[[संशोधित पञ्चतन्त्रकम् - २ Source: EB]]
[
[TABLE]
प्रस्तावना
पञ्चतन्त्रमिदं किल संस्कृतसाहित्यस्य समुज्ज्वलतमं भूषणम्। न केवलं भारते बर्षे, न केवलं देवबाणिरसिकेषु, अपितु सर्वत्रापि भूमण्डले अस्यग्रन्थस्य महती प्रतिष्ठा वरीवर्ति। अद्यापि जगतः प्रियोपदेशसाधनेषु ग्रन्थेषु प्रथममस्य स्थानम्। न चास्येयं कीर्ति र्नवीना; स्त्रिष्टसंबत्सरारम्भादपि पूर्वमस्य भारतीयगजमण्डले समादरः श्रूयते। षष्ठ्यां स्त्रिष्टशताद्व्यांस्वुस्रो अनुशेरवाँइत्याख्यस्यससेनियननृपतेराज्ञयाऽयं ग्रन्थः पहलवीभाषायामनूदितोऽभूत्। अष्टमशताब्द्यां च तस्यैव पुनरारव्यभाषाया मनुवादः संजात इत्युपलभ्यते। इत्ये वञ्चिरकालात्संसारविदितमिदं पञ्चतन्त्रक मद्यापि तादृशमेबादरंल भते, यादृशं रचनाकाले लेभे।
भाषाऽस्यरुचिरा मधुरा सरला च। न तत्र अप्रसिद्धपदानां समावेशो, नापि च समासवाहुल्यम्। बालैरपि प्रौढैरपि चास्याध्ययनं विधातुं शक्यम्। कथाः सर्वा अपि मनोद्दारिण्य उपदेशप्रदाश्चयद्यपि तेषु पात्राणि प्रायः पशुपक्षिकीटादिभ्य एव संगृहीतानि, तथापि तेन पुस्तकस्योपयोगितायाः परिवृद्धिरेवजाता न क्षयः। भाषाया माधुर्यं, विषयस्य चोपयोगित्वमस्य ग्रन्थस्य प्राचीनत्वे प्रवलम्प्रमाणमस्ति। मध्यकालनिर्मितेषु ग्रन्थेषु शब्दादोषोयथा भूयानुपलभ्यते, न तथा पञ्चतन्त्रे। स्त्रिष्टाब्दारम्भादशीत्यधिकत्रिंशद्ध वर्षाणि पूर्वं वैशालीसभायां संग्रहीनासु गाथासुपञ्चतन्त्रस्य नामोपलभ्यते। तस्मादति प्राचीनोऽयं ग्रन्थ इति अनायासेनैव ज्ञातुं शक्यते। केचित्तु महाराजन्द्रगुप्तमौर्यस्य गुरुणा विष्णुगुप्तनाम्ना चाणक्येन तस्य शिष्येण वा केनचित्प्रणीतोऽयमिति वदन्ति।
निश्चितः कालः कोऽपि भवेत्; अस्य अतिप्राचीनत्वे सन्देहो नास्ति। बौद्ध कालात्तु अर्वाचीनत्वमस्येति यदितिहासज्ञा वदन्ति तदपि सत्यं प्रतीयते। सन्ति बहूनि लक्षणानि ग्रन्थान्त र्गतान्येव, यैरस्य चौद्धधर्मोदयादुत्तरकालित्वं विज्ञायते। बौद्धानां विविधजातकेभ्यो रुचिरा उपदेशप्रदाश्चकथाःसंगृह्य, काश्चिच्च स्वतन्त्राः सन्निवेश्य, सरलयागिरा निवद्धमिदम्पञ्चतन्त्रं लोकहिताय विष्णुशर्मणा इत्यत्र सन्देहोनावशिष्यते यदा वयं बौद्धग्रन्थैः विशेषतया जातक ग्रन्थैः सहास्य तुलनाङ्कुर्मः। गाथाः प्रायएक विधा दृश्यन्ते।
एकस्तु बौद्ध सिद्धान्तेभ्यो महान्भेदोऽत्रग्रन्थे स्फुट उपलभ्यते। बौद्धा हि मनुष्यजन्म दुःखात्मकं हेयञ्च मन्यन्ते न तेऽत्र किमपि जीवितव्य पश्यन्ति, निर्वाणं क्रियाविराममेव च ते उपादेय म्मन्यन्ते। पञ्चतन्त्रे पुनः जीवनं जीवितव्यत्वेन समुपदिष्टम्। जीवनोचिता एव चोपदेशाः प्रदत्ताः। कथं राज्यं रक्षणीयम्?
कथं शत्रवो विनाशनीयाः? केन विधिना जगति विजयः प्राप्यः? इत्ये तेषां प्रश्नानामेवोतराणि सर्वस्मिन्पञ्चतन्त्रके प्रधानतया समुपलभ्यन्ते। अतएव चायं ग्रन्थ आर्य जात्यै विशेषतया लाभकरः शिक्षाप्रदश्च। सुप्ता विगतसारा सान्धकारा सन्ध्येव स्वेदप्रदा इयमार्यजातिः। इयं किलजीवनौषधमपेक्षते न पुनः मरणो पायम्।
पञ्चतत्नन्त्रं हि मनोहरकथोपनिबद्धत्वा दतिरुचिरं वालेभ्य श्वात्यन्तमुपकारकम्। संस्कृतभाषायाम्प्रवेश मिच्छुभ्यः नैतद्विधः कोऽप्यत्यो ग्रन्थः समुपलभ्यते। एकन्तु वैषम्यनुपलक्ष्यते। क्वचित् क्वचिदेतस्मिन्नीदृश्योऽश्लीलसीमानमाप्तवत्यः शृङ्गाररसपूर्णाश्चगाथाः सन्ति यासामध्ययनं बालेभ्यो विशेषतया ब्रह्मचारिभ्यो न समुचितं प्रतीयते। गुरुकुले पश्चतन्त्राध्यापन कालेनहादिदं काठिन्य मनुभूयते अतः, यन्नवे भाजने लग्नः संस्कारोनान्यथा भवेत्’ इति विचिन्त्य इदम्पञ्चतन्त्रस्य संशोधित संस्करणं गुरुकुलप्रवन्ध कर्तृभिर्मुद्रापितम्। पञ्चतन्त्रात् शृङ्गाररसप्रधाना गाथाः बालेभ्योऽति कठिनाः श्लोकाश्चपृथक्कृताः तस्यमुख्यो रुचिकरश्च कथाभागोऽस्मिन्भागद्वयात्मकेसंस्करणे स्थापितः। न केवलं गुरुकुल एब, अपितु बहिरप्यत्यासु, पाठशालास्वस्यो पयोगःसाधीयः फलमुत्पादयिष्यति। संस्कृतभाषायान्न समुचितानि पाठ्य पुस्तकान्युपलभ्यन्ते। उत्तमानिचेदतिकठिनानि द्वितीयवर्णै रेव चाध्यतेव्यानि भवन्ति, ब्रतिसमुपयोगिनां ग्रन्थानां तु सर्वथा अभाव एव प्रतीयते। इयङ्गच्छन्ती ग्रन्थमाला यदि पूर्त्तिमेष्यति, नायमभावश्विरं स्थास्यति।
इदम्पुस्तकमध्यापयद्भि रध्यापकैरवश्य मवघातव्यं यद्वा लास्तत्र कथितानाङ्कथानां सम्भव मेवचाभिप्रायं स्वीकुर्युः तस्य पशुपक्ष्यादिपात्रेषु प्रदर्शितान्दुर्भावान्पापदृष्ट्या, सद्भावांश्च धर्म दृष्ट्या पश्येयुः। उचितामेव शिक्षान्ततोगृह्लीयुर्न तदितराम्।अध्यापकाश्च यत्र यत्र च क्क चित्स्त्रीजातिम्प्रत्यपमानजनकाः तत्राविश्वासजनकाश्च शब्दा भावा वा भवेयुस्तत्र तेषा मसामञ्जस्यमवश्य म्प्रदर्शयेयुः। एवं यत्र क्वचिद् धार्मिकविचाराअपि भ्रमज्ञानग्रस्ताःस्युस्तेषां तत्रैवनिरासङ्कुःर्युः। यतो न शिक्षाकेवलं भाषापरिज्ञानायैव दीयते, अपि विचारसंशोधनाय धर्मशक्तिसम्पादनाय च।
** प्रकाशकः**
——————————
द्वितीयभागस्य
कथासूची
| काकोलूकोयम् | |
| आरम्भः | |
| १ | चतुर्दन्तः शशकश्च |
| २ | शशकः कपिञ्जलकश्च |
| ३ | मित्रशर्मा धूर्त्ताश्च |
| ४ | अतिदर्पः कृष्णसर्पः |
| ५ | हरिदत्तः कृष्णसर्पश्च |
| ६ | राजा चित्ररथः |
| ७ | कपोतः व्याधश्च |
| ८ | ब्राह्मणो द्रोणः राक्षसाश्चौरश्च |
| ९ | राजा देवशक्तिः |
| १० | याज्ञवल्क्यो मूषिका च |
| ११ | सिन्धुकनामा पक्षी |
| १२ | सिंहः खरनखरो विलस्य वाणी च |
| १३ | सर्पो मन्दविषः |
| लब्धप्रणाशम् | |
| आरम्भः | |
| १ | प्रियदर्शनो गङ्गदत्तश्च |
| २ | करालकेसरः सिंहः |
| ३ | कुम्भकारो राजपुत्राश्च |
| ४ | सिंहशाबकौ शृगालशावश्च |
| ५ | रजकः शुद्धपटः |
| ६ | उञ्जवलको नाम रथकारः |
| ७ | शृगालोमहाचतुरकः |
| ८ | सारमेयश्चित्राङ्गः |
| अपरीक्षितकारकम् | |
| आरम्भः | |
| १ | देवशर्मा नामब्राह्मणः |
| २ | चत्वारो ब्राह्मणपुत्राः |
| ३ | चतुर्ष्वेको बुद्धिमान् |
| ४ | चत्वारो ब्राह्मणाः |
| ५ | शतबुद्धिसहस्रबुद्धी एकबुद्धिश्च |
| ६ | उद्धतो गर्दभः |
| ७ | मन्थरको नाम कौलिको |
| ८ | स्वाभावकृपणां ब्राह्मणः |
| ९ | चन्द्रो भूपतिर्वानरयूथपश्च |
| १० | राजा भद्रसेनः |
| ११ | ब्रह्मदत्तो ब्राह्मणः |
| टिप्पणी— | |
| काकोलूकीयम् | |
| लब्धप्रणाशम् | |
| अपरीक्षितकारकम् |
| अशुद्धम् | शुद्धम् |
| नित्यभिगमना | नित्याभिगमना |
| यदृच्छता | यदृच्छया |
| प्राणशंशय | प्राणसंशय |
| चक्तंच | उक्तंच |
| तद्वद्धये | तद्ष्टद्धये |
| अद्दं | अहं |
| दुरस्थितौ | दूरस्थितौ |
| भा | भो |
| मानाद्वायिद | मानाद्वा यदि |
| वुद्धा | बुद्ध्वा |
| शत्रः | शत्रुः |
| मब्दन्धन | मद्बन्धन |
| भुत्वा | भूत्वा |
| परिवजितः | परिवर्जितः |
| शरारः | शरीरः |
| भविष्यति | भविष्यन्ति |
| मधश्रितो | मधिश्रितो |
| आवासौ | आवासो |
| तन्ननं | तन्नूनं |
| यलेन | यत्नेन |
| समुतविश्य | समुपबिश्य |
| तद्गहाद्बारं | तदगुहाद्बारं |
| तद्गहाद्वारं | तद्गु हाद्वारं |
| स्वभावभङ्गरा | स्वभावभङ्गरा |
| द्वितीय | द्वितीयं |
| तन्ननं | तन्नूनं |
| साल्हदं | साल्हादं |
| दर्पय | तदर्पय |
| दयादानां | दायादानां |
| द्दष्टोसि | दृष्टोसि |
| दता | तदा |
| द्दरं | द्दूरं |
| बुद्धिमतमपि | बुद्धिमतामपि |
| कामी | कासी |
| निष्ठरतां | निष्ठुरतां |
| बटप्ररौह | वटप्ररोह |
** ** पञ्चतन्त्रकम्
** ** काकोलूकीयम्
अथेदमारभ्यते काकोलूकीयं नाम तृतीयं तन्त्रम्। यस्यायमाद्यः श्लोकः—
न विश्वसेत्पूर्वविरोधितस्य
शत्रोश्च मित्रत्वमुपागतस्य।
दग्धां गुहां पश्यं उलूकपूर्णां
काकप्रणीतेन हुताशनेन ॥१॥
तद्यथानुश्रूयते—अस्ति दक्षिणात्ये जनपदे महिलारोप्यं नाम नगरम्। तस्य समीपस्थोऽनेकशाखासनाथोऽतिघनतरपत्रच्छन्नो न्यग्रोधपादपोऽस्ति। तत्र च मेघवर्णो नाम वायसराजोऽनेककाकपरिवारः प्रतिवसति स्म। स तत्र विहितदुर्गरचनः सपरिजनः कालं नयति स्म तथान्योऽरिमर्दनो नामोलूकराजोऽसंख्योलूकपरिवारो गिरिगुहादुर्गाश्रयः प्रतिवसति स्म। स च रात्रावभ्येत्यं सदैव तस्य न्यग्रोधस्य समन्तात्परिभ्रमति। अथोलूकराजः पूर्वनिरोधवशाद्यं कंचिद्वायसं समासादयति तं व्यापाद्य गच्छति। एवं नित्यभिगमनाच्छनैः शनैस्तन्न्यग्रोधपादपदुर्गं तेन समन्तान्निर्वायसं कृतम्। अथवा भवत्येवम्। उक्तं च—
