भीतमिव ज्ञात्वा स्वैरं तं प्रति धावति॥१४६॥
अपरं सामादिभिर्वा लक्ष्मीर्भूभुजां दण्डं विना सा लक्ष्मीश्चिरं न प्रभवति। उक्तं च।
अकृत्वा पौरुषं या श्रीर्विकासिन्यपिकिं तया।
जरद्गवोऽपि चाश्नाति दैवादुपगतं तृणम्॥१४७॥
मनसा सर्वलोकानां लक्ष्मीर्हस्तगतैव हि।
कर्मणोद्दामदण्डानामेव स्याद्वशवर्तिनी॥१४८॥
दुर्लभा स्त्रीव चित्तेन लक्ष्मीः संसेव्यतेलसैः।
पण्यस्त्रीवोद्यतैश्चैव युद्धे वीर्यधनप्रदैः॥१४९॥
किरीटमणिचित्रेषु मूर्धसूत्तानरश्मिषु।
नादत्त्वा द्विषतां पादं पुरुषः श्रियमश्नुते॥१५०॥
हेलाकृष्टस्फुरत्खङ्गदीप्तांशुपरिपिञ्जरैः।
श्रीमत्करिकराकारैराहार्यन्ते भुजैः श्रियः॥१५१॥
पराक्रमपरामर्षवशीकृतरिपोस्त्वसौ।
लक्ष्मीरन्याङ्कसुप्तैष स्वयं गृहकुटुम्बिनी॥१५२॥
शत्रोः श्रियं सदोत्थायी सैंहीं वृत्तिं समाश्रितः।
कचग्रहेण भुञ्जीत दुर्विनीताभित्र स्त्रियम्॥१५३॥
एवं चतुर्थो वक्रनासमन्त्रो दण्डसाध्यः। ततस्तस्यापि वचः समाकर्ण्य प्राकारकर्णमुदासीनं वृद्धसचिवमाह। भो अभिधीयतामात्मनोऽभिप्रायः। स आह। देव अवध्योयं विशेषात्तव पक्षाश्रयः शरणागतश्च। तदेनं स्वदुर्गे नीत्वा संमानय। ततोनेनाप्रसरेण शत्रवो व्यापादनीयाः स्युः। उक्तं च।
मत्स्यो मत्स्यमुपादत्ते ज्ञातिर्ज्ञातिमसंशयम्।
रावणोच्छित्तये रामो विभीषणमपूजयत्॥१५४॥
अपरमस्य वधान्महापातकमस्ति। उक्तं च।
वदत्सु दैन्यं शरणागतेषु
बहुप्रहारेषु भयेन युक्ताः।
दयाविहीनाः प्रहरन्ति येऽत्र
ते रौरवादीनि निषेवयन्ति॥१५५॥
अपरं च।
दक्षिणादिसमृद्धस्य वाजिमेधस्य यत्फलम्।
तत्फलं लभते सम्यग्यो रक्षेच्छरणागतम्॥१५६॥
एवं पञ्चमः प्राकारकर्णस्य मन्त्रः। अथ तस्य तदाकर्ण्य स्वयमरिमर्दनोऽभिहितवान्। भो ममाप्ययमभिप्रायः। एष तावत्कपटी न भवति। मदर्थे स्वामिना तिरस्कृतः। तद्युज्यते स्वे दुर्गे नेतुम्। युक्तमुक्तं प्राकारकर्णेन। यदि पुनरेष त्यज्यते हन्यते वा ततः कृतघ्नतादोषो भवति। तथा च।
ब्रह्मघ्रे च सुरापे च चौरे भग्नव्रते शठे।
निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः॥१५७॥
तथा च।
सत्कृताश्च कृतार्थाश्च कृतज्ञा न भवन्ति ये।
मृतानामपि नो काकास्तेषां मांसानि भुञ्जते॥१५८॥
तस्मादस्याहं संमानं करिष्यामि। तच्छ्रुत्वा वक्रनास आह। देव न युक्तमेतच्छत्रुपक्षपातिनां दुर्गदर्शनम्। उक्तं च।
अज्ञाताः पुरुषा यस्य प्रविशन्ति महीपतेः।
दुर्गं तस्य न संदेहः प्रविशन्ति दुतं द्विषः॥१५९॥
तच्छुत्वारिमर्दन आह। भो न युक्तमुक्तं भवता। दुर्गं दुर्गामिति कातरप्रवादोऽयम्। शूराणां तु स्वभुजवीर्यपञ्जरं दुर्गम्। उक्तं च।
यस्य स्पात्सहजं वीर्यं हन्यते स तु नारिभिः।
मणिदीपस्य नोग्रोऽपि वायुर्बाधयते शिखाम्॥१६०॥
दुर्गाश्रयोऽपि कालेन नाशं यास्यति। उक्तं च।
स्थानं त्रिकूटं परिखा समुद्रो
रक्षांसि योधा धनदश्व वित्तम्।
शास्त्रं च यस्योशनसा प्रणीतं
स रावणः कालवशाद्विपन्नः॥१६१॥
इत्युक्त्वातमुवाच। भोः स्थिरजीविन् मया त्वं तावत्परिग्रहासंमतेनापि रक्षितो गृहीतश्च। तदागम्यतां मे दुर्गम्। तत्र च यत्तव कुलोचितं तत्कुरुष्व। सोप्यन्तर्विहस्य तमुवाच।भोःस्थिरजीविनः किमतिबहुना व्यर्थप्रलपनेन। मदीयकुलीनतां फलेन ज्ञास्यति भवान्। तच्छ्रुत्वा वक्रनासः प्रोवाच। भो विनष्टं कुलमस्माकम्।
सासा संपद्यते बुद्धिः सा मतिः सा च भावना।
सहायास्तादृशा ज्ञेया यादृशी भवितव्यता॥१६२॥
कौशिकानां राजदोषेण विनाशः समागतः। तत्कस्य कथ्यते।उक्तं च।
दोषमार्त्तोजनः कृत्स्नं पार्थिवाय निवेदयेत्।
यदा स्याद्दोषवान्भूपस्तदा कस्तं निषेधयेत्॥१६३॥
एवं तमनादृत्य स्थिरजीविनमादाय स्वदुर्गमाससादोलूकपतिः। स्थिरजीव्यपि तद्दुर्गविषमतामालोक्य स्वचित्ते चिन्तयत्। एतद्दुर्गं तावद्यथोक्तं दुर्गविषमं परमसारं नास्ति। तदन्तर्मृत्युपाशबद्धा मम वंशे संजाताः। येन मन्त्रिणा वक्रनासेन स्वस्वामी मां प्रति स्थिरजीवी वध्यतामित्युक्तस्तत एषामुलूकानां मध्ये नीतिज्ञोऽयं हितश्च। अन्ये तु मूढतमाः स्वामिना सह। अथ त उलूकास्तेनोलूकपतिनोक्ताः। यदहो स्थिरजीविनो भद्रतर आश्रयः समर्पणीय इति। स्थिरजीवी तच्छ्रुत्वा व्यचिन्तयत्। मया तावदेषां वधोपायश्चिन्तितव्यः। ततः स मया मध्यस्थितेन न भविष्यत्येतेऽपि यतः सावधाना भविष्यन्ति। तदेतद्दुर्गद्वारमाश्वयामि येनात्र स्थितोऽभिप्रेतं करोमि। ततश्चोलूकभूपमाह। देव तवैतद्युक्तम्।परमहमपि नीतिज्ञो हितश्च। यद्यपि तत्त्वानुरक्तः शुचिस्तथापि स्वदुर्ग मध्ये न वासो ममार्हः। तदहमत्रैव दुर्गद्वारे स्थितः सदा भक्तिसेवां करिष्यामि। तथानुष्ठिते वक्रनासः स्ववर्गीयानाहूय प्रोवाच। भो एतावत्कालं यावदेतद्दुर्गं कुशलं चास्माकं भूपतेरभूत्। परं संप्रत्यन्यं पर्वतमाश्रित्य वयं सर्वेऽन्यद्दुर्गं संश्रयामः।उक्त च।
अनागतं यः कुरुते स शोभते
स शोचते यो न करोत्यनागतम्।
वनेऽत्र संस्थस्य समागता जरा
बिलस्य वाणी न कदापि नः श्रुता॥१६४॥
ते प्रोचुः। कथमेतत्। सोऽब्रवीत्।
कथा ४.
कस्मिंश्चिद्वनप्रदेशे खरनखरो नाम सिंहः प्रतिवसति स्म। स कदाचिदितश्चेतश्च परिभ्रमन्क्षुत्क्षामो न किंचित्सत्त्वमाससाद। ततश्वास्तमनसमये महतीं गुहामासाद्य प्रविश्य चिन्तितवान्। नूनमेतस्यां गुहायां रात्रौ केनचित्सत्त्वेनागन्तव्यम्। तन्निभृतो भूत्वा तिष्ठामि। एवं तस्य तत्र स्थितस्याधिपुच्छो नाम तत्स्वामी लोपाशकः समायातः। स यावत्पश्यति तावत्सिंहपदपद्धतिर्गुहायां प्रविष्टा भवति न च निष्क्रान्ता। ततश्चाचिन्तयत्। अहो विनष्टोऽस्मि। नूनमस्यामन्तर्गतेन सिंहेन भाव्यम्। तत्किं करोमि। कथं यास्यामि। एवं विचिन्त्य द्वारस्थः फूत्कर्तुमारब्धः \। अहो बिल रे। इति प्रोच्य भूयोप्यभाषत। भोः किं न वेत्सि यत्त्वया सहैकः समयधर्मोऽस्ति। मया त्वं वक्तव्यो बाह्यात्समायासेन त्वयाप्यहमाकारणीयः। तद्यदिमां नाह्वयसि ततोऽहं द्वितीयां गुहां यास्यामि। सिंहोऽपि तच्छ्रुत्वा चिन्तितवान्। नूनमेषा गुहा समायातस्याह्वानंसदा करोति। साद्य मद्भायान्नकिंचिदूचे। अथवा साध्विदमुच्यते।
भयसंत्रस्तमनसां हस्तपादादिकाः क्रियाः।
प्रवर्तन्ते न वाणी च वेपथुश्चाधिको भवेत्॥१६५॥
तदहमप्याह्वानं करोमि येन प्रविश्य मम भोज्यतां यास्वतीति एवं संप्रधार्यं तस्याह्वानमकरोत्। अथ सिंहशब्देन सा गुहा प्रतिरवशतसंपूर्णान्यानपि दूरस्थान्सत्त्वांस्त्रासयामास। लोपासकोऽपि पलायनपर इमं श्लोकमपठत्।
अनागतं यः कुरुते स शोभते
स शोधते यो न करोत्यवागतम्।
वनेत्र संस्थस्यसमागता जरा
बिलस्य वाणी न कदापि नः श्रुता॥१६६॥
एवं मत्वा मया सह गम्यताम्। एवमभिधाय सपरिजनो वक्रनासोऽन्यं देशं गतः।
अथवक्रनासे गते स्थिरजीव्यपि प्रहृष्टमना व्यचिन्तयत्। अहो कल्याणमस्माकमुपस्थितम्। तदेते मूढतमाः सुवध्या मे संजाताः। उक्तं च।
न दीर्घदर्शिनो यस्य मन्त्रिणः स्युर्महीपतेः।
क्रमायाता ध्रुवं तस्य नचिरात्स्यात्परिक्षयः॥१६७॥
अहो साध्विदमुच्यते।
मन्त्रिरूपा हि रिपवः संभाव्यास्ते विचक्षणैः।
ये सन्तं नवमुत्सृज्य सेवन्ते प्रतिलोमतः॥१६८॥
एवं विचिन्त्य स्वकुलाये वनकाष्ठिकामेकैकां दिनं प्रति प्रक्षिपति गुहाप्रदीपनार्थम्। न च ते मूर्खा उलूका जानन्ति यदेष कुलायमस्मदुद्योतनाय वृद्धिं नयति। अथवा साध्विदमुच्यते।
कृतान्तपाशबद्धानां देवोपहतचेतसाम्।
बुद्धयः कुब्जगामिन्यो भवन्ति महतामपि॥१६९॥
अथ प्रभूतकाष्ठसंभारे कुलायव्याजेन रचिते दुर्गद्वारे सूर्योदये संजातेऽन्धतां प्राप्तेषूलकेषु स्थिरजीव्यृष्यमूकं गत्वा मेघवर्णमाह। स्वामिन् दाहसाध्या कृता सा मे रिपुगुहा। तत्सर्वपरिवारः समेत्यैकैकां वनकाष्ठिकां ज्वलन्तीं प्रान्ते गृहीत्वा तत्र गुहाद्वारेऽस्मत्कुला ये प्रक्षिपतु येन सर्वशत्रूणां कुम्भीपाकनरकन्यायो भवति। तच्छ्रुत्वा प्रहृष्टो मेघवर्ण आह। तात तत्कथयात्मवृत्तान्तम्। चिराद्दृष्ठोऽसि।स आह। वत्स नायं कालो वक्तव्यस्य यतः कदाचित्तस्य रिपोः कश्चित्प्रणिधिः समागमनं निवेदयिष्यति। ततो ज्ञानादतोप्यपसरणमन्यत्र कुर्वन्ति। तत्त्वर्यतां त्वर्यताम्। उक्तं च।
शीघ्रकृत्ये समुत्पन्ने विलम्बयति यो नरः।
तत्कृत्येदेवता तस्य कोपाद्विघ्नंप्रयच्छति॥१७०॥
तथा च।
यस्य यस्य हि कार्यस्य सफलस्य विशेषतः।
क्षिप्रमक्रियमाणस्य कालः पिबति तद्रसम्॥१७९॥
तद्गृहायानस्ते हतशत्रोः सर्वं सविस्तरं निर्व्याकुलतया कथयिष्यामि। अथासौ तदाकर्ण्य सपरिजन एकैकां ज्वलन्तींवनकाष्टिकां चञ्च्वग्रेण गृहीत्वा तद्गुहाद्वारं प्राप्य स्थिरजीविकुलाये प्रक्षिप्तवान्। ततस्ते सर्वे दिवान्धा वक्रनासमन्त्रिवाक्यं स्मरन्तोद्वारस्यावृतत्वादनिःसरन्तोगुहामध्ये कुम्भीपाकस्यापायमापन्ना मृताश्च। एवं शत्रुनिःशेषतां नीत्वा भूयोऽपिमेघवर्णस्तमेव न्यग्रोधवादपदुर्गं गतः प्रमुदितमनाः सुखोपविष्टः सभामध्ये स्थिरजीविनमपृच्छत्। यत्तात्रत्वया कथं शत्रुगतेनैतावत्कालो नीतः। तदत्र कौतूहलमस्माकंवर्तते। तत्कथ्यताम्। स आह। आगामिफलवाच्छमैव कमपि सेवद्भिर्न ज्ञायते। उक्तं च।
शक्तेनापि सता जनेन विदुषा कालान्तरप्रेक्षिणा
वस्तव्यं खलु वज्रपातविषमे क्षुद्रेऽपि पापे जने।
दर्वीव्यग्रकरेण धूममलिनेनायासयुक्तेन किं
भीमेनातिबलेन मत्स्यभवनेपूपा न संघट्टिताः॥१७२॥
तथा च।
कार्यस्यापेक्षया भुक्तं विषमप्यमृतायते।
सर्वेषां प्राणिनां यत्र नात्र कार्या विचारणा॥१७३॥
अन्यच्च।
सिद्धिं वाञ्छयता जनेन विदुषा तेजो निगृह्यस्वकं
सत्त्वोत्साहवतापि देवगतिषु स्थैर्य प्रकार्यं क्रमात्।
देवेन्द्रद्रविणोपमैर्बहुगुणैरभ्यर्चितो भ्रातृभिः
किं क्लिष्टः सुचिरं विराटभवने पूर्वं न धर्मात्मजः॥१७४॥
तथा च।
रूपेणाप्रतिमेन यौवनगुणैश्रेष्ठे कुले जन्मना
गन्तव्यानि दिनानि दैववशतो भूयो धनं वाञ्छता।
सैरन्ध्रीति विगर्हिता युवतिभिः साक्षेपमाज्ञाभया-
द्द्रौपद्या किल मत्स्यराजभवने घृष्टं न किं चन्दनम्॥१७५॥
तत्स एव नीतिज्ञो भवति योपमानमपि सहित्वा कार्यं साधयति। उक्तं च।
महत्त्वमेतन्महतां नयालंकारधारिणाम्।
न मुञ्चन्ति यदारम्भं प्राप्तेऽपि व्यसनोदये॥१७६॥
तथा च।
प्रारभ्यते न खलु विघ्नभयेन नीचैः
प्रारभ्य विविहता विरमन्ति मध्याः।
विघ्नैःसहस्रगुणितैरपि हन्यमानाः
प्रारब्धमुत्तमगुणा न परित्यजन्ति॥१७७॥
मेघवर्णम् आह। तत्कृतं निष्कण्टकं मे राज्यं शत्रुभिः शेषतां नयता त्वया। अथवा युक्तमेतन्नयवादिनाम्। उक्तं च।
ऋणशेष चाग्निशेषं शत्रुशेषं तथैव च।
पुनःपुनः प्रवर्धन्ते तस्माच्छेषं न धारयेत्॥१७८॥
तन्नास्ति त्वत्समोऽन्यो मन्त्री बुद्धिमान्येन शस्त्रमोक्षणं विनापि स्वबुद्ध्याशत्रवो हताः। अथवा साध्विदमुच्यते।
शस्त्रैर्हतास्तु रिपवो न हता भवन्ति
प्रज्ञाहताश्च नितरां सुहता भवन्ति।
शस्त्रं निहन्ति पुरुषस्य शरीरमेकं
प्रज्ञा कुले च विभवं च यशश्च हन्ति॥१७९॥
स्थिरजीव्याह। स देवप्रतापभावोऽयं भविष्यद्वृद्धिसूचकः। वयं पुनर्मूकाः कृत्यानुष्ठानमात्राः। उक्तं च।
प्रसरति मनः कार्यारम्भे दृढीभवति स्पृहा
स्वयमुपनयन्त्रर्थान्मन्त्रो न गच्छति विश्वम्।
फलति सकलं कृत्यं चित्तं समुन्नतिमश्रुते
भवति च रतिः श्लाध्ये कृत्ये नरस्य भविष्यतः॥१८०॥
तत्तव भविष्यतो विपक्षस्य भवितव्यतेति बुद्धिविपर्यासेन ज्ञातं मया। ये विज्ञा भवन्ति पुरुषाणां भविष्यतामभविष्यतां च व्यवहारादेव जानन्ति। उक्तं च।
वाञ्छेव सूचयति पूर्वतरं भविष्यं
पुंसोऽन्यजन्मसुकृतं यदिवेतरच्च।
विज्ञायते शिशुरजातकलापचिह्नः
प्रत्यक्पदैरपसरन्सरसः कलापी॥१८९॥
तद्यस्य विधिः संमुखो भवति स त्वमिव बुद्धिसंपन्नो भवति।
उक्तं च।
न देवा यष्टिमादाय रक्षन्ति पशुपालवत्।
यं तु वर्धितुमिच्छन्ति बुद्ध्वासंयोजयन्ति तम्॥१८२॥
न देवाः शस्त्रमादाय निघ्नन्ति रिपुवत्कुधा।
यं तु हिंसितुमिच्छन्ति बुद्ध्या विश्लेषयन्ति तम्॥१८३॥
बुद्धौ कलुषभूतायां विनाशे पर्युपस्थिते।
अनयो नयसंकाशी हृदयान्नापसर्पति॥१८४॥
तथा तव रिपोः संजातो बुद्धिविश्लेषः॥
॥समाप्तं चेदं काकोलूकीयं नाम तृतीयं तन्त्रम्॥
NOTES TO PANCHATANTRA II. AND III.
————————————————
P. 1. L. 6.—महिलारोप्यis, according to Benfey Panch. Vol. II. note 4, probably the town, called by Ptolemy, ‘Maliarpha,’ and in Tamil Mayilpur,’ situated near Madras.
P. 1. L. 9. —
Metre of śloka 2: śárdúlavikrídita.
P. 2. L. 9 & 10.—The first adjective belongs to the first noun, and the second adjective to the second noun.
P. 2. L. 12 — Metre of śloka 4: śárdúlavikrídita.—पौलस्त्य-रावण.
P. 2. L. 20.—मत्वा=ज्ञात्वाsee also Panch. IV., and V. note top. 10. 1. 7.
P. 2. L. 22.— बुद्धि ‘presence of mind,’ हीयते ’ does (not) fail.’
P. 3. 2. —नो चेत् otherwise — (if you etc.’) The two words denote only the alternative and must be taken by themselves. Another चेत् or यदि must be understood with the following न करिष्यथ.
P. 3. L. 5. — उपमा सताम् ‘just so it is with etc.'
P. 3. L. 13.— Metre of śloka 9: Áryá.
P. 4. L. 20. — It is most likely better to alter the reading of the Mss. नित्यं नागच्छन्ति and to write नित्यमागच्छन्ति, though the former reading may be defended.
P. 5. L. 4.—
Metre of śloka 17: Vasantatilaká.
P. 5. L. 9.—माविलम्वम् ‘without delay’ avyayŕbháva compound,compare माचिरम् [Benfey]
P. 5. L. 13. —
Metre of śloka 19: Drutavilambita.
P. 5. L. 18.— Metre of śloka 20: śárdúlavikrídita.
एकान्त ‘solitude’— दुर्नीतं— गुणः।Sense: ‘It is impossible to perceive any effect of merit (सुकृतं) or demerit (दुर्नीतं); nor does
an apparently safe place afford protection, since fate etc.’
P. 7. L. 7.—The latter half of śloka 26 contains an allusion to the tides of the ocean.—उपेक्षतेwaits for, i. e., avails himself of the assistance of.’
P. 8 L. 18.— ईश्वरः‘rich.’
P. 9 L. 2.—नीतिसर्वस्वम् ’the quintessence of polity.'
P. 9. L. 3.— For śloka 31, compare Tantra IV. and V., note to p. 5. 1. 21.
P. 9. L. 5.— After करिष्यतिmust be understood.
P. 9. L. 7— Metre of śloka 32: śárdúlavikrídita.-: “what do (brutes).………..care for etc.”
P. 9. L. 12.—निमित्तात्for some particular reason’ i. e., if the occasion requires their acting together, in order to avoid danger or to secure an advantage.
P. 9. L. 19.— The story of the destruction of Diti’s foetus by Indra is told Harivanśa 239 ff.
P. 10. L. 7.— In this śloka we have the titles of the three famous treatises on Níti, see also notes to Tantra IV. and V.,p. 61. 1. 1. and p. 65. 1. 22.
P. 10. L. 10.—Construe: यो महतार्थसारेण सतापिinstrumental absolute.
P. 10. L. 13.— मैत्रीपक्षपातः (“I have) a great partiality for his friendship, i. e., I needs must make him my friend.”
P. 10. L. 15.— साप्तपदीन्=साप्तपदTantra IV. and V., note to p. 41. 1. 4. बलात् against thy will.'
P. 11. 1. 3.— Divide मांसशकलानि मेध्यानि । बलिशेषाणि [च] अन्यानि [च] वत्सलाल्डतानि पक्वान्नविशेषाणि ॥ वत्सल n. ’ friendship. ‘— पक्वान्नविशेषाणि used as a neuter against the grammar.— used as a neuter, rare but permissible.
P. 11. L. 15.—
Metre of śloka 48: Vasantatilaká.
P. 11. L. 21.—कृत्तिममित्रतां गतौ“they concluded a friendship against nature" (as they were born enemies).
P. 12. L. 7.—उद्धरितa Prakritic form, instead of उद्धृत:see also Benfey Panchatantra II., note 753.
P. 12. 1. 20.— Construe [हे] तात [ते] धन्या [ये] न पश्यन्तीत्यादि \।\।
P. 13. L. 5. – उड्डीनम्=उड्डयनम् \।
P. 13. 1. 11.— संपातोड्डीनप्रोस्थतक्रमेण ’ travelling by the fight called Sampáta.’
P. 13. L. 12. —देशकालवित्“knowing (what is proper for each) place and time, i. e., clever."
P. 13. L. 18. —कलां नार्हन्ति षोडशीम्’ do not possess a sixteenth part [of the refreshing power] of a friend’s embrace.'
P. 13. L. 19.—निपुणतरं ज्ञात्वा“recognizing him quite distinctly."
P. 13. L. 21. —चिरकालात्on account of (our) long (separation).'
P. 15. 1. 3.—कर्मकाराःwork without pay and कर्मकराः work for pay, see the Petersburg Dict. s. v.
P. 15. L. 6.—सिद्धमन्नम्cooked food.'
P. 15. L. 10. —भव्यविशेषाणिused as a neuter against the commongrammatical rules, see also Benfey, Panchatantra II., note 767.
P. 15. L. 14.—मम रक्षार्थम् in order to protect it from me.’ The construction is according to the analogy of the older Sanskrit, where the verbs, meaning ’to protect’ are used both with the ablative and with the genitive.
P. 15. 1. 19. — प्रतिपत्तिपूर्वकम् ’ respectfully.’ अभ्यागत- अतिथि.
P. 15. L. 23.—शून्य‘meaningless.’
P. 16. L. 4.— Metre of śloka 59: śárdúlavikrídita.— Regarding the hiatus in line b., see Tantra IV. and V., note to p. 9. 1. 23.
P. 16. L. 8.—अधः on the ground.’— शृङ्गरहिता वृषाः hornless bulls,’ i. e., ’ mean, spiritless creatures.'
P. 16. L. 15. — यावत् ‘for, during’; a postposition construed with the accusative.—मठचिन्तां समाचरrule a convent.’
P. 17. L. 3. —
निधानस्योष्मणाwith the help of the fire imparted by the treasure.'
P. 17. 1. 6. – वृद्धिं नी ’to increase.’ त्यागकर्मसमन्वितः( how much more using it) and spending it in (pious) gifts.'
P. 17. L. 7.—शाण्डिलीमाता karmadháraya compound. [Benfey].
P. 17. L. 11.—व्रतग्रहणनिमीत्तम् ‘in order to fulfil a vow to perform a religious ceremony.’ The Brahman is wanted for the recitation of the Mantras or to assist otherwise in the ceremony.
P. 17. L. 12.—शुश्रूषितः‘honoured.'
P. 17. L. 15. —
दक्षिणायणसंक्रान्ति’ the summer-solstice.’—
अनन्तदानफलदा।दानस्य कलं दानफलम्। तच्चानन्तमनन्तदानफलम्। तद्ददातीत्यनन्तदानफलदा।तस्माच्च सर्वे तस्मिन्नहनि बहूनि दानानि ददतीत्याशयः॥
P. 17. L. 24. —
**दीयतीर्थेषु.**The construction of a with the locative is not very common, nor so good as that with the dative genitive.
P. 18. L. 3. —
काकिणी‘one cowrie.’
P. 18. L. 4. —
Metre of ślokas 67, 68 and 70: A’ryá.
P. 18. 1. 10. – सदादान :- अदान : ; a pun on दान ’ giving,’ and दान ’the juice which flows during the rutting season from the templesof an elephant.'
P. 18. L. 12. —
A pun on कर‘hand’ and ‘ray,’ and on ‘friend,’ and ’the sun.’
P. 18. L. 16. —
The construction of śloka 71 is elliptic. The first line contains an enumeration of the requisites for a FIT TAY and must be supplied after it. For similar constructions compare Tantra IV., śloka 62, A’pastamba Dharmasútra I. IV. 14, 25.—अनन्ताय स्वर्गीय निःश्रेयसायेत्यर्थः ॥
P. 19. L. 17.—
रसायण ’the elixir of life’; a medicine supposed to to prolong life indefinitely.
P. 20. L. 3.—सूर्यतापे दत्तवतीexposed them to the sun’; a Prakritic construction.
P. 20. L. 11.—
कामन्दिकीशास्त्रम्the Institutes of Kámandaki.’ We possess a work on Níti, called Nítisára, which is ascribed to
this author. According to a commentary on the Nítisára, quoted by Bábu Rájendralál Mitra in the preface to his edition of this work in the Bibliotheca Indica, p. 1., Kámandaki was a pupil of Chanakya, the minister of Chandragupta (B. C. 319).
P. 20. L. 21.—स्वहस्तिका’ a pickaxe.’
P. 20. 1. 22.—जनचरणामलिनायाम् ’ before it has been dirtied by the feet of the people’ (who come to the Maṭha, and before the spoor of the mice has been effaced).
P. 21. L. 3.— Metre of śloka 78: Áryá.—हस्ततुलया‘by (using) their hands instead of scales.’
P. 21. L. 5.— Metre of śloka 79: Vasantatilaká.—पूर्वतरम्‘long beforehand. प्रत्युद्गतैःwith steps turned backward . ’ प्रत्युद्गम् : ’to go to meet’; whilst running away from his master, the peacock turns his face towards him, as if to meet him.—अपसरण्viz., स्वामिसकाशात्.- सरसः i. e. रसेन सहित : ; the peacock is called so onaccount of his dancing, and the word make be rendered by ‘sprightly.’
P. 21. L. 15.— Metre of śloka 80; śárdúlavikrídita.—कूटरचन‘a snare, a trap.’—किंवा करोतु पौरूषम्‘what can human strength effect?’ On the meaning of the imperative, see Siddhántakaumu- dí II. p.13.-
P. 21. L. 23.—महादूर्गम्places which are very difficult of access.
P. 23. L. 7.—सिद्धौ‘in reality.’
P. 23. L. 15.—**गच्छति लोक इति शेषः॥**For men fear, lest the poor visitor should have come to beg.
P, 24. L. 7.— अश्रोत्रियम् at which no śrotriya is present.’ A śrotriya is a Brahman, who has studied, at least, one Veda together with its Angas or supplements.
P. 24. L. 9.—योगनिद्राmeans originally ’the sleep induced by the practice of Yoga,’ during which the soul is separated from the body, and thereby becomes enabled to see the nature of all things. Here it stands for ‘deep meditation.’
P. 24. L. 17.—
स्वःa relation or friend.’ Compare the use of latin suus.
P. 24. L. 22.मूर्ते लाघवम्insignificance incarnate.’
P. 25. L. 2.—दीपखट्वोत्यच्छायेव‘just as the shadow of a bed projected by a lamp.’ Dissolve खड्वाया उत्तिष्ठति खट्वोत्थः । दीपेन खट्वोत्थोदीपखट्वोत्यः।दीपखट्वोत्थासौ छाया च दीपखट्वोत्थ०. To stand in the shadow of a bed is considered improper and inauspicious.
P. 26. L. 1. —
पुस्तकis according to Páṇini a neuter. But other instances of its use as a masculine occur, e. g. Mṛichenhakatiká p.49 1. 2. Stenzler.
P. 26. L. 15. —
With the name प्राप्तव्यमर्थंcompare the early Christian pre-name ‘Quodvultdea’ and the Puritan ‘Fight-the-battle-of-faith’ etc.
F. 27. L. 13. —
धवलगृहthe upper story’ of a house, called so because it is painted white.
P. 27. L. 20.—खण्डदेवकुलa temple in ruins.’
P. 27. L. 21.—
दण्डपाशकa watchman.’
P. 28. L. 13.— Readराजमार्गासन्नश्रेष्ठगृहद्वारिand translate at the door of the Shett’s house, which stood near the kings’ highway and before which a Mandapa and an altar had been erected’ रचिनमण्डनवेदिकायाम् agrees with द्वारेि.
P. 30. L. 21. —
In Sanskrit three or more nouns, one of which is a neuter, take the adjective in the neuter plural Páṇini 1. 2. 69.
P. 30. L. 23.—
Metre of s’loka 113: Vans’astha.
P. 31. L. 2 and 3,यमान्तम् to Yama’s (house)’ see Tantra IV. and V., note to p. 4. 1. 11.—.पञ्चपदी न दियतेdoes not accompanyhim even five steps
P. 31, 1. 14. —
Metre of śloka 118: Śárdúlavikrídita.
P. 32. 1. 6.— अस्ति see Tantra IV. and V., note to p. 6. 1. 11.
P. 32. L. 15.— यत्whether (the birds rise…still they obtain nothing that etc. ) – प्राप्या पूर्वजन्मकृतकर्मफलप्राप्त्या विधिनेति तावत्॥
P. 32. L. 18. —
Metre of śloka 122: Áryá.
P. 33. L. 2—सुसंश्लिष्टोthe masculine is against the grammar, see above note to p. 30. 1. 21.
P. 33, L. 10.—
Metre of śloka 128: Vasantatilaká.
P. 33. L. 21.—वर्धमानपुरnow called Burdwan [Benfey].
P. 35. L. 3.—सहामिthe Parasmaipada instead of the Átmanepada is against Panini’s rules, but not uncomonon in the Panchatantra and epic poetry, see e. g. Tantra III. śloka 50.-अन्यच्चused adverbiallyand besides.’
P. 35. L. 8.— केवलाsee Tantra IV. and V., note p. 56. 1. 15.
P. 36. L. 1.—पुलिनmeans here the low, sandy bank of a river,and may be translated by ‘a ford,’ a watering-place.’
P. 36. L. 10. — Regarding the hiatus, see Tantra IV. and V., note to p. 9. 1. 23.
P. 36. L. 18. – Repeat यत्र with नयविक्रमº.
P. 37. L. 2. — तुङ्गिमो नोपभुज्यते a high station is not enjoyed’ i. e., ‘is of no use.’ The example of a कृतनिश्चयिन् is the little Chátaka, who lives on rain-water only; the example of useless greatness isIndra, the rain giving god, who, in spite of his greatness, must perform a servile labour for the little bird.