य उपेक्षेत शत्रुं स्वं प्रसरन्तं यदृच्छया।
रोगं चालस्यसंयुर्क्ता स शनैस्तेन हन्यते॥२॥
तथा च।
जातमात्रं न यः शत्रुं व्याधिं च प्रशमं नयेत्।
अतिपुष्टाङ्गयुक्तोऽपि स पश्चात्तेन हन्यते॥३॥
अथान्येद्युः स वायसराजो सर्वान्वायससचिवानाहूय प्रोवाच—‘भोः, उत्कटस्तावदस्माकं शत्रुरुद्यमसंपन्नश्च कालवशान्नित्यमेवनिशागमे समेत्यास्मत्पक्षकदनं करोति। तत्कथमस्य प्रतिविधानम्। वयं तावद्रात्रौ न पश्यामः, न च तस्य दिवा दुर्गं विजानीमः, येन गत्वामहरामः। तदत्र विषये किं युज्यते संधिविग्रह-यान-आसन-संश्रय-द्वैधीभावानामेकतमस्य क्रियमाणस्य। तद्विचार्य शीघ्रं कथयन्तु भवन्तः। अथ ते प्रोचुः—‘युक्तमभिहितं देवेन यदेष प्रश्नःकृतः।
उक्तं च—
अपृष्टेनापि वक्तव्यं सचिवेनात्र किंचन।
पृष्ठेन तु स्मृतं पथ्यं वाच्यं च प्रियमप्रियम् ॥४॥
यो न पृष्टो हितंब्रूते परिणामे सुखावहम्।
सुमन्त्री प्रियवक्ता च केवलं स रिपुः स्मृतः॥५॥
तस्मादेकान्तमासाद्य कार्यो मन्त्रो महीपते।
येन तस्य वयं कुर्मो निर्णयं कारणं तथा॥६॥
अथ स मेघवर्णोऽन्वयागत–उज्जीवि–संजीवि–अनुजीवि–प्रजीवि–चिरंजीविनाम्नः पञ्च सचिवान्प्रत्येकं प्रष्टूमारब्धः। तत्रैतेषामादौ तावदुज्जीविनं पृष्टवान्—‘भद्र, एवं स्थिते किं मन्यते भवान्।’ स आह—‘राजन्, बलवता सह विग्रहो न कार्यः। यथा स लबवान्कालप्रहर्ता च। उक्तं च यतः—
वलीयसे प्रणपतांकाले प्रहरतामपि।
संपदो नापगच्छन्ति प्रतीपमिवनिम्नगाः॥७॥
तथा च।
संत्याज्यो धार्मिकश्चार्यो भ्रातृसंघातवान्बली।
अनेकविजयी चैव संधेयः स रिपुर्भवेत्॥८॥
संधिः कार्योऽप्यनार्येण विज्ञाय प्राणाशंशयम्।
प्राणैः संरक्षितैः सर्वंयतो भवति रक्षितम्॥९॥
येनानेकयुद्धविजयी स तेन विशेषात्संदधनीयः। उक्तं च—
अनेकयुद्धविजयी संधानं यस्य गच्छति।
तत्प्रभावेण तस्याशु वशं गच्छन्त्यरातयः॥१०॥
संधिमिच्छेत्समेनापि संदिग्धो विजयो युधि।
न हि सांशयिकं कुर्यादित्युबाच बृहस्पतिः॥११॥
संदिग्धो विजयो युद्धे जनानामिह युध्यताम्।
उपायत्रितयादूर्ध्वं तस्माद्युद्धं समाचरेत्॥१२॥
असंदधानो मानाद्यः समेनापि हतो भृशम्।
आमकुम्भ इवान्येन करोत्यभयसंक्षयम्॥१३॥
समं शक्तिमता युद्धमशक्तस्य हि मृत्यवे।
दृषत्कुम्भं यथा भित्त्वा तावत्तिष्ठति शक्तिमान्॥१४॥
अन्यच्च।
भूमिर्मित्रं हिरण्यं वा विग्रहस्य फलत्रयम्।
नास्त्येकमपि यद्येषां विग्रहं न समाचरेत्॥१५॥
खनन्नाखुबिलं सिंहःपाषाणशकलाकुलम्।
प्राप्नोति नखभङ्गं वा फलं वा मूषको भवेत्॥१६॥
तस्मान्न स्यात्फलं यत्र दुष्टं युद्धं तु केवलम्।
न तत्स्वयं समुत्पाद्यं कर्तव्यं न कथंचन॥१७॥
बलीयसा समाक्रान्तो वैतसीं वृत्तिमाचरेत्।
वाञ्छन्नभ्रंशिनीं लक्ष्मीं न भौजङ्गीं कदाचन॥१८॥
कुर्वन्हि वैतसीं वृत्तिंप्राप्नोति महतीं श्रियम्।
भुजङ्गवृत्तिमापन्नो वधमर्हति केवलम्॥१९॥
कौर्मं संकोचमास्थाय प्रहारानपि मर्षयेत्।
काले काले च मतिमानुत्तिष्ठेत्कृष्णसर्पवत्॥२०॥
आगतं विग्रहं मत्वा सुसाम्ना प्रशमं नयेत्।
विजयस्य ह्यनित्यत्वाद्रभसं च समुत्सृजेत्॥२१॥
तथा च।
बलिना सह योद्धव्यमिति नास्ति निदर्शनम्।
प्रतिवातं नहि घनः कदाचिदुपसर्पति॥२२॥
एवमुज्जीवी साममन्त्रं संधिकारं क्लृप्तवान्।
अथ तच्छ्रुत्वासंजीविनमाह—‘भद्र, तवाभिप्रायमपि श्रोतुमिच्छामि।’ स आह—‘देव, न ममैतत्प्रतिभाति यच्छत्रुणा सह संधिः क्रियते। उक्तं च यतः—
शत्रुणा न हि संदध्यात्सुश्लिष्टेनापि संधिना।
सुतप्तमपि पानीयं शमयत्येव पावकम्॥२३॥
अपरं च स क्रूरोऽत्यन्तलुब्धो धर्मरहितः।तत्त्वया विशेषान्नसंधेयः। उक्तं च यतः—
सत्यधर्मविहीनेन न संदध्यात्कथंचन।
सुसंधितोऽप्यसाधुत्वादचिराद्याति विक्रियाम्॥२४॥
तस्मात्तेन सह योद्धव्यमिति मे मतिः। उक्तं च यतः—
क्रूरो लुब्धोऽलसोऽसत्यः प्रमादी भीरुरस्थिरः।
मूढो युद्धावमन्ता च सुखोच्छेद्यो भवेद्रिपुः॥२५॥
अपरं तेन पराभूता वयम्। नद्यदि संधानकीर्तनं करिष्यामः सभूयोऽत्यन्तं कोपं करिष्यति। उक्तं च—
चतुर्थोपायसाध्ये तु रिस्मैसान्त्वमपक्रिया।
स्वेद्यमामज्वरं प्राज्ञः कोऽम्भसा परिषिञ्चति॥२६॥
सामवादाः सकोपस्य शत्रोः प्रत्युत दीपकाः।
प्रतप्तस्येव सहसा सर्पिषस्तोयबिन्दवः॥२७॥
यदेवैतद्वदति रिपुर्बलवान्, तदप्यकारणम्। उक्तं च यतः—
सोत्साहशक्तिसंपन्नो हन्याच्छत्रुंलघुर्गुरुम्।
यथा कण्ठीरवो नागे सुसाम्राज्यं प्रपद्यते॥२८॥
मायया शत्रवो वध्या अवध्याः स्युर्बलेन ये।
यथा स्त्रीरूपमास्थाय हतो भीमेन कीचकः॥२९॥
तथा च।
मृत्योरिवोग्रदण्डस्य राज्ञो यान्ति वशं द्विषः।
शष्पतुल्यं हि मन्यन्ते दयालुं रिपवो नृपम्॥३०॥
न याति शमनं यस्य तेजस्तेजस्वितेजसा।
वृथा जातेन किं तेन मातुर्यौवनहारिणा॥३१॥
या लक्ष्मीर्वानुलिप्ताङ्गी वैरिशोणितकुङ्कुभैः।
रम्यापि मनसः प्रीतिं न सा धत्ते मनस्विनाम्॥३२॥
रिपुरक्तेन संसिक्ता स्वाभिषेकाम्बुभिस्तथा।
न भूमिर्यस्य भूपस्य का श्लाघा तस्य जीवने॥३३॥ .
एवं संजीवी विग्रहमन्त्रं विज्ञापयामास।
अथ तच्छ्रुत्वानुजीविनमपृच्छत्—‘भद्र, त्वमपि स्वाभिप्रायं निवेदय। सोऽब्रवीत्—‘देव, दुष्टः स बलाधिको निर्मर्यादश्च। तत्तेन सह संधिविग्रहौ न युक्तौ। केवलं यानमर्हं स्यात्। उक्तं च—
बलोत्कटेन दुष्टेन मर्यादारहितेन च।
न संधिविग्रहौ नैव विना यानं प्रशस्यते॥३४॥
द्विधाकारं भवेद्यानं भयत्रस्तप्ररक्षणम्।
एकमन्यज्जिगीषोश्च यात्रालक्षणमुच्यते॥३५॥
कार्तिके वाथ चैत्रे वा विजिगीषोः प्रशस्यते।
यानमुत्त्कृष्टवीर्यस्य शत्रुदेशे न चान्यदा॥३६॥
अवस्कन्दप्रदानस्य सर्वे कालाः प्रकीर्तिताः।
व्यसने वर्तमानस्य शत्रोश्छिद्रान्वितस्य च॥३७॥
स्वस्थानं सुदृढं कृत्वा शूरैश्चाप्तैर्महाबलैः।
परदेशं ततो गच्छेत्प्रणिधिव्याप्तमग्रतः॥३८॥
अज्ञातविविधासारतोयशस्यो व्रजेत्तु यः।
परराष्ट्रं स नो भूयः स्वराष्ट्रमधिगच्छति॥३९॥
तत्ते युक्तं कर्तुमपसरणम्। अन्यच्च।
न विग्रहं न संधानं बलिना तेन पापिना।
कार्यलाभमपेक्ष्याऽपसरणं क्रियते बुधैः॥४०॥
उक्तं च यतः—
यदपसरति मेषः कारणं तत्प्रहर्तुं
मृगपतिरपि कोपात्संकुचत्युत्पतिप्णुः।
हृदयविहितवैरा गूढमन्त्रोपचांगः
किमपि विगणयन्तो बुद्धिमन्तः सहन्ते॥४१॥
अन्यच्च।
बलवन्तं रिपुं दृष्ट्वादेशत्यागं करोयि यः।
युधिष्ठिर इवाप्नोति पुनर्जीवन्स मेदिनीम्॥४२॥
युद्ध्यतेऽहंकृतिं कृत्वा दुर्बलो यो बलीयसा।
स तस्य वाञ्छितं कुर्यादात्मनश्च कुलक्षयम्॥४३॥
तद्बलवताभियुक्तस्यापसरणसमयोऽयं न संधेर्विग्रहस्य च।‚ एतमनुजीविमन्त्रोऽपसरणस्य।
अथ तस्य वाक्यं समाकर्ण्य प्रजीविनमाह—‘भद्र, त्वाप्यात्मनोऽभिप्रायं वद, सोऽब्रवीत्—‘देव, मम संधिविग्रहयानानि त्रीण्यपि न प्रतिभान्ति। विशेषतश्चासनं प्रतिभाति। उक्तं च यतः—
नक्रः स्वस्थानमासाद्य गजेन्द्रमपि कर्षति।
स एव प्रच्युतः स्थानाच्छुनापि परिभूयते॥४४॥
अन्यच्च।
अभियुक्तो बलवता दुर्गे तिष्ठेत्प्रयत्नवान्।
अत्रस्थः सुहृदाह्वानं प्रकुर्वीतात्ममुक्तये॥४५॥
यो रिपोरागमं श्रुत्वाभयसंत्रस्तमानसः।
स्वस्थानं संत्यजेत्तत्र न स भूयो वसेन्नरः॥४६॥
दंष्ट्राविरहितः सर्पो मदहीनो यथा गजः।
स्थानहीनस्तथा राजा गम्यः स्यात्सर्वजन्तुषु॥४७॥
निजस्थानस्थितोऽप्येकः शतं योद्धुं सहेन्नरः।
शक्तानामपि शत्रूणां तस्मात्स्थानं न संत्यजेत्॥४८॥
तस्माद्दुर्गंदृढं कृत्वा सुभटासारसंयुतम्।
प्राकारपरिस्वायुक्तं शस्त्रादिभिरलंकृतम्॥४९॥
तिष्ठ मध्यगतो नित्यं युद्धाय कृतनिश्वश्वयः।
जीवन्संप्राप्यमिक्ष्मान्तं मृतो ता स्वर्गमेष्यसि॥५०॥
अन्यच्च।
बलिनापि न बध्यन्ते लघवोऽप्येकमंश्रयाः।
विपक्षेणापि मरुता यथैकस्थानवीरुधः॥५१॥
महानप्येकजो वृक्षो बलवान्सुप्रतिष्ठितः।
प्रसह्य इव वातेन शक्यो धर्षयितुं यतः॥५२॥
अथ ये संहता वृक्षाः सर्वतः सुप्रतिष्ठिताः।
न ते शीघ्रेण वातेन हन्यन्ते ह्येकसंश्रयात्॥५३॥
एवं मनुष्यमेकं च शौर्येणापि समन्वितम्।
शक्यं द्विषन्तो मम्यन्ते हिंसन्ति च ततः परम्॥५४॥
एवं प्रजीविमन्त्रः। इदमासनसंज्ञकम्।
एतत्समाकर्ण्य चिरंजीविनं प्राह—‘भद्र, त्वमपि स्वाभिप्रायं वद।, सोऽब्रवीत्—‘देव, षाङ्गण्यमध्ये मम संश्रयः सम्यक्प्रतिभाति। तत्तस्यानुष्ठानं कार्यम्। उक्तं च—
असहायः समर्थोपि तेजस्वी किं करिष्यति।
घिर्वाते ज्वलितो वह्निः स्वयमेव प्रशाम्यति॥५५॥
संगतिः श्रेयसी पुंसां स्वपक्षेच विशेषतः।
तुषैरपि परिभ्रष्टा न प्ररोहन्ति तण्डुलाः॥५६॥
तदत्रैव स्थितेन त्वया कश्चित्समर्थः समाश्रयणीयः, यो विपत्प्रतीकारं करोति। यदि पुनस्त्वं स्वस्थानं त्यक्त्वान्यत्र यास्यसि, तत्कोऽपि ते वाङ्मात्रेणापि सहायत्वं न करिष्यति। उक्तं च यतः—
वनानि दहतो वह्नेः सखा भवति मारुतः।
स एव दीपनाशाय कृशे कस्यास्ति सौहृदम्॥५७॥
अथवा नैतदेकान्तं यद्बलिनमेकं समाश्रयेत्। लघूनामपि संश्रयो रक्षायै एव भवति। उक्तं च यतः—
संघातवान्यथा वेणुर्निबिडो वेणुभिर्वृतः।
न शक्यः स समुच्छेत्तुं दुर्बलोऽपि तथा नृपः॥५८॥
यदि पुनरुत्तमसंश्रयो भवति तत्किमुच्यते। उक्तं च—
महाजनस्य संपर्कः कस्य नोन्नतिकारकः।
पद्मपत्रस्थितं तोयं धत्तेमुक्ताफलश्रियम्॥५९॥
तदेवं संश्रयं विना न कश्चित्प्रतीकारो भवति। तस्मात्संश्रयः कार्य इति मेऽभिप्रायः। एवं चिरंजीविमन्त्रः।
अथैवमभिहिते स मेघवर्णो राजा चिरंतनं पितृसचिवं दीर्घायुषं सकलनीतिशास्त्रपारंगतं स्थिरजीविनामानं प्रणम्य प्रोवाच—‘तत, यदेते मया पृष्टाः सचिवास्तावदत्रस्थितस्यापि तव, तत्परीक्षार्थम्। येन त्वंसकलं श्रुत्वा यदुचितं तन्मे समादिशसि। तद्यद्युक्तं भवति, तत्समादेश्यम्।’ स आह—‘वत्स, सर्वैरप्येतैर्नीतिशास्त्राश्रयमुक्तं सचिवैः। तदुपयुज्यते स्वकालोचितं सर्वमेव। परमेष द्वैधी भावस्य कालः। उक्तं च—
अविश्वासं सदा तिष्ठेत्संधिना विग्रहेण च।
द्वैधीभावंसमाश्रित्य नैव शत्रौ बलीयसि॥६०॥
तच्छत्रुंविश्वास्याविश्वस्तैर्लोभं दर्शयद्भिः सुखेनोच्छिद्यते रिपुः। उक्तं च—
उच्छेद्यमपि विद्वांसो वर्धयन्त्यरिमेकदा।
गुडेन वर्धितः श्लेष्मा सुखं वृद्ध्या निपात्यते॥६१॥
तथा च।
कृत्यं देवद्विजातीनामात्मनश्च गुरोस्तथा।
एकभावेन कर्तव्यं शेषं द्वैधं समाश्रितम्॥६२॥
तद्द्द्वैधीभावं संश्रितस्य तव स्वस्थानेवासो भविष्यति। लोभाश्रयाच्च शत्रुमुच्चाटयिष्यसि। अपरं यदि किंचिच्छिद्रं तस्य पश्यसि तद्गत्वा व्यापादयिष्यसि।’ मेघवर्ण आह—‘तात, मया सोऽविदितसंश्रयः। तत्कथं तस्य छिद्रं ज्ञास्यामि।’ स्थिरजीव्याह—‘वत्स, न केवलं स्थानम्, छिद्राण्यपि तस्य प्रकटीकरिष्यामि प्रणिधिभिः। उक्तं च।
गावो गन्धेन पश्यन्ति वेदैः पश्यन्ति वै द्विजाः।
चारैः पश्यन्ति राजानश्चक्षुर्भ्यामितरे जनाः॥६३॥
उक्तं चात्र विषये—
यस्तीर्थानि निजे पक्षे परपक्षेविशेषतः।
गुप्तैश्चारैर्नृपो वेत्ति न म दुर्गतिमाप्नुयात्’॥६४॥
मेघवर्ण आह—‘तात, कानि तीर्थान्युच्यन्ते कतिसंख्यानि च, कीदृशा गुप्तचराः, तत्सर्वं निवेद्यताम्’ इति। स आह—‘अत्र विषये भगवता नारदेन युधिष्ठिरः प्रोक्तः। यच्छत्रुपक्षेऽष्टादश तीर्थानि, स्वपक्षे पञ्चदश। त्रिभिस्त्रिभिर्गुप्तचरैस्तानि ज्ञेयानि। तैर्ज्ञातैः स्वपक्षःपरपक्षश्च वश्यो भवति। उक्तं च नारदेन युधिष्ठिरं प्रति—
कच्चिदष्टादशान्येषु स्वपक्षेदश पञ्च च।
त्रिभिस्त्रिभिरविज्ञातैर्वेत्सि तीर्थानि चारकैः॥६५॥
तीर्थशब्देनायुक्तकर्माभिधीयते। तद्यदि तेषां कुत्सितं भवति, तत्स्वामिनोऽभिघाताय भवति। प्रधानं भवति, तद्बद्धये स्यदिति। तद्यथामन्त्री, पुरोहितः, सेनापतिः, युवराजः, दौवारिकः, अन्तर्वासिक; प्रशासकः समाहर्तृ–संनिधातृ–प्रदेष्टृ–ज्ञापकाः, साधनाध्यक्षः गजाध्यक्षः, कोशाध्यक्षः, दुर्गपाल–करपाल–सीमापाल–प्रोत्कटभृत्याः। एषां भेदेन द्राग्रिपुः साध्यते।स्वपक्षेच देवी, जननी, कञ्चुकी, मालिकः, शय्यापालकः, स्पर्शाध्यक्ष सांवत्सरिकः भिषक् जलवाहकः, ताम्बूलवाहकः, आचार्यः, अङ्गरक्षकः, स्थानचिन्तकः, छत्रधरः, विलासिनी। एषां वैरद्वारेण स्वपक्षे विघातः। तथा च।
वैद्यसांवत्सरिकाचार्याः स्वपक्षेऽधिकृताश्वरा।
यथोहितुण्डिकोन्मत्ताः सर्वंजानन्ति शत्रुषु॥६६॥
तथा च।
कृत्याकृत्यविदस्तीर्थेष्वन्तः प्रणिधयः पदम्।
विदांकुर्वन्तु महतस्तलं विद्विषदम्भसः॥६७॥
एवं मन्त्रिकाक्यमाकर्ण्याऽत्रान्तरे मेघवर्ण आह—‘तात, अथ किंनिमित्तमेवंविधं प्राणान्तिकं सदैव वायसोलूकानां वैरम्।, स आह ‘वत्स, कदाचिद्धंस–शुक–बक–कोकिल–चातक–उलूक–मयूर–कपोत–पारावत–विष्कर–प्रभृतयः सर्वेऽपि पक्षिणः समेत्य सोद्वेगं मन्त्रयितुमारब्धाः—‘अहो अस्माकं तावद्वैनतेयो राजा। स च वासुदेवभक्तः। न कामपि चिन्तामस्माकं करोति। तत्किं तेन वृथास्वामिना, यो लुब्धकपाशैर्नित्यं निबध्यमानानां न रक्षां विधत्ते। उक्तं च—
यो न रक्षति वित्रस्तान्पीड्यमानान्परैः सदा।
जन्तून्पार्थिवरूपेण स कृतान्तो न संशयः॥६८॥
यदि न स्यान्नरपतिः सम्यङ्नेता ततः प्रजा।
अकर्णधारा जलधौ विप्लवेतेह नौरिव॥६९॥
षडिमान्पुरुषो जह्याद्भिन्नां नावमिवार्णवे।
अप्रवक्तारमाचार्यमनधीयानमृत्विजम्॥७०॥
अरक्षितारं राजानं भार्यां चाप्रियवादिनीम्।
ग्रामकामं च गोपालं वनकामं च नापितम्॥७१॥
तत्संचिन्त्यान्यः कश्चिद्राजा विहंगमानां क्रियताम् इति। अथ तैर्भद्राकारमुलूकमवलोक्य सर्वैरभिहितम्—‘यदेष उलूको राजास्माकं भविष्यति। तदानीयन्तां नृपाभिषेकसंबन्धिनः संभाराः, इति अथ साधिते विविधतीर्थोदके, प्रगुणीकृतेऽष्टोत्तरशतमूलिकासंघाते, प्रदत्ते सिंहासने, वर्तिते सप्तद्वीपसमुद्रभूधरविचित्रे धरित्रीमण्डले, प्रसारित व्याघ्रचर्मणि, आपूरितेषु हेमकुम्भेषु दीपेषु वाद्येषु च, सज्जीकृतेषु दर्पणादिषु मांगल्यवस्तुषु, पठत्सु वन्दिमुख्येषु, वेदोच्चारणपरेषु समुदितमुखेषु ब्राह्मणेषु, गीतपरे युवतीजने, आनीतायामग्रमहिष्यां कृकालिकायाम्, उलूकोऽभिषेकार्थं तावत्सिंहासन उपविशति, तावत्कुतोऽपि वायसः समायातः। सोऽचिन्तयत्—
‘अहो, किमेष सकलपक्षिसमागमो महोत्सवश्च।, अथ ते पक्षिणस्तं दृष्ट्वा मिथः प्रोचुः—‘पक्षिणां मध्ये वायसश्चतुरः श्रूयते। उक्तं च।
नराणां नापितो धूर्तः पक्षिणां चैव वायसः।
दंष्ट्रिणां च शृगालस्तु श्वेतभिक्षुस्तपस्विनाम्॥७२॥
तदस्यापि वचनं ग्राह्यम्। उक्तं च—
बहुधा बहुभिः सार्धं चिन्तिताः सुनिरूपिताः।
कथंचिन्नविलीयन्ते विद्वद्भिश्चिन्तिता नयाः॥७३॥
अथ वायसः समेत्य तानाह—‘अहो, किं महाजनसमागमोऽयं परममहोत्सवश्च।, ते प्रोचुः—‘भोः, नास्ति कश्चिद्विहङ्गमानां राजा। तदस्योलूकस्य विहङ्गराज्याभिषेको निरूपितस्तिष्ठति समस्तपक्षिभिः। तत्त्वमपि स्वमतंदेहि। प्रस्तावे समागतोऽसि’। अथासौ काको विहस्याह—‘अहो, न युक्तमेतत्, यन्मयूर–हंस–कोकिल–चक्रवाक–शुक–कारण्डव–हारीत–सारसादिषु पक्षिप्रधानेषु विद्यमानेषु दिवान्धस्यास्य करालवक्त्रस्याभिषेकः क्रियते। तन्नैतन्मम मतम्। यतः—
वक्रनासं सुजिह्माक्षं क्रूग्मप्रियदर्शनम्।
अक्रुद्धस्येदृशं वक्त्रं भवेत्क्रुद्धस्य कीदृशम्॥७४॥
तथा च।
स्वभावरौद्रमत्युग्रं क्रूरमप्रियदर्शनम।
उलूकं नृपतिं कृत्वा का नः सिद्धिर्भविष्यति ॥७५॥
अपरं वैनतेये स्वामिनि स्थिते किमेष दिवान्धः क्रियते राजा। तद्यद्यपि गुणवान्भवति तथाप्येकस्मिन्स्वामिनि स्थिते नान्यो भूपः प्रशस्यते।
एक एव हितार्थाय तेजस्वी पार्थिवो भुवः।
युगान्त इव भास्वन्तो बहवोऽत्र विपत्तये॥७६॥
तत्तस्य नाम्नापि यूयं परेषामगम्या भविष्यथ। उक्तं च—
गुरूणां नाममात्रेऽपि गृहीते स्वामिसंभवे।
दुष्टानां पुरतः क्षेमं तत्क्षणादेव जायते॥७७॥
तथा च।
व्यपदेशेन महतां सिद्धिः संजायते परा।
शशिनो व्यपदेशेन वसन्ति शशकाः सुखम्,॥७८॥
ते ऊचुः—‘कथमेतत्।, स आह—
कथा१
कस्मिंश्चिद्वने चतुर्दन्तो नाम महागजो यूथाधिपः प्रतिवसति स्म। तत्र कदाचिन्महत्यनादृष्टिः संजाता प्रभूतवर्षाणि या वत्। तया तडागहृदपल्वलसरांसि शोषमुपगतानि। अथ तैः समस्तगजैः स गजतथानुष्ठिते लम्वकर्णोऽपि गजमार्गमासाद्यागम्यं स्थलमारुह्य तं गजमुवाच—‘भो भो दुष्ट गज, किमेवं लीलया निःशङ्कतयात्र चन्द्रहृद आगच्छसि तन्नागन्तव्यम्। निवर्त्यताम्’ इति तदाकर्ण्य विस्मितमना गज आह—‘भोः, कस्त्वम्।’ स आह—‘अहं लम्वकर्णो नाम शशकश्चन्द्रमण्डले वसामि। सांप्रतंभगवता चन्द्रमसा तव पार्श्वे प्रहितो दूतः। जानात्येव भवान्, यथार्थवादिनो दूतस्यन दोषः करणीयः। दूतमुखा हि राजानः सर्व एव। उक्तं च—