P. 38. L. 5.—भक्ति‘honour, respect.’
P. 38. L. 7.—मन्त्रयतःthe Parasmaipada is against Páṇini’s rules, but common in epic poetry.
P. 39. L. 10.— Sense of śloka 146: ‘If misers are called rich on account of wealth, which they hoard and hide in their houses, without using it, why may not we, the poor, be called rich on account of that same wealth which is hidden in the houses of rich misersFor we derive just as much benefit from it as they.’
P. 39. L. 15. — Metre of śloka 148: Áryá.
P. 39. L. 23.—अक्षाणि‘the senseś;निरोध‘restraint.’
P. 40. L. 5.—स्वापतेय wealth.’ स्वस्यपतिरिति स्वपतिः। तत्र साधु रवापतेयम्॥
P. 40. L. 8. — Metre of śloka 153: Upajáti.
P. 40. L. 12.—
यत् - इति— मानद्रविणºa karmadháraya-compound.
P. 40. L. 13.—शर्वः a name of Śiva. In the Veda the word designates a separate deity whose name is mentioned in the Avesta also amongst the demons (dævas).
P. 42. L. 2.—करोतिreproduceś.—
संपुटिकाlit. ‘a box for ornaments, i. e., a collection of witty and beautiful phrases and tales.’
P. 42. L. 8. —
Metre of śloka [63: Āryā.
P. 42. L. 9.—
प्रतिभयdangerous.’
P. 42, L. 17. —
The construction of this śloka is ungrammatical.The participles of the first line ought to stand in the genitive plural.
P. 43. L. 1.—
यन्मया whatever (hard words I may have spoken formerly, etc.)'
P. 43. L. 5.— अस्मद्विधैर्मित्रैर्विद्यमानैः instrumental absolute, see TantraIV. and V., note to p. 10. l. 16.
P. 43. L. 8.— Metre of śloka 167: Áryá.
P. 44. L. 18.—
Metre of śloka 171: Áryá.
P. 45. L. 7.—
Metre of śloka 172: Indravajra.
P. 45. L. 23.— Metre of śloka 175: Upajáti.अभिक्ष्णम् ‘repeatedly.'
P. 46. L. 1.वर्धति the Parasmaipada is against Páņini’s rules,but common in the Veda and in epic poetry.
P. 46, L. 14. —
Metre of śloka 179: Upajáti.
P. 47. L. 14.—अप्राप्तस्यापिgenitive absolute.
P. 47. L. 18. Metre of śloka 181: śárdúlavikrídita.
P. 49. L. 3.—
Metre of śloka 1: Upajáti.
P. 49. L. 5.—पश्य उलुकºsee above note to p. 9. 1. 23.
P. 50. L. 15.― येन तस्य वयं कुर्म इत्यादि ’ in order that we may arrange its execution and attain its object.'
P. 51. L. 8.—
साशयिकम्
a dangerous, doubtful undertaking.'
P. 51. L. 9 and 10.—
युध्यताम् gen. pl. part. pres., according tothe epic use, Parasmaipada. उपायत्रितयादूर्ध्वम् after (having tried) the three (first) means of success.'
P. 53. L. 9. —
यथा कण्ठीरवो नागम् seems to refer to some story, told by the Bháradvájas in their sútra on Níti or Dharma. We have still the Śrauta and Gṛihya Sútras of this Vedic school, which studied a redaction of the Black Yajurveda.
P. 53. L. 11. —
Bhímasena went into the camp of the Kíchakasdressed up as a dancing girl, see Mahábhárata IV., 376 ff.
P. 53. L. 15.—
Construe : यस्य तेजस्तेजस्वितेजसां शमनं नास्ति etc.
P. 54. L. 3.— विना यानम्but only marching.’
P. 54. L. 6. —
In the months Kártika and Chaitra, because then no rain falls. But in other treatises on Níti other months are recommended.
P. 54. L. 15.—द्वितीयम्the second (measure)’, because, in the enumerations of the उपायाः, यानम् usually occupies the second place.
P. 54. L. 18.—
Metre of śloka 43: Máliní.
P. 56. L. 3.—**एकस्मिन्स्थाने तिष्ठन्तीत्येकस्थाः।**close-standing.”
P. 56. L. 7. — शक्यम् viz**. हिंसितुम्.**
P. 56. L. 17.—
कृशे गौरवम् ’ who has any esteem for & weak man'?
P. 56. L. 18.— एकान्तःthe only course of action possible.'
P. 57. L. 10. — तत्परीक्षार्थम् that (has been done) in order to examine (them.)"
P. 57. L. 13. —
द्वैधीभावःdouble-dealing, treachery.'
P. 57. L. 14.—दर्शयद्भिःby those, who excite (his cupidity).'
P. 57. L. 18.—
एकदा sometimes.
P. 57. L. 22.—
एकभावः“honest, sincere.”
P. 58. L. 12.—तीर्थानिhelps.'
P. 58. L. 19.—
Śloka 69 is taken from Mahábhárata I., p. 315, śloka. 171 and 172ª (Calcutta edition).
P. 58. L. 21.—आयुतकर्माan official.’—
प्रधानम्
“excellence;” must be supplied from the preceding sentence.
अन्तर्वासिक ‘the superintendent of the harem.’ प्रशासक, usually प्रशास्तृ, is perhaps the spiritual guide.'
P. 59. L. 1 and 2. — प्रदेष्टृ ’the chief justice;’ ज्ञापक ’the master the receiver-general of taxes.‘of requests;
P. 59. L. 5.— स्थानचिन्तक‘the quarter-master.’
P. 59. L. 14.— पद्भ्यां विकिरन्तीति विष्किराः।the gallinaceous birds.'
P. 60. L. 1. — अप्रवक्तारम् ‘who is unable to teach.'
P.. 60. L. 10.— समुदितमुखेषु ‘with one voice, all at once.”
P. 61. L. 6. —यदि must be understood with स्यात्.
P. 61. L. 10.— भास्वन्तो बहवः।according to the Vishnupuráṇa seven suns will appear at the end of the Kalpa and burn the world [Benfey.]
P. 62. L. 9.— शशक seems to mean here ‘rabbit,’ not ‘hare.’
P. 62. L. 23.— Śloka 85 is found Manu VII. 212.
P. 64. L. 8. — तस्य वचनस्य श्रद्धेयत्वात्‘in order (to make) his words credible."
P. 66. L. 5. — कुजन्मन् a slave.’ This śloka, as well as the following two, probably, are taken from the chapter on Evidence of some Smriti. S’loka 93 is the only passage, I know of, that refers to temple property.
P. 66. L. 8 and 9.— प्रत्यक्षम्before the eyes (of the owner).’ भक्ति ’ possession. ’ - प्रमाण ‘ proof (of ownership).’ अक्षराणि लेख्यम्, ‘a document.’
P. 66. L. 23.— A pun on कौपीन.. Taken with शुनः पुच्छ it means लिङ्ग, and taken with पाण्डित्य, it means पाप
P. 67. L. 8.— Construe धर्महीना [ यद्यपि ] परार्थाय [ परमार्थाय धर्म वरणार्थं ] मोश्वरेण सृष्टा [ स्तथापि ] पशवोयथा मूत्रपुरीषार्थमाहाराय च केवलं [ भवन्ति ].
P. 68. L. 10.—परत्र भवं सुखं इति परत्रम् \। स्वर्गं इत्यर्थः. This irregular formation occurs also in the Mahábhárata, (see the Pet. Dict.) and in another passage of the Panchatantra. Tantra IV., śloka 107, where the Mss. have 4 and the edition gives wrongly परत्र.
P. 68. L. 15.— अश्वानृते a false (decision) about a horse etc.—
P. 68. L. 18.―**स त्याज्यः, *i. e.,***प्राड्विवाको राज्ञा न्यायो वेत्यादि’ or let his decision declare the truth, i. e., if his decision is not just.’
P. 69. L. 13. — Átmanepada against the grammar, but according to the epic usage; the śloka is taken from the Mahábhárata.
P. 69. L. 18. — Metre of ślokas 112 and 113: Vanśastha.—अनायतिक्षिमम् “ not good for the future.”
P. 70. L. 16.—; a Śrautágnihotrí must perform every year a Cháturmásya pasʼu.
P. 70. L. 21.—हिमपातो व्यर्यता नीयते “we shall be able to defy the cold rain.”
P. 71. L. 4.— श्वान=श्वन्.
P. 71. L. 21.—The Brahman thinks, that the beast is an ’evil spirit,’ because everybody, whom he meets, takes it for some unclean creature.
P. 72. L. 5. — Metre of śloka 119: A’ryá.
P. 73. L. 1.— शुष्ककलह a pretended dispute.’
P. 73. L. 10.—भीतः शत्रुः पलायनपरः पुण्यैर्लभ्यते (To find the foe, timid and intent on flight, is a reward for meritorious deeds (performed in a former life).'
P. 73. L. 12.— छिद्रम् an opportunity (for attack)."
P. 73. L. 15.— Regarding śloka 124, see above note to 1. 19.
P. 74. L. 13.—Metre of śloka 126 : Upajáti,— पतंगवृत्तिःwho behaves like a moth,’ i. e., who spontaneously goes to meet a danger, just as the moth flies towards a light.
P. 74. 1. 15.—रक्षितैस्तैः instrumental absolute. —धनं पुन[र्भवेदिति शेषः]
P. 75. L. 1.—The answers given by the first four Ministers of Arímardana to the question of their master, what is to be done with the captive Sthirajívin are somewhat singular.Instead of stating how he is to be treated, they give lectures on the excellence of kindness, treachery, bribing and of the employment of force respectively, just as the ministers of Meghavarṇa in the beginning of the book. These answers are, however, intended to indicate indirectly the manner how Sthirajívin is to be used. Raktáksha, apparently, means to say, “Hear Sthirajívin’sadvice; he spoke to his own master in favour of peace, and that is the right advice. Therefore treat him well and use him to make peace with thy enemy," (see line 5) while Krúráksha holds, that the captive is to be used to create discord in the enemy’s camp, Díptáksha, that he is to bribe the opposite party and Vakranása,that the war is to be continued and Sthirajívin is to be killed without mercy.
P. 75. L. 22. —“The ibis, who wades cautiously and gently through the water, as if he were afraid to hurt any small animals, still deludes and destroys his enemies, the fishes, by this very gentleness.”
P. 76. L. 11. — Ráma bribed Vibhíshaṇa, Rávaṇa’s brother, by the promise of the throne of Lanká, to tell about his brother’s strength.
P. 76. L. 13. — Rákshasa, originally the Minister of Nanda, became, after the death of the latter, the adviser of Malayaketu, the son of Parvatendra. He was rendered by the stratagems of Chanakya an object of suspicion to this prince and was consequently dismissed by him. See H. H. Wilson Hindu Theatre II, P. 127 ff.
P. 76. L. 18. — Regarding śloka 140 see Tantra IV and V., note to p. 42. 1. 12.
P. 77. L. 5. – साम्यंनी ’ to satisfy.’- अग्निम् scil. वाडवम् compare also Tantra IV and V note to p. 9. 1. 16.
P. 78. L. 2.—कर्मणा’ in reality.'
P. 78, L. 4.—वीर्यधनप्रदः । वीर्यमेव धनमिति वीर्यधनम् । तत्प्रददतीति वीर्यंधनप्रदास्तैः ॥
P. 78. L. 7. — हेलाकृष्टस्फुरत्खदीप्तांशुपरिपञ्जरैः (by arms) which are coloured reddish brown by the shining rays reflected from a glittering sword that has been drawn in fury."
P. 78. L. 10.—अन्याङ्कसुप्तैव“(though) she just slept in another’s arms."
P. 78. L. 18.—उपादत्ते“attacks, seizes.”
P. 78. L. 21.- Metre of śloka 155: Upajáti.-भयेन युक्ताःThose who, themselves filled with fear, (cruelly etc.)" It is, however, very doubtful, whether this reading, which is given by the Mss., is correct.
P, 79. L. 22. – मणिरेव दीप इति मणिदीपः a jewel lamp’ where the sparkling of a precious stone takes the place of the burning wick.
P. 80. L. 1.— Regarding śloka 161, see Tantra IV and V, note to p. 72. 1. 3.
P. 80. L. 5.—परिग्रहासंमतेन“against the advice of my followers."
P. 81. L. 4.—.स्वदुर्गमध्येThe crow is the Chandála among the birds and hence not worthy to live in the town. His proper place is outside the gates in the Vádí.
P. 81. L. 6.—एतावत्कालं यावत्“for so long time, up to this time."
P. 81. L. 9.- Metre of śloka 164: Vanśastha.
P. 82. L. 2. – समयधर्मः a covenant, an agreement.'
P. 83. I. 3. – प्रतिलोमतः सेवन्ते वैपरीत्यनासन्तं नयमाश्रित्य सेवन्त इत्यर्थः।
P. 83. L. 16.—समागमनम्(our) meeting.'
P. 83. L. 21. यस्ययस्य …………….. अक्रियमाणस्य must be taken as & genitive absolute ; “if a deed, especially one that promises a (good) result etc.”
P. 84. L. 10.- Metre of śloka 172 śárdúlavikrídita.-It alludes to Bhíma’s serving as cook in the palace of the king of the Matsyas during the exile of the Pandavas, see Máhábharata Viráțaparva, Adhyaya VIII., śloka 1 ff.
P. 84. L. 18.- Metre of ślokas 174 and 175: Sárdúlavikrídita. -Yudhishthira, the son of Yama (A) served in the palace of King Viráța, under the guise of a Brahman. See Máhábhárata Viráṭaparva Adhyáya VII.
P. 85. L. 9. Metre of ślokas 177 and 179: Vasantatilaká.
P. 86. L. 5.—भविष्यत“destined (to prosper).”
P. 86. L. 6.7.—तत्तव भविष्यत इत्यादि।“Thus I knew by the errors (of your enemy) that you were destined (to prosper) and that he was destined to be conquered. (For) wise men know the fate of those who are destined (to prosper) and of those who are destined to fail from the course of their actions.'
P. 86. L. 10. — Regarding śloka 181, see above note to p. 21. 1. 5.
P. 86. L. 17. — With śloka 184 compare the saying: Quem Deusvult perdere, prius dementat.
END.
| P. 8. 1. 22 | शत्रुतां | read. | शत्रुताम् |
| P. 12. 1. 4 | बबुक्षा | " | बभुक्षा |
| P.19.1.10 | सभत्येति | " | समभ्येति |
| P. 23. 1. 21 | गछन्तो | " | गच्छन्तो |
| P. 27. 1. 17 | अनुरक्तपा | " | अनुरक्तपा |
| P. 28. 1. 21 | अतिक्रान्तलग्नº | " | अतिक्रान्ते लग्नº |
| P. 37. 1. 16 Put stop after गच्छावः | |||
| P. 41. 1. 3 | तछ्रुत्वा | read. | तच्छ्रुत्वा. |
| P. 51. 1. 19 | पुष्ठं | " | पुष्टं |
| P. 52. 1. 3 | ºत्तिष्टेत्कृ° | " | ºतिष्ठेत्कृº |
| P. 57.1.1 | सुप्रतिष्टितः | " | सुप्रतिष्ठितः |
| P. 64. 1. 15 | तिष्टति | " | तिष्ठति |
| P. 71.1.7 | सारमेयत्वे न | " | त्वेन |
| P.741.16 | ºमशङ्कमीनाº | " | ºमाशङ्कमानेº |
| P. 75 1. 4 | कापि | " | क्वापि |
]
अथेदमारभ्यते लब्धप्रणाशं नाम चतुर्थं तन्त्रं यस्यायमादिमः श्लोकः।
समुत्पन्नेष कार्येषु बुद्धिर्यस्य न हीयते।
स एव दुर्गंतरति जलस्थो वानरो यथा॥१॥
तद्यथानुश्रूयते।
अस्ति कस्मिंश्चित्समुद्रोपकण्ठे महाञ्जम्बूपादपः सदाफलः। तत्र च रक्तमुखो नाम वानरः प्रतिवसति स्म। तत्र च तस्य तरोरधः कदाचित्करालमुखो नाम मकरः समुद्रसलिलान्निष्क्रम्य सुकोमलवालुकासनाथे तीरोपान्ते निविष्टः। ततश्चरक्तमुखेन स प्रोक्तः। भो भवानभ्यागतोऽतिथिः। तद्भक्षयतु मया दत्तान्यमृतकल्पानि जम्बूफलानि। उक्तं च।
प्रियो वा यदि वा द्वेष्यो मूर्खो वा यदि पण्डितः।
वैश्वदेवान्तमासन्नः सोऽतिथिः स्वर्गसंक्रमः॥२॥
न पृच्छेच्चरणं गोत्रं न च विद्यां कुलं न च।
अतिथिं वैश्वदेवान्ते श्राद्धे च मनुरब्रवीत्॥३॥
दूरमार्गश्रमश्रान्तं वैश्वदेवान्तमागतम्।
अतिथिं पूजयेद्यस्तु स याति परमां गतिम्॥४॥
एवमुक्त्वातस्य जम्बूफलानि प्रयच्छति। सोऽपि तानि भक्षयित्वा तेन सह चिरं गोष्ठीसुखमनुभूय भूयोऽपि स्वभवनमगात्। एवं नित्यमेव तौवानरमकरौजम्बूच्छायाश्रितौ विविधशास्त्रगोष्ठ्याकालंनयन्तौ सुखेन तिष्ठतः। सोऽपि मकरो भक्षितशेषाणि जम्बूफलानि गृहं गत्वा स्वपत्न्याः प्रयच्छति। अथान्यतमे दिवसे तया स पृष्टः। नाथ क्वैवंविधान्यमृतकल्पानि फलानि प्राप्नोतिभवान्। स आह। भद्रे ममास्ति परमसुहृद्रक्तमुखो नाम वानरः। स प्रीतिपूर्वमिमानि फलानि प्रयच्छति नित्यम्। अथ तयाभिहितम्। यः सदैवामृतप्रायाणीदृशानि फलानि भक्षयति तस्य हृदयममृतमयं भविष्यति।
तद्यदि मया भार्यया ते प्रयोजनं ततस्तस्य हृदयं मम प्रयच्छ येन तद्भक्षयित्वा जरामरणरहिता त्वया सह भोगान्भुनज्मि। स आह। भद्रे मा मैवं वद। यतः स प्रतिपन्नोऽस्माकं भ्राता। अपरं व्यापादयितुमपि न शक्यते। तत्त्यजैनं मिथ्याग्रहम्। उक्तं च।
एकस्थाने प्रसूते वागन्यस्मिञ्जननी नृणाम्।
वाग्जातमधिकं प्रोचुः सोदर्यादपि बान्धवात्॥५॥
अथ मकर्याह। त्वया कदाचिदपि वचनं मम नान्यथा कृतम्। तन्नूनं सा वानरी भविष्यति यतस्तस्या अनुरागतः सकलमपि दिनं तत्र गमयसि। तत्त्वं ज्ञातः सम्यङ्मया। यतः।
साह्लादं वचनं प्रयच्छसि न मे नो वाञ्छितं किंचन
प्रायः प्रोच्छ्वसिषि द्रुतं हुतवहज्वालासमं रात्रिषु।
कण्ठाश्लेषपरिग्रहे शिथिलता यन्नादरश्चुम्बने
तत्ते धूर्त हृदि स्थिता प्रियतमा काचिन्ममैवापरा॥६॥
सोऽपि पत्न्याः पादोपसंग्रहं कृत्वाङ्कोपरि निधाय तस्याः कोपकोटिमापन्नायाः पत्न्याः सुदीनमुवाच यत्।
मयि ते पादपतिते किंकरत्वमुपागते।
प्रिये कामातुरः कोपं कान्ते कोऽन्योऽपनेष्यति॥७॥
सापि तद्वचनमाकर्ण्याश्रुप्लुतमुखी तमुवाच।
सार्धं मनोरथशतैस्तव धूर्त कान्ता
सैव स्थिता मनसि कृत्रिमभावरम्या।
अस्माकमस्ति न कथंचिदिहावकाश-
स्तस्मात्कृतं चरणपातविडम्बनाभिः॥८॥
अपरं सा यदि तव वल्लभा न भवति तत्किं मया भणितेपि तं न व्यापादयसि। अथ यदि स वानरस्तत्कस्तेन सह महास्नेहः। तत्किंबहुना। यदि तस्य हृदयं न भक्षयामि तन्मया प्रायोपवेशनं कृतं विद्धि। एवं तस्यास्तन्निश्चयं ज्ञात्वा चिन्ताव्याकुलितचित्तः स प्रोवाच। अथवा साध्विदमुच्यते।
वज्रलेपस्य मूर्खस्य नारीणां कर्कटस्य च।
एको ग्रहस्तु मीनानां नीलीमद्यपयोस्तथा॥९॥
तत्किं करोमि। कथं स मे वध्यो भविष्यति। इति विचिन्तयन्वानरपार्श्वमगमत्। वानरोऽपि चिरादायान्तं तं सोद्वेगमवलोक्य प्रोवाच। भो मित्र किमत्र विरलवेलायां समायातः। कस्मात्साह्लादं नालापयसि न सुभाषितानि पठसि। स आह। मित्र अहं तव भ्रातृजायया निष्ठुरतरैर्वाक्यैरभिहितः। भोः कृतघ्नमा मे संमुखं मुखं दर्शय यतस्त्वं मित्रं नित्यमेवोपजीव्यागच्छसि तस्य पुनः प्रत्युपकारं गृहदर्शनमात्रेणापि न करोषि। तत्ते प्रायश्चित्तमपि नास्ति। उक्तं च।
ब्रह्मघ्नेच सुरापे च चौरे भगवते तथा।
निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः॥१०॥
तत्त्वं मम देवरं गृहीत्वाद्य प्रत्युकारार्थं गृहमागच्छ। अथवा त्वया सह मे परलोके दर्शनम्। तदहं तथैवं प्रोक्तस्तव सकाशमागतः। तदद्य तया सह कलहवत इयती वेला मे विलग्ना। तदागच्छ मे गृहम्। तवभ्रातृपत्नी रचितचतुष्का प्रगुणितमणिमाणिक्या द्वारदेशबद्धवन्दनमाला सोत्कण्ठा तिष्ठति। मर्कट आह। भो मित्र युक्तमभिहितं मद्भ्रातृपत्न्या। उक्तं च।
वर्जयेत्कौलिकाकारं मित्रं प्राज्ञतरो नरः।
आत्मनः संमुखं नित्यं य आकर्षति लोलुपः॥११॥
तथा च।
ददाति प्रतिगृह्णाति गुह्यमाख्याति पृच्छति।
भुङ्केभोजयते चैव षड्विधं प्रीतिलक्षणम्॥१२॥
परं वयं वनचराः। युष्मदीयं जलान्ते गृहं तत्कथमपि न शक्यते तत्र गन्तुम्। तस्मात्तामपि मे भ्रातृपत्नीमत्रानय येन तस्याः प्रणम्याशीर्वादं गृह्णामि। स आह। भो मित्र अस्ति समुद्रान्ते रम्ये पुलिनप्रदेशेऽस्मद्गृहम्। तन्मम पृष्ठमारूढः सुखेनाकृतभयो गच्छ। सोपि तच्छ्रुत्वा सानन्दमाह। भद्र यद्येवं तत्किं विलम्ब्यते। त्वर्यताम्। अहं तव पृष्टमारूढः। तथानुष्ठिते गच्छन्तमगाधजले मकरमवलोक्य भयत्रस्तमना वानरः प्रोवाच। भ्रातः शनैःशनैर्गम्यताम्। जलकल्लोलैः प्लावितं मे शरीरम्। तदाकर्ण्य मकरश्चिन्तयामास। असावगाधं जलं प्राप्तो वशः संजातो मत्पृष्ठगतस्तिलमात्रमपि चलितुं न शक्नोति। तस्मात्कथयामि निजाभिप्रायं येनाभीष्टदेवतास्मरणं करोति। आह च। मित्र त्वं मया वधाय समानीतो भार्यावाक्याद्विश्वास्य। तत्स्मर्यतामभीष्टदेवता। स आह। भ्रातः किं मया तस्यास्तवापि चापकृतं येन मे वधोपायश्चिन्तितः। मकर आह। भोस्तस्यास्तावत्तव हृदयस्यामृतमयरसफलास्वादनामृष्टस्य भक्षणार्थं दोहदः संजातः। तेनैतदनुष्ठितम्। वानर आह। भद्र यद्येवं तत्किं त्वया मम तत्रैव न व्याहृतं येन स्वहृदयं जम्बूकोटरे सदैव मया सुगुप्तं कृतं तद्भातृपत्न्या अर्पयामि। त्वयाहं शून्यहृदयोऽत्र कस्मादानीतः। तदाकर्ण्य मकरः सानन्दमाह। भद्र यद्येवं तदर्पय मे हृदयं येन सा दुष्टपत्नी तद्भक्षयित्वानशनादुत्तिष्ठति। अहं त्वां तमेव जम्बूपादपं प्रापयामि। एवमुक्त्वानिवर्त्य जम्बूतलमगात्। वानरोऽपि कथमपि जल्पितविविधदेवतोपचारपूजस्तीरमासादितवान्। ततश्च दीर्घतरचङ्क्रमणेन तमेवजम्बूपादपमारूढश्चिन्तयामास। अहो लब्धाः प्राणास्तावत्। अथवा साध्विदमुच्यते।
न विश्वसेदविश्वस्ते विश्वस्तेऽपि न विश्वसेत्।
विश्वासाद्भयमुत्पन्नं मूलान्यपि निकृन्तति॥१३॥
तन्ममैतदन्यत्संततिदिनं संजातम्। इति चिन्तयानमनन्तरं मकर आह। भो मित्र अर्पय तद्धृदयं यथा ते भ्रातृपत्नी भक्षयित्वानशनादुत्तिष्ठति। अथ विहस्य निर्भर्त्सयन्वानरस्तमाह। धिङ्मूर्ख विश्वासघातक किं कस्यचिद्धृदयद्वयं भवति। तद्गम्यताम्। जम्बूवृक्षस्याधस्तान्न भूयोऽपि त्वयात्रागन्तव्यम्।
उक्तं च यतः।
सक्द्दुष्टंच यो मित्रं पुनः संधातुमिच्छति।
स मृत्युमुपगृह्णाति गर्भमश्वतरी यथा॥१४॥
तच्छ्रुत्वा मकरः सविलक्षं चिन्तितवान्। अहो मयातिमूढेन किमस्य स्वचित्ताभिप्रायो निवेदितः। तद्यद्यसौ पुनरपि कथंचिद्विश्वासं गच्छति तद्भूयोऽपि विश्वासयामि। आह च। मित्र हास्येन मया तेऽभिप्रायो लब्धः। तस्या न किंचित्तव हृदयेन प्रयोजनम्। तदागच्छ प्राघूर्णकन्यायेनास्मद्गृहम्। ते भ्रातृपत्नी सोत्कण्ठा वर्तते। वानर आह। भो दुष्ट गम्यताम्। अधुना नाहमागमिष्यामि।
उक्तं च ।
बुभुक्षितः किं न करोति पापं
क्षीणा नरा निष्करुणा भवन्ति।
आख्याहि भद्रे प्रियदर्शनस्य
न गङ्गदत्तः पुनरेति कूपम्॥१५॥
मकर आह। कथमेतत्। स आह।
कथा १.