उद्यतेष्वपि शस्त्रेषु बन्धुवर्गवधेष्वपि।
परुषाण्यपिजल्पन्तो वध्या दूता न भूभुजा’॥८८॥
तच्छ्रुत्वा स आह—‘भोःशशक, तत्कथय भगवतश्चन्द्रमसः संदेशम्, येन सत्वरं क्रियते।’ स आह—‘भवतातीतदिवसे यूथेन सहाऽऽगच्छता प्रभूताः शशका निपातिताः। तकिं न वेत्ति भवान्, यन्मम परिग्रहोऽयम्। तद्यदि जीवितेन ते प्रयोजनम्, तदा केनापि प्रयोजनेनात्र ह्रदे नागन्तव्यमिति संदेशः, गज आह—‘अथ क्व वर्तते भगवान्स्वामी चन्द्रः। स आह—‘अत्रह्रदे सांप्रतं शशकानां भवद्यूयमथितानां हतशेषाणां समाश्वासनाय समायातस्तिष्ठति। अद्दं पुनस्तवान्तिकं प्रेषितः।, गज आह—‘यद्येवंतद्दर्शय मे तं स्वामिनं येन प्रणम्याऽम्यत्र गच्छामि।, शशक आह—‘भोः, आगच्छ मया सद्दैकाकी येन दर्शयामि। तथानुष्ठिते शशको निशासमये तं गजं ह्रदतीरे नीत्वाजलमध्ये स्थितं चन्द्रबिम्बमदर्शयत्। आह च—‘भोः, एष नः स्वामी जलमध्ये समाधिस्थस्तिष्ठति। तन्निभृतं प्रणम्य सत्वरं व्रजेति। नो चेत्समाधिभङ्गाद्भूयोऽपि प्रभूतं कोपं करिष्यति।, अथ गजोऽपि त्रस्तमनास्तं प्रणम्य पुनर्गमनाय प्रस्थितः। शशकाश्च तद्दिनादारभ्य सपरिवाराः सुखेन स्वेषु स्थानेषु तिष्ठन्ति स्म। अतोऽहं ब्रवीमि—‘व्यपदेशेन महताम् इति॥अपि च। क्षुद्रमलसंकापुरुषं व्यसनिनमकृतज्ञं पृष्ठप्रलपनशीलं स्वामित्वेन नाभियोजये ज्जीवितुकामः। उक्तं च—
क्षुद्रमर्थपतिं प्राप्य न्यायान्वेषणतत्परौ।
उभावपि क्षयं प्राप्तौ पुरा शशकपिञ्जलौ॥८९॥
तेप्रोचुः—कथमेतत्।, स आह—
कथा २
कस्मिंश्चिद्वक्षे पुराहमवसम्। तत्राधस्तात्कोटरे कपिञ्जलो नाम चटकः प्रतिवसति स्मा अथ सदैवास्तमनवेलायामागतयोर्द्वयोरनेकसुभाषितगोष्ठ्या देवर्षिब्रह्मर्षिराजर्षिपुराणचरितकीर्तनेन च पर्यटनदृष्टानेककौतूहलप्रकथनेन च परमसुखमनुभवतोः कालो व्रजति। अथ कदाचित्कपिञ्जलः प्राणयात्रार्थमन्यैश्चटकैः सहान्यं पक्कशालिप्रायं देशं गतः। ततो यावन्निशासमयेऽपि नायातस्तावदहंसोद्वेगमनास्तद्वियोगदुःखितश्चिन्तितवान्—‘अहो, किमद्य कपिञ्जलो नायातः। किं केनापि प्राशेन बद्धः। उत्साहोस्वित्के नापि व्यापादितः। सर्वथा यदि कुशली भवति तन्मां बिना न तिष्ठति।, एवं मे चिन्तयतो बहून्यहानि व्यतिक्रान्तानि। ततश्च तत्र कोटरे कदाचिच्छीघ्रगो नाम शशकोऽस्तमनवेलायामागत्य प्रविष्टः। मयापि कपिञ्जलनिराशत्वेन न निवारितः अथान्यस्मिन्नहनि कपिञ्जलः शालिभक्षणादतीव पीवरतनुः। स्वमाश्रयं स्मृत्वा भूयोऽपि तत्रैव समायातः। अथवा साध्विदमुच्यते—
न तादृग्जायते सौख्यमपि स्वर्गे शरीरिणाम्।
दारिद्र्येऽपि हि यादृक्स्यात्स्वदेशे स्वपुरे गृहे॥९०॥
अथासौ कोटरान्तर्गतं शशकं दृष्ट्वा साक्षेपमाह—‘भोः शशक, न त्वया सुन्दरं कृतं यन्ममावसथस्थाने प्रविष्टोऽसि। तच्छीघ्रं निष्क्रम्यताम्। शशक आह—‘न तवेदं गृहम्। किंतु ममैव। तत्किं मिथ्या परुषाणि जल्पसि। उक्तं च—
वापीकूपतडागानां देवालयकुजन्मनाम्।
उत्सर्गात्परतः स्वाम्यमपि कर्तुं न शक्यते॥९१॥
तथा च।
प्रत्यक्षं यस्य यद्भुक्तं क्षेत्राद्यंदश वत्सरान्।
तत्र भुक्तिः प्रमाणं स्यान्न साक्षी नाक्षराणि वा॥९२॥
मानुषाणामयं न्यायो मुनिभिः परकीर्तितः।
तिरश्चांच विहङ्गानां यावदेव समाश्रयः॥९३॥
तन्मैमतद्रहम्, न तवइति। कपिञ्जलआह—‘भोः, यदि स्मृतिं प्रमाणीकरोषि तदागच्छ मया सह, येन स्मृतिपाठकं पृष्ट्वा स यस्य ददाति स गृह्णातु। तथानुष्ठिते मयापि चिन्तितम्—किमित्रभविष्यति। मया द्रष्टव्योऽयं न्यायः ततः कौतुकादहमपि तावनुमस्थितः। अत्रान्तरे तीक्ष्णदष्ट्रो नामारण्यमार्जारस्तयोर्विवादं श्रुत्वा मार्गासन्नं नदीतटमासाद्य कृतकुशांपग्रहो निर्मीलितनयन ऊर्ध्वबाहु—रर्धपादस्पृष्टभूमिः श्रीसूर्याभिमुख इमां धर्मोपदेशनाम करोत्—‘अहो, असागेऽयं संसारः। क्षणभङ्गराः प्राणाः। स्वप्नसदृशः प्रिय—समागमः। इन्द्रजालवत्कुटुम्बपरिग्रहोऽयम्। तद्धर्मंमुक्त्वा नान्या गतिरस्ति। उक्तंच—
अनित्यानि शरीराणि विभवो नैव शाश्वतः।
नित्यं संनिहितो मृत्युः कर्तव्योधर्मसंग्रहः॥९४॥
यस्य धर्मविहीनानि दिनान्यायान्ति यान्ति च।
स लोहकारभस्वैव श्वसन्नपि न जीवति॥९५॥
प्राच्छादयति कौपीनं नदंशमशकापहम्।
शुनः पुच्छमिव व्यर्थं पाण्डित्यं धर्मवर्जितम्॥९६॥
अन्यच्च।
पुलाका इव धान्येषु पूतिका इव पक्षिषु।
मशका इवमर्त्येषु येषां धर्मोन कारणम्॥९७॥
श्रेयः पुष्पं फलं वृक्षोद्दध्नःश्रेयोघृतं स्मृतम्।
श्रेयस्तैलं च पिण्याकाच्छ्रेयान्धर्मस्तु मानुषात्॥९८॥
सृष्टा मूत्रपुरीषार्थमाहागय च केवलम्।
धर्महीनाः परार्थाय पुरुषाः पशवो यथा॥९९॥
स्थैर्यं सर्वेषु कृत्येषु शंसन्ति नयपण्डिताः।
बह्वन्तराययुक्तस्य धर्मस्य त्वरिता गतिः॥१००॥
संक्षेपात्कथते धर्मो जनाः किं विस्तरेण वः।
परोपकारः पुण्याय पापाय परपीडनम्॥१०१॥
श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवावधार्यताम्।
आत्मनः प्रतिकूलानि परेषां न समाचरेत्॥१०२॥
अथ तस्यतांधर्मोपदेशनां श्रुत्वाशशक आह—‘भो भोः कपिञ्जल, एष नदीतीरे तपस्वी धर्मवादी तिष्ठति। तदेनं पृच्छावः।, कपिञ्जल आह—‘ननु स्वभावतोऽस्माकं शत्रुभूतोऽयमस्ति। तद्दूरे स्थितौ पृच्छावः। कदाचिदस्य व्रतवैकल्यं संपद्यते।, ततो दूरस्थितौ तावूचतुः—,भो भोस्तपस्विन्धर्मोपदेशक, आवयोर्विवादो वर्तते। तद्धर्मशास्त्रद्वारेणास्माकं निर्णयं कुरु। यो हीनवादी स ते भक्ष्यः, इति। स आह—‘भद्रौ, मा मैवं वदतम्। निवृत्तोऽहं नरकपातकमार्गात्। अहिंसैव धर्ममार्गः। उक्तं च—
अहिंसापूर्वको धर्मो यस्मात्सद्भिरुदाहृतः।
यूकमस्कुणदंशादींस्तस्मात्तानपि रक्षयेत्॥१०३॥
हिंसकान्यपि भूतानि यो हिंसति स निर्घृणः।
स याति नरकं घोरं किं पुनर्यः शुभानि च॥१०४॥
एतेऽपि ये याज्ञिका यज्ञकर्मणि पशून्व्यापादयन्ति, ते मूर्खाः परमार्थंश्रुतेर्न जानन्ति। तत्र किलैतदुक्तमजैर्यष्टव्यम्। अजा व्रीहयस्तावत्सप्तवार्षिकाः कथ्यन्ते। न पुनः पशुविशेषाः। उक्तंच—
वृक्षांश्छित्त्वापाशून्हत्वा कृत्वा रुधिरकर्दमम्।
यद्येवं गम्यते स्वर्गे नरकं केन गम्यते॥१०५॥
तन्नाहं भक्षयिष्यामि। परं जयपराजयनिर्णयं करिष्यामि। किं त्वहं वृद्धो दूराद्युवयोर्भाषान्तरं सम्यङ्न शृणोमि। एवं ज्ञात्वा मम समीपवर्तिनौभूत्वाममाग्रे न्यायं वदतम्। येन विज्ञाय विवादपरमार्थंवचो वदतो मे परलोकबाधो न भवति। उक्तं च यतः—
मानाद्वोयिद बालोभात्क्रोधाद्वा यदि वा भयात्।
यो न्यायमन्यथा ब्रूते स याति नरकं नरः॥१०६॥
उपविष्टः सभामध्ये यो न बक्ति स्फुटं वचः।
तस्माद्दूरेण स त्याज्यो न्यायो वा कीर्तयेदृतम्॥१०७॥
तस्माद्विश्रव्धौमम कर्णोपान्तिके स्फुटं निवेदयतम्।, किं बहुना। तेन क्षुद्रेण तथा तौ तुर्णं विश्वासितौ यथा तस्यो त्सङ्गवर्तिनौ संजातौ ततश्च तेनापि समकालमेवैकः पादान्तेनाक्रान्तः, अन्यो दंष्ट्राक्रकचेन च।
ततो गतप्राणौ भक्षिताविति। अतोऽहं ब्रवीमि—‘क्षुद्रमर्थपतिं प्राप्य’ इति॥भवन्तोऽप्येनं दिवान्धं क्षुद्रमर्थपतिमासाद्यरात्र्यन्धाः सन्तः शशकपिञ्जलमार्गेण यास्यन्ति। एवं ज्ञात्वायदुचितं तद्विधेयमतः परम्।’ अथ तस्य तद्वचनमाकर्ण्य ‘साध्वनेनाभिहितम्’ इत्युक्त्वा ‘भूयोऽपि पार्थिवार्थं समेत्य मन्त्रयिष्यामहे’ इति ब्रुवाणाः सर्वे पक्षिणो यथाभिमतं जग्मुः। केवलमवशिष्टो भद्रासनोपविष्टोऽभिषेकाभिमुखो दिवान्धः कृकालिकया सहास्ते। आह च—‘कः कोऽत्र भोः। किमद्यापि न क्रियते ममाभिषेकः।’ इति श्रुत्वाकृकालिकयाभिहितम्—‘भद्र, तवाभिषेके कृतोऽयं विघ्नो वायसेन। गताश्च सर्वेऽपि विहगा यथेप्सितासु दिक्षु। केवलमेकोऽयं वायसोऽवशिष्टः केनापि हेतुना तिष्ठति। तत्त्वरितमुत्तिष्ठ येन त्वां स्वाश्रयं प्रापयामि।’ तच्छ्रुत्वा सविषादमुलूको वायसमाह—‘भो भो दुष्टात्मन्, किं मया तेऽपकृतम्, यद्राज्याभिषेको मे विघ्नितः। तदद्यप्रभृति सान्वयमावयोर्वैरं संजातम्। उक्तं च—
रोहति सायकैर्विद्धं छिन्नंरोहति चासिना।
बचो दुरुक्तं वीभत्सं न प्ररोहति वाक्क्षतम्॥१०८॥
इत्येवमभिधाय कृकालिकया सह स्वाश्रयं गतः। अथ भयव्याकुलो वायसो व्यचिन्तयत्—‘अहो, अकारणं वैरमासादितस्। मया किमिदं व्याहृतम्। उक्तं च—
अदेशकात्वज्ञपनावतिक्षमं
यदप्रियं लाघवकारि च्चात्मनः।
योऽत्राब्रवीत्कारणवर्जितुं वचो
न तद्वचः स्याद्विषमेवतद्बचः॥१०९॥
बलोपपन्नोऽपि हि बुद्धिमान्नरः
परं नयेन्न स्वयमेववैरिताम्।
भिषणामास्तीतिविचिन्त्य भक्षये-
दकारणात्को हिविचक्षणो विषम्॥११०॥
परपरिबादः परिषदि न कथंचित्पण्डितेन वक्तव्यः।
सत्यमपि तन्नवाच्यं यदुक्तमसुखावहं भवति॥१११॥
सुहृद्भिराप्तैरसकृद्विचारितं
स्वयं च बुद्धा प्रविचारिताश्रयम्।
करोति कार्यखलु यः स बुद्धिमा-
न्स एव लक्ष्म्या यशमां व भाजनम्’॥११२॥
एवं विचिन्त्य काकोऽपि प्रयातः। तदा प्रभृत्यस्माभिः सह कौशिकानामन्वयगतं वैरमस्ति। मेघवर्ण आह—‘तात, एवं गतेऽस्माभिः किं कृत्यमस्ति। स आह—‘वत्स, एवं गेतेऽपि षाड्गुण्यादपरः स्थूलोऽभिप्रायोऽस्ति तमङ्गीकृत्य स्वयमेवाहंतद्विजयाय यास्यामि। रिपून्वञ्चयित्वावधिष्यामि। उक्तं च यतः—
बहुबुद्धिसमायुक्ताः सुविज्ञाना बलोत्कटान्।
शत्कावञ्चयितुं धूर्ता ब्राह्मणं छगत्वादिव’॥११३॥
मेघवर्ण आह—‘कथमेतत्।’ सोऽब्रवीत—
कथा ३
कस्मिंश्चिदधिष्ठाने मित्रशर्मा नाम ब्राह्मणः कृताग्निहोत्रपरिग्रहः प्रतिवसति स्म। स कदाचिन्माघमासे सौम्यानिले प्रवाति, मेघाच्छादिते गगने मन्दं मन्दं प्रवर्षति पर्जन्ये, पशुप्रार्थनाय किंचिद्ग्रामान्तरं गत्वा कश्विद्यजमानो याचितः—‘भो यजमान, आगामिन्याममावस्यायामहं यक्ष्यामि यज्ञम्। तद्देहि मे पशुमेकम्।’अथ तेन तस्य शास्त्रोक्तः पीवरतनुः पशुः प्रदत्तः। सोऽपि तं समर्थमितश्वेतश्च गच्छन्तं विज्ञाय स्कन्धे कृत्वा सत्वरं स्वपुराभिमुखः प्रतस्थे। अथ तस्य गच्छतो मार्गे त्रयो धूर्ताः क्षुत्क्षामकण्ठाः संमुखा बभूवुः। तैश्चतादृशं पीवरतनुं स्कन्ध आरूढमवलोक्य मिथोऽभिहितम्—‘अहो, अस्य पशोर्भक्षणादद्यतनीयो हिमपातो व्यर्थतां नीयते। तदेनं वञ्चयित्वा पशुमादाय शीतत्राणं कुर्मः। अथ तेषामेकतमो वेषपरिवर्तनं विधाय संमुखो भूत्वापमार्गेण तमाहिताग्निमूचे—‘भो भो बालाग्निहोत्रिन्, किमेवं जनविरुद्धं हास्यकार्यमनुष्ठीयते। यदेष सारमेयोऽपवित्रः स्कन्धाधिरूढो नीयते। उक्तंच यतः—
श्वानकुक्कुटचाण्डालाः समस्पर्शाः प्रकीर्तिताः।
रासभोष्ट्रौविशेषेण तस्मात्तान्नैवसंस्पृशेत् ॥११४॥
ततश्च तेन कोपाभिभूतेनाभिहितम्—‘अहो, किमन्धो भवान्। यत्षशुं सारमेयं प्रतिपादयसि।’ सोऽब्रवीत्—‘ब्रह्मन्, कोपस्त्वया न कार्यः। यथेच्छया गम्यताम्’ इति। अथ यावत्किंचिदध्वनोऽन्तरं गच्छति, तावदद्वितीय धूर्तः संमुखे समुपेत्य तमुवाच—‘भो ब्रह्मन् कष्टं कष्टम्। यद्यपि वल्लभोज्यं ते मृतवत्सः, तथापि स्कन्धमारोपयितुमयुक्तम्। उक्तं च यतः—
तिर्यञ्चंमानुषं वापि यो मृतं संस्पृशेत्कुधीः।
पञ्चगव्येन शुद्धिःस्वात्तस्यचान्द्रायणेन वा॥११५॥
अथासौ सकोपमिदमाह—‘भोः, किमन्धो भवान्। यत्पशुं मृतवत्सं वदसि’। सोऽब्रवीत्—‘भगवन् मा कोपं कुरु। अज्ञानान्मयाभिहितम् तत्त्वमात्मरुचिं समाचार’ इति। अथ यावत्स्तोकं वनान्तरं गच्छति तावत्तृतीयोऽन्यवेशधारी धूर्तः संमुखः समुपेत्य तमुवाच—‘भोः, अयुक्तगेतत्। यत्त्वंरासभं स्कन्धाधिरूढं नयसि। तत्त्यज्यतामेषः। उक्तं च—
यः स्पृशेद्रासभं मर्त्यो ज्ञानादज्ञानतोऽपि वा।
सचैलं स्नानमुद्दिष्टं तस्य पापप्रशान्तये॥११६॥
तत्त्यजैनं यावदन्यः कश्चिन्न पश्यति। अथासौ तं पशुं रासभं मन्यामानो भयाद्भूमौ प्रक्षिप्य स्वगृहमुद्दिश्य प्रपलायितः। ततस्ते त्रयो मिलित्वा तं पशुमादाय यथेच्छया भक्षितुमारब्धाः। अतोऽहं ब्रवीमि—‘बहुबुद्धिसमायुक्ताः’इति॥अथवा साध्विद—
मुच्यते—
अभिनवसेवकविनयैः प्राघुणकोत्कैर्विलासिनीरुदितैः।
धूर्तजनवचननिकरैरिह कश्चिदवञ्चितो नास्ति॥११७॥
किंच दुर्बलैरपि बहुभिः सह विरोधो न युक्तः। उक्तं च—
बहवो न विरोद्धव्या दुर्जया हि महाजनाः।
स्फुरन्तमपि नागेन्द्रं भक्षयन्ति पिपीलिकाः॥११८॥
मेघवर्ण आह—‘कथमेतत्।’ स्थिरजीवी कथयति—
कथा ४
अस्ति कस्मिंश्चिद्वल्मीके महाकायः कृष्णसर्पोऽतिदर्पो नाम। स कदाचिद्बिलानुसारमार्गसुत्सृज्यान्येन लघुद्वारेण निष्क्रामितुमारब्धः। निष्क्रामतश्च तस्य महाकायत्वाद्दैववशतया लघुविवरत्वाच्च शरीरे व्रणः समुत्पन्नः। अथ व्रणशोणितगन्धानुसारिणीभिः पिपीलिकाभिः सर्वतो व्याप्तो व्याकुलीकृतश्च। कति व्यापादयति, कति वा ताडयति। अथ प्रभूतत्वाद्विस्तारितबहुव्रणः क्षतसर्वाङ्गोऽतिदर्पः पञ्चत्वमुपागतः। अतोऽहं ब्रवीमि—‘बहवो न विरोद्धव्याः’ इति॥तदत्रास्ति किंचिन्मे वक्तव्यमेव। तदवधार्य यथोक्तमनुष्ठीयताम्।’ मेघवर्ण आह—,तत्समादेशय। तवादेशो नान्यथा कर्तव्यः।’ स्थिरजीवी प्राह—‘वत्स, समाकर्णय तर्हि सामादीनतिक्रम्य यो यथा पञ्चम उपायो निरूपितः। तन्मां विपक्षभूतं कृत्वा तिनिष्टरवचनैर्निर्यर्त्स्य यथा विपक्षप्रणिधीनां प्रत्ययो भवति तथा समाहृतरुधिरैरालिप्यास्यैव न्यग्रोधस्याधस्तात्प्रक्षिप्य मां गम्यतां पर्वतमृष्यमूकं प्रति। तत्र सपरिवारस्तिष्ठ, यावदहं समस्तान्सपत्नान्सुप्रणीतेन विधिना विश्वास्याभिमुखान्कृत्वा कृतार्थो ज्ञानदुर्गमध्यो दिवसे तानन्धतां प्राप्ताञ्ज्ञात्वा व्यापादयामि। ज्ञातं मया सम्यक्। नान्यथाभविष्यति। उक्तं च यतः—
अपसारसमायुक्तं नयज्ञैर्दुर्गमुच्यते।
अपसारपरित्यक्तं दुर्गव्याजेन बन्धनम्॥११९॥
न च त्वया मदर्थं कृपा कार्या। उक्तं च—
अपि प्राणसमानिष्टान्पालितांल्लालितानापि।
भृत्यान्युद्धे समुत्पन्ने पश्येच्छुष्कमिवेन्धनम्॥१२०॥
तथा च।
प्राणवद्रक्षयेद्भृत्यान्स्वकायमिव पोषयेत्।
सदैकदिवसस्यार्थे यत्र स्याद्रिपुसंगमः॥१२१॥
तत्त्वयाहं नात्रविषये प्रतिषेधनीयः।’ इत्युक्त्वा तेन सह शुष्ककलहं कर्तुमारब्धः। अथान्ये तस्य भृत्याः स्थिरजीविनमुच्छृङ्गलवचनैर्जल्पन्तमवलोक्य तस्य वधायोद्यता मेघवर्णेनाभिहिताः—‘अहो निवर्तध्वं यूयम्।अहमेवास्य शत्रुपक्षपातिनो दुरात्मनः स्वयं निग्रहं करिष्यामि।’ इत्यभिधाय तस्योपरि समारुह्य, लघुभिश्चञ्चुप्रहारैस्तं प्रहृत्य, आहतरुधिरेण प्लावयित्वा, तदुपदिष्टमृष्यमूकपर्वतं सपरिवारो गतः। एतस्मिन्नन्तरे कृकालिकया द्विषत्प्रणिधीभूतया तत्सर्वं मेघवर्णस्यामात्यस्य व्यसनमुलूकराजस्य निवेदितम्, यत्तवारिः संप्रति भीतः क्वचित्प्रचलितः सपरिवारः’इति। अथोलूकाधिपस्तदाकर्ण्याऽस्तमनवेलायां सामात्यः सपरिजनो वायसवधार्थंप्रचलितः। प्राह च—‘त्वर्यतां त्वर्यताम्। भीतः शत्रःपलायनपरः पुण्यैर्लभ्यते। उक्तं च—
शत्रोः प्रचलने छिद्रमेकमन्यश्चसंश्रयम्।
कुर्वाणो जायते वश्यो व्यग्रत्वे राजसेविनाम्’॥१२२॥
एवं ब्रुवाणः समन्तान्न्यग्रोधपादपमधः परिवेष्ट्य व्यवस्थितः। यावन्नकश्चिद्वायसो दृश्यते, तावच्छास्वाग्रमधिरूढो हृष्टमना बन्दिभिरभिष्टूयमानोऽरिमर्दनस्तान्परिजनान्प्रोवाच—‘अहो, ज्ञायतां तेषां मार्गः। कतमेन मार्गेण प्रनष्टाः काकाः। तद्यावन्न दुर्गंसमाश्रयन्ति, तावदेव पृष्ठतो गत्वा व्यापादयामि। उक्तं च—
हृतिमप्याश्रितः शत्रुरवध्यः स्याज्जिगीषुणा।
किं पुनः संश्रितो दुर्गं सामग्या परया युतम्॥१२३॥
अथैतस्मिन्प्रस्तावे स्थिरजीवी चिन्तयामास—‘यदेतेऽस्मच्छत्रवोऽनुपलब्धास्मद्वत्तान्ता यथागतमेव यान्ति। ततो मया न किंचित्कृतं भवति। उक्तं च—
अनारम्भो हि कार्याणां प्रथमं बुद्धिलक्षणम्।
प्रारब्धस्यान्तगमनं द्वितीयं बुद्धिलक्षणम्॥१२४॥
तद्वरमनारम्भः न चारम्भविघातः। तदहमेताञ्शब्द संश्राव्यात्मानं दर्शयामि’ इति विचार्य मन्दं मन्दं शब्दमकरोत्। तच्छ्रुत्वा ते सकला अप्युलूकास्तद्वधाय प्रजग्मुः। अथ तेनोक्तम्—‘अहो, अहं स्थिरजीवी नाम मेघवर्णस्य मन्त्री \। मेघवर्णेनैवेदृशीमवस्थां नीतः। तन्निवेदयात्मस्वाम्यग्रे। तेन सह बहु वक्तव्यमस्ति।’ अथ तैर्निवेदितः स उलूकराजो विस्मयाविष्टस्तत्क्षणात्तस्य सकाशं गत्वा प्रोवाच—‘भो भोः, किमेतां दशां गतस्त्वम्। तत्कथ्यताम्।’ स्थिरजीवी प्राह—‘देव, श्रूयतां तदवस्थाकारणम्। अतीतदिनेदुरात्मा मेघवर्णो युष्मद्व्यापादितप्रभूतवायसानां पीडया युष्माकमुपरि कोपशोकग्रस्तो युद्धार्थं, प्रचलित आसीत्। ततो मयाभिहितम्—‘स्वामिन्, न युक्तं भवतस्तदुपरि गन्तुम्। बलवन्त एते, बलहीनाश्चवयम्। उक्तं च—