अस्ति कस्मिंश्चित्कूपे गङ्गदत्तो नाम मण्डूकराजः प्रतिवसति स्म। स कदाचिद्दायादैरुद्वेजितोरघट्टघटीमारुह्य निष्क्रान्तः। अथ तेन चिन्तितम्। यत्कथं तेषां दायादानां मया प्रत्यपकारः कर्तव्यः।
उक्तं च।
आपदि येनापकृतं येन च हसितं दशासु विषमासु।
अपकृत्य तयोरुभयोः पुनरपि जातं नरं मन्ये॥१६॥
एवं चिन्तयन्बिले प्रविशन्तं कृष्णसर्पमपश्यत्। तं दृष्ट्वा भूयोऽप्यचिन्तयत्। यदेनं तत्र कूपे नीत्वा सकलदायादानामुच्छेदं करोमि।
उक्तं च।
शत्रुभिर्योजयेच्छत्रुंबलिना बलवत्तरम्।
स्वकार्याय यतो न स्यात्काचित्पीडात्र तत्क्षये॥१७॥
तथा च।
शत्रुमुन्मूलयेत्प्राज्ञस्तीक्ष्णं तीक्ष्णेन शत्रुणा।
व्यथाकरं सुखार्थाय कण्टकेनेव कण्टकम्॥१८॥
स एवं परिभाव्य बिलद्वारं गत्वा तमाहूतवान्। एह्येहि प्रियदर्शन एहि। तच्छ्रुत्वा सर्पश्चिन्तयामास। एष मामाह्वयति। स स्वजात्यो न भवति यतो नैषा सर्पवाणी। अन्येन केनापि सह मम मर्त्यलोके संधानं नास्ति। तदत्रैव दुर्गे स्थितस्तावद्वेद्मि कोऽयं भविष्यति।
उक्तं च।
यस्य न ज्ञायते शीलं न कुलं न च संश्रयः।
न तेन संगतिं कुर्यादित्युवाच बृहस्पतिः॥१९॥
आः कदाचित्कोपि मन्त्रवाद्योषधिधरो वा मामाहूय बन्धने क्षिपति। अथवा कश्चित्पुरुषो वैरमाश्रित्य कस्यचिद्भक्षणार्थे मामाह्वयति। आह च। भोः को भवान्। स आह। अहं गङ्गदत्तो नाम मण्डूकाधिपतिस्त्वत्सकाशे मैत्र्यर्थमागतः। तच्छ्रुत्वा सर्प आह। भो अश्रद्धेयमेतद्यत्तृणानां वह्निना सह संगमः।
उक्तं च।
यो यस्य जायते वध्यः स स्वप्नेऽपि कथंचन।
न तत्समीपमभ्येति तत्किमेवं प्रजल्पसि॥२०॥
गङ्गदत्त आह। भोः सत्यमेतत्। स्वभाववैरी त्वमस्माकम्। परं परपरिभवात्प्राप्तोऽहं ते सकाशम्। उक्तं च।
सर्वस्वनाशे संजाते प्राणानामपि संशये।
अपि शत्रुं प्रणम्यापि रक्षेत्प्राणधनानि च॥२१॥
सर्प आह। कथय कस्मात्ते परिभवः। स आह। दायादेभ्यः। सोऽप्याह। क्व त आश्रयो वाप्यां कूपे तडागे ह्रदे वा। तत्कथय स्वाश्रयम्। तेनोक्तम्। पाषाणचयनिबद्धे कूपे। सर्प आह। अहो अपदा वयम्। तर्हि नास्ति मम तत्र प्रवेशः। प्रविष्टस्य च तत्र स्थानं नास्ति यत्र स्थितस्तव दायादान्व्यापादयामि। तद्गम्यताम्। उक्तं च।
यच्छक्यं ग्रसितुं ग्रस्यं ग्रस्तं परिणमेच्च यत्।
हितं च परिणामे यत्तदाद्यं भूतिमिच्छता॥२२॥
गङ्गदत्त आह। भोः समागच्छ त्वम्। अहं सुखोपायेन तत्र तव प्रवेशं कारयिष्यामि। तथा तस्य मध्ये जलोपान्ते रम्यतरं कोटरमस्ति। तत्र स्थितस्त्वं लीलया दायादान्व्यापादयिष्यसि। तच्छ्रुत्वा सर्पो व्यचिन्तयत्। अहं तावत्परिणतवयाः। कदाचित्कथंचिन्मूषकमेकं प्राप्नोमि। तत्सुखावहो जीवनोपायोयमनेन कुलाङ्गारेण मे दर्शितः। तद्गत्वा तान्मण्डूकान्भक्षयामीति।
अथवा साध्विदमुच्यते।
यो हि प्राणपरिक्षीणः सहायपरिवर्जितः।
स हि सर्वसुखोपायां वृत्तिमावरयेद्बुधः॥२३॥
एवं विचिन्त्य तमाह। भो गङ्गदत्त यद्येवं तदग्रे भव येनागच्छामि। गङ्गदत्त आह। भोः प्रियदर्शन अहं त्वां सुखोपायेन तत्र नेष्यामिस्थानं च दर्शयिष्यामि। परं त्वयास्मत्परिजनो रक्षणीयः। केवलं यानहं दर्शयामि त्वया त एव भक्षणीया इति। सर्प आह। सांप्रतं त्वं मे मित्रं जातम्। तन्न भेतव्यम्। तव वचनेन भक्षणीयास्ते दायादाः। एवमुक्त्वा बिलान्निष्क्रम्य तमालिङ्ग्य च तेनैव सह प्रस्थितः। अथ कूपमासाद्यारघट्टघटिकामार्गेण सर्पस्तेनात्मना स्वालयं नीतः। ततश्च गङ्गदत्तेन कृष्णसर्पं कोटरे धृत्वा दर्शितास्ते दायादाः। ते च तेन शनैःशनैर्भक्षिताः। अथ मण्डूकाभावे सर्पेणाभिहितम्। भद्र निःशेषितास्ते रिपवस्तत्प्रयच्छान्यन्मे किंचिद्भोजनं यतोऽहं त्वयात्रानीतः। गङ्गदत्त आह। भद्र कृतं त्वया मित्रकृत्यम्। तत्सांप्रतमनेनैव घटिकायन्त्रमार्गेण गम्यतामिति। सर्प आह। भो गङ्गदत्त न सम्यगभिहितं त्वया। कथमहं तत्र गच्छामि। मदीयबिलदुर्गमन्येन विरुद्धं भविष्यति। तस्मादत्रस्थस्य मे मण्डूकमेकैकं स्ववर्गीयं प्रयच्छ नो चेत्सर्वानपि भक्षयिष्यामीति। तच्छ्रुत्वा गङ्गदत्तो व्याकुलमना व्यचिन्तयत्। अहो किमेतन्मया कृतं सर्पमानयता तद्यदि निषेधयिष्यामि तत्सर्वानपि भक्षयिष्यति। अथवा युक्तमुच्यते।
अमित्रं कुरुते मित्रं वीर्याभ्यधिकमात्मनः।
स करोति न संदेहः स्वयं हि विषभक्षणम्॥२४॥
तत्प्रयच्छाम्यस्यैकं दिनं प्रति सुहृदम्। उक्तं च।
सर्वस्वहरणे युक्तं शत्रुं बुद्धियुता नराः।
तोषयन्त्यल्पदानेन वाडवं सागरो यथा॥२५॥
तथा च।
यो दुर्बलो ह्यण्वपि याच्यमानो
बलीयसा यच्छति नैव साम्ना।
प्रयच्छते नैव च दर्श्यमानं
खारीं स चूर्णस्य पुनर्ददाति॥२६॥
तथा च।
सर्वनाशे समुत्पन्ने अर्धं त्यजति पण्डितः।
अर्धेन कुरुते कार्यं सर्वनाशो हि दुस्तरः॥२७॥
एवं निश्चित्य नित्यमेकैकमादिशति। सोऽपि तं भक्षयित्वा तस्य परोक्षेऽन्यानपि भक्षयति। अथवा साध्विदमुच्यते।
यथा हि मलिनैर्वस्त्रैर्यत्र तत्रोपविश्यते।
एवं चलितवृत्तस्तु वृत्तशेषं न रक्षति॥२८॥
अथान्यदिने तेनापरान्मण्डूकान्भक्षयित्वा गङ्गदत्तसुतः पृथुदत्तो भक्षितः। तं भक्षितं मत्वा गङ्गदत्तस्तारस्वरेण धिग्धिप्रलापपरः कथंचिदपि न विरराम। ततः पत्न्याभिहितः।
किं क्रन्दसि दुराक्रन्द स्वपक्षक्षयकारक।
स्वपक्षस्य क्षये जाते त्वत्त्राणं कः करिष्यति॥२९॥
तदद्यापि विचिन्त्यतामात्मनो निष्क्रमणमस्य वधोपायश्च। अथ गच्छता कालेन सकलमपि कवलितं मण्डूककुलम्। केवलमेको गङ्गदत्तस्तिष्ठति। ततः प्रियदर्शनेन भणितम्। भो गङ्गदत्त बुभुक्षितोऽहम्। निःशेषिताः सर्वे मण्डूकाः। तद्दीयतां मे किंचिद्भोजनं यतोऽहं त्वयात्रानीतः। स आह। भो मित्र न त्वयात्र विषये मयावस्थितेन कापि चिन्ता कार्या। तद्यदि मां प्रेषयसि ततोऽन्यकूपकानामपि मण्डूकानाश्वास्यात्रानयामि। स आह। मम तावत्त्वमभक्ष्यो भ्रातृस्थाने। तद्यद्येवं करोषि तत्सांप्रतं पितृस्थाने भवसि। तदेवं क्रियतामिति। सोपि तदाकर्ण्यारघट्टवटिकामाश्रित्य विविधदेवतोपकल्पितोपयाचितोऽस्मात्कूपाद्विनिष्क्रान्तः। प्रियदर्शनोऽपि तदाकाङ्क्षया तत्रस्थः प्रतीक्षमाणस्तिष्ठति। अथ चिरादनागते गङ्गदत्ते प्रियदर्शनोऽन्यकोटरनिवासिनीं गोधामुवाच। भद्रे क्रियतां स्तोकं साहाय्यम्। त्वया सह परिचितमास्ते। तद्गत्वा मण्डूकमन्विष्य क्वचिज्जलाशये गङ्गदत्ताय मम संदेशं कथय। येनागम्यतामेकाकिनापि द्रुततरं यद्यन्ये मण्डूका नागच्छन्ति। अहं त्वया विना नात्र वस्तुं शक्नोमि। तथा यद्यहं तत्र विरुद्धमाचरामि तत्सुकृतमन्तरे मया विधृतम्। गोधापि तद्वचनाद्गङ्गदत्तं द्रुततरमन्विष्याह। भद्र गङ्गदत्त स तव सुहृत्प्रियदर्शनस्तव मार्गंसमीक्षमाणस्तिष्ठति। तच्छीघ्रं गम्यतामिति। अपरं च तेन तत्र विरूपकरणे सुकृतमन्तरे धृतम्। तन्निःशङ्केन मनसागम्यताम्। तदाकर्ण्य गङ्गदत्त आह।
बुभुक्षितः किं न करोति पापं
क्षीणा नरा निष्करुणा भवन्ति।
आख्याहि भद्रे प्रियदर्शनस्य
न गङ्गदत्तः पुनरेति कूपम्॥३०॥
एवमुक्त्वा स तां विसर्जयामास।
तद्भो दुष्टजलचर। अहमपि गङ्गदत्त इव कथंचिद्दृष्टापायोपि त्वद्गृहं न यास्यामि। तच्छ्रुत्वा मकर आह। भो मित्र नैतद्युज्यते ते कर्तुम्। सर्वथैव मे कृतघ्नतादोषमपनय मद्गृहागमनेन। अथवात्राहमनशनात्प्राणत्यागं तवोपरि करिष्यामि। वानर आह। मूढ किमहं लम्बकर्णो गर्दभो यो दृष्ट्वापायमपि तत्रैव गत्वा मृतः।
आगतश्च गतश्चैव दृष्ट्वा सिंहपराक्रमम्।
अकर्णहृदयो मूर्खस्तेन मृत्युवशं गतः॥३१॥
मकर आह। भद्र स को लम्बकर्णो गर्दभः। कथं दृष्टापायोऽपि मृतः। तन्मे निवेद्यताम्। वानर आह।
कथा २.
अस्ति कस्मिंश्चिद्वनोद्देशे करालकेसरो नाम सिंहः प्रतिवसति स्म। तस्य च धूसरको नाम शृगालः सदैवानुयायी परिचारकोऽस्ति। अथ कदाचित्तस्य हस्तिना सह युध्यमानस्य शरीरे प्रहाराः संजाता यैः पदमेकमपि चलितुं न शक्नोति। तस्याचलनाच्च धूसरकः क्षुत्क्षामकण्ठो दौर्बल्यं गतः। अन्यस्मिन्नहनि तमवोचत्। स्वामिन् बुभुक्षया पीडितोऽहं पदात्पदमपि चलितुं न शक्नोमि। तत्कथं ते शुश्रूषां करोमि। सिंह आह। भो गच्छान्वेषय किंचित्सत्त्वं येनेमामवस्थां गतोऽपि व्यापादयामि। तदाकर्ण्य शृगालोन्वेषयन्कंचित्समीपवर्तिनं ग्राममासादितवान्। तत्र लम्बकर्णो नाम गर्दभस्तडागोपान्ते प्रविरलदूर्वाङ्कुरान्कृच्छ्रादास्वादयन्दृष्टः। ततश्च समीपीभूय तेनाभिहितः। माम नमस्कारोऽयं मदीयः संभाव्यताम्। चिराद्दृष्टोऽसि। तत्किमेवं दुर्बलः। स आह। भगिनीसुत किं कथयामि। रजकोऽतिनिर्दयोऽतिभारेण मां दमयति। घासमुष्टिमपि न प्रयच्छति। केवलं दूर्वाङ्कुरान्धूलिमिश्रितान्भक्षयामि। तत्कुतो मे शरीरे पुष्टिः। शृगाल आह। माम यद्येवं तदस्ति रमणीयतरप्रदेशो मरकतसदृशशष्यप्रायो नदीसनाथः। तदागच्छ मया सह येन सुखेन सुभाषितगोष्ठीसुखमनुभवावः। लम्बकर्ण आह। भो भगिनीसुत युक्तमुक्तं भवता। परं वयं ग्राम्याः पशवोऽरण्यचारिणां वध्यास्तत्किं तेन भव्यप्रदेशेन। शृगालआह। माम मैवं वद। मद्भुजपरिरक्षितः स देशः। नास्ति कश्चित्तत्र परः। परमनेनैव दोषेण रजककदर्थितास्तत्र तिस्रो रासभ्योऽनाथाः सन्ति। ताश्च पुष्टिमापन्ना यौवनोत्कटा इदं मामूचुः। यदि त्वमस्माकंसत्यो मातुलस्तदा किंचिद्ग्रामान्तरं गत्वास्मद्योग्यं कंचित्पतिमानय। तदर्थे त्वामहं तत्र नयामि। अथ शृगालवचनानि श्रुत्वा कामपीडिताङ्गस्तमवोचत्। भद्र यद्येवं तदग्रे भव येनागच्छामि। अथवा साध्विदमुच्यते।
नामृतं न विषं किंचिदेकां मुक्त्वा नितम्बिनीम्।
यस्याः सङ्गेन जीव्येत म्रियेत च वियोगतः॥३२॥
तथा च।
यासां नाम्नापि कामः स्यात्संगमं दर्शनं विना।
तासां दृक्संगमं प्राप्य यन्न द्रवति कौतुकम्॥३३॥
तथानुष्ठिते शृगालेन सह सिंहान्तिकमागतः। सिंहोऽपि व्यथाकुलस्तं दृष्ट्वा यावत्समुत्तिष्ठति तावद्रासभः पलायितुमारब्धः। अथ तस्य पलायमानस्य सिंहेन तलप्रहारो दत्तः। स च मन्दभाग्यस्य व्यवसाय इव व्यर्थतां गतः। अत्रान्तरे शृगालः कोपाविष्टस्तमुवाच। भोः किमेवंविधः प्रहारस्ते यद्गर्दभोऽपि तव पुरतो बलाद्गच्छति। तत्कथंगजेन सह युद्धं करिष्यसि। तद्दृष्टं ते बलम्। अथ विलक्षस्मितं सिंह आह। भोः किमहं करोमि। मया न क्रमः सज्जीकृत आसीत्। अन्यथा गजोऽपि मत्क्रमाक्रान्तो न गच्छति। शृगाल आह। अद्याप्येकवारं तवान्तिके तमानेष्यामि। परं त्वया सज्जीकृतक्रमेण स्थातव्यम्। सिंह आह। यो मां प्रत्यक्षतया दृष्ट्वा गतः स पुनः कथमत्रागामिष्यति। तदन्यत्किमपि सत्त्वमन्विष्यताम्। शृगाल आह। किं तवानेन व्यापारेण। त्वं केवलं सज्जितक्रमस्तिष्ठ। तथानुष्ठिते शृगालोऽपि यावद्रासभमार्गेण गच्छति तावत्तत्रैव स्थाने चरन्दृष्टः। अथ शृगालं दृष्ट्वा रासभः प्राह। भो भगिनीसुत शोभनस्थाने त्वयाहं नीतः। द्राङ्मृत्युवशं गतः। तत्कथय किं तत्सत्त्वं यस्यातिरौद्रवज्रसदृशकरप्रहारादहं मुक्तः। तच्छ्रुत्वा प्रहसञ्शृगाल आह। भद्र रासभी त्वामायान्तं दृष्ट्वा सानुरागालिङ्गितुं समुत्थिता। त्वं च कातरत्वान्नष्टः। सा पुनर्न शक्ता त्वां विना स्थातुम्। तया तु नश्यतस्तेवलम्बनार्थं हस्तः क्षिप्तो नान्यकारणेन। तदागच्छ। सा त्वत्कृते प्रायोपवेशन उपविष्टा तिष्ठति। एतद्वदति। यल्लम्बकर्णो यदि मे भर्ता न भवति तदहमग्नौ जले वा प्रविशामि विषं वा भक्षयामि। पुनस्तस्य वियोगं सोढुं न शक्नोमि। तत्प्रसादं कृत्वा तत्रागम्यतामिति। नो चेत्तवस्त्रीहत्या भविष्यति। अपरं च भगवान्कामः कोपं तव करिष्यति। उक्तं च।
स्त्रीमुद्रां झषकेतनस्य महतीं सर्वार्थसंपत्करीं
ये मूढाः प्रविहाय यान्ति कुधियो मिथ्याफलान्वेषिणः।
ते तेनैव निहत्य निर्दयतरं नग्नीकृता मुण्डिताः
केचिद्रक्तपटीकृताश्च जटिलाः कापालिकाश्चापरे॥३४॥
अथासौ तद्वचनं श्रद्धेयतया श्रुत्वा भूयोऽपि तेन सह प्रस्थितः। अथवा साध्विदमुच्यते।
जानन्नपि नरो दैवात्प्रकरोति विगर्हितम्।
कर्म किं कस्यचिल्लोके गर्हितं रोचते कथम्॥३५॥
अवान्तरे सज्जितक्रमेण सिंहेन स लम्बकर्णो व्यापादितः। ततस्तं हत्वा शृगालं रक्षपालं निरूप्य स्वयं स्नानार्थं नद्यां गतः। शृगालेनापि लौल्यौत्सुक्यात्तस्य कर्णहृदयं भक्षितम्। अत्रान्तरे सिंहो यावत्स्नात्वा कृतदेवार्चनः प्रतर्पितपितृगणः समायाति तावत्कर्णहृदयरहितो रासभस्तिष्ठति। तं दृष्ट्वा कोपपरीतात्मा सिंहः शृगालमाह। आः पाप किमिदमनुचितं कर्म समाचरितं यदस्य कर्णसहितं हृदयं भक्षितम्। शृगाल आह। स्वामिन् मा मैवं वद यत्कर्णहृदयरहितोऽयं रासभ आसीत्। तेनेहागत्य त्वामवलोक्य भूयोऽप्यागतः। अथ तद्वचनं श्रद्धेयं श्रुत्वा सिंहस्तेनैव सह संविभज्य निःशङ्कितमनास्तं भक्षितवान्।
अतोऽहं ब्रवीमि।
आगतश्च गतश्चैव दृष्ट्वा सिंहपराक्रमम्।
अकर्णहृदयो मूर्खस्तेन मृत्युवशं गतः॥३६॥
तन्मूर्ख कपटं कृतं त्वया। परं युधिष्ठिरेणेव सत्यवचनेन विनाशितम्। अथवा साध्विदमुच्यते।
स्वार्थमुत्सृज्य यो दम्भी सत्यं ब्रूते स मन्दधीः।
स स्वार्थाद्भ्रश्यते नूनं युधिष्ठिर इवापरः॥३७॥
मकर आह। कथमेतत्। स आह।
<MISSING_FIG href=”../books_images/U-IMG-1722966411Annotation2024-08-06205418.png"/>
कथा ३.
कस्मिंश्चिदधिष्ठाने कुम्भकारः प्रतिवसति स्म। स कदाचित्प्रमदोऽर्धभग्नकर्परतीक्ष्णाग्रस्योपरि महता वेगेन धावन्पतितः। ततः कर्परकोट्यापाटितललाटो रुधिरप्लाविततनुः कृच्छ्रादुत्थाय स्वाश्रयं गतः। ततश्चापथ्यसेवनात्स प्रहारस्तस्य करालतां गतः कृच्छ्रेण नीरोगतां नीतः। अथ कदाचिद्दुर्भिक्षपीडिते देशे स कुम्भकारः क्षुत्क्षामकण्ठः कैश्विद्राजसेवकैः सह देशान्तरं गत्वा कस्यापि राज्ञः सेवको बभूव। सोऽपि राजा तस्य ललाटे विकरालं प्रहारक्षतं दृष्ट्वा चिन्तयामास। यद्वीरः पुरुषः कश्चिदयम्। नूनं तेन ललाटपट्टे सम्मुखप्रहारः। अतस्तं संमानादिभिः सर्वेषां राजपुत्राणां सकाशाद्विशेषप्रसादेन पश्यति। तेऽपि राजपुत्रास्तस्य तं प्रसादातिरेकं पश्यन्तः परमेर्ष्याधर्मं वहन्तो राजभयान्न किंचिदूचुः। अथान्यस्मिन्नहनि तस्य भूपतेर्वीरसंभावनायां क्रियमाणायां विग्रहे समुपस्थिते प्रकल्प्यमानेषु गजेषु संनह्यमानेषु वाजिषु योधेषु प्रगुणीक्रियमाणेषु तेन भूभुजा स कुलालः प्रस्तावानुगतं पृष्टो निर्व्यञ्जने। यद्भो राजपुत्र कस्मिन्संग्रामे प्रहारोऽयंललाटे लग्नः। स आह। देव नायं शस्त्रप्रहारः। कुलालोऽहं प्रकृत्या। मद्गेहेऽनेककर्पराण्यासन्। अथ कदाचिन्मद्यपानं कृत्वा निर्गतः प्रधावन्कर्परोपरि पतितः। तस्य प्रहारविकारोऽयं मे ललाट एवं विकरालतां गतः। तदाकर्ण्य राजा सव्रीडमाह। अहो वञ्चितोऽहं राजपुत्रानुकारिणानेन कुलालेन। तद्दीयतां द्रागेतस्य चन्द्रार्धः। तथानुष्ठिते कुम्भकार आह। मा मैवं कुरु। पश्य मे रणे हस्तलाघवम्। राजा प्राह। भोः सर्वगुणसंपन्नो भवान्। तथापि गम्यताम्। उक्तं च।
शूरश्च कृतविद्यश्व दर्शनीयोसि पुत्रक।
यस्मिन्कुले त्वमुत्पन्नो गजस्तत्र न हन्यते॥३८॥
<MISSING_FIG href="../books_images/U-IMG-1722966393Annotation2024-08-06205418.png"/>
कथा ४.
कुलाल आह। कथमेतत्। राजा प्राह। कस्मिंश्चिद्वनोद्देशे सिंहदंपती प्रतिवसतः स्म। अथ सिंही पुत्रद्वयमजीजनत्। सिंहोऽपि नित्यमेव मृगान्व्यापाद्य सिंह्या ददाति। अथ कदाचित्तेन किमपि नासादितम्। वने भ्रमतोऽपि तस्य रविरस्तंगतः। अथ तेन स्वगृहमागच्छता शृगालशिशुः प्राप्तः। स च बालकोऽयमिति मत्वा यत्नेन दंष्ट्रामध्यगतं कृत्वा सिंह्या जीवन्तमपि समर्पितवान्। ततः सिंह्याभिहितम्। भोः कान्त आनीतं किंचिदस्माकं भोजनम्, सिंह आह। प्रिये मयाद्यैनं शृगालशिशुं परित्यज्य न किंचित्सत्त्वमासादितम्। स च मया बालोऽयमिति मत्वा न व्यापादितः। उक्तं च।
स्त्रीलिङ्गिविप्रबालानां प्रहर्तव्यं न कर्हिचित्।
प्राणत्यागेऽपि संजाते विश्वस्तानां विशेषतः॥३९॥
इदानीमेनं भक्षयित्वा पथ्यं कुरु। प्रभातेऽन्यदुपार्जयिष्यामि। साह। भोः कान्त त्वया बालकोऽयमिति मत्वा न व्यापादितः। तदहं कथं स्वोदरार्थे व्यापादयामि। उक्तं च।
अकृत्यं नैव कृत्यं स्यात्प्राणत्यागेऽपि संस्थिते।
न च कृत्यं विमुञ्चेत एष धर्मः सनातनः॥४०॥
तस्मान्ममायं तृतीयः पुत्रो भविष्यति। इत्युक्त्वा तमपि स्वस्तनक्षीरेण पुष्टिमनयत्। एवं ते त्रयोऽपि शिशवः परस्परमज्ञातजातिविशेषा एकत्र विहारिणो बाल्यमतिवाहयन्ति। अथ कदाचित्तत्र वने भ्राम्यन्वनगजो दृष्टः। तं दृष्ट्वा तौ सिंहसुतौ द्वावपि कुपिताननौ तं प्रति प्रचलितौ यावत्तावत्तेन शृगालसुतेनाभिहितम्। अहो गजोऽयं युष्मत्कुलशत्रुः। तन्न गन्तव्यमेतस्याभिमुखम्। एवमुक्त्वा गृहं प्रधावितः। तावपि ज्येष्ठत्रासान्निरुत्साहतां गतौ। अथवा साध्विदमुच्यते।
एकेनापि सुधीरेण सोत्साहेन रणं प्रति।
सोत्साहं जायते सैन्यं भग्नेभङ्गमवाप्नुयात्॥४१॥
अत एव हि वाञ्छन्ति भूपा योधान्महाबलान्।
शूरान्धीरान्कृतोत्साहान्वर्जयन्ति च कातरान्॥४२॥
ततो द्वावपि पित्रोरग्रतो विहसन्तौ ज्येष्ठभ्रातृचेष्टितमूचतुर्यथा गजं दृष्ट्वा दूरतोऽपि नष्टः। सोऽपि तदाकर्ण्य कोपाविष्टः प्रस्फुरिताधरपल्लवस्ताम्रलोचनस्त्रिशिखीं भ्रुकुटीं कृत्वा तौ निर्भर्त्सयन्परुतरषवचनान्युवाच। ततः सिंह्यैकान्ते नीत्वा प्रबोधितः। वत्स मैवं कदाचिज्जल्प भवदीयलघुभ्रातरावेतौ। अथासौ प्रभूतकोपाविष्टस्तामित्युवाच। किमहमेताभ्यां शौर्यरूपेण विद्याभ्यासेन वा न्यूनो येन मामुपहसतः। तन्मयावश्यमेतौ व्यापादनीयौ। तदाकर्ण्य सिंही तस्य जीवितमिच्छन्ती प्राह।
शूरोऽसि कृतविद्योऽसि दर्शनीयोऽसि पुत्रक।
यस्मिन्कुले त्वमुत्पन्नो गजस्तत्र न हन्यते॥४३॥
परं शृगालसुतस्त्वं कृपया मया स्वकीयक्षीरपानेन पुष्टिं नीतः। तद्यावन्नैतौ त्वां शृगालं जानीतस्तावद्द्रुतं गत्वा स्वजातिमध्ये भव। नो चेदाभ्यां हतो मृत्युपथं समेष्यसि। सोऽपि तद्वचनं श्रुत्वा भयव्याकुलमनाः क्षणात्प्रनष्टः।
तस्मात्त्वमपि यावदेते राजपुत्रास्त्वां कुलालं न जानन्ति तावद्द्रुततरं गच्छ। नो चेदेतेषां सकाशाद्विडम्बनां प्राप्स्यसि। कुलालोऽपि तदाकर्ण्य द्रुततरं प्रनष्टः।
अतोऽहं ब्रवीमि। युधिष्ठिर इव सत्यवचनात्त्वं तामापदमापन्नः। तद्भो दुष्ट मकर त्वमपि कुलालवत्स्ववचनेन प्रकटीकृतः। उक्तं च।
आत्मनो मुखदोषेण बध्यन्ते शुकसारिकाः।
बकास्तत्र न बध्यन्ते मौनं सर्वार्थसाधनम्॥४४॥
उक्तं च।
सुगुप्तं रक्ष्यमाणोऽपि दर्शयन्दारुणं वपुः।
व्याघ्रचर्मप्रतिच्छन्नो वाक्कृते रासभो हतः॥४५॥
मकर आह। कथमेतत्। स आह।
<MISSING_FIG href="../books_images/U-IMG-1722966324Annotation2024-08-06205418.png"/>
कथा ५.
अस्ति कस्मिंश्चिदधिष्ठाने शुद्धपटो नाम रजकः प्रतिवसति स्म। तस्यैको रासभोऽस्ति। सोऽपि घासाभावादतिदुर्बलः। अथ तेन रजकेन क्वापि व्याघ्रचर्म प्राप्तम्। ततश्चाचिन्तयत्। अहो शोभनमापतितम्। एतच्चर्म परिधाप्य रासभं रात्रौ यावत्क्षेत्रेषूत्सृजामि येन व्याघ्रं मत्वा समीपवर्तिनः क्षेत्रान्न निष्कासयन्ति। तथानुष्ठिते रासभो रात्रौ यथेच्छया यवभक्षणं करोति। रात्रिशेषेऽपि भूयो रजकः स्वाश्रयं नयति। एवं गच्छता कालेन स रासभः पीवरतनुर्जातः। कृच्छ्राद्बन्धनमपि नीयते। अथान्यस्मिन्नहनि स मदोद्धतो दूराद्रासभीशब्दं शृण्वंस्तारस्वरेण शब्दायितुमारब्धः। अत्र ते क्षेत्रपा रासभोऽयं व्याघ्रचर्मप्रतिच्छन्न इति मत्वा लकुटपाषाणशरप्रहारैस्तं व्यापादितवन्तः।
अतोऽहं ब्रवीमि।
सुगुप्तं रक्ष्यमाणोपि दर्शयन्दारुणं वपुः।
व्याघ्रचर्मप्रतिच्छन्नो वाक्कृते रासभो हतः॥४६॥
तत्किं श्यामलकवदत्यपमानसहनादर्धचन्द्रदानेन यास्यसि। मकर आह। कथमेतत्। स प्राह।
<MISSING_FIG href="../books_images/U-IMG-1722966345Annotation2024-08-06205418.png"/>
कथा ६.
अस्त्यत्र धरापीठे विकण्टकं नाम पुरम्। तत्र महाधन ईश्वरो नाम भाण्डपतिः। तस्य चत्वारो जामातृका अवन्तीपीठात्प्राघूर्णका विकण्टकपुरे समायाताः। ते च तेन महता गौरवेणाभ्यर्चिता भोजनाच्छादनादिभिः। एवं तेषां तत्र वसतां मासषट्कंसंजातम्। तत ईश्वरेण स्वभार्योक्ता। यदेते जामातरः परमगौरवेणावर्जिताः स्वानि गृहाणि न गच्छन्ति। तत्किं कथ्यते। विनापमानं न यास्यन्ति। तदद्य भोजनवेलायां पादप्रक्षालनार्थं जलं न देयं येनापमानं ज्ञात्वा परित्यज्य गच्छन्तीति। तथानुष्ठिते गर्गः पादप्रक्षालनापमानात्सोमो लघ्वासनदानाद्दत्तः कदशनतो यातः। एवं ते त्रयोऽपि परित्यज्य गताः। चतुर्थः श्यामलको यावन्न याति तावदर्धचन्द्रप्रदानेन निष्कासितः। अतोऽहं ब्रवीमि।
गर्गे हि पादशौचाल्लघ्वासनदानतो गतः सोमः।
दत्तः कदशनभोज्याच्छ्यामलकश्चार्धचन्द्रेण॥४७॥ इति।
तत्किमहं रथकारवन्मूर्खो यतः स्वयमपि दृष्ट्वा ते विकारं पश्चाद्विश्वसिमि। उक्तं च।
प्रत्यक्षेऽपि कृते पापे मूर्खः साम्ना प्रशाम्यति।
रथकारः स्वकां भार्यां सजारां शिरसावहत्॥ ४८॥
मकर आह। कथमेतत्। स आह।
<MISSING_FIG href="../books_images/U-IMG-1722966301Annotation2024-08-06205418.png"/>
कथा ७.
कस्मिंश्चिदधिष्ठाने कश्चिद्रथकारः प्रतिवसति स्म। तस्य भार्या पुंश्चली जनापवादसंयुक्ता। सोऽपि तस्याः परीक्षार्थं व्यचिन्तयत्। कथं मयास्याः परीक्षणं कार्यम्। न चैतद्युज्यते कर्तुम्। यतः।
नदीनां च कुलानां च मुनीनां च महात्मनाम्।
परीक्षा न प्रकर्तव्या स्त्रीणां दुश्चरितस्य च॥४९॥
वसोर्वीर्योत्पन्नामभजत मुनिर्मत्स्यतनयां
तथा जातो व्यासः शतगुणनिवासः किमपरम्।
स्वयं वेदान्व्यस्यञ्छमितकुरुवंशप्रसविता
स एवाभूच्छ्रीमानहह विषमाः कर्मगतयः॥५०॥
कुलानामिति पाण्डवानामपि महात्मनां नोत्पत्तिरधिगन्तव्या यतः क्षेत्रजा इति। स्त्रीदुश्चरितं संधुक्ष्यमाणमनेकदोषान्प्रकटयति स्त्रीणामिति। तथा च।
यदि स्यात्पावकः शीतः प्रोष्णो वा शशलाच्छनः।
स्त्रीणां तदा सतीत्वं स्याद्यदि स्याद्दुर्जनो हितः॥५१॥
तथापि शुद्धामशुद्धां वापि जानामि लोकवचनात्। उक्तं च।
यन्न वेदेषु शास्त्रेषु न दृष्टं न च संश्रुतम्।
तत्सर्वं वेत्ति लोकोऽयं यत्स्याद्ब्रह्माण्डमध्यगम्॥५२॥
एवं संप्रधार्य तामवोचत्। प्रिये अहं प्रातर्ग्रामान्तरं यास्यामि। तत्र दिनानि कतिचिल्लगिष्यन्ति। तत्त्वया किंचित्पाथेयं मम योग्यं कार्यम्। सापि तदाकर्ण्य हर्षितचित्तौत्सुक्येन सर्वकार्याणि संत्यज्य सिद्धमन्नं घृतशर्कराप्रायमकरोत्। अथवा साध्विदमुच्यते।
दुर्दिवसे घनतिमिरे दुःसंचारासु नगरवीथीषु।
पत्यौ विदेशयाते परमसुखं जघनचपलायाः॥५३॥
अथासौ प्रत्यूष उत्थाय स्वगृहान्निर्गतः। सापि तं प्रस्थितंविज्ञाय प्रहसितवदनाङ्गसंस्कारं कुर्वाणा कथंचित्तं दिवसमत्यवाहयत्। ततश्च परिचितं कंचिद्विटगृहं गत्वाभ्यर्थ्योयक्तवती। यद्ग्रामान्तरं गतः स दुरात्मा मे पतिः। तदद्य त्वयास्मद्गृहे प्रसुप्तजने समागन्तव्यम्। तथानुष्ठिते स रथकारोऽप्यरण्ये दिनमतिवाह्य प्रदोषे स्वगृहमपरद्वारेण प्रविष्टः शय्यातले निभृतो भूत्वा स्थितः। अत्रान्तरे स देवदत्तः शयन आगत्योपविष्टः। तं दृष्ट्वा रथकारो रोषाविष्टचित्तो व्यचिन्तयत्। किमेनमुत्थाय विनाशयाम्यथवा द्वावप्येतौ सुप्तौहेलया हन्मि। परं पश्यामि तावच्चेष्टितमस्याः शृणोमि चानेन सहालापान्। अथान्तरे सा गृहद्वारं निभृतं विधाय शयनतलमारूढा। तस्यास्तच्छयनमारोहन्त्या रथकारशरीरे पादो लग्नः। ततो व्यचिन्तयत्। नूनमेतेन दुरात्मना रथकारेण मत्परीक्षणार्थं भाव्यम्। तत्स्त्रीचरित्रविज्ञानं करोमि। एवं तस्याश्चिन्तयन्त्याः स देवदत्तः स्पर्शोत्सुको बभूव। ततश्चतथा कृताञ्जलिपुट्याभिहितम्। यन्महानुभाव त्वया न मे गात्रं स्प्रष्टव्यं यतोऽहं पतिव्रता महासती च। नो चेच्छापं दत्त्वा त्वां भस्मसात्करिष्यामि। स आह। यद्येवं तत्किमर्थमहं त्वयात्त्रानीतः। सा प्राह। भोः शृण्वेकाग्रमनाः। अहमद्य प्रत्यूषे देवतादर्शनार्थं चण्डिकायतनं गता। तत्राकस्मिकी खे वाणी संजाता। पुत्रि किं करोमि। भक्तासि मे त्वम्। परं षण्मासाभ्यन्तरे विधिनियोगाद्विधवा भविष्यसि। ततो मयाभिहितम्। यद्भगवति यथा त्वमेतज्जानासि तथा प्रतीकारमपि वेत्सि। तदस्ति कश्चिदुपायो येन मे पतिः शतसंवत्सरजीवी भवति। ततस्तयाभिहितम्। वत्से सन्नपि नास्ति यतस्तवायत्तः स प्रतीकारः। तच्छ्रुत्वा मयोक्तम्। देवि यन्मत्प्राणैर्भवति तदादेशय। करोमि। ततो देव्याभिहितम्। यदि परपुरुषेण सहैकस्मिञ्छयने समारुह्यालिङ्गनं करोषि तत्तव भर्तृसक्तोपमृत्युस्तस्य संचरति त्वद्भर्ता पुनरन्यद्वर्षशतद्वयं जीवति। तेन मया त्वमभ्यर्थितः। ततो यकिंचित्कर्तुमनास्तत्कुरुष्व। न हि देवतावचनमन्यथा भविष्यतीति मे निश्चयः। सोऽपि रथकारो मूर्खस्तस्यास्तद्वचनमाकर्ण्य पुलकाङ्किततनुः शय्यातलान्निष्क्रम्य तामुवाच। साधु पवित्रे पतिव्रते साधु कुलनन्दिनि साधु। अहं दुर्जनवचनशङ्कितहृदयस्त्वत्परीक्षार्थं ग्रामान्तरव्याजं कृत्वात्र निभृतं खट्टातले लीनः स्थितः। तदेवालिङ्गय माम्। एवमुक्त्वा तामालिङ्गय स्वस्कन्धे कृत्वा तं देवदत्तमप्युवाच। भो महानुभाव मत्पुण्यैस्त्वमिहागतः। त्वत्प्रसादात्प्राप्तमद्य मया वर्षशतद्वयप्रमाणमायुः। ततस्त्वमपिमां समालिङ्ग्यस्कन्धं मे समारोह। इति जल्पन्ननिच्छन्तमपि देवदत्तं बलादालिङ्ग्यस्कन्धे समारोपितवान्। ततश्च तूर्यध्वनिच्छन्देन नृत्यन्सकलगृहद्वारेषु बभ्राम। अतोऽहं ब्रवीमि।
प्रत्यक्षेऽपि कृते पापे मूर्खः साम्नाप्रशाम्यति।
रथकारः स्वकां भार्या सजारां शिरसावहत्॥५४॥
तन्मूढ दृष्टविकारस्त्वम्। तत्कथं तव गृहं गच्छामि। अथवा
यन्मां त्वं विश्वासयतितत्ते दोषो नास्ति यत ईदृशी स्वभावदुष्टा युष्मज्जातिर्या शिष्टसङ्गादपि सौम्यत्वं न याति। अथवा स्वभावोऽयं दुष्टानाम्। उक्तं च।
सद्भिः संबोध्यमानोऽपि दुरात्मा पापपौरुषः।
घृष्यमाण इवाङ्गारो निर्मलत्वं न गच्छति॥५५॥
अथवा साध्विदमुच्यते।
सूर्ये भर्तारमुत्सृज्य पर्जन्यं मारुतं गिरिम्।
स्वयोनिं मूषिका प्राप्ता स्वजातिर्दुरतिक्रमा॥५६॥
मकर आह। कथमेतत्। सोऽब्रवीत्।
<MISSING_FIG href="../books_images/U-IMG-1722966275Annotation2024-08-06205418.png"/>
कथा ८.
अस्ति कस्मिंश्चिदधिष्ठाने तपोवने शालङ्कायनो नाम तपोधनो जाह्नव्यां स्नानार्थं गतः। तस्य च सूर्योपस्थानं कुर्वतस्तत्र प्रदेशे मूषिका काचित्खरतरनखाग्रपुटेन श्येनेन गृहीता। तां दृष्ट्वा स मुनिः करुणार्द्रहृदयो मुञ्च मुञ्चेति कुर्वाणस्तस्य पाषाणखण्डं प्राक्षिपत्। सोऽपि पाषाणखण्डप्रहारव्याकुलेन्द्रियो भ्रष्टभूषिको भूमौ निपपात। मूषिकापि भयत्रस्ता कर्तव्यमजानती रक्ष रक्षेति जल्पन्ती मुनिचरणान्तिकमुपाविशत्। श्येनेनापि चेतनां लब्ध्वा मुनिरुक्तः। यद्भो मुने न युक्तमनुष्ठितं भवता यदहं पाषाणेन ताडितः। किं त्वमधर्मान्न बिभेषि। तत्समर्पय ममैनां मूषिकाम्। नो चेत्प्रभूतं पातकमवाप्स्यसि। इति ब्रुवाणं श्येनं प्रोवाच सः। भो विहंगाधम रक्षणीयाः प्राणिनां प्राणाः। दण्डनीया दुष्टाः। संमाननीयाः साधवः। पूजनीया गुरवः। स्तुत्या देवाः। तत्किमसंबद्धं प्रजल्पसि। श्येन आह। मुने न त्वं सूक्ष्मधर्मं वेत्सि। इह हि सर्वेषां प्राणिनां विधिना सृष्टिं कुर्वताहारो।पि विनिर्मितः। ततो यथा भवतामन्नं तथास्माकं मूषिकादयो विहिताः। तत्स्वाहारकाङ्क्षिणं मां किं दूषयसि। उक्तं च।
यद्यस्य विहितं भोज्यं न तत्तस्य प्रदुष्यति।
अभक्ष्ये बहुदोषः स्यात्तस्मात्कार्यो न व्यत्ययः॥५७॥
मद्यं यथा द्विजातीनां मद्यपानां यथा हविः।
भक्ष्यमभक्ष्यतामेति तथान्येषामपि द्विज॥५८॥
भक्ष्यं भक्षयतां श्रेयो अभक्ष्यं तु महदघम्।
तत्कथं मां वृथाचारं त्वं दण्डयितुमर्हसि॥५९॥
अपरं मुनीनां न चैष धर्मो यतस्तैर्दृष्टमदृष्टं श्रुतमश्रुतमलौल्यत्वमशत्रुत्वं प्रशस्यते। उक्तं च।
समः शत्रौ च मित्रे च समलोष्टाश्मकाञ्चनः।
सुहृन्मित्रे ह्युदासीनो मध्यस्थो द्वेष्यबन्धुषु॥६०॥
साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते।
साधूनां निरवद्यानां सदाचारविचारिणाम्॥६१॥
योगी युञ्जीत सततमात्मानं रहसि स्थितः। तत्त्वमनेन कर्मणा भ्रष्टतपाः संजातः।
उक्तं च।
मुञ्च मुञ्च पतत्येको मा मुञ्चेति द्वितीयकः।
उभयोः पतनं दृष्ट्वा मौनं सर्वार्थसाधनम्॥६२॥
शालङ्कायन आह। कथमेतत्। श्येन आह।
<MISSING_FIG href="../books_images/U-IMG-1722966256Annotation2024-08-06205418.png"/>
कथा ९.
कस्मिंश्चिन्नदीतट एकतद्वितत्रिताभिधानास्त्रयोऽपि भ्रातरो मुनयस्तपः कुर्वन्ति। तेषां च तपः प्रभावादाकाशस्था धौतपोतिका निरालम्बा जलार्द्रा भूस्पर्शनभयेन स्नानसमये तिष्ठन्ति। अथान्येद्युर्मयेव काचिन्मण्डूकिका केनापि गृध्रेण बलेन नीता। अथ तां गृहीतां विलोक्य तेषां ज्येष्ठेन करुणार्द्रहृदयेन भवतेव व्याहृतम्। मुञ्च मुञ्चेति। अत्रान्तरे तस्य धौतपोतिकाकाशाद्भूमौ पतिता। तां पतितां दृष्ट्वा द्वितीयेन तद्भयार्त्तेन मा मुञ्च मा मुञ्चेत्यभिहितं यावत्तावत्तस्यापि पपात। ततस्तृतीयो द्वयोरपि धौतपोतिकां भूमौ पतितां दृष्ट्वा तूष्णीं बभूव। अतोऽहं ब्रवीमि।
मुञ्च मुञ्च पतत्येको मा मुञ्चेति द्वितीयकः।
उभयोः पतनं दृष्ट्वा मौनं सर्वार्थसाधनम्॥६३॥
तच्छ्रुत्वा मुनिर्विहस्याह। भो मूर्ख विहंगम कृतयुगे धर्मः स आसीत्। यतः कृतयुगे पापालापतोपि पापं जायते तेन धौतपोतिके पतिते अशिष्टालापेन न सदपवचनदोषतः। एष पुनः कलियुगः। अत्र सर्वोऽपि पापात्मा। तत्कर्म कृतं विना पापं न लगति। उक्तं च।
संचरन्तीह पापानि युगेष्वन्येषु देहिनाम्।
कलौ तु पापसंयुक्ते यः करोति स लिप्यते॥६४॥
उक्तं च।
आसनाच्छयनाद्यानात्संगतेश्चापि भोजनात्।
कृते संचरते पापं तैलबिन्दुरिवाम्भसि॥६५॥
तत्किं वृथाप्रलपितेन। गच्छ त्वम्। नो चेच्छापयिष्यामि। अथ गते श्येने मूषिकया स मुनिरभिहितः। भगवन् नय मां स्वाश्रयम्। नो चेदन्यो दुष्टपक्षी कश्चिन्मां व्यापादयिष्यति। तदहं तत्रैवाश्रये त्वद्दत्तान्नाहारमुष्ट्या कालं नेष्यामि। सोऽपि दाक्षिण्यवान्सकरुणो व्यचिन्तयत्। कथं मया मूषिका हस्ते धृता नेया जनहास्यकारिणी। तदेनां कुमारिकां कृत्वा नयामि। एवं सा कन्यका कृता। तथानुष्ठिते कन्यासहितं मुनिमवलोक्य पत्नी पप्रच्छ। भगवन् कुत इयं कन्या। स आह। एषामूषिका श्येनभयाच्छरणार्थिनी कन्यारूपेण तव गृहमानीता। तत्त्वया यत्नेन रक्षणीया। भूयोऽप्येनां मूषिकां करिष्यामि। सा प्राह। भगवन् मैवं कार्षीः। अस्यास्त्वं धर्मपिता। उक्तं च।
जनिता चोपनेता च यस्तु विद्यां प्रयच्छति।
अन्नदाता भयत्राता पञ्चैते पितरः स्मृताः॥६६॥
तत्त्वयास्याः प्राणाः प्रदत्ताः। अपरं ममाप्यपत्यं नास्ति। तस्मादेषा मम सुता भविष्यति। तथानुष्ठिते सा कन्यका शुक्लपक्षचन्द्रकलिकेव नित्यमेव वृद्धिं प्राप्नोति। सापि तस्य मुनेः शुश्रूषां कुर्वती सपत्नीकस्य यौवनमाश्वयात्। अथ तां यौवनोन्मुखीमवलोक्य शालङ्कायनः स्वपत्नीमुवाच। प्रिये यौवनोन्मुखी वर्तत इयं कन्या। अनर्हा सांप्रतं मद्गृहवासस्य। उक्तं च।
अनूढा मन्दिरे यस्य रजः प्राप्नोति कन्यका।
पतन्ति पितरस्तस्य स्वर्गस्था अपि तैर्गुणैः॥६७॥
तत्कस्मैचिच्छ्रेष्ठवराय प्रदीयते। उक्तं च।
वरं वरयते कन्या माता वित्तं पिता श्रुतम्।
बान्धवाः कुलमिच्छन्ति मिष्टान्नमितरे जनाः॥६८॥
तथा च।
यावन्न लज्जते कन्या यावत्क्रीडति पांसुना।
यावत्तिष्ठति गोमार्गे तावत्कन्यां विवाहयेत्॥६९॥
माता चैव पिता चैव ज्येष्ठभ्राता तथैव च।
त्रयस्ते नरकं यान्ति दृष्ट्वाकन्यां रजस्वलाम्॥७०॥
तथा च।
कुलं च शीलं च सनाथतां च विद्यां च वित्तं च वपुर्वयश्च।
एतान्गुणान्सप्त परीक्ष्य देया कन्या बुधैःशेषमचिन्तनीयम्॥७१॥
अन्यच्च।
दूरस्थानामविद्यानां मोक्षधर्मानुवर्तिनाम्।
शूराणां निर्धनानां च न देया कन्यका बुधैः॥७२॥
तद्यद्यस्या रोचते तद्भगवन्तमादित्यमाकार्य तस्मै प्रयच्छामि। उक्तं च।
अनिष्टः कन्यकाया यो वरो रूपान्वितोऽपि यः।
यदि स्यात्तस्य न देया कन्या श्रेयोऽभिवाञ्छता॥७३॥
साह। को दोषोऽत्र विषये। एवं क्रियताम्। अथ मुनिना समाहूतः सविता तत्क्षणमेवाभ्युपेत्य प्रोवाच। भगवन् वद द्रुतं किमर्थमहमाहूतः। स आह। एषा मत्कन्या यदि त्वां वृणोति तद्विवाहय। एवमुक्त्वा स भगवांस्तस्या दर्शितः। प्रोवाच च। पुत्रि किं तव रोचत एष भगवांस्त्रैलोक्यदीपः। सा प्राह। तात अतिदहनात्मकोऽयम्। नाहमेनमभिलषामि। अस्मादपि यः कश्चिदुत्कृष्टतरः स आहूयताम्। अथ तस्यास्तद्वचनमाकर्ण्य भास्वरोऽपि तां मूषिकां विदित्वा निःस्पृहस्तमुवाच। भगवन् अस्ति ममाप्युत्तमो मेघो येनाच्छादितस्य मे नामापि न ज्ञायते। अथ मुनिना मेघोप्याहूतः। एष रोचते। सा मुनिमाह। यन्मां मेघादपि श्रेष्ठाय प्रयच्छ। अथ मेघोपि मुनिना पृष्टः। भोस्तवाभ्यधिकः कोप्यस्ति। स आह। यदस्ति ममाप्यधिको वायुः। वायुना हतोऽहं सहस्रधा यामि। तच्छ्रुत्वा मुनिना वायुराहूतः। आह च। एष उत्तमो वायुस्तव प्रतिभाति। स प्राह। तात प्रबलोऽप्ययं चञ्चलः। तदभ्यधिकः श्रेष्ठतर आनीयताम्। मुनिराह। भो वायो तत्राभ्यधिकोऽस्ति कश्चित्। स आह। ममाप्यधिकाः पर्वताः सन्ति यैः संस्तभ्य बलवन्तोऽपि वयं ध्रियामहे। अथ मुनिः पर्वतमाहूय कन्याया अदर्शयत्। पुत्रिके त्वामस्मै प्रयच्छामि। साह। तात कठिनात्मकोऽयम्। तदन्यस्य प्रदीयताम्। अथ स मुनिना पृष्टः। यद्भोः पर्वतराज तवाप्यधिकः कश्चिदस्ति। स आह। सन्ति ममाप्यधिका मूषका येऽस्मदेहं बलात्सर्वतो भेदयन्ति। तदाकर्ण्य मुनिर्मूषकमाहूय तस्या अदर्शयत्। पुत्रिके एष ते प्रतिभाति मूषकराजो येन यथोचितमनुष्ठीयते। सापि तं दृष्ट्वा स्वजातीयमिति मन्यमाना प्रोद्धृषितशरीरान्ता प्रोवाच। तात मां मूषिकां कृत्वास्मै मूषकाय प्रयच्छ येन स्वजातिविहितं गृहस्थधर्ममनुभवामि। तच्छ्रुत्वा तेन स्त्रीधर्मविचक्षणेन तां मूषिकां कृत्वा मूषकाय प्रदत्ता। अथवा साध्विदमुच्यते।
न सुवर्ण न रत्नानि न च राज्यपरिक्रियाम्।
तथा वाञ्छन्ति कामिन्यो यथाभीष्टतमं वरम्॥७४॥
तद्यथा सा मूषिका देवपदं त्यक्त्वा स्वजातिदोषेण नीचसंगमं गता तथा त्वमपि मया संगतोऽपि स्नेहगृहीतोऽपि स्वजातिधर्मदुष्टः संजातः। अतोऽहं ब्रवीमि।
सूर्यं भर्तारमुत्सृज्य पर्जन्यं मारुतं गिरिम्।
स्वजातिं मूषिका प्राप्ता स्वजातिर्दुरतिक्रमा॥७५॥
तन्मूर्ख स्त्रीलुब्ध स्त्रीजित अन्येऽपि ये त्वद्विधा भवन्ति ते स्वकार्यं विभवं मित्रं च परित्यजन्ति तत्कृते। उक्तं च।
या ममोद्विजते नित्यं साद्य मामवगूहते।
प्रियकारक भद्रं ते यन्ममास्ति हरस्व तत्॥७६॥
मकर आह। कथमेतत्। सोऽब्रवीत्।
<MISSING_FIG href="../books_images/U-IMG-1722966221Annotation2024-08-06205418.png"/>
कथा १०.
अस्ति कस्मिंश्चिदधिष्टाने कामार्तो नाम महाधनी वणिक्पुत्रो वृद्धः। तेन मृतभार्येण कामोपहतचेतसा काचिन्निर्धनस्य दुहिता प्रभूतवित्तं दत्त्वोद्वाहिता। अथ सा दुःखाभिभूता तं वृद्धतमं वणिजं वीक्षितुमपि न शक्नोति। अथवा साध्विदमुच्यते।
श्वेतं पदं शिरसि वीक्ष्य शिरोरुहाणां
स्थानं परं परिभवस्य तदेव पुंसाम्।
आरोपितास्थिशकलं परिहृत्य यान्ति
चाण्डालकूपमिव दूरतरं तरुण्यः॥७७॥
तथा च।
गात्रं संकुचितं गतिर्विगलिता दन्ताश्च नाशं गता-
श्चक्षुर्भ्राम्यति रूपमेव हसते वक्त्रं च लालायते।
वाक्यं नैव करोति बान्धवजनः पत्नी न शुश्रूषते
हा कष्टं जरयाभिभूतपुरुषः पुत्रैरवज्ञायते॥७८॥
अथ कदाचित्सा तेन सहैकशयने पराङ्गुखी स्थिता यावत्तिष्ठति तावत्तस्य गृहे चौरः प्रविष्टः। सापि तं चौरमवलोक्य भयव्याकुलमनास्तं वृद्धमप्यालिङ्गितवती। सोऽपि विस्मयात्पुलकाङ्कितसर्वगात्रश्चिन्तयामास। किमेषा मामद्यावगूहते। अहो चित्रमेतत्। ततश्च यावन्निपुणतयावलोकयति तावच्चौरः प्रविष्टः कोणैकदेशे तिष्ठति। पुनरचिन्तयत्। नूनमेषा चौरस्य शङ्कया मां समालिङ्गति। तज्ज्ञात्वा चौरमाह।
या ममोद्विजते नित्यं साद्य मामवगूहते।
प्रियकारक भद्रं ते यन्ममास्ति हरस्व तत्॥७९॥
भूयोपि निर्गच्छन्तमवादीत्। भो चोर नित्यमेव त्वया रात्रावागन्तव्यम्। मदीयोऽयं विभवस्त्वदीय इति। अतोऽहं ब्रवीमि।
या ममोद्विजते नित्यं साद्य मामवगूहते।
प्रियकारक भद्रं ते यन्ममास्ति हरस्व तत्॥८०॥
किंबहुना। तेन च स्त्रीलुब्धेन स्वं सर्वमपि चौरस्य समर्पितम्।
त्वयापि तथानुष्ठितम्। अथैवं तेन सह तस्य विवदतो जलचरेण केनाप्यागत्याभिहितम्। भो मकर त्वदीयभार्यानशनोपविष्टा त्वयि चिरयति प्रणयाभिभवाद्विषन्ना। सोपि तच्छ्रुत्वातीवव्याकुलमना व्यचिन्तयत्। अहो किमिदं संजातं मम मन्दभाग्यस्य। उक्तं च।
न गृहं गृहमित्याहुगृहिणी गृहमुच्यते।
गृहं तु गृहिणीहीनं कान्तारादतिरिच्यते॥८१॥
वृक्षमूलेऽपि दयिता यत्र तिष्ठति तद्गृहम्।
प्रासादोऽपि तया हीनो अरण्यसदृशः स्मृतः॥८२॥
तथा च।
माता यस्य गृहे नास्ति भार्या च प्रियवादिनी।
अरण्यं तेन गन्तव्यं यथारण्यं तथा गृहम्॥८३॥
तन्मित्र क्षम्यतां मया तेऽपराधः कृतः। संप्रत्यहं तद्वियोगाद्वह्निप्रवेशं करिष्यामि। तदाकर्ण्य वानरः प्रहस्य प्रोवाच। भो ज्ञातस्त्वं मया प्रथममेव यत्त्वं स्त्रीजितः स्त्रीवश्यश्च। सांप्रतं पुनः प्रत्ययः संजातः। तन्मूढ आनन्दे कार्ये त्वं कस्माद्विषादं गतः। तादृग्दुष्टभार्यायां मृतायामुत्सवः कर्तुं युज्यते। उक्तं च।
या भार्या दुष्टचरिता सततं कलहप्रिया।
भार्यारूपेण सा ज्ञेया विदग्धैर्दारुणा जरा॥८४॥
तस्मात्सर्वप्रयत्नेन नामापि परिवर्जयेत्।
स्त्रीणामिह हि सर्वासां य इच्छेत्सुखमात्मनः॥८५॥
के नाम न विनश्यन्ति मिथ्याज्ञानान्नितम्बिनीम्।
रम्यांबुद्ध्वोपसर्पन्ति ये ज्वालां शलभा इव॥८६॥
अन्तर्विषमया ह्येता बहिर्वृत्त्या मनोरमाः।
गुञ्जाफलसमाकाराः स्वभावादेव योषितः॥८७॥
यदन्तस्तन्न जिह्वायां यज्जिह्वायां न तद्बहिः।
यद्बहिस्तन्न कुर्वन्ति विचित्रचरिताः स्त्रियः॥८८॥
ताडिता अपि दण्डेन शस्त्रैरपि विखण्डिताः।
न वशं योषितो यान्ति न दानैर्न च संस्तवैः॥८९॥
आस्तां तावत्किमन्येन दौरात्म्येनात्र योषिताम्।
विधतं स्वोदरेणापि घ्नन्ति पुत्रमपि स्वकम्॥९०॥
रूक्षायां स्नेहसंभारं कठोरायां सुमार्दवम्।
नीरसायां रसं बालो बालिकायां विकल्पयेत्॥९१॥
मकर आह। भो अस्त्वेतत्। परं किं करोमि। अनर्थद्वयमेतत्संजातम्। एकस्तावद्गृहभङ्गोऽपरस्तु त्वद्विधेन मित्रेण सह चित्तविश्लेषः। अथवा भवत्येवं दैवोपहतानाम्। उक्तं च।
यादृशं मम पाण्डित्यं तादृशं द्विगुणं तव।
न जारो न च भर्ता च किं निरीक्षसि नग्निके॥९२॥
वानर आह। कथमेतत्। सोब्रवीत्।
<MISSING_FIG href="../books_images/U-IMG-1722966199Annotation2024-08-06205418.png"/>
कथा ११.
कस्मिंश्चिदधिष्ठाने हालिकदंपती प्रतिवसतः स्म। सा च हालिकपत्नी पतिवृद्धभावात्सदैवान्यचित्ता न किंचिदपि गृहे स्थैर्यमालम्बते। केवलं परपुरुषान्वेषणा भ्रमति। अन्यदा केनचित्परवित्तापहारकेण धूर्तेन सा लक्षिता विजने प्रोक्ता च। सुभगे मृतभार्योऽहं तव रूपलावण्यदर्शनेन हृदये स्मरबाणेन पीडितः। तद्दीयतां मे रतिदक्षिणा। ततस्तयाभिहितम्। भोः सुभग यद्येवं तदस्ति मे पत्युः प्रभूतं धनम्। स वृद्धभावात्प्रचलितुमसमर्थः। अतस्तद्धनमादायाहमागच्छामि। पश्चात्त्वया सहान्यत्र गत्वा यथेच्छं रतिसौख्यमनुभवामि। स आह। रोचते ममाप्येतत्। प्रत्यूषेऽत्र स्थाने समागन्तव्यं येन शुभतरं किंचिन्नगरं गत्वा त्वया सह जीवलोक सुखमनुभवामि। सापि तथेति प्रतिज्ञाय प्रहसितवदना स्वं गृहं गत्वा प्रसुप्तस्य पत्युः सर्वं धनं रात्रावादाय प्रत्यूषे तत्कथितस्थानमुपाद्रवत्। धूर्तोऽपि तामग्रेकृत्वा दक्षिणां दिशमाश्रित्य सत्वरगतिः प्रस्थितः। अथ तयोर्व्रजतोर्योजनद्वयमात्रेणाग्रतो नदीं समुपस्थितां दृष्ट्वा धूर्तश्चिन्तयामास। किमहमनया यौवनप्रान्ते वर्तमानया करिष्यामि। कदाचित्पृष्ठतः कश्चित्समागमिष्यति। तत्केवलं वित्तमादाय गच्छामि। इति निश्चित्य तामुवाच। प्रिये सुदुस्तरेयं नदी। तत्तावदहं द्रव्यमात्रं पारे धृत्वा समागच्छामि येन त्वामेकाकिनीं सुखेन पृष्ठमारोप्य नयामि। सा प्राह। भद्र एवं क्रियताम्। एवमुक्त्वा तस्मा अशेषं वित्तमर्पयामास। अथ तेनाभिहितम्। प्रिये परिधानवस्त्रमपि समर्पय येन जलमध्ये निःशङ्का व्रजसीति। तथानुष्ठिते केवलं वित्तमादाय वाञ्छितविषयं धूर्तोगतः। सापि कण्ठनिवेशितहस्तयुगला सोद्वेगा नदीतीरे यावदुपविष्टा तिष्ठति तावत्तत्रान्तरे काचिच्छृगालिका वदनगृहीतमांसपिण्डा तत्रागमत्। अथ यावत्पश्यति तावन्नदीतीरे महामत्स्यः सलिलान्निष्क्रम्य बहिः स्थितः। तं दृष्ट्वा सा मांसपिण्डमुत्सृज्य तं मत्स्यं प्रत्युपाद्रवत्। अत्रान्तरे गृध्रस्तं दृष्ट्वा मांसपिण्डमादाय च खमुत्पपात। मत्स्योपि शृगालिकां दृष्ट्वा नद्यां प्रविष्टः। अथ सा व्यर्थश्रमा तं गृध्रं विलोकयन्ती तथा देवदत्तया सस्मितमभिहिता।
गृध्रेणापि हृतं मांसं मत्स्योऽपि सलिलं गतः।
मत्स्यमांसपरिभ्रष्टे किं निरीक्षसि जम्बुके॥९३॥
तच्छ्रुत्वा कोपयुक्तया शृगाल्याभिहितम्।
यादृशं मम पाण्डित्यं तादृशं द्विगुणं तव।
न जारो न च भर्ता च किं निरीक्षसि नग्निके॥९४॥
एवं तस्य कथयतः पुनरन्येन जलचरेणागत्य निवेदितम्। यदहो त्वदीयं गृहमप्यपरेण महामकरेण संगृहीतम्। तच्छ्रुत्वासौ दुःखितमनास्तं गृहान्निःसारयितुमुपायं चिन्तयन्नाह। अहो पश्यत मे दैवम्।
मित्रं चामित्रतां यातमपरं मे प्रिया मृता।
गृहमन्येन च व्याप्तं किमद्यापि भविष्यति॥९५॥
अथवा युक्तमिदमुच्यते। छिद्रेष्वनर्था बहुलीभवन्तीति। तत्किं करोम्यनेन सह युद्धं किंवा साचैव संबोध्य गृहान्निःसारयामि किंवा भेददानं करोमि। अथवामुमेव वानरं मित्रं पृच्छामि। उक्तं च।
यः पृष्ट्वा कुरुते कार्यं प्रष्टव्यान्स्वान्हितान्गुरून्।
न तस्य जायते विघ्नः कस्मिंश्चिदपि कर्मणि॥९६॥
इति विचिन्त्य भूयोपि जम्बूपादपमारुढं कपिमपृच्छत्। भो मित्र पश्य मे मन्दभाग्यतां यत्संप्रति गृहमपि मे बलवन्मकरेण रुद्धम्। तदहं पृच्छामि। कथय किं करोमि। सामादीनामुपायानां मध्ये कस्यात्रविषयः। स आह। भोः कृतघ्नमया निषिद्धोऽपि किं भूयो मामनुसरसि। नाहं तव मूर्खस्योपदेशमपि ददामि। उक्तं च यतः।
उपदेशो न दातव्यो यादृशे तादृशे नरे।
पश्य वानरमूर्खेण सुगृही निर्गृही कृता॥९७॥
मकर आह। कथमेत्। सोऽब्रवीत्।
कथा १२.
कस्मिंश्चिदरण्ये वृक्षशाखाकृतकुलायौ पक्षिदंपती प्रतिवसतः स्म। अथ कदाचिन्मासेकालवृष्टिसमाहतासौम्यवातकम्पिततनुः कश्चिद्वानरस्तदेव वृक्षमूलमुपागतः सोऽपि दन्तवीणां वादयन्संकुचितकरचरणचटकयाभिहितः।
हस्तपादसमायुक्तो दृश्यसे पुरुषाकृतिः।
शीतवातहतो मूढ कथं न कुरुषे गृहम्॥९८॥
सोऽपि तदाकर्ण्य व्यचिन्तयत्। अहो आत्मसंतुष्टो जीवलोको यदेषा क्षुद्रचटकात्मानं बहु मन्यते।
स्वचित्तकल्पितो गर्वः कस्य नाम न विद्यते।
उत्क्षिप्य टिट्टिभी पादौ शेते भङ्गभयाद्दिवः॥९९॥
एवं विचिन्त्य तामाह।
सूचीमुखि दुराचारे रण्डे पण्डितमानिनि।
तूष्णीं भवकरिष्यामि नो चेत्त्वां निर्गृहीमहम्॥१००॥
एवं तेन निषिद्धापि पुनराश्रयकरणोपदेशेन तमुद्वेजयति। तदासौ तं वृक्षमारुह्य तस्याः कुलायं खण्डशः कृत्वा बभञ्ज। अतोऽहं ब्रवीमि।
उपदेशो न दातव्यो यादृशे तादृशे जने।
पश्य वानरमूर्खेण सुगृही निर्गृही कृता॥१०१॥
तच्छ्रुत्वा मकर आह। भो मित्र सापराधस्यापि मे कथय पूर्वस्नेहात्। वानर आह। नाहं करिष्यामि यतस्त्वयाहं भार्यावाक्येन समुद्रे प्रक्षेपणाय नीतः। तदेतन्न युक्तम्। यद्यपि भार्या सर्वलोकादपि वल्लभा भवति तथापि न मित्रवान्धवादयो भार्यावाक्येन समुद्रे प्रक्षिप्यन्ते। तन्मूर्खोमूढचेतनो यतस्त्वया स्त्रियोऽर्थमेतत्कार्यमनुष्ठातुमारब्धम्। न हि स्त्रीणां कथंचिद्विश्वासमुपगच्छेत्।
यदर्थं स्वकुलं त्यक्तं जीवितार्थे च हारितम्।
सा मां त्यजति निःस्नेहा कः स्त्रीणां विश्वसेन्नरः॥१०२॥
मकर आह। कथमेतत्। सोऽब्रवीत्।
<MISSING_FIG href="../books_images/U-IMG-1722966164Annotation2024-08-06205418.png"/>
कथा १३.