बलीयसा हीनबलो विरोधं
न भूतिकामो मनसापि वाञ्छेत्।
न वध्यतेऽत्यन्तबलो हि यस्मा-
द्व्यक्तं प्रणाशोऽस्ति पतङ्गवृत्तेः॥१२५॥
तत्तस्योपायनप्रदानेन संधिरेव युक्तः। उक्तं च—
बलवन्तं रिपुं दृष्ट्वा सर्वस्वमपि बुद्धिमान्।
दत्त्वा हि रक्षयेत्प्राणान्रक्षितैस्तैर्धनं पुनः॥१२६॥
तच्छ्रुत्वा तेन दुर्जनप्रकोपितेन त्वत्पक्षपातिनं मामाशङ्कमानेनेमां दशां नीतः। तत्तव पादौ सांपतं मे शरणम् किं बहुना विज्ञप्तेन। यावदहं प्रचलितुं शक्नोमि, तावत्वां तस्यावासे नीत्वासर्ववायसक्षयं विधास्यामि’ इति।
अथारिगर्दनस्तदाकर्ण्यपितृपितामहक्रमागतमन्त्रिभिः सार्धं मन्त्रयांचक्रे। तस्य च पञ्च मन्त्रिणः। तद्यथा—रक्ताक्षः, क्रूगक्षः, दीप्ताक्षः, वक्रनासः, प्राकारकर्णश्चेति। तत्रादौ रक्ताक्षमपृच्छत्—‘भद्र, एषतावत्तस्य रिपोर्मन्त्री मम हस्तगतः। तत्किं क्रियताम्’ इति। रक्ताक्ष आह—‘देव, किमत्र चिन्त्यते। अविचारितमयं हन्तव्यः। यतः।
हीनः शत्रुर्निहन्तव्यो यावन्न बलवान्भवेत्।
प्राप्तस्वपौरुषवलः पश्चाद्भवति दुर्जयः॥१२७॥
“किं च स्वयमुपागता श्रीस्त्यज्वमाना शपतीति” लोके प्रवादः। उक्तं च—
कालो हि सकृदभ्येति यन्नरं कालकाङ्क्षिणम्।
दुर्लभः स पुनस्तेन कालकर्माऽचिकीर्षता॥१२८॥
भूयते च यथा—
चितिकां दीपितां पश्य फटां भग्नां ममैवच।
भिन्नश्लिष्टा तु या प्रीतिर्न सा स्नेहेन वर्धते॥१२९॥
अरिमर्दनः आह—‘कथमेतत्।’ रक्ताक्षः कथयति—
** कथा ५**
अस्ति कस्मिंश्चिदधिष्ठाने हरिदत्तो नाम ब्राह्मणः। तस्य चकृषिं कुर्वतः सदैव निष्फलः कालोऽतिवर्तते। अथैकस्मिन्दिवसे स ब्राह्मण उष्णकालावसाने घर्मार्तः स्वक्षेत्रमध्ये वृक्षच्छायायां प्रसुप्तोऽनतिदूरे वल्मीकोपरि प्रसारितं बृहत्फटायुक्तं भोषणं भुजङ्गमं दृष्ट्वा चिन्तयामास—‘नूनमेषा क्षेत्रदेवता मया कदाचिदपि न पूजिता तेनेदं मे कृषिकर्म विफलीभवति। तदस्या अहं पूजामद्य करिष्यामि।’इत्यवधार्य कुतोऽपि क्षीरं याचित्वा शराबे निक्षिप्य वल्मीकान्तिकमुपागम्योवाच—‘भोः क्षेत्रपाल, मयैतावन्तं कालं न ज्ञातं यत्त्वमत्र वससि। तेन पूजा न कृता। तत्सांप्रतं क्षमस्व’ इति। एवमुक्त्वा दुग्धं च निवेद्य गृहाभिमुखं गायात्। अथ प्रातर्यावदागत्य पश्यति, तावद्दीनारमेकं शरावे दृष्टवान्। एवं च प्रतिदिनमेकाकी समागत्य तस्मै क्षीरं ददाति। एकैकं च दीनारं गृह्णाति। अथैकस्मिन्दिवसे वल्मीके क्षीरनयनाव पुत्रं निरूप्य ब्राह्मणो ग्रामान्तरं जगाम। पुत्रोऽपि क्षीरं तत्र नीत्वा संस्याप्य चपुनर्गृहं समायानः। दिनान्तरे तत्रगत्वादीनारमेकं च दृष्ट्वा गृहीत्वा च चिन्तितवान्—‘नूनं सौवर्णदीनारपूर्णोऽयं वल्मीकः। तदेनं हत्वा सर्वमेकवारं ग्रहीष्यामि।’ इत्येवं संप्रधार्यान्येद्युःक्षीरं ददता ब्राह्मणपुत्रेण सर्पो लगुडेन शिरसि ताडितः। ततः कथमपि दैववशादमुक्तजीवित एवं रोषात्तमेवतीव्रविषदशनैस्तथाऽदशत्, यथा सद्यः पञ्चत्वमुपागतः। स्वजनैश्चनातिदूरे क्षेत्रस्य काष्ठसंचयैः संस्कृतः अथ द्वितीयदिने तस्य पिता समायातः। स्वजनेभ्यः सुतविनाशकारणं श्रुत्वा तथैव समर्थितवान्।अब्रवीञ्च—
‘भूतान्यो नानुगृह्णाति ह्यात्मनः शरणागतान्।
भूतार्थास्तस्य नश्यन्ति हंसाः पद्मवने यथा’॥१३०॥
पुरुषैरुक्तम्—कथमेतत्। ब्राह्मणः कथयति—
कथा ६
अस्ति कस्मिंश्चिदधिष्ठाने चित्ररथो नाम राजा। यस्य योधैः सुरक्ष्यमाणं पद्मसरो नाम सरस्तिष्ठति। तत्र च प्रभूता जाम्बूनदमया हंसास्तिष्ठन्ति। षण्मासेषण्मासे पिच्छमेकैकं परित्यजन्ति। अथ तत्र सरसि सौवर्णो बृहत्पक्षी समायातः।तैश्चोक्तः—‘अस्माकं मध्ये त्वया न वस्तव्यम्, येन कारणेनास्माभिः षण्मासान्ते पिच्छैकैकदानं कृत्वा गृहीतमेतत्सरः।’ एवं च किं बहुना परस्परं द्वैधमुत्पन्नम्। स च राज्ञः शरणं गतोऽब्रवीत्—‘देव, एते पक्षिण एवं वदन्ति, यदस्माकं राजा किं करिष्यति। च दृष्ट्वा गृहीत्वा च चिन्तितवान्—‘नूनं सौवर्णदीनारपूर्णोऽयं वल्मीकः। तदेनं हत्वा सर्वमेकवारं ग्रहीष्यामि।’ इत्येवं संप्रधार्यान्येद्युः क्षीरं ददता ब्राह्मणपुत्रेण सर्पो लगुडेन शिरसि ताडितः। ततः कथमपि दैववशादमुक्तजीवित एवरोषात्तमेत्र तीव्रविषदशनैस्तथाऽदशत्, यथा सद्यः पञ्चत्वमुपागतः। स्वजनैश्च नातिदूरे क्षेत्रस्य काष्ठसंचयैः संस्कृतः अथ द्वितीयदिने तस्य पिता समायातः। स्वजनेभ्यः सुतविनाशकारणं श्रुत्वा तथैव समर्थितवान्। अब्रवीञ्च—
‘भूतान्यो नानुगृह्णाति ह्यात्मनः शरणागतान्।
भूतार्थास्तस्य नश्यन्ति हंसाः पद्मवने यथा’॥१३०॥
पुरुषैरुक्तम्—कथमेतत्।’ ब्राह्मणः कथयति—
कथा ६
अस्ति कस्मिंश्चिदधिष्ठाने चित्ररथो नाम राजा। यस्य योधैः सुरक्ष्यमाणं पद्मसरो नाम सरस्तिष्ठति। तत्र च प्रभूता जाम्बूनदमया हंसास्तिष्ठन्ति। षण्मासेषण्मासे पिच्छमेकैकं परित्यजन्ति। अथ तत्र सरसि सौवर्णो बृहत्पक्षी समायातः। तैश्वोक्तः—‘अस्माकं मध्ये त्वया न वस्तव्यम्, येन कारणेनास्माभिः षण्मासान्ते पिच्छैकैकदानं कृत्वा गृहीतमेतत्सरः।’ एवं च किं बहुना परस्परं द्वैधमुत्पन्नम्। स च राज्ञः शरणं गतोऽब्रवीत्—‘देव, एते पक्षिण एवं वदन्ति, यदस्माकं राजा किं करिष्यति। न कस्याप्यावासं दद्मः। मया चोक्तम्—न शोभनं युष्माभिरभिहितम्। अहं गत्वा राज्ञे निवेदयिष्यामि। एवं स्थिते देवः प्रमाणम्।’ ततो राजा भृत्यानब्रवीत्—‘भो भोः, गच्छत। सर्वान्पक्षिणो गतासून्कृत्वा शीघ्रमानयत।’ राजा देशानन्तरमेव प्रचेलुस्ते। अथ लगुडहस्तान्राजपुरुषान्दृष्ट्वा तत्रैकेन पक्षिणा वृद्धेनोक्तम्—‘भोः स्वजनाः, न शोभनमापतितम्। ततः सर्वैरेकमतीभूय शीघ्रमुत्पतितव्यम्।, तैश्चतथानुष्ठितम्। अतोऽहं ब्रवीमि—‘भूतान्यो नानुगृह्णाति, इति। इत्युक्त्वा पुनरपि ब्राह्मणःप्रत्यूषे क्षीरं गृहीत्वा तत्र गत्वा तारस्वरेण सर्पमस्तौत्। तदा सर्पश्चिरं वल्मीक द्वारान्तर्लीन एव ब्राह्मणं प्रत्युवाच—‘त्वं लोभादत्रागतः पुत्रशोकमपि विहाय। अतः परं तव मम च प्रीतिर्नोचिता। तव पुत्रेण यौवनोन्मदेनाहं ताडितः। मया स दष्टः। कथं मया लगुडप्रहारो विस्मर्तव्यः, त्वया च पुत्रशोकदुःखं कथं विस्मर्तव्यम्।, इत्युक्त्वाबहुमूल्यं हीरकमणिं तस्मै दत्त्वा’अतः परं पुनस्त्वया नागन्तव्यम्, इति पुनरुक्त्वा विवरान्तर्गतः। ब्राह्मणश्च मणिंगृहीत्वा पुत्रबुद्धिं निन्दन्स्वगृहमागतः। अतोऽहं ब्रवीमि—‘चितिकां दीपितां पश्य’ इति। तदस्मिन्हतेऽयत्नादेव राज्यमकण्टकं भवतो भवति।’
तस्यैतद्वचनं श्रुत्वा क्रूराक्षं पप्रच्छ—‘भद्र, त्वंतु किं मन्यसे।, सोऽब्रवीत्—तेव, निर्दयमेतत्, यदनेनाभिहितम्। यत्कारणं शरणागतो न वध्यते। सृष्ट खल्विदमारुयातम्।
श्रूयते हि कपोतेन शत्रुः शरणमागतः।
पूजितश्च यथान्यायं स्वैश्व मांसैर्निमन्रितः॥१३१॥
अरिमर्दनोऽब्रवीत्—,कथमेतत्।, क्रूराक्षः कथयति—
कथा ७
कश्रित्क्षुद्रसमाचारः प्राणिनां कालसन्निभः।
विचचार महारण्ये घोरःशकुनिलुब्धकः॥१३२॥
नैव कश्चित्सुहृत्तस्य न संबन्धी न बान्धवः।
स तैः सर्वैः परित्यक्तस्तेन रौद्रेणकर्मणा॥१३३॥
अथवा।
ये नृशंसा दुरात्मानः प्राणिनां प्राणनाशकाः।
उद्वेजनीया भूतानां व्याला इव भवन्ति ते॥१३४॥
स पञ्जरकमादाय पाशं च लगुडं तथा।
नित्यमेव वनं याति सर्वप्राणिविहिंसकः॥१३५॥
अन्ये द्युर्भ्रमतस्तस्य वने कापि कपोतिका।
जाता हस्तगता तां स प्राक्षिपत्पञ्जरान्तरे॥१३६॥
अथ कृष्णा दिशः सर्वा वनस्थस्याभवन्धनैः।
वातवृष्टिश्च महती क्षयकाल इवाभवत्॥१३७॥
ततः संत्रस्तहृदयः कम्पमानो मुहुर्मुहुः।
अन्वेषयन्परित्राणमाससाद वनस्पतिम् ॥१३८॥
मुहूर्तं पश्यते यावद्वियद्विमलतारकम्।
प्राप्य वृक्षं वदत्येवं योऽत्र तिष्ठति कश्चन॥१३९॥
तस्याहं शरणं प्राप्तः स परित्रातु मामिति।
शीतेन भिद्यमानं च क्षुधया गतचेतसम्॥१४०॥
अथ तस्य तरोः स्कन्धे कपोतः सुचिरोषितः।
भार्याविरहितस्तिष्ठन्विललाप सुदुःखितः॥१४१॥
तया विरहितं ह्येतच्छून्यमद्य गृहं मम॥१४२॥
पतिब्रता पतिप्राणा पत्युः प्रियहिते रता।
यस्य स्यादीदृशी भार्या धन्यः स पुरुषो भुवि॥१४३॥
न गृहं गृहमित्याहुर्गृहिणी गृहमुच्यते।
गृहं हि गृहिणीहीनमरण्यसदृशं मतम्॥१४४॥
पञ्जरस्था ततः श्रुत्वा भर्तुर्दुःखान्वितं वचः।