अस्ति कस्मिंश्चिदधिष्ठाने कोऽपि ब्राह्मणः। तस्य च प्रियातिप्राणप्रिया। सापि कुटुम्बेन समं प्रतिदिनं कलहं कुर्वाणा न क्षणमपि विश्राम्यति। सोऽपि ब्राह्मणः कलहमसहमानो भार्यावाल्लभ्यात्स्वकुटुम्बं परित्यज्य ब्राह्मण्या सह विप्रकृष्टदेशान्तरं गतः। अथ महाटवीमध्ये ब्राह्मण्याभिहितम्। यदार्यपुत्र तृषा मां बाधते। तदुदकं कुतोऽप्यानय। अथासौ तद्वचनानन्तरं यावदुदकं नीत्वागच्छति तावत्तां मृतामपश्यत्। अतिवल्लभतया विषादं कुर्वन्यावद्विलपति तावदाकाशे वाचं शृणोति। यदि भो ब्राह्मण त्वं स्वजीवितस्यार्धैददासि तत्ते जीवति ब्राह्मणी। तद्ब्राह्मणेन शुचीभूय तिसृभिर्वाचाभिः स्वजीवितार्धे दत्तम्। वाक्यसममेव जीविता सा ब्राह्मणी। अथ तौ जलं पीत्वा वनफलानि भक्षयित्वा गन्तुमारब्धौ। ततः क्रमेण कस्यचिन्नगरस्य प्रवेशे पुष्पवाटिकां प्रविश्य ब्राह्मणो भार्यामभिहितवान्। भद्रे यावदहं भोजनं गृहीत्वा समागच्छामि तावत्त्वयात्र स्थातव्यम्। इत्यभिधाय ग्रामं गतः। अथ तस्यां पुष्पवाटिकायां पङ्गुररघट्टं खेलयमानो दिव्यगिरा गीतमुद्गिरति। तच्च श्रुत्वा कुसुमेषुणाभिहतया तया तत्सकाशं गत्वाभिहितम्। भद्र यदि मां न कामयसे तन्मदीया स्त्रीहत्या तव। पङ्गराह। किं व्याधिग्रस्तेन मया करिष्यसि। साह। इतः प्रभृति यावज्जीवं मयात्मा भवतो दत्तः। इति ज्ञात्वा भवानप्यावाभ्यां सहागच्छतु। सोऽब्रवीत्। एवमस्तु। अथ ब्राह्मणो भोजनं गृहीत्वा समागत्य तया सह भोक्तुमारब्धः। साब्रवीत्। एष पङ्गुर्बुभुक्षितः। तदेतस्यापि कियन्तमपि ग्रासं देहीति। तथानुष्ठिते ब्राह्मण्याभिहितम्। भो विप्र सहायहीनस्त्वम्। यदा ग्रामान्तरं गच्छसि तदा मम वचनसहायोऽपि नास्ति। तत एनं पङ्गुंगृहीत्वा गच्छावः। सोऽब्रवीत्। त्वं न शक्नोप्यात्मानमात्मना वोढुं किं पुनरिमं पङ्गुम्। सा प्राह। यत्पेटाभ्यन्तरस्थमहं नेष्यामि। अथ तत्कृतकवचनव्यामोहितचित्तेन तेनापि प्रतिपन्नम्। तथानुष्ठिते चान्यस्मिन्दिने कूपोपकण्ठविश्रान्तो ब्राह्मणस्तया पङ्गुपुरुषासक्तया संप्रेर्य कूपान्तः पातितः। सापि पङ्गुंगृहीत्वा कस्मिंश्चिन्नगरे प्रविष्टा। तत्र च चौर्यरक्षानिमित्तं राजपुरुषैरितस्ततो भ्रमद्भिस्तन्मस्तकस्थां पेटां दृष्ट्वा बलादाच्छिद्य राज्ञोऽग्रेनीता। यावत्तामुद्घाटयति राजा तावत्पङ्गुंददर्श। ततः सा ब्राह्मणी विलापान्कुर्वती राजपुरुषपदैरेव तत्रागता राज्ञा पृष्टा। को वृत्तान्त इति। साब्रवीत्। ममैष भर्ता व्याधिग्रस्तो दायादसमूहैरुद्वेजितो मया स्नेहव्याकुलचित्तया शिरसि कृत्वा त्वत्सकाशमानीतः। एतच्छ्रुत्वा राजाब्रवीत्। यन्मम त्वं भगिनी। ग्रामद्वयं गृहीत्वा भर्त्रा सह भोगान्भुञ्जाना सुखेन तिष्ठ। अथ स ब्राह्मणो दैववशात्केनापि साधुना कूपादुत्तारितः परिभ्रमंस्तदेव नगरमायातः। तया दुष्टभार्यया दृष्टो राज्ञे निवेदितः। राजन् अयं मद्भर्तुर्वैरी समायातः। राज्ञापि वधार्थं समादिष्टः। सोऽब्रवीत्। देव अनया मम सन्तं किंचिद्गहीतमस्ति। ततो यदि त्वं धर्मवत्सलस्ततो दापय। राजान्रवीत्। भद्रे त्वयास्य सक्तं किंचिद्गृहीतमस्ति तत्समर्पय। सा प्राह। देव मया न किंचिद्गृहीतम्। ब्राह्मण आह। यन्मया त्रिवाचिकं स्वजीवितार्थं तव दत्तं तद्देहि मे। अथ सा राजभयात्तत्रैव त्रिवाचिकमेव जीवितं मया दत्तमिति जल्पन्ती प्राणैर्विमुक्ता। ततः सविस्मयं राजाब्रवीत्। किमेतदिति। ब्राह्मणेनापि सकलोऽपि वृत्तान्तस्तस्मै निवेदितः। अतोऽहं ब्रवीमि।
यदर्थं स्वकुलं त्यक्तं जीवितार्धं च हारितम्।
सा मां त्यजति निःस्नेहा कः स्त्रीणां विश्वसेन्नरः॥१०३॥
अथ तच्छ्रुत्वा मकर आह। भो वयस्य मे कृतद्रोहबुद्धेः परमकृपया ममोपरि प्रसादं कृत्वा शोभनोपायः कथ्यतां येनोपायेन सुखेन गृहं प्राप्नोमि। तच्छ्रुत्वा कपिराह। भो दुर्बुद्धे भवान्कथितमपि न संविधास्यति। यथा।
सतां वचनमादिष्टं यो मोहादवमन्यते।
स एव नाशमाप्नोति सिंहाद्दासेरको यथा॥१०४॥
मकर आह। कथमेतत्। सोऽब्रवीत्।
<MISSING_FIG href="../books_images/U-IMG-1722966123Annotation2024-08-06205418.png"/>
कथा १४.
अस्ति कस्मिंश्चिदधिष्ठाने मन्दमतिनामा रथकारः प्रतिवसति स्म। तेन स्वकर्मानभिज्ञेनोष्ट्री गृहीता। तस्याः खादनपानादिकं कुर्वन्कालं नयति। ततो महतोष्ट्रेण संगमो जातः। सा गर्भेदधार। अथ प्रसवसमये प्रसूता। दासेरको जातः। अथ नगरनिकटवाटिकायां धवखदिरपलाशाम्रजम्बून्यग्रोधादीनां पल्लवभक्षणादहर्निशं पीवरतनुरुष्ट्री संजाता। सोऽपि दासेरको महानुष्ट्रः संजातः। ततः स नित्यमेव दुग्धं नीत्वा कुटुम्बं परिपालयति। रथकारेण वल्लभत्वाद्दासेरकग्रीवायां घण्टा बद्धा। पश्चाद्रथकारो व्यचिन्तयत्। किमन्यैर्दुष्कृतकर्मभिः। एतदेवोष्ट्रीपरिपालनमस्य कुटुम्बस्य भरणपोषणे भव्यं जातम्। तत्किमन्येन व्यापारेण। तत एतस्या उपरि द्रम्मा गृह्यन्ते। एवं विचिन्त्य गृहमा गत्य प्रियामाह। मयास्या उष्ट्या उपरि बहवो द्रम्मा ग्रहीतव्याः। ततस्त्वयैषा यत्नेन रक्षणीया यावदहमपरामुष्ट्रीं गृहीत्वागच्छामि। ततश्च द्रम्मानादाय गुर्जरग्रामे गत्वा करभाः संक्रीताः। अथ तेन महद्यूथं कृत्वा रक्षापुरुषाणां प्रतिवर्षं करभमेकं च निवेद्याहर्निशं दुग्धपानमादिष्टम्। एवं स रथकारो नित्यमेवोष्ट्रव्यापारं कुर्वन्सुखेन तिष्ठति। अथ ते दासेरका अधिष्ठानोपवन आहारार्थं गच्छन्ति। कोमलवल्लीर्भक्षयित्वा महासरसि पानीयं पीत्वा च सायं सर्वे मन्दंमन्दं लीलया गृह आगच्छन्ति। स च मदातिरेकात्पूर्वदासेरकः पृष्ठ आगत्य मिलति। ततस्तैरभिहितम्। अहो मन्दमतिरयं दासेरको यूथाद्भ्रष्टः पृष्ठे स्थित्वा घण्टां वादयन्नागच्छति। यदि कस्यापि दुष्टस्य सत्त्वस्य संदर्शे पतिष्यति तन्नूनं मरिष्यति। अथ तेषां तद्वनं गाहमानानां कश्चित्सिंहो घण्टारवमाकर्ण्य समायातः। यावदवलोकयति तावदुष्ट्रीदासेरकानां यूथं गच्छति। एकस्तु पृष्ठे क्रीडां कुर्वन्वल्लीं चरन्यावद्गच्छति तावदन्यदासेरकाः पानीयं पीत्वा स्वगृहे गताः। सोऽपि चिरान्निष्क्रम्य यावद्दिशोऽवलोकयति तावन्न कथंचिन्मार्गं वेत्ति। यूथाद्भ्रष्टो महाशब्दं कुर्वन्मन्दंमन्दं यावत्किंचिद्दूरं गच्छति तावच्छब्दानुसारेण सज्जितक्रमो भूत्वा सिंहोऽग्रे स्थितः। यावदुष्ट्रः समीपमागतस्तावत्सिंहेनोल्ललयित्वा ग्रीवायां गृहीत्वा मारितः। अतोऽहं ब्रवीमि।
सतां वचनमादिष्टं यो मोहादवमन्यते।
स एव नाशमाप्नोति सिंहाद्दासेरको यथा॥१०५॥
अथ तच्छ्रुत्वा मकर आह। भद्र।
प्राहुः साप्तपदं मैत्रं जनाः शास्त्रविचक्षणाः।
मित्रतां च पुरस्कृत्य किंचिद्वक्ष्यामि तच्छृणु॥१०६॥
उपदेशोपदातॄणां नराणां हितमिच्छताम्।
इह लोके परत्रे च व्यसनं नोपपद्यते॥१०७॥
ततः कृतघ्नस्य मे कुरु प्रसादमुपदेशप्रदानेन।
उपकारिषु यः साधुः साधुत्वे तस्य को गुणः।
अपकारिषु यः साधुः स साधुः सद्भिरुच्यते॥१०८॥
तदाकर्ण्य वानर आह। भद्र यद्येवं तद्गत्वा तेन सह युद्धं कुरु।
उक्तं च।
उत्तमं प्रणिपातेन शूरं भेदेन योजयेत्।
नीचमल्पप्रदानेन समं तुल्यपराक्रमैः॥१०९॥
मकर आह। कथमेतत्। सोऽब्रवीत्।
<MISSING_FIG href="../books_images/U-IMG-1722966105Annotation2024-08-06205418.png"/>
कथा १५.
अस्ति कस्मिंश्चिद्वने महाचतुरको नाम शृगालः प्रतिवसति स्म। तेन कदाचिदरण्ये स्वयंमृतो गजः समासादितः। तस्य समन्ताद्भ्रमति। परं कठिनत्वचं भेत्तुं न शक्नोति। तत्रान्तरे भ्रमंस्तत्र देशे कश्चित्सिंहः समायातः तं स क्षितितलविन्यस्तमौलिः प्रणम्य प्रोवाच। स्वामिन् त्वदीयो लाकुटिकः सन्नहं गजं रक्षयामि। तद्भक्षयतु स्वामी। तं दृष्ट्वा सिंह आह। भो नाहमन्यहतं सत्त्वं; कदाचिद्भक्षयामि। तन्मया प्रसादीकृत एष ते गजः। तच्छ्रुत्वा सानन्दमाह। युक्तमेतत्स्वामिनः। उक्तं च।
अन्त्यावस्थागतोऽपि महान्स्वगुणाञ्जहाति न शुद्धतया।
न श्वेतभावमुज्झति शङ्कः शिखिभुक्तमुक्तोऽपि॥११०॥
तदाकर्ण्य सिंहो गतः। अथ तस्मिन्गते कश्चिद्व्याघ्रः समायातः। तमपि दृष्ट्वा व्यचिन्तयत्। कथमेको दुरात्मा सिंहस्तावत्प्रणिपातेनापवाहितः। तदस्य कथमतिवाहनं भविष्यति। शूरोऽयं भेदं विना साध्यो न भविष्यति। उक्तं च।
न यस्य शक्यते कर्तुं साम दानमथापि वा।
भेदस्तत्र प्रयोक्तव्यो यतः स वशकारकः॥१११॥
यतः सर्वगुणसंपन्नोऽपि भेदेन बध्यते। उक्तं च।
अत्यच्छेनाविरुद्धेन सुवृत्तेनातिचारुणा।
अन्तर्भिन्नेन संप्राप्तं मौक्तिकेन निबन्धनम्॥११२॥
एवं संप्रधार्य तस्याभिमुखो भूत्वेषदुन्नतकंधरः प्रोवाच। माम अद्यभवानत्र मृत्युमुखे प्रविष्टः। एष गजो व्यापादितः सांप्रतं सिंहेन। स च मां रक्षपालं निधाय स्नानार्थं गतः। तेन च मम निवेदितं गच्छता। यदि व्याघ्रः समागच्छति तन्मम सुगुप्तं निवेदनीयं येन मया निर्व्याघ्रंवनं कार्यम्। यतो व्याघ्रेणैकेन मया हतो गजः शून्ये भक्षयित्वोच्छिष्टतां नीतः। तच्छ्रुत्वा भयत्रस्तमनाः स आह। भो भगिनीसुत देहि मे प्राणदक्षिणां त्वया यतश्विरायागतस्य तस्य मदीया किंवदन्ती नाख्येया। एवमुक्त्वा सत्वरं प्रनष्टः। अथ तस्मिन्गते कश्चिद्वानरः समायातः। तमपि दृष्ट्वा व्यचिन्तयत्।
दृढदंष्ट्रोऽयम्। तदस्य पार्श्वाद्गजचर्मच्छेदं कारयामि। एवं निश्चित्य तमुवाच। भो भगिनीसुत चिराद्दृष्टोऽसि। अपरं बुभुक्षितः समागतस्त्वमतिथिश्च। एष गजः सिंहेन हतस्तिष्ठति। अहं तु रक्षपालः। अतो वदामि। मांसं भक्षयित्वा तृप्तिं कृत्वा व्रज तद्यावत्स नागच्छति। स आह। माम यद्येवं तन्न कार्यं मे मांसाशनेन। यतो जीवन्नरो भद्रशतानि पश्यति। उक्तंच।
यच्छक्यं ग्रसितुं ग्रस्यं ग्रस्तंपरिणमेच्च यत्।
हितं च परिणामे यत्तदाद्यं भूतिमिच्छता॥११३॥
तदहं यास्यामि। शृगाल आह। भो विश्रब्धो भक्षय त्वम्। तस्यागमनं दूरतोऽहं ते निवेदयिष्यामे। तथानुष्ठिते चर्मभेदं जातं विज्ञाय तेनाभिहितम्। भो भगिनीसुत गम्यतां गम्यताम्। एष सिंहः समायाति। तच्छ्रुत्वा सोऽपि प्रनष्टः। अथ यावदसौवानरकृतद्वारेण तन्मांसं भक्षयति तावदपरः शृगालः संक्रुद्धः समायातः। तमपि दृष्ट्वेमं श्लोकमपठत्।
उत्तमं प्रणिपातेन शूरं भेदेन योजयेत्।
नीचमल्पप्रदानेन समशक्तिं पराक्रमैः॥११४॥
ततस्तं जित्वा स्वदंष्ट्राभिर्विदार्य दिशोभाजं कृत्वा स्वयं सुखेन चिरकालं तन्मांसं बुभुजे। तत्त्वमपि युद्धेन तं परिभवं नीत्वा दिशोभाजं कुरु। नो चेद्विनाशमवाप्स्यसि। उक्तं च।
संभाव्यं गोषु संपन्नं संभाव्यं ब्राह्मणे तपः।
संभाव्यं स्त्रीषु चापल्यं संभाव्यंज्ञातितो भयम्॥११५॥
तथा च।
सुभक्ष्याणि विचित्राणि शिथिलाश्चैव योषितः।
एको दोषो विदेशस्य स्वजातेर्यद्विरुध्यते॥११६॥
मकर आह। कथमेत्। सोऽब्रवीत्।
कथा १६.
अस्ति कस्मिंश्चिदधिष्ठाने चित्राङ्गो नाम सारमेयः प्रतिवसति स्म। एकदा महद्दुर्भिक्षमभवत्। अन्नाभावेन सर्वापि सारमेयजातिर्निष्कुलतां गच्छति। अत्रान्तरे स चित्रङ्गः क्षुत्क्षामकण्ठः सुभिक्षं श्रुत्वान्यदेशं गतः। तत्रैकस्मिन्गृहे शिथिलगृहिणीप्रसादेन तृप्तिंगच्छति। परं बहिर्निर्गतोऽन्यैः सारमेयैश्चतुर्दिशं दंष्ट्राभिर्विदार्यते। ततस्तेन विचिन्तितम्। अहो वरं स्वदेशो यत्र दुर्भिक्षेऽपि सुखेन स्थीयते न कोऽपि युद्धं करोति। तत्स्वदेशं गच्छामि। इत्यवधार्य तथाकरोत्। अथासौ देशान्तरात्समायातः सर्वैरपि स्वजनैः पृष्टः। भोश्चित्राङ्ग कथयास्माकं देशान्तरवार्त्ताम्। कीदृग्देशः। किंचेष्टितो लोक इति। स आह। किं कथ्यते देशस्य विषये।
सुभक्ष्याणि विचित्राणि शिथिलाश्चैव योषितः।
एको दोषो विदेशस्य स्वजातिर्यद्विरुध्यते॥११७॥
सोऽपि तच्छ्रुत्वा मरणे कृतनिश्चयो भूत्वा वानरमनुज्ञाप्य स्वाश्रयं गतः। तत्र च तेन गृहप्रविष्टेन सह विग्रहं कृत्वा तं व्यापाद्य स्वाश्रयं सुखेनाधिष्ठितवान्। अथवा साध्विदमुच्यते।
अकृत्वा पौरुषं या श्रीः किं तयापि सुभोग्यया।
जरद्गवोऽपि चाश्नाति दैवादुपगतं तृणम्॥११८॥
॥इति समाप्तं लब्धप्रणाशं नाम चतुर्थं तन्त्रम्॥
–––––––––––––––––––––––––––
अत्र श्लोकसंख्या 1 तः 11 पर्यन्तम् लुप्ताः
अन्यच्च।
सा जिह्वा या जिनं स्तौति तच्चित्तं यज्जिने रतम् I
तावेव च करौ श्लाध्यौयौतत्पूजाकरौ करौ॥१३॥
तथा च॥
ध्यानव्याजमुपेत्य चिन्तयसि कामुन्मील्य चक्षुः क्षणं
पश्यानङ्गशरातुरं जनमिमं त्रातापि नो रक्षसि।
मिथ्याकारुणिकोऽसि निर्घृणतरस्त्वत्तः कुतोऽन्यः पुमान्
सेर्ष्यंमारवधूभिरित्यभिहितो बुद्धो जिनः पातु वः॥१४॥
एवं संस्तुत्य ततः प्रधानक्षपणकमासाद्य क्षितिनिहितजानुचरणोनमोऽस्तु वन्द इत्युच्चार्य लब्धधर्मवृद्ध्याशीर्वादः सुखमालिकानुग्रहलब्धव्रतादेशउत्तरीयनिबद्धग्रन्थिःसप्रश्रयमिदमाहभगवन्नद्य विहरणक्रिया समस्तमुनिसमेतेनास्मद्गृहेकर्तव्या। सआह। भोः श्रावक धर्मज्ञोऽपि किमेवं वदसि। किं वयं ब्राह्मणसमाना यत आमन्त्रणं करोषि। वयं सदैव तत्कालपरिचर्यया भ्रमन्तो भक्तिभाजंश्रावकमवलोक्य तस्य गृहे गच्छामस्तेन कृच्छ्रादभ्यर्थिताः। तद्गृहे प्राणधारणमात्रामशनक्रियां कुर्मः। तद्गम्यतां नैवं भूयोऽपि वाच्यम्। तच्छ्रुत्वा नापित आह। भगवन् वेद्म्यहं युष्मद्धर्मम्। परं भवतो बहुभावका आह्वयन्ति। सांप्रतं पुनः पुस्तकाच्छादनयोग्यानि कर्पटानि बहुमूल्यानि प्रगुणीकृतानि तथा पुस्तकानां लेखनाय लेखकानां च वित्तं दत्तमास्ते। तत्सर्वथा तत्कालोचितं कार्यम्। ततो नापितोऽपि स्वगृहं गतः। तत्र च गत्वा खादिरमयं लकुटं सज्जीकृत्य कपाटयुगलं द्वारे समाधाय सार्धप्रहरद्वयोद्देशे भूयोपि विहारद्वारमाश्रित्य सर्वान्क्रमेण निष्क्रामतो गुरुप्रार्थनया स्वगृहमानयत्। तेऽपि सर्वे कर्पटवित्तलोभेन भक्तियुक्तानपि परिचितश्रावकान्परित्यज्य प्रहृष्टमनसस्तस्य पृष्ठतो ययुः। अथवा साध्विदमुच्यते।
एकाकी गृहसंत्यक्तः पाणिपात्रो दिगम्बरः।
सोऽपि संवाह्यते लोके तृष्णया पश्य कौतुकम्॥१५॥
जीर्यन्ते जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः।
चक्षुःश्रोत्रे च जीर्येतेतृष्णैका तरुणायते॥१६॥
अपरं गृहमध्ये तान्प्रवेश्य द्वारं निभृतं विधाय लकुटप्रहारैः शिरस्यताडयत्। तेऽपि ताड्यमाना एके मृता अन्ये भिन्नमस्तकाः फूत्कर्तुमुपचक्रमिरे। अत्रान्तरे तमाक्रन्दमाकर्ण्य कोटरक्षपालैरभिहितम्। भो भोः किमयं महान्कोलाहलो नगरमध्ये। तद्गम्यतां गम्यताम्। ते च सर्वे तदादेशकारिणस्तत्सहिता वेगात्तद्गृहं गताः। तावद्रुधिरप्लावितदेहाः पलायमाना नग्नका दृष्टाः। तैः स नापितो बद्धः। हतशेषैः सह धर्माधिष्ठानं नीतः। तैर्नापितः पृष्टः। भोः किमेतद्भवता कुकृत्यमनुष्ठितम्। स आह। किं करोमि। मया श्रेष्ठिमणिभद्रगृहे दृष्ट एवंविधो व्यतिकरः। सोऽपि सर्वंमणिभद्रवृत्तान्तं यथादृष्टमकथयत्। ततः श्रेष्ठिनमाहूय भणितवन्तः। भोः श्रेष्ठिन् किं त्वया कश्चित्क्षपणको व्यापादितः। ततस्तेनापि सर्वः क्षपणकवृत्तान्तस्तेषां निवेदितः। अथ तैरभिहितम्।
अहो शूलमारोप्यतामसौ दुष्टात्मा कुपरीक्षितकारी नापितः। तथानुष्ठिते तैरभिहितम्।
कुदृष्टं कुपरिज्ञातं कुश्रुतं कुपरीक्षितम्।
तन्नरेण न कर्तव्यं नापितेनात्र यत्कृतम्॥१७॥
अथवा साध्विदमुच्यते।
अपरीक्ष्य न कर्तव्यं कर्तव्यं सुपरीक्षितम्।
पश्चाद्भवति संतापो ब्राह्मण्या नकुले यथा॥१८॥
मणिभद्र आह। कथमेतत्। ते धर्माधिकारिणः प्रोचुः।
<MISSING_FIG href="../books_images/U-IMG-1722966053Annotation2024-08-06205418.png"/>
कथा २.
कस्मिंश्चिदधिष्ठाने देवशर्मा नाम ब्राह्मणः प्रतिवसति स्म। तस्य भार्या प्रसूता सुतमजनयत्। तस्मिन्नेव दिने नकुली नकुलं प्रसूता। अथ सा सुतवत्सला दारकवत्तमपि नकुलं स्तन्यदानाभ्यङ्गपोषणादिभिः पुपोष। परं तस्य न विश्वसिति यत्कदाचिदेष स्वजातिदोषवशादस्य दारकस्य विरुद्धमाचरिष्यतीति। एवं जानाति स्वचित्ते। उक्तं च।
कुपुत्रोऽपि भवेत्पुंसां हृदयानन्दकारकः।
दुर्विनीतः कुरूपोऽपि मूर्खोऽपि व्यसनी खलः॥१९॥
एवं न भाषते लोकश्चन्दनं किल शीतलम्।
पुत्रगात्रस्य संस्पर्शश्चन्दनादतिरिच्यते॥२०॥
सौहृदस्य न वाञ्छन्ति जनकस्य हितस्य च।
लोकाः प्रपालकस्यापि यथा पुत्रस्य बन्धनम्॥२१॥
अथ सा कदाचिच्छय्यायां पुत्रं शाययित्वा जलकुम्भमादाय पतिमुवाच। ब्राह्मण जलार्थमहं तडागे यास्यामि। त्वया पुत्रोऽयं नकुलाद्रक्षणीयः। अथ तस्यां गतायां पृष्ठे ब्राह्मणोऽपि शून्यं गृहं मुक्त्वा भिक्षार्थं क्वचिन्निर्गतः। अत्रान्तरे दैववशात्कृष्णसर्पो बिलान्निष्क्रान्तः। नकुलोऽपि तं स्वभाववैरिणं मत्वा भ्रातू रक्षणार्थं सर्पेण सह युद्ध्वासर्पं खण्डशः कृतवान्। ततो रुधिराप्लावितवदनः सानन्दं स्वव्यापारप्रकाशनार्थं मातुः संमुखे गतः। मातापि तं रुधिरक्लिन्नमुखमवलोक्य शङ्कितचित्ता यदनेन दुरात्मना दारको भक्षित इति विचिन्त्य कोपात्तस्योपरि तं जलकुम्भं चिक्षेप। एवं सा नकुलं व्यापाद्य यावत्प्रलपन्ती गृह आगच्छति तावत्सुतस्तथैव सुप्तस्तिष्ठति। समीपे कृष्णसर्पं खण्डशः कृतमवलोक्य पुत्रवधशोकेनात्मशिरो वक्षःस्थलं च ताडयितुमारब्धा। अत्रान्तरे ब्राह्मणो गृहीतनिर्वापः समायातो यावत्पश्यति तावत्पुत्रशोकाभितप्ता ब्राह्मणी प्रलपति। भो भो लोभात्मन्। लोभाभिभूतेन त्वया न कृतं मद्वचः। तदनु तत्र सांप्रतं पुत्रमृत्युदुःखवृक्षफलम्। अथवा साध्विदमुच्यते।
अतिलोभो न कर्तव्यो लोभं नैव परित्यजेत्।
अतिलोभाभिभूतस्य चक्रं भ्रमति मस्तके॥२२॥
ब्राह्मण आह। कथमेतत्। सा प्राह।
कथा ३.
कस्मिंश्चिदधिष्ठाने चत्वारो ब्राह्मणपुत्राः परस्परं मित्रतां गता वसन्ति स्म। ते चापि दारिद्र्योपहताः परस्परं मन्त्रं चक्रुः। अहो धिगियं दरिद्रता। उक्तं च।
वरं वनं व्याघ्रगजादिसेवितं
जलेन हीनं बहुकण्टकावृतम्।
तृणानि शय्या परिधानवल्कलं
न बन्धुमध्ये धनहीनजीवितम्॥२३॥
तथा च।
स्वामी द्वेष्टि सुसेवितोऽपि सहसा प्रोज्झन्ति सद्बान्धवा
राजन्ते न गुणास्त्यजन्ति तनुजाः स्फारीभवन्त्यापदः।
भार्या साधुसुवंशजापि भजते नो यान्ति मित्राणि च
न्यायारोपितविक्रमाण्यपि नृणां येषां न हि स्याद्धनम्॥२४॥
शूरः सुरूपः सुभगश्च वाग्मी
शस्त्राणि शास्त्राणि विदांकरोतु।
अर्थं विना नैव यशश्च मानं
प्राप्नोतिमर्त्योऽत्र मनुष्यलोके॥२५॥
तानीन्द्रियाण्यविकलानि तदेव नाम
सा बुद्धिरप्रतिहता वचनं तदेव।
अर्थोष्मणा विरहितः पुरुषः स एव
बाह्यः क्षणेन भवतीति विचित्रमेतत्॥२६॥
तद्गच्छामः कुत्रचिदर्थाय। इति संमन्त्र्यस्वदेशं पुरं च स्वसुहृत्सहितं बान्धवयुतं गृहं च परित्यज्य प्रस्थिताः। अथवा साध्विदमुच्यते।
सत्यं परित्यजति मुञ्चति बन्धुवर्गं
शीघ्रं विहाय जननीमपि जन्मभूमिम्।
संत्यज्य गच्छति विदेशमभीष्टलोकं
चिन्ताकुलीकृतमतिः पुरुषोऽत्र लोके॥२७॥
एवं क्रमेण गच्छन्तोऽवन्तीं प्राप्ताः। तत्र सिप्राजले कृतस्नाना महाकालं प्रणम्य यावन्निर्गच्छन्ति तावद्भैरवानन्दो नाम योगी संमुखो बभूव। ततस्तं ब्राह्मणोचितविधिना संभाव्य तेनैव सह तस्य मठंजग्मुः। अथ तेन ते पृष्टाः। कुतो भवन्तः समायाताः। क्व यास्यथ।किं प्रयोजनम्। ततस्तैरभिहितम्। वयं सिद्धियात्रिकास्तत्रयास्यामो यत्र धनाप्तिर्मृत्युर्वा भविष्यतीत्येष निश्चयः। उक्तं च।
दुष्प्राप्याणि बहूनि च लभ्यन्ते वाञ्छितानि द्रविणानि।
अवसरतुलिताभिरलं तनुभिः साहसिकपुरुषाणाम्॥२८॥
तथा च।
पतति कदाचिन्नभसः खाते पातालतोऽपि जलमेति।
दैवमचिन्त्यं कारणबलवान्ननु पुरुषकारोऽपि॥२९॥
अभिमतसिद्धिरशेषा भवति हि पुरुषस्य पुरुषकारेण।
दैवमिति यदपि कथयसिपुरुषगुणः सोऽप्यदृष्टाख्यः॥३०॥
भयमतुलं गुरुलोकात्तृणमिवतुलयन्ति साधु साहसिकाः।
प्राणानद्भुतमेतच्चरितं चरितं ह्युदाराणाम्॥३१॥
क्लेशस्याङ्गमदत्त्वा सुखमेव सुखानि नेह लभ्यन्ते।
मधुभिन्मथनायस्तैराश्लिष्यति बाहुभिर्लक्ष्मीम्॥३२॥
तस्य कथं न चला स्यात्पत्नी विष्णोर्नृसिंहकस्यापि।
मासांश्चतुरो निद्रां यः सेवति जलगतः सततम्॥३३॥
दुरधिगमः परभागो यावत्पुरुषेण पौरुषं न कृतम्।
जयति तुलामधिरूढो भास्वानिह जलदपटलानि॥३४॥
तत्कथ्यतामस्माकं कश्चिद्धनोपायो विवरप्रवेशशाकिनीसाधनश्मशानसेवनमहामांसविक्रयसाधकवर्तिप्रभृतीनामेकतम इति। अद्भुतशक्तिर्भवाञ्श्रूयते। वयमप्यतिसाहसिकाः। उक्तं च।
महान्त एव महतामर्थं साधयितुं क्षमाः।
ऋते समुद्रादन्यः को बिभर्ति वडवानलम्॥३५॥
भैरवानन्दोऽपि तेषां सिद्ध्यर्थेबहूपायं सिद्धिवर्तिचतुष्टयं कृत्वार्पयत्। आह च। गम्यतां हिमालयदिशि। तत्र संप्राप्तानां यत्र वर्तिः पतिष्यति तत्र निधानं प्राप्स्यथासंदिग्धम्। तत्र स्थानं खनित्वा निधिं गृहीत्वा व्याघुट्यताम्। तथानुष्ठिते तेषां गच्छतामेकतमस्य हस्ताद्वर्तिर्निपपात। अथासौ यावत्तं प्रदेशं खनति तावत्ताम्रमयी भूमिः। ततस्तेनाभिहितम्। अहो गृह्यतां स्वेच्छया ताम्रम्। अन्ये प्रोचुः। भो मूढ किमनेन क्रियते। तत्प्रभूतमपि दारिद्र्यं न नाशयति। तदुत्तिष्ठाग्रतो गच्छामः। सोऽब्रवीत्। यान्तु भवन्तो नाहमग्रेयास्यामि। एवमभिधाय ताम्रं यथेच्छया गृहीत्वा प्रथमो निवृत्तः। ते त्रयोऽप्यग्रेप्रस्थिताः। अथ किंचिन्मात्रं गतस्याग्रेसरस्य वर्तिर्निपपात। सोऽपि यावत्खनितुमारब्धस्तावद्रूप्यमयी क्षितिः। ततः प्रहर्षितः प्राह। यद्भो गृह्यतां यथेच्छया रूप्यम्। नाग्रे गन्तव्यम्। तावूचतुः। भोः पृष्ठतस्ताम्रमयी भूमिरग्रतो रूप्यमयी। तन्नूनमग्रेसुवर्णमयी भविष्यति। तदनेन प्रभूतेनापि दारिद्र्यनाशो न भवति। तदावामग्रेयास्यावः। एवमुक्त्वा द्वावप्यग्रे प्रस्थितौ। सोऽपि स्वशक्त्या रूप्यमादाय निवृत्तः। तयोरपि गच्छतोरेकस्याग्रेवर्तिः पपात। सोऽपि प्रहृष्टो यावत्खनति तावत्सुवर्णभूमिं दृष्ट्वा द्वितीयं प्राह। भो गृह्यतां स्वेच्छया सुवर्णम्। सुवर्णादन्यन्न किंचिदुत्तमं भविष्यति। स प्राह। मूढ न किंचिद्वेत्सि। प्राक्ताम्रंततो रूप्यं ततः सुवर्णं तन्नूनमतः परं रत्नानि भविष्यन्ति येषामेकतमेनापि दारिद्र्यनाशो भवति। तदुत्तिष्ठाग्रेगच्छावः। किमनेन भारभूतेनापि प्रभूतेन। स आह। गच्छतु भवान्। अहमत्र स्थितस्त्वां प्रतिपालयिष्यामि। तथानुष्ठिते सोऽपि गच्छन्नेकाकी ग्रीष्मार्कप्रतापसंतप्ततनुः पिपासाकुलितः सिद्धिमार्गच्युत इतश्चेतश्च बभ्राम। अथ भ्राम्यन्स्थलोपरि पुरुषमेकं रुधिरप्लावितगात्रं भ्रमच्चक्रमस्तकमपश्यत्। ततो द्रुततरं गत्वा तमवोचत्। भोः को भवान्। किमेवं चक्रेण भ्रमता शिरसि तिष्ठसि। तत्कथय मे यदि कुत्रचिज्जलमस्ति। एवं तस्य प्रवदतस्तच्चक्रं तत्क्षणात्तस्य शिरसो ब्राह्मणमस्तके चटितम्। स आह। भद्र किमेतत्। स आह। यन्ममाप्येवमेवैतच्छिरसि चटितम्।
तत्कथय कदैतदुत्तरिष्यति। महती मे वेदना वर्तते। स आह। यदा त्वमिव कश्चिद्धृतसिद्धिवर्तिरेवमागत्य त्वामालापयिष्यति तदा तस्य मस्तके चटिष्यति। स आह। कियान्कालस्तवैवं स्थितस्य। स आह। सांप्रतं को राजा धरणीतले। स आह। वीणावत्सराजः। स आह। अहं तावत्कालसंख्यां न जानामि। परं यदा रामो राजासीत्तदाहं दारिद्र्योपहतः सिद्धिवर्तिमादायानेन पथा समायातः। ततो मयान्यो नरो मस्तकधृतचक्रो दृष्टः पृष्टश्च। ततश्चैतज्जातम्। स आह। भद्र कथं तवैवं स्थितस्य भोजनजलप्राप्तिरासीत्। स आह। भद्र धनदेन निधानहरणभयात्सिद्धानामेतद्भयं दर्शितम्। तेन कश्चिदपि नागच्छति। यदि कश्चिदायाति स क्षुत्पिपासानिद्रारहितो जरामरणवर्जितःकेवलमेवं वेदनामनुभवतीति। तदाज्ञापय मां मुक्तोऽस्मि। सांप्रतं स्वगृहं यास्यामि। इत्युक्त्वा गतः। अथ तस्मिंश्चिरयति स सुवर्णसिद्धिस्तस्यान्वेषणपरस्तत्पदपङ्क्त्यायावत्किंचिद्वनान्तरमागच्छति तावद्रुधिरप्लावितशरीरस्तीक्ष्णचक्रेण मस्तके भ्रमता सवेदनः क्वणन्नुपविष्टस्तिष्ठति। ततः समीपवर्तिना भूत्वा सवाष्पं पृष्टः। भद्र किमेतत्। स आह। विधिनियोगः। स आह। कथं तत्। कथय कारणमेतस्य। सोऽपि तेन पृष्टः सर्वं चक्रवृत्तान्तमकथयत्। तच्छ्रुत्वासौ तं विगर्हयन्निदमाह। भो निषिद्धस्त्वं मयानेकशो न शृणोषि मे वाक्यम्। तत्किं क्रियते। विद्यावानपि कुलीनोऽपि बुद्धिरहितः। अथवा साध्विदमुच्यते।
वरं बुद्धिर्न सा विद्या विद्याया बुद्धिरुत्तमा।
बुद्धिहीना विनश्यन्ति यथा ते सिंहकारकाः॥३६॥
चक्रधर आह। कथमेतत्। सुर्वणसिद्धिराह।
<MISSING_FIG href="#"/><MISSING_FIG href="../books_images/U-IMG-1722966017Annotation2024-08-06205418.png"/>
कथा ४.
कस्मिंश्चिदधिष्ठानेचत्वारोब्रह्मपुत्राः परं मित्रभावमुपगता वसन्ति स्म। तेषां त्रयः शास्त्रपारं गताः परंतु बुद्धिरहिताः। एकस्तु बुद्धिमान्केवलं शास्त्रपराङ्मुखः। अथ तैः कदाचिन्मित्रैर्मन्त्रितम्। को गुणो विद्याया येन देशान्तरं गत्वा भूपतीन्परितोष्यार्थोपार्जना न क्रियते। तत्पूर्वदेशं गच्छामः। तथानुष्ठिते कंचिन्मार्गं गत्वा तेषां ज्येष्ठतरः प्राह। अहो अस्माकमेकश्चतुर्थो मूढः केवलं बुद्धिमान्। न चराजप्रतिग्रहो बुद्ध्या लभ्यते विद्यां विना। नन्नास्मै स्वोपार्जितं दास्यामि। तद्गच्छतु गृहम्। ततो द्वितीयेनाभिहितम्। भोः सुबुद्धे गच्छ त्वं स्वगृ॒हे यतस्ते विद्या नास्ति। ततस्तृतीयेनाभिहितम्। अहो न युज्यत एवं कर्तुं यतो वयं बाल्यात्प्रभृत्येकत्र क्रीडिताः। तदागच्छतु महानुभावोऽस्मदुपार्जितवित्तस्य संविभागी भविष्यतीति। उक्तं च।
किं तया क्रियते लक्ष्म्या या वधूरिव केवला।
या न वेश्येव सामान्या पथिकैरुपभुज्यते॥३७॥
तथा च।
अयं निजः परो वेति गणना लघुचेतसाम्।
उदारचरितानां च वसुधैव कुटुम्बकम्॥३८॥
तदागच्छत्वेषोऽपीति। तथानुष्ठिते तैर्मार्गाश्रितैरटव्यां मृतसिंहस्यास्थीनि दृष्टानि। ततश्चैकेनाभिहितम्। यदहो विद्याप्रत्ययः क्रियते। किंचिदेतत्सत्त्वं मृतं तिष्ठति। तद्विद्याप्रभावेन जीवसहितं कुर्मः। अहमस्थिसंचयं करोमि। ततश्चैकेनौत्सुक्यादस्थिसंचयः कृतः। द्वितीयेन चर्ममांसरुधिरं संयोजितम्। तृतीयोऽपि यावज्जीवं संचारयति तावत्सुबुद्धिना निषिद्धः। भोस्तिष्ठतु भवान्। एष सिंहो निष्पाद्यते। यद्येनं सजीवं करिष्यसि ततः सर्वानपि व्यापादयिष्यति। इति तेनाभिहितः स आह। धिङ्मूर्ख नाहं विद्याया विफलतां करोमि। ततस्तेनाभिहितम्। तर्हि प्रतीक्षस्वक्षणंयावदहं वृक्षमारोहामि। तथानुष्ठिते यावत्सजीवः कृतस्तावत्ते त्रयोऽपि सिंहेनोत्थाय व्यापादिताः। स च पुनर्वृक्षादवतीर्य गृहे गतः। अतोऽहं ब्रवीमि।
वरं बुद्धिर्न सा विद्या विद्याया बुद्धिरुत्तमा।
बुद्धिहीना विनश्यन्ति यथा ते सिंहकारकाः॥३९॥
अतः परमुक्तं च।
अपि शास्त्रेषु कुशला लोकाचारविवर्जिताः।
सर्वे ते हास्यतां यान्ति यथा ते मूर्खपण्डिताः॥४०॥
चक्रधर आह। कथमेतत्। सोऽब्रवीत्।
<MISSING_FIG href="../books_images/U-IMG-1722965976Annotation2024-08-06205418.png"/>
कथा ५.
कस्मिंश्चिदधिष्ठाने चत्वारो ब्राह्मणाः परस्परं मित्रत्वमापन्ना वसन्ति स्म। बालभावे तेषां मतिरजायत। भो देशान्तरं गत्वा विद्याया उपार्जनं क्रियते। अथान्यस्मिन्दिवसे ब्राह्मणाः परस्परं निश्चयं कृत्वा विद्योपार्जनार्थं कन्यकुब्जे गताः। तत्र च विद्यामठेगत्वा पठन्ति।एवं द्वादशाब्दानि यावदेकचित्ततया विद्याकुशलास्ते सर्वे संजाताः। ततस्तैश्चतुर्भिर्मिलित्वोक्तम्। वयं सर्वविद्यापारे गताः। तदुपाध्यायमुत्कलापयित्वा स्वदेशे गच्छामः। तथैव क्रियतामित्युक्त्वा ब्राह्मणा उपाध्यायमुत्कलापयित्वानुज्ञां लब्ध्वा पुस्तकानि नीत्वा प्रचलिताः। यावत्कंचिन्मार्गंयान्ति तावद्द्वौ पन्थानौ समायातौ। उपविष्टाः सर्वे। तत्रैकः प्रोवाच। केन मार्गेण गच्छामः। एतस्मिन्समये तस्मिन्पत्तने कश्चिद्वणिक्पुत्रो मृतः। तस्य दाहार्थे महाजनो गतोऽभूत्। ततश्चतुर्णां मध्यादेकेन पुस्तकमवलोकितम्। महाजनो येन गतः स पन्था इति तन्महाजनमार्गेण गच्छामः। अथ ते पण्डिता यावन्महाजनमेलापकेन सह यान्ति तावद्रासभः कश्चित्तत्र श्मशाने दृष्टः। अथ द्वितीयेन पुस्तकमुद्धाट्यावलोकितम्।
आतुरे व्यसने प्राप्ते दुर्भिक्षे शत्रुसंकटे।
राजद्वारे श्मशाने च यस्तिष्ठति स बान्धवः॥४१॥
तदहो अयमस्मदीयो बान्धवः। ततः कश्चित्तस्य ग्रीवायां लगति। कोऽपि पादौ प्रक्षालयति। अथ यावद्दिशामवलोकनं ते पण्डिताः कुर्वन्ति तावत्कश्चिदुष्ट्रोदृष्टः। तैश्चोक्तम्। एतत्किम्। तावत्तृतीयेन पुस्तकमुद्धाट्योक्तम्। धर्मस्य त्वरिता गतिः। एष धर्मस्तावत्। चतुर्थेनोक्तम्। इष्टं धर्मेण योजयेत्। अथ तैश्च रासभ उष्ट्रग्रीवायां बद्धः। केनचिद्रजकस्याग्रे कथितम्। यावद्रजकस्तेषां मूर्खपण्डितानां प्रहारकरणाय समायातस्तावत्ते प्रनष्टाः। यावदग्रे किंचित्स्तोकं मार्गं यान्ति तावत्काचिन्नद्यासादिता। तत्तस्या जलमध्ये पलाशपत्रमायातं दृष्ट्वा पण्डितेनैकेनोक्तम्। आगमिष्यति यत्पत्रंतदस्मांस्तारयिष्यति। एतत्कथयित्वा तत्पत्त्रस्योपरि पतितो यावन्नद्या नीयते तावत्तं नीयमानमवलोक्यान्येन पण्डितेन केशान्तं गृहीत्वोक्तम्।
सर्वनाशे समुत्पन्ने अर्धं त्यजति पण्डितः।
अर्धेन कुरुते कार्यं सर्वनाशो हि दुःसहः॥४२॥
इत्युक्त्वा तस्य शिरश्छेदो विहितः। अथ तैश्चपश्चाद्गत्वा कश्चिग्राम आसादितः। तेऽपि ग्रामीणैर्निमन्त्रिताः पृथक्पृथग्गृहेषु नीताः। तत एकस्य सूत्रिका घृतखण्डसंयुक्ता भोजने दत्ता। ततो विचिन्त्य पण्डितेनोक्तम्। यद्दीर्घसूत्री विनश्यति। एवमुक्त्वा भोजनं परित्यज्य गतः। तथा द्वितीयस्य मण्डका दत्ताः। तेनाप्युक्तम्। अतिविस्तरविस्तीर्णं न तद्भवेच्चिरायुषम्। स च भोजनं त्यक्त्वा गतः। अथ तृतीयस्य वटिकाभोजनं दत्तम्। तत्रापि पण्डितेनोक्तम्। छिद्रेष्वनर्था बहुलीभवन्ति। एवं तेऽपि त्रयः पण्डिताः क्षुत्क्षामकण्ठा लोकैर्हास्यमानास्ततः स्थानात्स्वदेशं गताः। अथ सुवर्णसिद्धिराह। यत्त्वं लोकव्यवहारमजानन्मया वार्यमाणोपि न स्थितस्तत ईदृशीमवस्थामुपगतः। अतोऽहं ब्रवीमि।
अपि शास्त्रेषु कुशला लोकाचारविवर्जिताः।
सर्वे ते हास्यतां यान्ति यथा ते मूर्खपण्डिताः॥४३॥
तच्छ्रुत्वा चक्रधर भाह। अहो अकारणमेतत्। बहुबुद्धयोपि विनश्यन्ति दुष्टदैवेन नाशिताः। स्वल्पबुद्धयोऽप्येकस्मिन्कुले नन्दन्ति संततम्। उक्तं च।
अरक्षितं तिष्ठति दैवरक्षितं सुरक्षितं दैवहतं विनश्यति।
जीवत्यनाथोऽपि वने विसर्जितः कृतप्रयत्नोऽपि गृहे न जीवति॥४४॥
तथा च।
शतबुद्धिः कृतोन्नामः सलम्बश्च सहस्रधीः।
एकबुद्धिरहं भद्रे क्रीडामि विमले जले॥४५॥
सुवर्णसिद्धिराह। कथमेतत्। स आह।
<MISSING_FIG href="#"/><MISSING_FIG href="../books_images/U-IMG-1722965952Annotation2024-08-06205418.png"/>
कथा ६.
कस्मिंश्चिज्जलाशये शतबुद्धिः सहस्रबुद्धिश्व द्वौ मत्स्यौ निवसतः। अथ तयोरेकबुद्धिर्नाम मण्डूको मित्रतां गतः। एवं ते त्रयोऽपि जलतीरे कंचित्कालं वेलायां सुभाषितगोष्ठीसुखमनुभूय भूयोऽपि सलिलं प्रविशन्ति। अथ कदाचित्तेषां गोष्टीगतानां जालहस्तधीवराः प्रभूतैर्मत्स्यैर्व्यापादितैर्मस्तके विधृतैरस्तमनवेलायां तस्मिञ्जलाशये समायाताः। ततः सलिलाशयं दृष्ट्वा मिथः प्रोचुः। अहो बहुमत्स्योऽयं ह्रदो दृश्यते स्वल्पसलिलश्च। तत्प्रभातेऽत्रागमिष्यामः। एवमुक्त्वा स्वगृहं गताः। मत्स्याश्च विषण्णवदना मिथो मन्त्रं चक्रुः। ततो मण्डूक आह। भोः शतबुद्धे श्रुतं धीवरोक्तं भवद्भ्याम्। तत्किमत्र युज्यते कर्तुं पलायनमवष्टम्भं वा। यत्कर्तुं युक्तं भवति तदादिश्यतामद्य। तच्छ्रुत्वा सहस्रबुद्धिः प्रहस्य प्राह। भोः पुत्र मा भैषीर्यतो वचनस्मरणमात्रादेव भयं न कार्यम्। न भेतव्यम्। उक्तं च।
सर्पाणां च खलानां च सर्वेषां दुष्टचेतसाम्।
अभिप्राया न सिध्यन्ति तेनेदं वर्तते जगत्॥४६॥
तत्तावत्तेषामागमनमपि न संपत्स्यते। भविष्यति वा तर्हि त्वां बुद्धिप्रभावेनात्मसहितं रक्षयिष्यामि यतोऽनेकां सलिलगतिचर्यामहं जानामि। तदाकर्ण्य शतबुद्धिराह। भो युक्तमुक्तं भवता। सहस्रबुद्धिरेव भवान्। अथवा साध्विदमुच्यते।
बुद्धेर्बुद्धिमतां लोके नास्त्यगम्यं हि किंचन।
बुद्ध्या यतो हता नन्दाश्चाणक्येनासिपाणयः॥४७॥
तथा च।
न यत्रास्ति गतिर्वायो रश्मीनां च विवस्वतः।
तत्रापि प्रविशत्याशु बुद्धिर्बुद्धिमतां सदा॥४८॥
ततो वचनश्रवणमात्रादपि पितृपर्यायागतं जन्मस्थानं त्यक्तुं न शक्यते। उक्तं च।
न तत्स्वर्गेऽपि सौख्यं स्याद्दिव्यस्पर्शनशोभने।
कुस्थानेपि भवेत्पुंसां जन्मनो यत्र संभवः॥४९॥
तन्न कदाचिदपि गन्तव्यम्। अहं त्वां सुबुद्धिप्रभावेन रक्षयिष्यामि। मण्डूक आह। भद्रौ मम तावदेकैव बुद्धिः पलायनपरा। तदहमन्यं जलाशयमद्यैव सभार्यो यास्यामि। एवमुक्त्वा स मण्डूको रात्रावेवान्यजलाशयं गतः। धीवरैरपि प्रभात आगत्य जघन्यमध्यमोत्तमजलचरा मत्स्यकूर्ममण्डूककर्कटादयो गृहीताः। तावपि शतबुद्धिसहस्रबुद्धी सभार्यौ पलायमानौ चिरमात्मानंगतविशेषविज्ञानै रक्षन्तौ जाले पतितौ व्यापादितौ च। अथापराह्नसमये प्रहृष्टास्ते धीवराः स्वगृहं प्रति प्रस्थिताः। गुरुत्वाच्चैकेन शतबुद्धिः स्कन्धे कृतः। सहस्रबुद्धिः प्रलम्बमानो नीयते। ततश्च वापीकण्डोपगतेन मण्डूकेन तौ तथा नीयमानौ दृष्ट्वाभिहिता स्वपत्नी। प्रिये पश्य पश्य।
शतबुद्धिः कृतोन्नामो लम्बते च सहस्रधीः।
एकबुद्धिरहं भद्रे क्रीडामि विमले जले॥५०॥
अतोऽहं ब्रवीमि। नैकान्ते बुद्धिरपि प्रमाणम्। सुवर्णसिद्धिराह। यद्यप्येतदस्ति तथापि मित्रवचनमनुल्लङ्घनीयम्। परं किं क्रियते। निवारितोऽपि मया न स्थितोऽतिलौल्याद्विद्याहंकाराच्च। अथवा साध्विदमुच्यते।
साधु मातुल गीतेन मया प्रोक्तोऽपि न स्थितः।
अपूर्वोऽयं मणिर्वद्धः संप्राप्तं गीतलक्षणम्॥५९॥
चक्रधर आह। कथमेतत्। सोन्रवीत्।
कथा ७.
कस्मिंश्चिदधिष्ठान उद्धतो नाम गर्दभः प्रतिवसति स्म। स सदैव रजकगृहे कर्म कृत्वा रात्रौ स्वेच्छया पर्यटति। ततः प्रत्यूषे बन्धनभयात्स्वयमेव रजकगृहमायाति। रजकोऽपि ततस्तं बन्धनेन नियुनक्ति। अथतस्य रात्रौ पर्यटतः क्षेत्राणि कदाचिच्छृगालेन सह मैत्री संजाता। स च पीवरत्वाद्धृतिभङ्गं कृत्वा कर्कटिकाक्षेत्रे शृगालसहितः प्रविशति। एवं तौ स्वेच्छया चिर्भटिकाभक्षणं कृत्वा प्रत्यहं प्रत्यूषे स्वस्थानं व्रजतः। अथ कदाचित्तेन मदोद्धतेन रासभेन क्षेत्रमध्यस्थितेन शृगालोऽभिहितः। भो भगिनीसुत पश्य पश्य। अतीव निर्मला रजनी। तदहं गीतं करिष्यामि। तत्कथय कतमेन रागेण करोमि। स आह। माम किमनेन वृथार्थप्रचालनेन यतश्चौरकर्मप्रवृत्तावावां निभृतैश्चचौरजारैरत्र स्थातव्यम्। उक्तं च।
काशी विवर्जयेच्चौर्यं निद्रालुश्च स चौरिकाम्।
जिह्वालौल्यं रुजाक्रान्तो जीवितं योऽत्र वाञ्छति॥५२॥
अपरं त्वदीयं गीतं न मधुरस्वरम्। शङ्खशब्दानुकारं दूरादपि श्रूयते। तदत्र क्षेत्रे रक्षापुरुषाः सुप्ताः सन्ति। त उत्थाय वधं बन्धं वा करिष्यन्ति। तद्भक्षय तावदमृतमयीश्चिर्भटीः। मा त्वमव्यापारपरो भव। तच्छ्रुत्वा रासभ आह। भो न त्वं वेत्सि गीतरसं वनाश्रयत्वात्। तेनैतद्ब्रवीषि। उक्तं च।
शरज्ज्योत्स्नाहते दूरं तमसि प्रियसंन्निधौ।
धन्यानां जायते कर्णे गीतझङ्करजा सुधा॥५३॥
शृगाल आह। माम अस्त्येतत्परं न वेत्सि त्वं गीतम्। केवलमुन्नदसि। तत्किं तेन स्त्रार्थभ्रंशकेन। रासभ आह। धिग्धिङ्भूर्खकिमहं न जानामि गीतम्। तद्यथा तस्य भेदाञ्छृणु।
सप्त स्वरास्त्रयो ग्रामा मूर्छनाश्चैकविंशतिः।
तानास्त्वेकोनपञ्चाशदित्येतत्स्वरमण्डलम्॥५४॥
स्थानत्रयं यतीनां च षडास्यानि रसा नव।
रागाः षट्त्रिंशतिर्भावाश्चत्वारिंशत्ततः स्मृताः॥५५॥
पञ्चाशीत्यधिकं ह्येतद्गीताङ्गानां शतं स्मृतम्।
स्वयमेव पुरा प्रोक्तं भरतेन श्रुतेः परम्॥५६॥
नान्यद्गीतात्प्रियं लोके देवानामपि दृश्यते।
शुष्कस्नायुस्वराह्लादात्त्र्यक्षं जग्राह रावणः॥५७॥
तत्कथं भगिनीसुत मामनभिज्ञं वदन्निवारयसि। शृगाल आह। माम यद्येवं तदहं तावद्वृतेर्द्वारस्थितः क्षेत्रपमवलोकयामि। त्वं पुनःस्वेच्छया गीतं कुरु। तथानुष्ठिते रासभरटनमाकर्ण्य क्षेत्रपः क्रोधाद्दन्तान्घर्षयन्प्रधावितः। यावद्रासभो दृष्टस्तावल्लकुटप्रहारैस्तथा हतो यथा प्रताडितो भूपृष्ठे पतितः। ततश्चसच्छिद्रोलूखले बद्ध्वागतो भूयोऽपि प्रसुप्तः। रासभोऽपि स्वजातिस्वभावाद्गतवेदनः क्षणेनाभ्युत्थितः। उक्तं च।
सारमेयस्य चाश्वस्य रासभस्य विशेषतः।
मुहूर्तात्परतो न स्यात्प्रहारजनिता व्यथा॥५८॥
ततस्तमेवोलूखलमादाय वृतिं चूर्णयित्वा पलायितुमारब्धः। अत्रान्तरे शृगालोऽपि दूरादेव तं दृष्ट्वा सस्मितमाह।
साधु मातुल गीतेन मया प्रोक्तोऽपि न स्थितः।
अपूर्वोऽयं मणिर्बद्धः संप्राप्तं गीतलक्षणम्॥५९॥
तद्भवानपि मया वार्यमाणोऽपि न स्थितः। तच्छ्रुत्वा चक्रधर आह। भो मित्र सत्यमेतत्। अथवा साध्विदमुच्यते।
यस्य नास्ति स्वयं प्रज्ञा मित्रोक्तं न करोति यः।
स एव निधनं याति यथा मन्थरकौलिकः॥६०॥
सुवर्णसिद्धिराह। कथमेतत्। सोब्रवीत्।
<MISSING_FIG href="../books_images/U-IMG-1722965900Annotation2024-08-06205418.png"/>
कथा ८.
कस्मिंश्चिदधिष्ठाने मन्थरको नाम कौलिकः प्रतिवसति स्म। तस्य कदाचित्पटकर्माणि कुर्वतः सर्वपटकर्मकाष्ठानि भग्नानि। ततः स कुठारमादाय वने काष्ठार्थं गतः। स च समुद्रतटं यावद्भ्रमन्प्रयातः। ततश्च तत्र शिंशपापादपस्तेन दृष्टः। ततश्चिन्तितवान्। महानयं वृक्षो दृश्यते। तदनेन कर्तितेन प्रभूतानि पटकरणकृत्यानि भविष्यन्ति। इत्यवधार्य तस्योपरि कुठारमुत्क्षिप्तवान्। अथ तत्र वृक्षे कश्चिद्व्यन्तरः समाश्रित आसीत्। अथ तेनाभिहितम्। भोः मदाश्रययोऽयं पादपः सर्वथा रक्षणीयो यतोऽहमत्र महासौख्येन तिष्ठामि समुद्रकल्लोलस्पर्शनाच्छीतवायुनाप्यायितः। कौलिक आह। भोः किमहं करोमि दारुसामग्रीं विना मे कुटुम्बं बुभुक्षया पीड्यते। तस्मादन्यत्र शीघ्रं गम्यताम्। अहमेनं कर्तयिष्यामि। व्यन्तर आह। भोस्तुष्टस्तवाहम्। तत्मार्थ्यतामभीष्टं किंचित्। रक्षैनं पादपमिति। कौलिक आह। यद्येवं तदहं स्वगृहं गत्वा स्वमित्रं स्वभार्यांच पृष्ट्वागमिष्यामि। ततस्त्वया देयम्। अथ तथेति प्रतिज्ञाते व्यन्तरेण स कौलिकः प्रहृष्टः स्वगृहं प्रति निवृत्तः। यावदग्रे गच्छति तावद्ग्रामप्रवेशे निजसुहृदं नापितमपश्यत्। ततस्तस्यव्यन्तरवाक्यं निवेदयामास। यदहो मित्र मम कश्चिद्व्यन्तरः सिद्धः। तत्कथय किं प्रार्थयामि। अहं त्वां प्रष्टुमागतः। नापित आह। भद्र यद्येवं तद्राज्यं प्रार्थय येन त्वं राजा भवस्यहंत्वन्मन्त्री। द्वावपीह सुखमनुभूय परलोकसुखमनुभवावः। उक्तं च।
राजा व्ययपरो नित्यमिह कीर्तिमवाप्य च।
तत्प्रभावात्पुनः स्वर्गे स्पर्धते त्रिदशैः सह॥६१॥
कौलिक आह। अस्त्येतत्परं तथापि गृहिणीं पृच्छामि। स आह। भद्र शास्त्रविरुद्धमेतद्यत्स्त्रिया सह मन्त्रो यतस्ताः स्वल्पमतयो भवन्ति। उक्तं च।
भोजनाच्छादने दद्यादृतुकाले च संगमम्।
भूषणाद्यं च नारीणां न ताभिर्मन्त्रयेत्सुधीः॥६२॥
यत्र स्त्री यत्र कितवो बालो यत्र प्रशासिता।
राजन्निर्मूलतां याति तदृहं भार्गवोऽब्रवीत्॥६३॥
तावत्स्यात्सुप्रसन्नास्यस्तावद्गुरुजने रतः।
पुरुषो योषितां यावन्नशृणोति वचो रहः॥६४॥
एताः स्वार्थपरा नार्यः केवलं स्वसुखे रताः।
न तासां वल्लभः कोऽपि सुतोऽपि स्वसुखं विना॥६५॥
कौलिक आह। तथापि प्रष्टव्या सा मया यतः पतिव्रता सा। अपरं तामपृष्ट्वाहं न किंचित्करोमि। एवं तमभिधाय सत्वरं गत्वा तामुवाच। प्रिये अद्यास्माकं कश्चिद्व्यन्तरः सिद्धः। स वाञ्छितं प्रयच्छति। तदहं त्वां प्रष्टुमागतः। तत्कथय किं प्रार्थयामि। एष तावन्मम मित्रो नापितो वदत्येवं यद्राज्यं प्रार्थय। साह। आर्यपुत्र का मतिर्नापितानाम्। तन्न कार्यंतद्वचः। उक्तं च।
चारणैर्वन्दिभिर्नीचैर्नापितैर्वालकैरपि।
न मन्त्रं मतिमान्कुर्यात्सार्धं भिक्षुभिरेव च॥६६॥
अपरं महती क्लेशपरंपरैषा राज्यस्थितिः संधिविग्रहयानासनसंश्रयद्वैधीभावादिभिः कदाचित्पुरुषस्य सुखं न प्रयच्छतीति। यतः।
यदैव राज्ये क्रियतेऽभिलाषस्तदैव याति व्यसनेषु बुद्धिः।
घटा नृपाणामभिषेककाले सहाम्भसैवापदमुद्गिरन्ति॥६७॥
तथा च।
रामप्रव्रजनं वने निवसनं पाण्डोः सुतानां वने
वृष्णीनां निधनं नलस्य नृपते राज्यात्परिभ्रंशनम्।
सौदासं तदवस्थमर्जुनवधं संचिन्त्य लङ्केश्वरं
दृष्ट्वा राज्यकृते विडम्बनगतं तस्मान्न तद्वाञ्छयेत्॥६८॥
यदर्थं भ्रातरः पुत्रा अपि वाञ्छन्ति ये निजाः।
वधं राज्यकृते राज्ञां तद्राज्यं दूरतस्त्यजेत्॥६९॥
कौलिक आह। सत्यमुक्तं भवत्या। तत्कथय किं प्रार्थयामि। साह। त्वं तावदेकं पटं नित्यमेव निष्पादयसि। तेन सर्वा व्ययशुद्धिः संपद्यते। इदानीं त्वमात्मनोऽन्यद्वाहुयुगलं द्वितीयं शिरश्व प्रार्थय येन पटद्वयं संपादयसि पुरतः पृष्ठतश्च। एकस्य मूल्येन गृहे यथापूर्वं व्ययः शुध्यति द्वितीयस्य मूल्येन विशेषकृत्यानि क्रियन्ते। एवं सौख्येन स्वजातिमध्ये श्लाघ्यमानस्य कालो यास्यति। लोकद्वयस्योपार्जना भविष्यति। सोऽपि तदाकर्ण्य प्रहृष्टः प्राह। साधु पतिव्रते साधु। युक्तमुक्तं भवत्या। तदेवं करिष्यामि। एष मे निश्वयः। ततोऽसौ गत्वा व्यन्तरं प्रार्थयामास। भो यदि मयेप्सितं प्रयच्छसि तद्देहि मे द्वितीयं बाहुयुगलं शिरश्च। एवमभिहिते तत्क्षणादेव द्विशिराचतुर्बाहुश्चसंजातः। ततो हृष्टमना यावद्गृहमागच्छति तावल्लोकै राक्षसोऽयमिति मन्यमानैर्लकुटपाषाणप्रहारैस्ताडितो मृतश्च। अतोऽहं ब्रवीमि।
यस्य नास्ति स्वयं प्रज्ञा मित्रोक्तं न करोति यः।
स एव निधनं याति यथा मन्थरकौलिकः॥७०॥
चक्रधर आह। भोः सत्यमेतत्। सर्वोऽपि जनोऽश्रद्धेयामाशापिशाचिकां प्राप्य हास्यपदवीं याति। अथवा साध्विदमुच्यते केनापि।
अनागतवतीं चिन्तामसंभाव्यां करोति यः।
स एव पाण्डुरः शेते सोमशर्मपिता यथा॥७१॥
सुवर्णसिद्धिराह। कथमेतत्। सोत्रवीत्।
<MISSING_FIG href="../books_images/U-IMG-1722965869Annotation2024-08-06205418.png"/>
कथा ९.
कस्मिंश्चिन्नगरे कश्चित्स्वभावकृपणो नाम ब्राह्मणः प्रतिवसति स्म। तस्य भिक्षार्जितैः सक्तुभिर्भुक्तोर्वरितैर्घटः परिपूरितः। तं च घटं नागदन्तेऽवलम्ब्य तस्याधस्तात्खट्वांनिधाय सततमेकदृष्ट्या तमवलोकयति। अथ कदाचिद्रात्रौ सुप्तश्चिन्तयामास यत्परिपूर्णोऽयं घटस्तावत्सक्तुभिर्वर्तते। तद्यदि दुर्भिक्षं भवति तदनेन रूपकाणां शतमुत्पद्यते ततस्तेन मयाजाद्वयं ग्रहीतव्यम्। ततः षण्मासिकप्रसववशात्ताभ्यां यूथं भविष्यति। ततोऽजाभिः प्रभूता गा ग्रहीष्यामि गोभिर्महिषीर्महिषीभिर्वडवाः। वडवाप्रसवतः प्रभूता अश्वा भविष्यन्ति। तेषां विक्रयात्प्रभूतं सुवर्णं भविष्यति। सुवर्णेन चतुःशालं गृहं संपद्यते। ततः कश्चिद्ब्राह्मणो मम गृहमागत्य प्राप्तवरां रूपाढ्यां कन्यां दास्यति। तत्सकाशात्पुत्रो मे भविष्यति। तस्याहं सोमशर्मेति नाम करिष्यामि। तत्तस्मिञ्जानुचलनयोग्ये संजातेऽहं पुस्तकं गृहीत्वाश्वशालायाः पृष्ठदेश उपविष्टस्तदवधारयिष्यामि। अत्रान्तरे सोमशर्मा मां दृष्ट्वा जनन्युत्सङ्गाज्जानुप्रचलनपरोऽश्वखुरासन्नवर्ती मत्समीपमागमिष्यति। ततोऽहं ब्राह्मणीं कोपाविष्टोऽभिधास्यामि। गृहाण तावद्बालकम्। सापि गृहकर्मव्यग्रतयास्मद्वचनं न श्रोष्यति। ततोऽहं समुत्थाय तां पादप्रहारेण ताडयिष्यामि। एवं तेन ध्यानस्थितेन तथैव पादप्रहारो दत्तो यथा स घटो भग्नः। सक्तुभिः पाण्डुरतां गतः। अतोऽहं ब्रवीमि।
अनागतवतीं चिन्तामसंभाव्यां करोति यः।
स एव पाण्डुरः शेते सोमशर्मपिता यथा॥७२॥
सुवर्णसिद्धिराह। एवमेतत्। कस्ते दोषो यतः सर्वोऽपि लोभेन विडम्बितो बाध्यते। उक्तं च।
यो लौल्यात्कुरुते कर्म नैवोदर्कमवेक्षते।
विडम्बनामवाप्रोति स यथा चन्द्रभूपतिः॥७३॥
चक्रधर आह। कथमेतत्। स आह।
<MISSING_FIG href="../books_images/U-IMG-1722965846Annotation2024-08-06205418.png"/>
कथा १०.