कपोतिका सुसंतुष्टा वाक्यं चेदमथाह सा॥१४५॥
न सा स्त्रीत्यभिमन्तव्या यस्यां भर्ता न तुष्यति।
तुष्टे भर्तरि नारीणां तुष्टाः स्युः सर्वदेवताः॥१४६॥
दावाग्निना विदग्धेव सपुष्पस्तबका लता।
भस्मीभवतु सा नारी यस्यांभर्ता न तुष्यति॥१४७॥
मितं ददाति हि पिता मितं भ्राता मितं सुतः।
अमितस्य हि दातारं भर्तारं का न पूजययेत्॥१४८॥
पुनश्चाब्रवीत्—
शृणुष्वावहितः कान्त यत्तेवक्ष्याम्यहं हितम्।
प्राणैरपि त्वया नित्यं संरक्ष्यः शरणागतः॥१४९॥
एष शाकुनिकः शेते तवावासं समाश्रितः।
शीतार्तश्च क्षुधार्तश्च पूजामस्मै समाचर॥१५०॥
श्रूयते च।
यः सायमतिथिं प्राप्तं यथाशक्ति न पूजयेत्।
तस्यासौ दुष्कृतं दत्वा सुकृतं चापकर्षति॥१५१॥
मा चास्मै त्वं कृथा द्वेषं बद्धानेनेति मत्प्रिया।
स्वकृतैरेव वद्धाहं प्राक्तनैः कर्मबन्धनैः॥१५२॥
दारिद्र्यरोगदुःखानि बन्धनव्यसनानि च।
आत्मापराधवृक्षस्य फलान्येतानि देहिनाम्॥१५३॥
तस्मात्त्वंद्वेषमुत्सृज्य मब्दन्धनसमुद्भवम्।
धर्मे मनः समाधाय पूजयैनं यथाविधि॥१५४॥
तस्या स्तद्वचनं श्रुत्वा धर्मयुक्तिसमन्वितम्।
उपगम्य ततोऽधृष्टः कपोतः प्राह लुब्धकम्॥१५५॥
भद्र मुखागतं तेऽस्तु ब्रूहि किं करवाणि ते।
संतापश्च न कर्तव्यः स्वगृहे वर्तते भवान्॥१५६॥
तस्य तद्वचनं श्रुत्वा प्रत्युवाच विहङ्गमम्।
कपोत खलु शीतं मे हिमत्राणं विधीयताम्॥१५७॥
स गत्वाङ्गारकं नीत्वा पातयामास पावकम्।
ततः शुष्केषु पर्णेषु तमाशु समदीपयत्॥१५८॥
सु संदीप्तं ततः कृत्वा तमाह शरणागतम्।
संतापयस्व विश्रब्धं स्वगात्राण्यत्र निर्भयः।
न चास्ति विभवः कश्चिन्नाशये येन ते क्षुधम्॥१५९॥
सहस्रं भरते कश्चिच्छतमन्योदशापरः।
मम त्वकृतपुण्यस्य क्षुद्रस्यात्मापि दुर्भरः॥१६०॥
एकस्याप्यतिथेरन्नं यः प्रदातुं न शक्तिमान्।
तस्यानेकपरिक्लेशे गृहे किं बसतः फलम्॥१६१॥
तत्तथा साधयाम्येतच्छरीरं दुःखजीवितम्।
यथा भूयो न वक्ष्यामि नास्तीत्यर्थिसमागमे॥१६२॥
स निनिन्द किलात्मानं न तु तं लुब्धकं पुनः।
उवाच तर्पयिष्ये त्वं मुहूर्तं प्रतिपालय॥१६३॥
एवमुवत्वा स धर्त्माप्रहृषेनान्तरात्मना।
तमग्निं संपरिक्रम्य प्रविवेश स्ववेश्मवत्॥१६४॥
ततस्तं लुब्धको दृष्ट्वा कृपया पीडितो भृशम्।
कपोतमग्नौ पतितं वाक्यमेतदभाषत॥१६५॥
यः करोति नरः पापं न तस्यात्मा ध्रुवं प्रियः।
आत्माना हि कृतं पापमात्मनैव हि भुज्यते॥१६६॥
सोऽहं पापमतिश्चैव पापकर्मरयः सदा।
पतिष्यामि महाघोरे नरके नात्र संशयः॥१६७॥
नूनं मम नृशंसस्यप्रत्यादर्शः सुदर्शितः।
प्रयच्छता स्वमांसानि कपोतेन महात्मना॥१६८॥
अद्य प्रभृति देहं स्वं सर्वभोगविवर्जितम्।
तोयं स्वल्पं यथा ग्रीष्मेशोषयिष्याम्यहंपुनः॥१६९॥
शीतवातातपसहःकृशाङ्गो मलिनस्तथा।
उपवासैर्बहुविधैश्वरिष्ये धर्ममुत्तमम्॥१७०॥
ततो यष्टिंशलाकां च जालकं पञ्जरं तथा।
वभञ्ज लुब्धको दीनां कपोंतीं च मुमोच ताम्॥१७१॥
लुब्धकेन ततो मुक्ता दृष्ट्वाग्नौ पतितं पतिम्।
कपोती विललापार्ता शोकसंतप्तमानसा॥१७२॥
न कार्यमद्य मे नाथ जीवितेन त्वया विना।
दीनायाः पतिहीनायाः कि नार्या जीविते फलम्॥१७३॥
मनोदर्पस्त्वहंकारः कुलपूजा च बन्धुषु।
दासभृत्यजनेाष्वाज्ञो वैधव्येन प्रणश्यति॥१७४॥
एवं विलप्य बहुशः कृपणं भृशदुःखिता।
पतिव्रता सुसंदीप्तं तमेवाग्निं विवेश सा॥१७५॥
ततो दिव्याम्बरधारा दिव्याभरणभूषिता।
भर्तारं सा विमानस्थं ददर्श स्वं कपोतिका॥१७६॥
सोऽपि दिव्यतनुर्भूत्वायथार्थमिदमब्रवीत्।
अहो मामनुगच्छन्त्या कृतं साधु शुभे त्वया॥१७७॥
तिस्रः कोट्योऽर्धकोटी च यानि रोमाणि मानुषे।
तावत्कालं वसेत्स्वर्गे भर्तारं यानुगच्छति॥१७८॥
कपोतदेवः सूर्यास्ते प्रत्यहं सुखमन्वभूत्।
कपोतदेहवत्सासीत्प्राक्पुण्यप्रभवं हि तत्॥१७६॥
हर्षाविष्टस्ततो व्याधो विवेश च वनं घनम्।
प्रणिहिंसां परित्यज्य बहुनिर्वेदद्यन्भृशम्॥१८०॥
तत्र दावानलं दृष्ट्वा विवेश विरताशयः।
निर्दग्धकल्मषोभुत्वा स्वर्गसौख्यमवाप्तवान्॥१८१॥
अतोऽहं ब्रवीमि—‘श्रूयते हि कपोतेन’ इति॥
तच्छ्रुत्वारिमर्दनो दीप्ताक्षं पृष्टवान्—’ एवमवस्थिते किं भवान्मन्यते। सोऽब्रवीत्—‘देव, न हन्तव्य एवायम्।
यतश्चौरस्याप्युपकारिणः श्रेयश्चिन्त्यते, किं पुनर्न शरणागतस्य। अपि चायं तैर्विप्रकृतोऽस्माकमेव पुष्टये भविष्यति तदीयरन्ध्रदर्शनाय चेति। अनेन कारणेनायमवध्यः’ इति।
एतदाकर्ण्यारिमर्दनोऽन्यं सचिवं वक्रनासं पप्रच्छ—‘भद्र, सांप्रतमेवं स्थिते किं कर्तव्यम्।, सोऽब्रवीत्—‘देव,अवव्योऽयम्। यतः।
‘शत्रवोऽपि हितायैव विवदन्तः परस्परम्।
चौरेण जीवितं दत्तं राक्षसेन तु गोयुगम्,॥१८२॥
अरिमर्दनः प्राह—‘कथमेतत्।, वक्रनासः कथयति—
कथा ८
अस्ति कस्मिंश्चिदधिष्ठाने दरिद्रो द्रोणनामा ब्राह्मणः प्रतिग्रह धनः सततं विशिष्टवस्त्रानुलेपनगन्धमाल्या-लंकारताम्बूलादिभोगपरिवजितः प्ररूढकेशश्मश्रुनखरोमोपचितः शीतोष्णवातवर्षादिभिः परिशोषितशरीरः। तस्य च केनापि यजमानेनानुकम्पया शिशुगोयुगं दत्तम्। ब्राह्मणेन च बालभावादारभ्य याचितघृततैलयवसादिभिः संवर्ध्य सुपुष्टं कृतम्। तच्च दृष्ट्वा सहसैव कश्चिच्चौरश्चिन्ति तवान्—अहमस्य ब्राह्मणस्य गोयुगमिदमपहरिष्यामि।, इति निश्चित्य निशायां बन्धनपाशं गृहीत्वा यावत्प्रस्थितः तावदर्धमार्गे प्रविरलतीक्ष्णदन्तपङ्क्तिरुन्नतनासावंशो प्रकटरक्तान्तनयनोपचितस्नायुसंततिर्नतगात्रः शुष्ककपोलः सुहुतहुतवहपिङ्गलश्मश्रुकेशशरारः कश्चिदष्टः। दृष्ट्वा च तं तीव्रभयत्रस्तोऽपि चौरोऽब्रवीत्—‘को भवान्, इति। स आह—‘सत्यवचनोऽहं ब्रह्मराक्षसः। भवानप्यात्मानं निवेदयतु।’ सोऽब्रवीत्—‘अहं क्रूरकर्मा चौरः। दरिद्रब्राह्मणस्य गोयुगं हर्तुं प्रस्थितोऽस्मि।, अथ जातप्रत्ययो राक्षसोऽब्रवीत्—‘भद्र, षष्ठाह्नकालिकोऽहम्। अतस्तमेत्र ब्राह्मणमद्य भक्षयिष्यामि। तत्सुन्दरमिदम्। एककार्यावेवावाम्।, अथ तौ तत्र गत्वैकान्ते कालमन्वेषयन्तौ स्थितौ। प्रसुप्ते च ब्राह्मणे तद्भक्षणार्थं प्रस्थितं राक्षसं दृष्ट्रा चौरोऽब्रवीत्—‘भद्र, नैषन्यायः, यतो गोयुगे मयापहृते पश्चात्त्वमेनं ब्राह्मणं भक्षय।, सोऽब्रवीत्—‘कदाचिदयं ब्राह्मणो गोशब्देन बुध्येत, तदानर्थकोऽयं ममारम्भः स्यात्।, चौरोऽप्यब्रवीत्—‘तत्रापि यदि भक्षणायोपस्थितस्यान्तर एकोऽप्यन्तरायः स्यात्, तदाहमपि न शक्नोमि गोयुगमपहर्तुम्। अतः प्रथमं मयापहृते गोयुगे पश्चात्त्वया ब्राह्मणो भक्षयितव्यः।, इत्थं चा—
इमहमिकया तयोविवदतोः समुत्पन्ने द्वैधे प्रतिरववशाद्ब्राह्मणो जजागार। अथ तं चौरोऽब्रवीत्—‘ब्राह्मण, त्वामेवायं राक्षसो भक्षयितुमिच्छति।’ राक्षसोऽप्याह—‘ब्राह्मण, चौरोऽयम्। गोयुगं तेऽपहर्तुमिच्छति।’ एवं श्रुत्वोत्थाय ब्राह्मणः सावधानो भूत्वेष्टदेबतामन्त्राध्यायेनात्मानं राक्षसादुद्गूर्णलगुडेन चौराद्गोयुगं ररक्ष। अतोऽहं ब्रवीमि—‘शत्रवोऽपि हितायैव इति॥
अथ तस्य वचनमवधार्यारिमर्दनः पुनरपि प्राकारकर्णमपृच्छत्—‘कथय। किमत्रमन्यते भवान्।’सोऽब्रवीत्—‘देव, अवध्य एवायम्, यतो रक्षितेनानेन कदाचित्परस्परप्रीत्या कालः सुखेन गच्छति। उक्तं च—
परस्परस्य मर्माणि ये न रक्षन्ति जन्तवः।
त एव निधनं यान्ति वल्मीकोदरसर्पवत्,॥१८३॥
अरिमर्दनोऽब्रवीत्—कथमेतत्। प्राकारकर्णः कथयति—
कथा ९