अस्ति कस्मिंश्चिन्नगरे चन्द्रो नाम भूपतिः प्रतिवसति स्म। तस्य पुत्रा वानरक्रीडारता वानरयूथं नित्यमेवानेकभोजनभक्ष्यादिभिः पुष्टिं नयन्ति स्म। अथ वानरयूथाधिपो यः स औशनसबार्हस्पत्यचाणक्यमतवित्तदनुष्ठाता च तान्सर्वानप्यध्यापयति स्म। अथ तस्मिन्राजगृहे लघुकुमारवाहनयोग्यं मेषयूथमस्ति। तन्मध्यादेको जिह्वालौल्यादहर्निशं निःशङ्कं महानसे प्रविश्य यत्पश्यति तत्सर्वं भक्षयति। ते च सूपकारा यत्किंचित्काष्ठं मृन्मयं भाजनं कांस्यपात्रं ताम्रपात्रं वा पश्यन्ति तेनाशु ताडयन्ति। सोऽपि वानरयूथपस्तद्दृष्ट्रा व्यचिन्तयत्। अहो मेषसूपकारकलहोऽयं वानराणां क्षयाय भविष्यति यतोन्नस्वादलम्पटोऽयं मेषो महाकोपाश्चसूपकारा यथासन्नवस्तुना प्रहरन्ति। तद्यदि वस्तुनोऽभावात्कदाचिदुल्मुकेन ताडयिष्यन्ति तदूर्णाप्रचुरोऽयं मेषः स्वल्पेनापि वह्निना प्रज्वलिष्यति। तद्दह्यमानः पुनरश्वकुट्यां समीपवर्तिन्यां प्रवेक्ष्यति। सापि तृणप्राचुर्याज्ज्वलिष्यति। ततोऽश्वा वह्निदाघमवाप्स्यन्ति। शालिहोत्रेण पुनरेतदुक्तम्। यद्वानरवसयाश्वानां वह्निदाघदोषः प्रशाम्यति। तन्नूनमेतेन भाग्यमत्र निश्चयः। एवं निश्चित्य सर्वान्वानरानाहूय रहसि प्रोवाच। यत्
मेषेण सूपकाराणां कलहो यत्र जायते।
स भविष्यत्यसंदिग्धं वानराणां क्षयावहः॥७४॥
तस्मात्स्यात्कलहो यत्र गृहे नित्यं विकारणः।
तद्गृहं जीवितं वाञ्छन्दूरतः परिवर्जयेत्॥७५॥
तथा च।
कलहान्तानि हर्म्याणि कुवाक्यान्तं च सौहृदम्।
कुराजान्तानि राष्ट्राणि कुकर्मान्तं यशो नृणाम्॥७६॥
तन्नयावत्सर्वेषां संक्षयो भवति तावदेतद्राजगृहं संत्यज्य वनं गच्छामः। अथ तत्तस्य वचनमश्रद्धेयं श्रुत्वा मदोद्धता वानराः प्रहस्य प्रोचुः। भो भवतो वृद्धभावाद्बुद्धिवैकल्यं संजातं येनैतद्ब्रवीषि। उक्तं च।
वदनं दशनैर्हीनं लाला स्रवति नित्यशः।
न मतिः स्फुरति क्वापि बाले वृद्धे विशेषतः॥७७॥
न वयं स्वर्गसमानोपभोगान्नानाविधान्भक्ष्यविशेषान्राजपुत्रैः स्वहस्तदत्तानमृतकल्पान्परित्यज्य तत्राटव्यां कषायकटुतिक्तक्षाररूक्षफलानि भक्षयिष्यामः। तच्छ्रुत्वाश्रुकलुषां दृष्टिं कृत्वा स प्रोवाच। रे रे मूर्खा यूयमेतस्य सुखस्य परिणामं न जानीथ। पाकरसास्वादनप्रायमेतत्सुखं परिणामे विषवद्भविष्यति। तदहं कुलक्षयं स्वयं नावलोकयिष्यामि। सांप्रतं वनं यास्यामि। उक्तं च।
मित्रं व्यसनसंप्राप्तं स्वस्थानं परपीडितम्।
धन्यास्ते ये न पश्यन्ति देशभङ्गं कुलक्षयम्॥७८॥
एवमभिधाय सर्वांस्तान्परित्यज्य स यूथाधिपोऽटव्यां गतः। अथ तस्मिन्गतेऽन्यस्मिन्नहनि स मेषो महानसे प्रविष्टो यावत्सूपकारेण नान्यत्किंचित्समासादितं तावदर्थज्वलितकाष्ठेन ताड्यमानो जाज्वल्यमानशरीरः शब्दायमानोऽश्वकुट्यां प्रत्यासन्नवर्तिन्यां प्रविष्टः। तत्र तृणप्राचुर्ययुक्तायां क्षितौ तस्य प्रलुठतः सर्वत्रापि वह्निज्वालास्तथा समुत्थिता यथा केचिदश्वाः स्फुटितलोचनाः पञ्चत्वं गताः केचिद्वन्धनानि त्रोटयित्वार्धदग्धशरीरा इतश्चेतश्च हेषायमाणा धावमानाः सर्वमपि जनसमूहमाकुलीचक्रुः। अत्रान्तरे राजा सविषादः शालिहोत्रज्ञान्वैद्यानाहूय प्रोवाच। भोः प्रोच्यतामेषामश्वानां कश्चिद्दाहोपशमनोपायः। तेऽपि शास्त्राणि संचिन्त्य प्रोचुः। देव प्रोक्तमत्र विषये भगवता शालिहोत्रेण यत्।
कपीनां मेदसा दोषो वह्निदाहसमुद्भवः।
अश्वानां नाशमभ्येति तमः सूर्योदये यथा॥७९॥
तत्क्रियतामेतच्चिकित्सितं द्राग्यावन्नैतेन दाहदोषेण विनश्यन्ति। सोऽपि तदाकर्ण्य समस्तवानरवधमादिष्टवान्। किं बहुना। सर्वेऽपि ते वानरा विविधायुधलकुटपाषाणादिभिर्व्यापादिता इति। अथ सोऽपि वानरयूथपस्तं पुत्रपौत्रभ्रातृसुतभागिनेयादिसंक्षयं ज्ञात्वा परं विषादमुपागतः। स त्यक्ताहारक्रियो बनाद्वनं पर्यटति। अचिन्तयच्च। कथमहं तस्य नृपापसदस्यानृणताकृत्येनापकृत्यं करिष्यामि। उक्तं च।
मर्षयेद्धर्षणां योऽत्र वंशजां परनिर्मिताम्।
भयाद्वा यदि वा कामात्स ज्ञेयः पुरुषाधमः॥८०॥
अथ तेन वृद्धवानरेण कुत्रचित्पिपासाकुलेन भ्रमता पद्मिनीषण्डमण्डितं सरः समासादितम्। तद्यावत्सूक्ष्मेक्षिकयावलोकयति तावद्वनचरमनुष्याणां पदपङ्क्तिप्रवेशोऽस्ति न निष्क्रमणम्। ततश्चिन्तितम्। नूनमत्र जलान्ते दुष्टग्राहेण भाव्यम्। तत्पद्मिनीनालमादाय दूरस्थोऽपि जलं पिवामि। तथानुष्ठिते तन्मध्याद्राक्षसो निष्क्रम्य रत्नमालाविभूषितकण्ठस्तमुवाच। भो अत्र यः सलिले प्रवेशं करोति स मे भक्ष्य इति। तन्नास्ति धूर्ततरस्त्वत्समोऽन्यो यत्पानीयमनेन विधिना पिबसि। ततस्तुष्टोऽहम्। प्रार्थय हृदयवाञ्छितम्। कपिराह। भोः कियती ते भक्षणशक्तिः। स आह। शतसहस्रायुतलक्षाण्यपि जलप्रविष्टानि भक्षयामि। बाह्यतः शृगालोऽपि मां दूषयति। वानर आह। अस्ति मे भूपतिना सहात्यन्तं वैरम्। यद्येनां रत्नमालां मे प्रयच्छसि तत्सपरिवारमपि तं भूपतिं वाक्यपञ्चेन लोभयित्वात्र सरसि यथा प्रविशति तथा करोमि। सोऽपि श्रद्धेयं वचस्तस्य श्रुत्वा रत्नमालां दत्त्वा प्राह। भो मित्र यत्समुचितं भवति तत्कर्तव्यमिति। वानरो।पि रत्नमालाविभूषितकण्ठोवृक्षप्रासादेषु परिभ्रमञ्जनैर्दृष्टः पृष्टश्च। भो यूथप भवानियन्तं कालं कुत्र स्थितः। भवतेदृग्रत्नमाला कुत्र लब्धा या दीप्ता सूर्यमपि तिरस्करोति। वानरः प्राह। अस्ति कुत्रचिदरण्ये गुप्ततरं महत्सरो धनदनिर्मितम्। तत्र सूर्येऽर्धोदिते रविवारे यः कश्विन्निमज्जति स धनदप्रसादादीदृग्रत्नमालाविभूषितकण्ठोनिःसरति। अथ भूभुजा तदाकर्ण्य स वानरः समाहूतः पृष्टश्च। भो यूथाधिप किं सत्यमेतत्। रत्नमालासनाथं सरोऽस्ति क्वापि। कपिराह। स्वामिन् एष प्रत्यक्षतया मत्कण्ठस्थितया रत्नमालया प्रत्ययस्ते। तद्यदि रत्नमालाप्रयोजनं तन्मया सह कमपि प्रेषय येन दर्शयामि। तच्छ्रुत्वा नृपतिराह। यद्येवं तदहं सपरिजनः स्वयमेष्यामि येन प्रभूता रत्नमालाः संपद्यन्ते। वानर आह। स्वामिन् एवं क्रियताम्। तथानुष्ठिते भूपतिना सह रत्नमालालोभेन सर्वे कलत्रभृत्याः प्रस्थिताः। वानरोऽपि राज्ञा दोलाधिरूढेन स्वोत्सङ्ग आरोपितः सुखेन प्रीतिपूर्वमानीयते। अथवा साध्विदमुच्यते।
तृष्णे देवि नमस्तुभ्यं यया वित्तान्विता अपि।
अकृत्येषु नियोज्यन्ते भ्राम्यन्ते दुर्गमेष्वपि॥८१॥
तथा च।
इच्छति शती सहस्रं सहस्री लक्षमीहते।
लक्षाधिपस्तथा राज्यं राज्यस्थः स्वर्गमीहते॥८२॥
जीर्यन्ते जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः।
जीर्यतश्चक्षुषी श्रोत्रे तृष्णैका तरुणायते॥८३॥
अथ तत्सरः समासाद्य वानरः प्रत्यूषसमये राजानमुवाच। देव अत्रार्धोदिते सूर्येऽत्र प्रविष्टानां सिद्धिर्भवति। तत्सर्वोऽपि जन एकदैव प्रविशतु। त्वया पुनर्मया सह प्रवेष्टव्यं येन पूर्वदृष्टस्थानमासाद्य प्रभूतास्ते रत्नमाला दर्शयामि। अथ प्रविष्टास्ते लोकाः सर्वे भक्षिता राक्षसेन। अथ तेषु चिरायमाणेषु राजा वानरमाह। भो यूथाधिप किमिति चिरायते मे जनः। तच्छ्रुत्वा वानरः सत्वरं वृक्षमारुह्य राजानमुवाच। भो दुष्टनरपते राक्षसेनान्तःसलिलस्य स्थितेन भक्षितस्ते परिजनः। साधितं मया कुलक्षयजं वैरम्। तद्गम्यताम्। त्वं स्वामीति मत्वा नात्र प्रवेशितः। उक्तं च।
कृते प्रतिकृतिं कुर्याद्धिंसिते प्रतिहिंसितम्।
न तत्र दोषं पश्यामि दुष्टे दुष्टं समाचरेत्॥८४॥
तत्त्वया मम कुलक्षयः कृतो मया पुनस्तवेति। अथैतदाकर्ण्य राजा शोकाविष्टः पदातिरेकाकी यथायातमार्गेण निष्क्रान्तः। अथ तस्मिन्भूपतौ गते राक्षसस्तृप्तो जलान्निष्क्रम्य सानन्दमिदमाह।
हतः शत्रुः कृतं मित्रं रत्नमाला न हारिता।
नालेनास्वादितं तोयं साधु भो वटवानर॥८५॥
अतोऽहं ब्रवीमि।
यो लौल्यात्कुरुते कर्म नैवोदर्कमवेक्षते।
विडम्बनामवाप्नोति स यथा चन्द्रभूपतिः॥८६॥
एवमुक्त्वा भूयोऽपि स चक्रधरमाह। भो मित्र प्रेषय मां येन स्वगृहं गच्छामि। चक्रधर आह। भद्र आपदर्थे धनमित्रसंग्रहः क्रियते। तन्मामेवंविधं त्यक्त्वा क्व यास्यसि। उक्तं च।
यस्त्यक्त्वा सापदं मित्रं याति निष्ठुरतां सुहृत्।
कृतघ्नस्तेन पापेन नरके यात्यसंशयम्॥८७॥
सुवर्णसिद्धिराह। भोः सत्यमेतद्यदि गम्यस्थाने शक्तिर्भवति। एतत्पुनर्मनुष्याणामगम्यस्थानम्। नास्ति कस्यापि त्वामुन्मोचयितुं शक्तिः। अपरं यथा यथा चक्रभ्रमवेदनया तव मुखविकारं पश्यामि तथा तथाहमेतज्जानामि यद्द्राग्गच्छामि मा कश्चिन्ममाप्यनर्थो भवेत्। यतः।
यादृशी वदनच्छाया दृश्यते तव वानर।
विकालेन गृहीतोऽसि यः परैति स जीवति॥८८॥
चक्रधर आह। कथमेतत्। सोऽब्रवीत्।
<MISSING_FIG href="../books_images/U-IMG-1722965810Annotation2024-08-06205418.png"/>
कथा ११.
कस्मिश्चिन्नगरे भद्रसेनो नाम राजा प्रतिवसति स्म। तस्य सर्वलक्षणसंपन्ना रत्नवती नाम कन्यास्ति। तां कश्चिद्राक्षसो जिहीर्षति। रात्रावागत्योपभुङ्के। परं कृतरक्षोपधानां हर्तुं न शक्नोति। सापि तत्समये रक्षःसांनिध्यजामवस्थामनुभवति कम्पादिभिः। एवमतिक्रामति काले कदाचित्स राक्षसो मध्यनिशायां गृहकोणे स्थितः। सापि राजकन्या स्वसखीमुवाच। सखि पश्यैष विकालसमये नित्यमेव मां कदर्थयति। अस्ति तत्तस्य दुरात्मनः प्रतिषेधोपायः कश्चित्। तच्छ्रुत्वा राक्षसोऽपि व्यचिन्तयत्। नूनं यथाहं तथान्योऽपि कश्चिद्विकालनामास्या हरणाय नित्यमेवागच्छति। परं सोऽप्येनां हर्तुं न शक्नोति। तत्तावदश्वरूपं कृत्वाश्वमध्यगतो निरीक्षयामि किंरूपः स किंप्रभाव इति। एवं राक्षसोऽश्वरूपं कृत्वाश्वानां मध्ये तिष्ठति। तथानुष्ठिते निशीथसमये राजगृहे कश्चिदश्वचौरः प्रविष्टः। स च सर्वानश्वानवलोक्य तं राक्षसमश्वतमं विज्ञायाधिरूढः। अत्रान्तरे राक्षसश्चिन्तयामास। नूनमेष त्रिकालनामा मां चौरं मत्वाकोपान्निहन्तुमागतः। तत्किं करोमि। एवं चिन्तयन्सोऽपि तेन खलीनां मुखे निधाय कशाघातेन ताडितः। अथासौ भयत्रस्तमनाः प्रधावितुमारब्धः। चौरोऽपि दूरं गत्वा खलीनाकर्षणेन तं स्थिरं कर्तुमारब्धवान्। स तु केवलं वेगाद्वेगतरं गच्छति। अथ तं तथागणितखलीनाकर्षणं मत्वा चौरश्चिन्तयामास। अहो नैवंविधा वाजिनो भवन्ति नैवमगणितखलीनाः। तन्नूनमनेनाश्वरूपेण राक्षसेन भवितव्यम्। तद्यदि कंचित्पांसुलं भूमिदेशमवलोकयामि तदात्मानं तत्र पातयामि। नान्यथा मे जीवितव्यमस्ति। एवं चिन्तयत इष्टदेवतां स्मरतस्तस्य सोऽश्वोवटवृक्षस्य तले निष्क्रान्तः। चौरोऽपि वटप्ररोहमासाद्य तत्रैव विलग्नः। ततो द्वावपि तौ पृथग्भूतौ परमानन्दभाजौ जीवितविषये लब्धप्रत्याशौ संपन्नौ। अथ तत्र वटे कश्चिद्राक्षससुहृद्वानरः स्थित आसीत्। तेन राक्षसं त्रस्तमालोक्य व्याहृतम्। भो मित्र किमेवं पलायतेऽलीकभयेन। त्वद्भक्ष्योऽयं मानुषः। भक्ष्यताम्। सोऽपि वानरवचो निशम्य स्वरूपमाधाय शङ्कितमनाः स्खलितगतिर्निवृत्तः। चौरोऽपि तं वानराहूतं ज्ञात्वा कोपात्तस्य लाङ्गूलं लम्बमानं मुखे निधाय चर्वितवान्। वानरोऽपि तं राक्षसाभ्यधिकं मन्यमानो भयान्नकिंचिदुक्तवान्केवलं व्यथार्त्तो निमीलितनयनस्तिष्ठति यथा भवानिति। राक्षसोऽपि तं तथाभूतमवलोक्य श्लोकमेकमेनमपठत्।
यादृशी वदनच्छाया दृश्यते तव वानर।
विकालेन गृहीतोऽसि यः परैति स जीवति॥८९॥
प्रनष्टश्च।
तत्प्रेषय मां येन गृहं गच्छामि। त्वं पुनरनुभुङ्क्षवात्र स्थित एव लोभवृक्षफलम्। चक्रधरः प्राह। भो अकारणमेतत्। दैववशात्संपद्यते नृणां शुभाशुभम्। उक्तं च।
दुर्ग त्रिकूटः परिखा समुद्रो रक्षांसि योधा धनदाच्च वित्तम्।
शास्त्रं च यस्योशनसा प्रणीतं स रावणो दैववशाद्विपन्नः॥१०॥
तथा च।
अन्धकः कुब्जकश्चैव त्रिस्तनी राजकन्यका।
त्रयोप्यन्यायतः सिद्धाः संमुखे कर्मणिस्थिते॥९१॥
सुवर्णसिद्धिराह कथमेतत्। सोऽब्रवीत्।
कथा १२.
अस्त्यत्र धरातल उत्तरपथे मधुपुरं नाम नगरम्। तत्र मधुसेनो नाम राजा बभूव। तस्य कदाचिद्विषयसुखमनुभवतस्त्रिस्तनी कन्या बभूव। अथ तां त्रिस्तनीं जातां श्रुत्वा स राजा कञ्चुकिनः प्रोवाच। यद्भोस्त्यज्यतामियं त्रिस्तनी गत्वा दूरेऽरण्ये यथा कश्चिन्न जानाति। तच्छ्रुत्वा कञ्चुकिनः प्रोचुः। महाराज ज्ञायते यदनिष्टकारिणी त्रिस्तनी कन्या भवति। तथापि ब्राह्मणा आहूय प्रष्टव्या येन लोकद्वयं न विरुध्यते। यतः।
यः सततं परिपृच्छति शृणोति संधारयत्यनिशम्।
तस्य दिवाकरकिरणैर्नलिनीव विवर्धते बुद्धिः॥९२॥
तथा च।
पृच्छकेन सदा भाव्यं पुरुषेण विजानता।
राक्षसेन्द्रगृहीतोऽपि प्रश्नान्मुक्तो द्विजः पुरा॥९३॥
राजाह। कथमेतत्। ते प्रोचुः।
<MISSING_FIG href="#"/><MISSING_FIG href="../books_images/U-IMG-1722965785Annotation2024-08-06205418.png"/>
कथा १३.
देव कस्मिंश्चिद्वनोद्देशे चण्डकर्मा नाम राक्षसः प्रतिवसति स्म। एकदा तेन भ्रमताटव्यां कश्चिद्ब्राह्मणः समासादितः। ततस्तस्य स्कन्धमारुह्य प्रोवाच। भो अग्रे सरो गम्यताम्। ब्राह्मणोऽपि भयत्रस्तमनास्तमादाय प्रस्थितः। अथ तस्य कमलोदरकोमलौ पादौ दृष्ट्वा ब्राह्मणो राक्षसमपृच्छत्। भोः किमेवंविधौ ते पादावतिकोमलौ। राक्षस आह। भो व्रतमस्ति। नाहमार्द्रपादो भूमिं स्पृशामि। ततस्तच्छ्रुत्वात्मनो मोक्षोपायं चिन्तयंस्तत्सरः प्राप्तः। ततो राक्षसेनाभिहितम्। भो यावदहं स्नानं कृत्वा देवतार्चनविधिं विधायागच्छामि तावत्त्वयातः स्थानान्नान्यत्र गन्तव्यम्। तथानुष्ठिते द्विजश्चिन्तयामास। नूनं देवतार्चनविधेरूर्ध्वं मामेष भक्षयिष्यति। तद्द्रुततरं गच्छामि येनैष आर्द्रपादो न मम पृष्ठमेष्यति। तथानुष्टिते राक्षसो व्रतभङ्गभयात्तस्य पृष्ठं न गतः। अतोऽहं ब्रवीमि।
पृच्छकेन सदा भाव्यं पुरुषेण विजानता।
राक्षसेन्द्रगृहीतोऽपि प्रश्नान्मुक्तो द्विजः पुरा॥९४॥
अथ तेभ्यस्तच्छ्रुत्वा राजा द्विजानाहूय प्रोवाच। भो ब्राह्मणाः त्रिस्तनी मेकन्या संपन्ना। तत्किं तस्याः प्रतिविधानमस्ति किं वा न। ते प्रोचुः। देव भूयताम्।
हीनाङ्गी वाधिकाङ्गी वा या भवेत्कन्यका नृणाम्।
भर्तुः स्यात्सा विनाशाय स्वशीलनिधनाय च॥९५॥
या पुनस्त्रिस्तनोपेता याति लोचनगोचरम्।
पितरं नाशयत्येव सा द्रुतं नात्र संशयः॥९६॥
तस्मादस्या दर्शनं परिहरतु देवः। तथा यदि कश्चिदुद्वाहयति तदेनां तस्मै दत्त्वा देशत्यागेन नियोजयितव्य इति। एवं कृते लोकद्वयाविरुद्धता भवति। अथ तेषां तद्वचनमाकर्ण्य स राजा पटहशब्देन सर्वत्र घोषणामाज्ञापयामास। अहो त्रिस्तनीं राजकन्यां यः कश्चिदुद्वाहयति स सुवर्णलक्षमाप्नोति देशत्यागं च। एवं तस्यामाघोषणायां क्रियमाणायां महान्कालो व्यतीतः। न कश्चित्तां प्रतिगृह्णाति। सापि यौवनोन्मुखी संजाता सुगुप्तस्थानस्थिता यत्नेन रक्ष्यमाणा तिष्ठति। अथ तत्रैव नगरे कश्चिदन्धस्तिष्ठति। तस्य च मन्थरकनामा कुब्जोऽग्रेसरो यष्टिग्राही। ताभ्यां तं पटहशब्दमाकर्ण्य मिथो मन्त्रितम्। स्पृश्यतेयं पटहो यदि कथमपि दैवात्कन्या लभ्यते तथा सुवर्णप्राप्तिश्च भवति। सुखेन सुवर्णप्राप्त्याकालो व्रजति। अथ यदि तस्या दोषतो मृत्युर्भवति दारिद्र्योपात्तस्यास्य क्लेशस्य पर्यन्तो भवति। उक्तं च।
लज्जा स्नेहः स्वरविशदता बुद्धयः सौमनस्यं
प्राणोनङ्गः पठनसमता दुःखहानिर्विलासाः।
धर्मः शास्त्रं सुरगुरुमतिः शौचमाचारचिन्ता
सस्यैः पूर्णे जठरपिठरे प्राणिनां संभवन्ति॥९७॥
एवमुक्त्वान्धेन गत्वा स पटहः स्पृष्टः। भो अहं तां कन्यामुद्वाहयामि यदि राजा मे प्रयच्छति। ततस्तै राजपुरुषैर्गत्वा राज्ञे निवेदितम्। देव अन्धकेन केनचित्पटहः स्पृष्टः। तदत्र विषये देवः प्रमाणम्। किं क्रियतामिति। राजा प्राह।
अन्धो वा बधिरो वापि कुष्ठी वाप्यन्त्यजोऽपि वा।
प्रतिगृह्णातु तां कन्यां सलक्षां स्याद्विदेशगः॥९८॥
अथ राजादेशात्तै रक्षापुरुषैस्तं नदीतीरे नीत्वा सुवर्णलक्षेण समं विवाहविधिना त्रिस्तनीं तस्मै दत्त्वा जलयाने निधाय कैवर्ताःप्रोक्ताः। भो देशान्तरं नीत्वा कस्मिंश्चिदधिष्ठानेऽन्धः सपत्नीकः कुब्जः केन सह मोचनीयः। तथानुष्ठिते विदेशमासाद्य कस्मिंश्चिदधिष्ठाने कैवर्तदर्शिते ते त्रयोऽपि मूल्येन गृहं प्राप्ताः सुखेन कालं नयन्ति स्म। केवलमन्धः पर्यङ्के सुप्तस्तिष्ठति। गृहव्यापारं मन्थरकः करोति। एवं गच्छता कालेन त्रिस्तन्याः कुब्जकेनसह विकृतिः समपद्यत। अथवा साध्विदमुच्यते।
यदि स्याच्छीतसोवह्निश्चन्द्रमा दहनात्मकः।
सुस्वादः सागरः स्त्रीणां तत्सतीत्वं प्रजायते॥९९॥
अथान्येद्युस्त्रिस्तन्या मन्थरकोऽभिहितः। भोः सुभग यद्येषोऽन्धः कथंचिद्व्यापाद्यते तदावयोः सुखेन कालो याति। तदन्विष्यतां कुत्रचिद्विषं येनास्मै तत्प्रदाय सुखिनी भवामि। अन्यदा कुब्जकेन परिभ्रमता मृतः कृष्णसर्पः प्राप्तः। तं गृहीत्वा प्रहृष्टमना गृहमभ्येत्य तामाह। सुभगे लब्धोऽयं कृष्णसर्पः। तदेनं खण्डशः कृत्वा प्रभूतशुण्ठ्यादिभिः संस्कार्यामुष्मै विकलनेत्राय मत्स्यामिषं भणित्वाप्रयच्छ येन द्राग्विनश्यति यतोऽस्य मत्स्यस्यामिषं सदा प्रियम्। एवमुक्त्वा मन्थरको बाह्ये गतः। सापि प्रदीप्रवह्नौ कृष्णसर्पं खण्डशः कृत्वा तक्रमादाय गृहव्यापाराकुला तं विकलाक्षं सप्रश्रयमुवाच। आर्यपुत्र तवाभीष्टं मत्स्यमांसं समानीतं यतस्त्वं सदैव तत्पृच्छसि। ते च मत्स्या वह्नौ पाचनाय तिष्ठन्ति। तद्यावदहं गृहकृत्यं करोमि तावत्त्वंदर्वीमादाय क्षणमेकं तान्प्रचालय। सोऽपि तदाकर्ण्य हृष्टमनाः सृक्किणी परिलिहन्द्रुतमुत्थाय दर्वीमादाय प्रमथितुमारब्धः। अथ तस्य मत्स्यान्मथतो विषगर्भवाष्पेण संस्पृष्टं नीलपटलं चक्षुर्भ्याममगलत्। असावप्यन्धो बहुगुणं मन्यमानो विशेषान्नेत्राभ्यां बाष्पग्रहणमकरोत्। ततो लब्धदृष्टिर्जातो यावत्पश्यति तावत्तक्रमध्ये कृष्णसर्पखण्डानि केवलान्येवावलोकयति। ततो व्यचिन्तयत्। अहो किमेतत्। मम मत्स्यामिषं कथितमासीदनया। एतानि तु कृष्णसर्पखण्डानि। तत्तावद्विजानामि सम्यक्त्रिस्तन्याश्चेष्टितं किं मम वधोपायक्रमः कुब्जस्य वोताहो अन्यस्य वा कस्यचित्। एवं विचिन्त्य स्वाकारं गूहन्नन्धवत्कर्म करोति यथा पुरा। अत्रान्तरे कुब्जःसमागत्य निःशङ्कतयालिङ्गनचुम्बनादिभिस्त्रिस्तनीं सेवितुमुपचक्रमे। सोऽप्यन्धस्तमवलोकयन्नपि यावन्न किंचिच्छस्त्रंपश्यति तावत्कोपव्याकुलमनाः पूर्ववच्छयनं गत्वा कुब्जं चरणाभ्यां संगृह्य सामर्थ्यात्स्वमस्तकोपरि भ्रामयित्वा त्रिस्तनीं हृदये व्यताडंयत्। अथ कुब्जप्रहारेण तस्यास्तृतीयः स्तन उरसि प्रविष्टः। तथा बलान्मस्तकोपरि भ्रामणेन कुब्जः प्राञ्जलतां गतः। अतोऽहं ब्रवीमि।
अन्धकः कुब्जकश्चैव त्रिस्तनी राजकन्यका।
त्रयोऽप्यन्यायतः सिद्धाः संमुखे कर्मणि स्थिते॥१००॥
सुवर्णसिद्धिराह। भोः सत्यमेतत्। दैवानुकूलतया सर्वं कल्याणं संपद्यते। तथापि पुरुषेण सतां वचनं कार्यम्। न पुनरेवमेव यो वर्तते स त्वमिव विनश्यति। तथा च।
एकोदराः पृथग्ग्रीवा अन्योन्यफलभक्षिणः।
असंहता विनश्यन्ति भारण्डा इव पक्षिणः॥१०१॥
चक्रधर आह। कथमेतत्। सोऽब्रवीत्।
<MISSING_FIG href="../books_images/U-IMG-1722965723Annotation2024-08-06205418.png"/>
कथा १४.
कस्मिंश्चित्सरोवरे भारण्डनामा पक्ष्येकोदरः पृथग्ग्रीवः प्रतिवसति स्म। तेन च समुद्रतीरे परिभ्रमता किंचित्फलममृतकल्पं तरंगाक्षिप्तं संप्राप्तम्। सोऽपि भक्षयन्निदमाह। अहो बहूनि मयामृतप्रायाणि समुद्रकल्लोलाहृतानि फलानि भक्षितानि। परमपूर्वोऽस्यास्वादः। तत्किं पारिजातहरिचन्दनतरुसंभवं किं वा किंचिदमृतमयफलमव्यक्तेनापि विधिनापतितम्। एवं तस्य ब्रुवतो द्वितीयमुखेनाभिहितम्। भो यद्येवं तन्ममापि स्तोकं प्रयच्छ येन जिह्वासौख्यमनुभवामि। ततो विहस्य प्रथमवक्त्रेणाभिहितम्। आवयोस्तावदेकमुदरमेका तृप्तिश्च भवति। ततः किं पृथग्भक्षितेन। वरमनेन शेषेण प्रिया तोष्यते। एवमभिधाय तेन शेषं भारण्ड्याः प्रदत्तम्। सापि तदास्वाद्य प्रहृष्टतमालिङ्गनचुम्बनसंभावनानेकचाटुपरा बभूव। द्वितीयं मुखं तद्दिनादेव प्रभृति सोद्वेगं सविषादं च तिष्ठति। अथान्येद्युर्द्वितीयमुखेन विषफलं प्राप्तम्। तद्दृष्ट्वापरमाह। भो निस्त्रिंश पुरुषाधम निरपेक्ष मया विषफलमासादितम्। तत्तवापमानाद्भक्षयामि। अपरेणाभिहितम्। मूर्ख मा मैवंकुरु। एवं कृते द्वयोरपि विनाशो भविष्यति। अथैवं वदता तेनापमानेन फलं भक्षितम्। किं बहुना। द्वावपि विनष्टौ। अतोऽहं ब्रवीमि।
एकोदराः पृथग्ग्रीवा अन्योन्यफलभक्षिणः।
असंहता विनश्यन्ति भारण्डा इव पक्षिणः॥१०२॥
चक्रधर आह। सत्यमेतत्। तद्गच्छ गृहम्। परमेकाकिना न गन्तव्यम्। उक्तं च।
एकः स्वादु न भुञ्जीत नैकः सुप्तेषु जागृयात्।
एको न गच्छेदध्वानं नैकश्चार्थान्प्रचिन्तयेत्॥१०३॥
अपि च।
अपि कापुरुषो मार्गे द्वितीयः क्षेमकारकः।
कर्कटेन द्वितीयेन जीवितं परिरक्षितम्॥१०४॥
सुवर्णसिद्धिराह। कथमेतत्। सोऽब्रवीत्।
कथा १५.
कस्मिंश्चिदधिष्ठाने ब्रह्मदत्तनामा ब्राह्मणः प्रतिवसति स्म। स च प्रयोजनवशाद्ग्रामे प्रस्थितः स्वमात्राभिहितः। यद्वत्स कथमेकाकी व्रजसि। तदन्विष्यतां कश्चिद्द्वितीयः सहायः। स आह। अम्ब मा भैषीः। निरुपद्रवोऽयं मार्गः। कार्यवशादेकाकी गमिष्यामि। अथ तस्य तं निश्चयं ज्ञात्वा समीपस्थवाप्याः सकाशात्कर्कटमादाय मात्राभिहितः। वत्स अवश्यं यदि गन्तव्यं तदेष कर्कटोऽपि सहायः। तदेनं गृहीत्वा गच्छ। सोऽपि मातुर्वचनादुभाभ्यां पाणिभ्यां तं संगृह्य कर्पूरपुटिकामध्ये निधाय पात्रमध्ये संक्षिप्य शीघ्रं प्रस्थितः। अथ गच्छन्ग्रीष्मोष्मणा संतप्तः कंचिन्मार्गस्थं वृक्षमासाद्य तत्रैव प्रसुप्तः। अत्रान्तरे वृक्षकोटरान्निर्गत्य सर्पस्तत्समीपमागतः। सोऽपि कर्पूरसुगन्धसहजप्रियत्वात्तं परित्यज्य वस्त्रं विदार्याभ्यन्तरगतां कर्पूरपुटिकामतिलौल्यादभक्षयत्। सोऽपि कर्कटस्तत्रैव स्थितः सन्सर्पप्राणानपाहरत्। ब्राह्मणोऽपि यावत्प्रबुद्धः पश्यति तावत्समीपे कृष्णसर्पो निजपार्श्वे कर्पूरपुटिकोपरि स्थितस्तिष्ठति। तं दृष्ट्वा व्यचिन्तयत्। कर्कटेनायं हत इति प्रसन्नो भूत्वाब्रवीत्। भोः सत्यमभिहितं मम मात्रा यत्पुरुषेण कोऽपि सहायः कार्यो नैकाकिना गन्तव्यम्। ततो मया श्रद्धापूरितचेतसा तद्वचनमनुष्ठितम्। तेनाहं कर्कटेन सर्पव्यापादनाद्रक्षितः। अथवा साध्विदमुच्यते।
मन्त्रे तीर्थे द्विजे देवे दैवज्ञे भेषजे गुरौ।
यादृशी भावना यस्य सिद्धिर्भवति तादृशी॥१०५॥
एवमुक्त्वासौ ब्राह्मणो यथाभिप्रेतं गतः। अतोहं ब्रवीमि।
अपि कापुरुषो मार्गे द्वितीयः क्षेमकारकः।
कर्कटेन द्वितीयेन जीवितं परिरक्षितम्॥१०६॥
ततश्च सुवर्णसिद्धिरपि तं चक्रधरं ब्राह्मणो यथानुज्ञाप्य स्वगृहं गतः॥
समाप्तं चेदमपरीक्षितकारकं नाम पञ्चमं तन्त्रम्॥
॥एवं पञ्चतन्त्रकं नाम नीतिशास्त्रं समाप्तम्॥
<MISSING_FIG href="../books_images/U-IMG-1722965680Annotation2024-08-06205418.png"/>
NOTES TO PANCHATANTRA IV. AND V.
–––––––––––––––––––
P.1,1.1. —लब्धप्रणाशम् compare अभिज्ञानशकुन्तलं नाम नाटकम्, the titles of the other Tantras and those of the Kâvyas.
P.1,1.3. —बुद्धि ‘presence of mind.’
P.1,1.13. — The Vaiśvadeva is the sacrifice which ought to be offered before the morning and evening meals with the freshly prepared food. It includes oblations to various deities and ends with one offered to the viśve devâḥ, all the gods; see Manu, III., 84, seq., and 121. The accusative वैश्वदेवान्तम्denotes here the time at which, as it often does, in the ancient books and more rarely in the later works, see Speijer, Sanskrit Syntax, § 54, Rem. 1. **स्वर्गसंक्रमः,**bahuv-rîhi–compound.
P.1.1.14. — चरण ‘a Vedic school,’ such as that of the Â
pastambas. विद्या the knowledge (of the Vedas and Vedângas), sacred learning. ‘The Brâhmanas, Sûtras, and Smritis use this word almost exclusively in this restricted sense.
P.1,1.20.—विविधशास्त्रगोष्ठी‘conversations regarding various sciences.’
P.2,1.5.—एकस्थाने, ‘first,’अन्यस्मिन्, ‘secondly.’प्रसूते ‘produces offspring,’ ‘i. e., ‘is the source of the ties of relationship.’
P.2,1.11.— Metre of śloka 6, Śârdûlavikriḍita. हुप्तवहज्वालासमम्, (sighest sighs) ‘burning hot, like flames of fire. '
P.2,1.12.— यत् ‘because’ must be taken also with each of the preceding sentences.
P.2,1.16.— Sense of śloka 7: ‘Be kind again, because I show contrition, and really nobody loves thee so well as I.’
P.2,1.19.— Metre of śloka 8, Vasantatilakâ.
P.2,1.20.—कृत्रिमभावरम्या ‘charming on account of her feigned affection.’
P.2,1.25.— प्रायोपवेशनं कृतं विद्धि‘know that I shall certainly kill myself by fasting.’ The part. perf. pass. indicates the firm resolution, which is so firm that the act may be considered as good as done.
P.3,1.1.
— वज्रलेप ‘diamond-cement,’ regarding its preparation, see Tantra I., P. 66, śloka 260, note.
P.3,1.3. —वध्यः, see Kielhorn Gr. § 537.
P.3, 15.—चतुष्क ‘a square.‘Probably the चौक or four-corner figures are meant here, which are drawn in white chalk, or formed of wheat or rice, round the seat or dining-place of honoured guests at festive occasions, see Molesworth’s Marâṭhi Dict., s. v. चौक.This explanation, which I owe to Mr. Shankar P. Paṇḍit, seems better than that proposed in the Petersburg Dict., s. v.**,चतुष्क,**viz., ‘a hall resting on four pillars or a Maṇḍapa.’ For it is, at least now, not customary to erect Maṇḍapas simply for reception of guests. प्रगुणित ‘splendid.’
P.3,1.18—कौलिकाकार’
behaving like a weaver,’ because the weaver constant-ly draws towards himself the batten and the threads of the weft.
P.3,1.23—जलान्ते‘in the water.’ Compare below 1.25,समुद्रान्तोand similar compounds, passim, and Raghuvaṅśa II., 19 and 58.
P.3,1.25— पुलिनप्रदेश ‘a sandbank.’
P. 4,1.14.— **जल्पित’**promised, vowed.’
P.4,1.18.—विश्वसेत्irreg.3rd pers. sing. potential, very common in epic poetry.
P.4,1.20. —चिन्तयान irreg. pres. part. Âtm., see Kielhorn Gr. § 499. This and similar forms are very common in the Mahâbhârata and Râmâyaṇa.
P.4,1.27.—गर्भमश्वतरी यथा construe यथाश्वतरी गर्भमुपगृह्य मृत्युमुपगृह्णाति ·
P.5,1.2.—हास्येन मया तेऽभिप्रायो लब्धः ‘by a joke I have tried your disposition.’
P.5,1.4.—ते. According to the common rules of grammar it ought to be तव,as ते and the other enclitic forms of the pronouns cannot stand in the beginning of a sentence. Kielhorn Gr. § 178.
P.5,1,7.—Metre of ś
loka 15, Upajâti.
P.5,1.10.—गङ्गदत्तः stands for गङ्गादत्तः. For in compounds which are used as proper names, the final आ or ई of a feminine affix which ends the first part of the comp., may be shortened, Siddhântakaumudî I., p. 468. (ed. Târânâtha).
P.5,1.13— अस्ति’(Thus) it is’ must be taken as separate sentence, and as the immediate answers to the question कथमेतत्. Professor Benfey combines it with कस्मिंश्चित् , and takes it in the sense of ‘which soever it may be,’ For other examples of this use of अस्तिsee p.10,1.1; p.16,1. 6; p.31,1.5; p.34,1.17; p.36 1.20; p.57,l.18; and the Petersburg Dict.,s.v.,H.,अस्. Compare also Tantra I., note to p. 72, 1.2.
P.5,1.14. —
दायादै: ‘kinsmen.’ दायमादत्त इति दायादः lit. ‘heir’ is used also to denote all the relations of a person who are otherwise called Sagotra-sapindas, i. e., descendants, ascendants, and collaterals in the male lines within seven degrees, probably because, under the old law, these persons alone inherited. Compare also Yâjñavalkya II., 263 with the remarks of Vijnâneśvara on the passage.
P.5,1.17.—
Metre of śloka 16, Âryâ.
P.6,1.2.—
एष ‘There (is) somebody (who).’
P.6,1.7.—
Brihaspati is the reputed author of a work on law and of one on Nîti. The latter treated of ‘Distrust,’अविश्वास
P.6,1.9.—
भक्षणार्थे‘ in order to give me (to his enemy) to eat, i.e., in order to poison his enemy by giving him my body to eat.’ See below Tantra V., p. 66,1. 21, where the attempt of the ‘princess with the three breasts’ to poison her husband with the meat of a black cobra is narrated.
P.6,1.26.—
Attributed to Vyâsa, Subhâshitâvali No. 2740, (Peterson and Durgâprasâd), and found in the Mahabhârata, v. 34. 14.
P.7,1.23.—
एकैकम्’
every day one;’ compare below, p.7,1.26, and p. 8, 1. 9.
P.7,1.27.—
यः
must be understood.
P.8,1.3. – वाडवः scil. अग्रिः. The fire banished by Aurva into the ocean dries up a space of 12 Krośas in circumference.
P.8,1. 5.—
Metre of śloka 26, Upajâti.
P.8,1.7.—
दर्श्यमानम्
just that which has been pointed out (to him by his stro-ng friend as desired).’
P.8,1. 10.—
समुत्पन्ने अर्धं. Similar cases where the Sandhi rules are not attend-ed to at the beginning of a Pâda occur frequently in epic poetry, in the Smṛitis, and in the verses of the Panchatantra. Compare, e. g., below, p.14,1.18, p. 21,1. 5, and Tantra II., śloka 60; Tantra, III., śloka 1, and passim.
P.8,1.15.—
Attributed to Vyâsa, Subhashitâvali, No. 3049. वृत्त‘virtue.’
P.8,1.17.—
मत्वा for ज्ञात्वा occurs frequently in our redaction of the Panchata-ntra, as well as in epic poetry and still older works.
P.8,1.19.—
पक्ष
‘family, race.’
P.8,1.22.— कालेन गच्छता‘in the course of time.’ instr. absolute.कवलित lit.‘made mouthfuls of,’ i. e., ’eaten one by one.’
P.8,1.25. — मयावस्थितेनinstr. absolute. In this costruction the instr.originally expresses’the the reason’ ‘हेतु.’
P.9,1.6.— परिचितम् in the sence of an abstract noun.
P.9,1.9.— अन्तरे विधृ’to pledge.’
P.10,1.5. — क्षाम ‘parched.’
P.10,1.21. — दोष. ‘bad luck.’
P.11,1.1. —See Bhartrihari’s Śṛîṅgâraśataka 78 (Haeberlin).
P.11,1.5. —Construe कौतुकं (भाति) यत्तासां दृक्संगमं प्राप्य न द्रवति ‘one does not melt.’
P,11,1.10. —बलात्‘by force, i.e., against the will.’
P.11.1.18.—
चर् ’to graze.‘Some examples of this meaning of the root, which is the common one in Marâțhî, occur already in the older Sanskrit writers.
P.12,1.3.—
Metre of śloka 34, Śârdûlavikrîḍita; from Bhartrihari’s Śringâraśataka 67 (Haeberlin).
P.12,1.5.—
नग्नीकृता मुण्डिताः,
these two words describe the Jaina and Bauddha ascetics—
रक्तपटीकृताः
‘(have been) dressed in red rags.’ Red clothes are the marks also of Smarta ascetics.
.कापालिकाः ‘scull wearers.’ This is the name of certain disreputable worshippers of Devi, see H. H. Wilson’s Works, Vol. I., pp. 21 and 264. The verse sarcastically represents asceticism as a consequence of the anger of Cupid.
P.12,1.10. – किं= किंचित् ; कथम् ‘( else ) how '
P.12,1.13.—
अपि’then.’ It is frequently used in this sense in the Panchatantra.
P.12,1.14. .—
प्रतर्पितपितृगणः refers to the performance of the daily libations of water offered to the manes, see Baudhayana Dharmasûtra II., 10.
P.13,1.12.—
. तेन ‘for that reason.’
P.13,1.14.—
राजपुत्रा‘warriors (Râjputs).’
P.13,1.23.—
चन्द्रार्थः instead of the more common अर्धचन्द्रः occurs also in epic poetry..—
अर्धचन्द्रं दा’
to seize by the neck (and turn out).’
P.15,1.2.— भग्न‘put to flight.’
P.16,1.10.— यथेच्छया‘an incorrect form for यथेच्छम्, probably caused by the analogy of स्वेच्छया.
P.17,1.8.—Metre of śloka 47, Âryâ.
P.17,1.21.—Metre of śloka 50, Sikhariṇî.
P.17,1.22.—Regarding the story of the birth of Vyâsa, the son of Satyavati and Parâśara, and other stories alluded to in this verse, see Mahabharata I., 105, 6, sqq.
P.17,1.25.—कुलानामिति ‘as regards (the statement of śloka 49 that the history) of noble families ( ought not to be examined too closely)’… .. स्त्रीणामिति must be translated similarly.
P.18,1.5.—The connexion of p.17,1.17.—p.18,15, seems to be this. The carpenter at first doubts whether it will be proper to try his wife. He quotes ślokas 49 and 50 against the undertaking. But śloka 51 reminds him of the wickedness of women in general, and the remembrance of the gossip which has come to his ears (p.18,1.3) confirms him in his first resolution.
P.18,1.7.— **व्रह्माण्ड ‘**the egg of Brahman, i.e., the whole world,‘see Manu I., 9, 12-13.
P.18,1.12. —Metre of śloka 53, Áryâ.
P. 18, 1. 16.—कंचिद्विटगृहम् double accusative of person and place depending upon गत्वा.
P.19,1.10. —Construe प्रतीकारः सन्नपि नास्ति यतस्त्वया स आयन्तः [त्वं च तमुपयोक्तुं नाङ्गीकरिष्यसीति शेषः].
P.19,1.13.—**अपमृत्यु‘**untimetly death.’
P.19,1.15.— निश्चय ‘firm belif.’
P.19,1.24.— छन्देनlit.‘by the will of i,e., accordingto, to.’
P.20,1.4.— पौरुष ‘disposition.’
P.20,1.8. — स्वयोनिम् a bahuvrîhi-compound.
P.20,1,24. —अत्र ‘vegetable food,’ especially rice.
P.21,1.2.— प्रदुष्यति,i.e .,दोषं जनयति.
P.21,1.6.— वृथाचारं ‘as one who behaves improperly.’
P.21,1.8.— प्रशस्यते‘is declared to be best,’ i.e., in the Śâstras
P. 21, 1, 10.— सुहन्मित्र‘relations and frinds .’
P. 21, 1, 11. — विशिष्यते’ is preferable’ (for saints, etc.).
P. 21, 1. 16.— After मुञ्च मुञ्च a must be under- stood, and after सर्वार्थसाधनम् [इति तृतीयश्चिन्तयति स्म ]
P.21,1. 21.— पोतिका‘a cloth,’
P. 22,1.4.— संचर्’to infect.’
P.23,1.8.—तैर्गुणैः।विवाहात्पूर्वं रजःस्रवणजनितैरधर्माख्यैरिति, i.e., ’through the demerit produced thereby.’
P.23,1.18.—Metre of śloka 71, Upajati.
P.24,1.13. —उत्तमः‘very much superior.’ Below, this and other superlativ-es must frequently be translated in the same manner.
P.24,1.14— श्रेष्टतरःsee below, p.47,1.4, note.
P.25,1.16. —Metre of śloka 77, Vasantatilakâ; from Bhartrihari’s Vairâgy-aśataka Misc. 38 (Telang).
P.25,1.21. —Metre of śloka 78, Śârdûlavikrîḍita; from Bhartri-hari’sVairâgyaśataka 111 (Telang).
P.26,1.19. — अतिरिच्यते‘surpasses,’ viz., in desolateness, i.e., ‘is more desolate.’
P.26,1.23. —. See Mahâbhârata, XII. 144. 17.
P.27,1.9. —** विषमयाः** for विषमय्यः The latter would be the correct form according to Pâṇini (Siddhântakaumudî, Vol. I., p. 215), as the affix मय is technically **टित् मयट्.**The fem. in आis, however, not uncommon in the later Sanskrit works, see the Petersburg Dict., s. v., मय.
P.27,1.18. —बाल‘a fool.’— विकल्प ‘imagine (to find).’
P.27,1.22. — निरीक्षसिagainst the rules of Pâṇini. The use of the root ईक्ष्in the Parasmaipada is, however, common also in epic poetry.
P.29,1.14. —भेद‘creating discord’ and दान ‘bribery’ belong to the means of success recommended by the Hindu Nîti, see below śloka 109 and also Tantra III., pp 65-66, the speeches of the ministers of the Arimardana.
P.30,1.3.— कदाचित् = कस्मिंश्चित्.
P.31,1.13. — शुचीभुय before making a solemn gift, the giver touches water or bathes, see Nîlakantha’s Dânamayûkha Sect. III., Dâtrikrityâni, where a passage from the Vârâha P. on this point is quoted. तिसृभिर्वाचाभिः “pronouncing three words, i.e., repeating the words ‘I give’ three times,” as is required on all solemn occasions according to the maxim,त्रिषत्या हि देवाः, Taittirîya Âranyaka II.,18.6.
P.32,1,21. — वचनसहायः‘aperson to talk to.’
P.32,1.9. — राजपुरुषपदैरेव ‘following closely the king’s servants.’
P.32,1.11. — दायाद, see above note, to p.5,1.14.
P.32,1.15. — निवेदितः‘denounced.’
P.32,1.20.— त्रिवाचिकम्, see above, p.31,1.13.
P.33,1.16. —** द्रम्माः**(‘a great deal of) money.’ The wordद्रम्म is a corruption of the Greek Drakhmè; a dramma is equal in value to four annas or sixpence. 20 varâțakas (cowries)=1 kâkiṇî; 4 kakîṇis = 1 paṇa; 16 paṇas = 1 dramma; 16 drammas = 1 nishka.
P.33,1.20. — निवेद्य…… आदिष्टम् ‘assigned and permitted.’
P.34,1.8. — उल्ललयित्वा ‘jumping up;’ an ungrammatical form, see Kielhorn Gr. § 513. Similar interchanges of the affixes of the absolutive are not uncommon in the Vedas and epic poetry, e.g., अभिवादयित्वा, निवेदयित्वा, see Benfey, Vollstaendinge Grammatik, § 915, Bem. 2.
P.34,1.2. — सप्तपद‘(to be) gained by seven steps.’ The expression is explained by the ‘seven steps’ which the bride has to make at the marriage ceremony, and through which the marriage becomes binding.
P.35,1.8. —Metre of sloka 110, Âryâ.-— शुद्धतया ‘in consequence of his purity.’ शिखिन्= अग्नि. भुक्तमुक्त, a karmadháraya compound.
P.35,1.17. —Śloka 112 has a double sense. It applies not only to the pearl, but also to the man who seeks salvation (मौक्तिक). If the verse is taken in the latter sense, अत्यच्छ means सात्त्विक, अन्तर्भिन्न refers to the non-recognition of the unity of the individual soul and of Brahman, and निबन्धन means as much as संसारसंबन्ध
** P.36,1.17. —दिशोभाजम्.दिशस्fem., a rare form for the usual दिश् orदिशा.**
P. 36, 1.20.—संपन्नम् =संपत्तिः;see Mahâbhârata, V. 36. 58.
P. 36, 1. 23. — शिथिलाः‘careless.’
P. 37,1.2.— सरमाया अपत्यं सारमेयः ; Saramâis in Vedic mythology the bitch of the gods that assisted in the recovery of the cows of the Angiras from the Paṇis.
P.38,1.7. — पाटलिपुत्र is the old name of Patna, once the capitalof Magadha or Bihâr. If here the same town is meant, the author must have been a very bad geographer, as Magadha does not belong to the Dekhan. Other redactions of the Panchatantra name instead of Pâṭaliputra, Mahilâropya, which was a southern town, see Tantra II., note to p.1,1.6.
P.38,1.11. —Metre of ślokas 2—10, Âryâ.
P.38,1.21. —** न विभाव्यन्ते…… पुरोऽपि निवसन्तः** ‘(the existence of) small……is not recognised, though they dwell before (the eyes of their richer neighhours).’
P.38,1.25. — पूर्वसुकृतं पूर्वजन्मनि सकृतमिति. विकलम् lit. ‘defective, i.e., inefficient, useless.’ A new sentence begins with विद्यावन्तः.
P.39,1.1. —
Construe पर्ति पयसां गर्जन्तमपि — लोको नाह लघुरयमिति.
P.39,1.5.—
पद्मनिधि‘a treasure having the value of a Padma, i.e., 100,000,000 pieces of money**. क्षपणक** ‘A Buddhist monk.’ Etymology**: [दोषान्] क्षपयतीति क्षपणः.** The affix क shows that the adjective has become an appellative.
P.39,1.6.—
पूर्वपुरुषोपार्जितः‘collected by thy ancestors(andconcealed by them).
P.39,1.20.—
नग्नक properly ‘a naked ascetic,’ here, of course, a Bauddha.
P. 39, 1. 24.—
विहार ‘a monastery.’‘जिनेन्द्रस्य “around (the statue of) the lord of the Jinas, i.e., of Buddha.” The Jinas are the Buddhas, who have triumphed over the internal enemies’ (see Burnouf, Introduction á l’Hist. du Bouddhisme, p. 204), and the appellation ’lord of the Jinas’ is frequently given to Sâkyamuni in Buddhist works. Statues of the various Buddhas are the usual objects of worship amongst the Buddhists and the chapel of the Vihâra, to which the barber went, necessarily possessed one. Regarding the various Buddhas enumerated by Buddhist writers, see Hodgson’s Illustr. of the Rel. of the Buddhists, p. 46, seqq.
P. 39,1.25.—
वक्त्रद्वार’the mouth.’
P.39,1.26.—
जयन्ति,=जयन्तु Compare the phrase जयति जयति देव: which so frequently occurs in the Sanskrit dramas. The pres. indic. is used for the imper. in wishes made by inferiors for the welfare of superiors, in order to be more complimentary. Compare the Latin exhortations, ‘fac, ut fecisti,’ etc.केवलज्ञान denotes bere, as commonly in philosophical language, the highest knowledge which leads to salvation (ग्रन्थभिद्).
P.39,1.26. — येषाम्—ऊषरायितम् “whose souls, from their birth have become like a salt-desert, i.e., unfit for the production of desires.”, Regarding ऊषरायितम् compare अनलायितम्, see the Petersburg Dict., s. v.
P.40,1.2. —
An imitation of Subhâshitâvali, No. 3489, which is attributed to Vyâsa.
P.40,1.8.—
Metre of śloka 14, Sârdûlavikriḍita.—मार, lit. ’the slayer,’ usually a name of Kâma, is with the Bauddhas a name of the Evil one, of the devil (see the S. Petersburg Dict., s. v.). His creatures, the मारवध्व address the Jina, who sits lost in meditation, and try in vain to seduce him. By his resistance to their wiles he proves his greatness.नौ=न.The verse forms the first part of the Nândîof the Nâgânanda Nâțaka. The reading बुद्धोfound there is preferable to बोद्धो(MSS.).
P.40,1.10.—
लब्धधर्मबृद्धवृद्ध्याशीर्वादः;
the salutation of a Bauddha ascetic is धर्मो वर्धताम्.
P.40,1.13.—
श्रावक
is the name of a Jaina, not of a Bauddha layman, which latter is called उपासक. The redactor of this story seems, in this, and perhaps in some other particulars, to have mixed up the customs of the Jainas and of the Bauddhas.
P.40,1.14.—
तत्कालपतिचर्ययाin search of the instantaneous
hospitality (of our lay pupils).’
P.41,1.1.-See Mâhâbhârata XIII. 7, 24, Vâsishtha Dharmaśâstra XXX. 9.
P.42,1.23. — निर्वाप‘alms.’
P. 43,1.5.-Metre of śloka 23, Vaṁśastha .
P. 43,1.12. - साधुसुवंशजा karmadhâraya compound. नो=न is to be taken withभजते and यान्ति in the sense of अपगच्छन्ति. ·—न्यायारोपितविक्रमाणि ‘from whom powerful assistance might justly be expected.’ Metre of śloka 24, Sârdûlavikrîḍita.
P.43,1.14. Metre of śloka 25, Indravajrâ.
P.43,1.18.-Metre of śloka 26, Vasantatilakâ. The verse occurs in some copies of Bhartṛihari’s Nîtiśataka; see Telang’s edition,p. xxxvii.
P.43,1.24.—Metre of śloka 27, Vasantatilakâ.
P.44,1.1. — महाकाल, the name of a famous Liṅga, one of the twelve Jyo-tirlingas enumerated in the Purâņas, and of its temple near Ujjain. It is frequently mentioned in the Sanskrit poems and romances.
P.44,1.5.— सिद्धियात्रिकाः‘wandering about in order to learn magic. arts.’
P.44,1.7. — Metre of ślokas 28,29,30, Âryâ. In the first verse the first line shows a metrical fault.
P.44,1.8.— अलम्, ‘sufficiently,’ qualifies अवसरतुलिताभिः.
P.44,1.13.— अदृष्ट’the invisible one’ is the quality of the soul produced by meri-torious or sinful acts (धर्म and अधर्म). This quality,i. e., the merit or demerit, acquired during the preceding existence, determines man’s good or evil fortune in the following life.
P.44,1.14. — Metre of śloka 31, Âryâ. Construe गुरुलोकात् with भयम्; गुरुलोकः ‘powerful men.’ After प्राणान्, तृणमिव तुलयन्ति must be repeated.
P.44,1.16.—
Metre of śloka 32, Áryâमधुभित्‘The destroyer of the (demon) Madhu, i.e., Vishnu.’ मथनायस्तैः refers to the churning of the ocean, on which occasion Lakshmîwas born and chose Vishṇu for her husband.
P.44,1.18.—
Metre of śloka 33, Ârya. The verse gives a joking explanation for the fickleness of Fortune (Lakshmi).जलगतःrefers to the sleep of Vishṇu in the ocean, where he is represented as reposing on the serpent Śesha.
P.44,1.20.—
पर
‘an enemy.’तुला has a double sense. It means the sign of Libra, which the sun enters in autumn at the end of the monsoon, and the phrase तुलामधिरुह्has also the meaning ’to become equal to (by strenuous exertion).’
P.44,1.22.—
शकिनी‘a female demon.’—
महामांसhuman flesh or that of cows, horses, elephants, bears, buffaloes, camels, and snakes, as offered by the Śâktas to Devî.—
साधकवर्ति
‘a magic wick.’
P.45,1.1.—
वाहुपाय
‘a very powerful.’
P.45,1.18.—
उत्तमम् ‘see above note to p.24,1.13.
P.46,1.4.—
वीणावस्स, see H. H. Wilson’s Works IV., 60.
P.46,1.8.—
धनह‘
Kubera.’
P.47,1.4.—
ज्येष्टतर’the eldest.’ The irregular addition of तर् to a superlati-ve base finds its parallel in the श्रेष्टतर above, p. 24, 1. 14.
P.47,l.10.— केवला‘ belonging to one man only.’
P.47,1.13.—
Śloka 34 belongs, according to Subhâshitâvali No. 498, to B-haṭṭodbhaṭa, the court poet of Yayârîḍa of Kaśmîṛ.
P.48,1.9. —
कन्यकुब्ज‘Kanauj.’
Regarding the form compare
note to p. 5, 1. 10.
P.48,1.9.—
विद्यामठ ‘college.’
P.48,1.11.—
उत्कलापयित्वा
having asked (our teacher) for permission to go.’ It is an irregular form of the causal of the root कल with उद्, formed in the manner of the Prakrit causals. Other analogous forms, as मुञ्चापयति, मोचापयति, जीवापयति occur in the Pañchatantra and other story-books. (Benfey, Pañchatantra II., 520). Regarding the irregular use of the affix त्वाcompare note to p.34,1.18.
P.48,1.17.—
The verse is from the Mahâbhârata III. 313, 17 and runs thus : तर्कोप्रतिष्ठः श्रुतयो विभिन्ना नैको मुनिर्यस्य वचः प्रमाणम् । धर्मस्यतत्त्वं निहितं गुहायां महाजनो येन गतः स पन्थाः॥
P.48,1.18. —
** मेलापक**‘company,’ a Prakritic form.
P.48,1.26. —
The whole śloka runs thus:—
क्षणं चित्तंक्षणं वित्तंक्षणं जीवति मानवः । यमस्य करुणा नास्ति धर्मस्य त्वरिता गतिः ॥
P.49,1.12.—
सूत्रिका ‘maccaroni,’ now called in Marâthîशेवई They are made of wheaten flour.
P.49,1.14.—
मण्डक,
now called मांडाin Marâthî, is a kind of large, very thin cake made of wheaten flour and sugar.
P.49,1.16.—
वटिका, now called अंबोली in Marâthî, is a kind of cake made of rice and Uḍid (Mâsha). It is pierced with numerous little holes.
P.49,1.26.—
Metre of śloka 44, Vamśastha.
P.50,1.25.—
Vishṇugupta Châṇakya assisted Chandragupta, the conte-mporary of Seleucus, to gain the throne by destroying the dynasty of the Nandas. See H. H. Wilson, Hindu Theatre, II., pp. 127-150, S. O. Turnour, Mahâvanso, Introduction, p. xxxix., seqq.
P.51,1.25. —
लक्षण
‘medal’ (for proficiency in music).
P.52,1.13.—
काशिन्’
one who has the cough.’
P.52,1.25.—
मूर्छना ‘scale.’ —
ग्राम ’ octave.’—तान‘a quaver.’ स्थानत्रयं यतीनाम्’three are the positions of the pauses,’ i.e., two in the middle and at the end of each common verse, and the third in the alliterative verse before the alliteration. भरत is the reputed author of the second work on music, which still exists, and a copy of which is preserved in the Government Collection of 1869, No. 111, in the Deccan College. The total of 185 angas will be obtained by entering the number of the svaras at 21, 7 for each grâma or octave.
P.54,1.5.—
व्यन्तर्‘
a sprite.’
P.54,1. 27.—
**भार्गव,**i.e., Uśanas, who is one of the reputed writers on Nîti.
P.55,1.13.—
यानेत्यादिsix lines of conduct, to be observed in high politics. Full details regarding them are found in the beginning of the third Tantra.
P.55,1.15.—
Metre of śloka 67, Upendravajrâ.
P.55,1.18.—
Metre of sloka 68, Śârdûlavikrîḍita. The Vṛishṇis, a subdivi-sion of the Yâdavas, were destroyed by internal dissensions in the times of Krishna, **अर्जुन,**the son of KritavÎrya was slain by Parasurama.
*P.*56,1.12.—
आशापिशाचिका
‘a cruel and delusive hope.’
P.56,1.19.—
भुक्तोर्वरितैः
‘remaining after the dinner.’
P.56,1.19.—
नागदन्त
‘a peg fixed in the wall.’
P.56,1.26.—
चतुःशालं गृहम् '
a house, which has a court in the middle and rooms on all four sides.’ This is the plan on which the better kind of Hindu houses are usually built.
P.57,1.20.—
Uśanas, Bṛihaspati, and Châṇakya are said to have been the three most famous writers on Nîti.
P.58,1.5.—
Ś
â
lihotra is the name of an ancient writer on veterinary surgery, see also below p.59,1.13. Fragments of his writings are preserved in the Sârasamuchchhaya of Kalhana, a modern work on the same subject.
P.59,1.21.—
अनृणताकृत्येन ‘in order to pay him out .’
P.59,1.22.—
वंशजाम्‘
committed against one’s family.’
P.61,1.18.—
वटे वानर इति वटवानरः॥
P.61,1.24.—
क्वयास्यसि
what will become of thee (if, etc.) ?’ Śloka 87 contains the answer to this question.
P.62,1.1. — यदि गम्यस्थाने शक्तिर्भवति‘if one has the power (to help) in a case, admitting of a remedy.
P.62,1.4.—
Regarding मा with the potential or optative, see Speijer Sanskrit Syntax §353, Rem. 4
P.62,1.22.—
अश्वतम
’the best horse.’ The affixes तर and तम may be added to substantives also, compare e g. वेगतरम्p. 62, 1. 26, and the well-known Vedic name गोतम.
P*.*63,1.21.—
Metre of śloka 90, Indravajra.—
त्रिकुट,‘a mountain in Ceylon.’—
Uśanas or Sukra was, according to Hindu mythology, the teacher of the Daityas, and composed for them his Nîtiśâstra.
P.63,1.25.—
कर्मन् ‘fate,’ because the acts of man produce merit or demerit, i.e., the apúrva guṇa, and this determines his good or bad fortune in his next life. संमुख ‘favourable.’ i.e., Mathura, the modern Muttra.
P.64,1.2.—
**मधुपुर्
i.e., Mathura, the modern Muttra.
P.64,1.9.—
Metre of śloka 92, Upagîti.
P.65,1.25. —
Metre of śloka 97, Mandâkrântâ.
P.67,1.2.—
वाष्प
‘steam.’
P.67,1.24. —
The fabulous birds, called भारण्ड or भारुण्ड live, according to the Hindu writers, in the country of the Uttarakurus, the Indian Hyperboreans.
P.68,1.11.—
तवापमानात्‘in order to spite you.’
P.68,1.18.—
See Mahâbhârata, v. 33. 46.
P.68,1.21.—
द्वितीयः
‘a companion.’
P.69,1.15.—
सर्पव्यापादनात्
‘from being killed by the serpent.’
——————————————————————————————————————————
THE END
]