अस्ति कस्मिंश्चिन्नगरे देवशक्तिर्नाम राजा। तस्य च पुत्रो जठरः वल्मीकाश्रयेणोरगेण प्रतिदिनं प्रत्यङ्गंक्षीयते। अनेकोपचारैः सद्वैद्यैसच्छास्त्रोपदिष्टौषधयुक्त्यापि चिकित्स्यमानो न स्वास्थ्यमाप्नोति। अथासौ राजपुत्रो निर्वेदाद्देशान्तरं गतः। कस्मिंश्चिन्नगरे भिक्षाटनं कृत्वा महति देवालये कालं यापयति। अथ तत्रनगरे बलिर्नाम राजास्ते। तस्य च द्वे दुहितरौ यौवनस्थे तिष्ठतः। ते च प्रतिदिवसमादित्योदये पितुः पादान्तिकमागत्य नमस्कारं चक्रतुः। तत्र चैकाब्रवीत्—विजयस्व महाराज, यस्य प्रासादात्सर्वंसुखं लभ्यते।, द्वितीया तु विहितं भुङ्क्ष्व महाराज, इति ब्रवीति। तच्छ्रुत्वा प्रकुपितो राजाब्रवीत्—‘भो मन्त्रिन्, एनां दुष्टभाषिणीं कुमारिकां कस्यचिद्वैदेशिकस्य प्रयच्छत। येन निजविहितमियमेव भुङ्क्ते। अथ ‘तथा, इति प्रतिपद्याल्पपरिवारा सा कुमारिका मन्त्रिभिस्तस्य देवकुलाश्रितराजपुत्रस्य प्रतिपादिता। सापि प्रहृष्टमानसा तं पतिं देववत्प्रतिपद्यादाय चान्यविषयं गता। ततः कस्मिंश्चिद्दूरतरनगरप्रदेशे तडागतटे राजपुत्रमावासरक्षायै निरूप्य, स्वयं च घृततैललवणतण्डुलादिक्रयनिमित्तं सपरिवारा गता। कृत्वा च क्रयविक्रयं यावदागच्छति तावत्स राजपुत्रो वल्मीकोपरि कृतमूर्धा प्रसुप्तः। तस्य च मुखाद्भुजगः फणां निष्क्राम्य वायुमश्नाति। तत्रैव च वल्मीकेऽपरः सर्पो निष्क्रम्य तथैवासीत्। अथ तयोः परस्परदर्शनेन क्रोधसंरक्तलोचनयोर्मध्याद्वल्मीकस्थेन सर्पेणोक्तम्—‘भो भो दुरात्मन्, कथं सुन्दरसर्वाङ्गं राजपुत्रमित्थं कदर्थयसि।’ मुखस्थोऽहिरब्रवीत्—‘भो भोः, त्वयापि दुरात्मनास्य वल्मीकास्यमध्ये कथमिदं दूषितं हाटकपूर्णं कलशयुगलम्।, इत्येवं परस्परस्य मर्माण्युद्धाटितवन्तौ। पुनर्वल्मीकस्थोऽहिरब्रवीत्—‘भो दुरात्मन्, भेषजमिदं ते किं कोऽपि न जानाति, यज्जीर्णोत्कालितकञ्जिकाराजिकापानेन भवान्विनाशमुपयाति। अथोदरस्थोऽहिरब्रवीत्—‘तवाप्येतद्भेषजं’ किं कश्चिदपि न वेत्ति, यदुष्णतैलेन वा महोष्णोदकेन तबविनाशः स्यात् इति। एवं च सा राजकन्या विटपान्तरिता तयोः परम्परालापान्मर्ममयानाकर्ण्य तथैवानुष्ठितवती। विधायाव्यङ्गं नीरोगं भर्तारं निधिं च परममासाद्य स्वदेशाभिमुखं प्रायात्। पितृमातृस्वजनैः प्रति पूजिता विहितपभोगं प्राप्य सुखेनावस्थिता। अतोऽहं ब्रवीमि—‘परस्परस्य मर्माणि, इति॥ तच्च श्रुत्वा स्वयमरिमर्दनोऽप्येवं समर्थितवान्। तथा चानुष्ठितं दृष्ट्वान्तर्लीनं विहस्य रक्ताक्षः पुनरब्रवीत्—‘कष्टम्। विनाशितोऽयं भवद्भिरन्यायेन स्वामी। उक्तं च—
अपूज्या यत्र पूज्यन्ते पूज्यानां तु बिमानना।
त्रीणि तत्र प्रवर्तन्ते दुर्भिक्षंमरणं भयम्॥१८४॥
तत्सर्वथा मूलोत्खाता वयं विनष्टाः स्मः। सुष्ठ खल्विदमुच्यते—
मित्ररूपा हि रिपवःसंभाव्यन्ते विचक्षणैः।
ये हितं वाक्यमुत्सृज्य विपरीतोपसेविनः॥१८५॥
तथा च।
सन्तोऽप्यर्थाविनश्यन्ति देशकालविरोधिनः।
अप्राज्ञान्मन्त्रिणः प्राप्य तमः सूर्योदये यथा॥१८६॥
ततस्तद्वचोऽनादृत्य सर्वे ते स्थिरजीविनमुत्क्षिप्य स्वदुर्गमानेतुमारब्धाः। अथानीयमानः स्थिरजीव्याह—‘देव, अद्याकिंचित्करेणैतदवस्थाने किं मयोपसंगृहीतेन, यत्कारणमिच्छामि दीप्तं वह्निपनुवेष्ठम्। तदर्हसि मामग्निप्रदानेन समुद्धर्तुम्। अथ रक्ताक्षस्तस्यान्तर्गतभावं ज्ञात्वाब्रवीत्—किमर्थमग्निपतनमिच्छसि।, सोऽब्रवीत्—‘अहं तावद्युष्मदर्थ इमामापदंमेघवर्णेन प्रापितः। तदिच्छापि तेषां वैरयातनार्थमुलूकत्वमिति। तच्च श्रुत्वा राजनीतिकुशलो रक्ताक्षः प्राह—‘भद्र, कुटिलस्त्वं कृतकवचनचतुरश्च। तत्त्वमुलूकयोनिगतोऽपि स्वकीयामेव वायसयोनिं बहु मन्यसे। श्रूयते चैतदाख्यानकम्—
सूर्यं भर्तारमुत्सृज्य पर्जन्यं मारुतं गिरिम्।
स्वजातिं मूषिका प्राप्ता स्वजातिर्दुरतिक्रमा॥१८७॥
मन्त्रिणः प्रोचुः—‘कथमेतत्।’ रक्ताक्षः कथयति—
कथा १०
अस्ति विषमशिलातलस्खलिताम्बुनिर्घोषश्रवणसंत्रस्तमत्स्यपरिवर्तनसंजनितश्वेतफेनशबलतरङ्गाया गङ्गायास्तटे जपनियमतपः स्वाध्यायोपवासयोगक्रियानुष्ठानपरायणैः परिपूतपरिमितजलजिघृक्षुभिः कन्दमूलफलशैवलाभ्यवहारकदर्थितशरीरैबल्कलकृत- कौपीनमात्रप्रच्छादनैस्तपस्विभिराकीर्णमाश्रमपदम् तत्र याज्ञवल्क्योनाम कुलपतिरासीत्। तस्य जाह्नव्यां स्नात्वोपस्पष्ट्रमारब्धस्य करतले श्येनमुखात्परिभ्रष्टा मूषिका पतिता। तां दृष्ट्वा न्यग्रोधपत्रेऽवस्थाप्य पुनः स्नात्वोपस्पृश्य च प्रायश्चित्तादिक्रियां कृत्वा च मूषिकां तां स्वतपोबलेन कन्यकां कृत्वा समादाय स्वाश्रममानिनाय। अनपत्यां च जायामाह—भद्रे‚ गृह्यतामियं तव दुहितोत्पन्ना। प्रयत्नेन संवर्धनीया, इति। ततस्तया संवर्धिता लालिता पालिता च यावद्द्वादशवर्षा संजज्ञे। अथ विवाहयोग्यां तां दृष्ट्वा भर्तारमेव जायोवाच—‘भो भर्तः, किमिदं नावबुध्यसे यथास्याः स्वदुहितुर्विवाहसमयातिक्रमो भवति।’ असावाह—‘साधूक्तम्।
अहमेनां सदृशाय प्रयच्छामि, नान्यस्मै। उक्तं च—
ययोरेव समं वित्तं ययोरेव समं कुलम्।
तयोर्विवाहः सख्यं च न तु पुष्टविपुष्टयोः॥१८८॥
तथा च।
कुलं च शीलं च सनाथता च
विद्या च वित्तं च वपुर्वयश्च।
एतान्गुणान्सप्त विचिन्त्य देया
कन्या बुधैः शेषमचिन्तनीयम्॥१८९॥
तद्यद्यस्यारोचते तदा भगवन्तमादित्यमाहूय तस्मै प्रयच्छामि।’ साप्राह—‘इहको दोषः। क्रियतामेतत्।’ अथ मुनिना रविराहूतः।
वेदमन्त्रामन्त्रणप्रभावात्तत्क्षणादेवाभ्युपगम्यादित्यः प्रोवाच—भगवन्, किमहमाहूतः।’ सोऽब्रवीत् ‘एषा मदीया कन्यका तिष्ठति। यद्येषा त्वां वृणोति तर्ह्युद्वहस्व’ इति। एवमुक्त्वा स्वदुहितरमुवाच—‘पुत्रि, किं तवरोचत एष भगवांस्त्रैलोक्यदीपको भानुः।’ पुत्रिकाऽब्रवीत्—‘तात, अतिदहनात्मकोऽयम्। नाहमेनमभिलषामि। तदस्मादन्यः प्रकृष्टतरः कश्चिदाहूयताम्।’ अथ तस्यास्तद्वचनं श्रुत्वा मुनिर्भास्करमुवाच—‘भगवन्, त्वत्तोऽधिकोऽस्ति कश्चित्।’ भास्करः प्राह—‘अस्ति मत्तोऽप्यधिको मेघो येनाच्छादितोऽहमदृश्यो भवामि।, अथ मुनिना मेघमप्याहूय कन्याभिहिता—‘पुत्रिके, अस्मै त्वां प्रयच्छामि।, सा प्राह—‘कृष्णवर्णोऽयं जडात्मा च। तदस्मादन्यस्य प्रधानस्य कस्यचिन्मां प्रयच्छ।, अथ मुनिना मेघोऽपि पृष्टः—‘भो भो मेघ, त्वत्तोऽप्यधिकोऽस्ति कश्चित्।’ मेघेनोकम्—‘मतोऽप्यधिकोऽस्ति वायुः। वायुना हतोऽहं सहस्रधायामि।’ तच्छ्रुत्वा मुनिना वायुराहूतः। आह च—‘पुत्रिके किमेष वायुस्ते विवाहाय योग्यतमः प्रतिभाति’ साब्रवीत—‘तात, अतिचपलोऽयम्। तदस्मादप्यधिकः कश्चिदानीयताम्।’ मुनिराह—‘वायो, त्वत्तोप्यधिकोऽस्ति कश्चित्।, पवनेनोक्तन्—‘मत्तोऽप्यधिकोऽस्ति पर्वतो येन संस्तभ्य बलवानप्यहं ध्रिये।, अथ मुनिः पर्वतमाहूय कन्यामुवाच—‘पुनिके, त्वामस्मै प्रयच्छामि।, सा प्राह—‘तात, कठिनात्मकोऽयं स्तब्धश्च।तदन्यस्मै देहि माम्।, मुनिना पर्वतः पृष्टः—‘भोः पर्वतराज, त्वत्तोऽप्यधिकोऽस्ति कश्चित्।, गिरिणोक्तम्—मत्तोप्यधिकाः सन्ति मूषिका ये मच्छरीरं बनाद्विदारयन्दि।’ ततो मुनिर्मूषिकामाहूय तस्या अदर्शयत्। आह च—‘पुत्रिके, त्वामस्मै प्रयच्छामि। किमेष प्रतिभाति ते मूषिकराजः।, सापि तं दृष्ट्वा स्वजातीय एष इति मन्यमाना पुलकोद्भूषितशरीरोवाच—‘तात, मां मूषिकां कृत्वास्मै प्रयच्छ। येन स्वजातविहितं गृहधर्ममनुतिष्ठामि।, ततः सोऽपि स्वतपोबलेन तां मूषिकां कृत्वा तस्मै प्रादात्। अतोऽहं ब्रवीमि—‘सूर्यं भर्तारमुत्सृज्य’ इति॥ अथ रक्ताक्षवचनमनादृत्य तैः स्ववंशविनाशाय स स्वदुर्गमुपनीतः। नीयमानश्वान्तर्लीनमवहस्य स्थिरजीवी व्यचिन्तयत्—
‘हन्यतामिति येनोक्तंस्वामिनो हितवादिना।
स एवैकोऽत्र सर्वेषां नीतिशास्त्रार्थतत्त्ववित्॥१९०॥
तद्यदि तस्य वचनमकरिष्यन्नेते, ततो न स्वल्पोऽप्यनर्थोऽभविष्यदेतेषाम्। अथ दुर्गद्वारं प्राप्यारिमर्दनोऽब्रवीत्—‘भो भोः, हितैषिणोऽस्य स्थिरजीविनो तथासमीहितं स्थानं प्रयच्छत। ‛तच्च श्रुत्वा स्थिरजीवि व्यचिन्तयत्—‘मया तावदेतेषां वधोपायश्चिन्तनीयः, स मया मध्यस्थेन न साध्यते। यतो मदीयमिङ्गितादिकं विचारयन्तस्तेऽपि सावधाना भविष्यति। तद्दुर्गद्वारम धश्रितोऽभिप्रेतं साधयामि।, इति निश्चित्योलूकपतिमाह—‘देव, युक्तमिदं यत्स्वामिना प्रोक्तम् परमहमपि नीतिज्ञस्तेऽहितश्च। यद्यप्यनुरक्तः शुचिस्तथापि दुर्गमध्य आवासौ नार्हः। तदहमत्रैव दुर्गद्वारस्थः प्रत्यहं भवत्पाद पद्मरजः पवित्रीकृततनुः सेवां करिष्यामि।’ ‘तथा इति प्रतिपन्ने प्रतिदिनमुलूकपतिसेवकास्ते प्रकाममाहारं कृत्वोलूकराजादेशात्प्रकृष्टमांसाहारं स्थिरजीविने प्रयच्छन्ति। अथ कतिपयैरेवाहोभिर्मयूर इवस बलवान्संवृत्तः। अथ रक्ताक्षःस्थिरजीविनं पोष्यमाणं दृष्ट्वा सविस्मयो मन्त्रिजनं राजानं च प्रत्याह—‘अहो, मूर्खोऽयं मन्त्रिजनो भवांश्चेत्येवमहमवगच्छामि। उक्तं च—
पूर्वं तावदहं मूर्खो द्वितीयः पाशबन्धकः।
ततो राजा च मन्त्री च सर्वं वै मूर्खमण्डलम्,॥१९१॥
ते प्राहुः—‘कथमेतत्। रक्ताक्षः कथयति—
कथा ११
अस्ति कस्मिंश्चित्पर्वतैकदेशे महान्वृक्षः। तत्र च सिन्धुकनामा कोऽपि पक्षी प्रतिवसति स्म। तस्य पुरीषे सुवर्णमुत्पद्यते। अथ कदाचित्तमुद्दिश्य व्याधः कोऽपिसमाययौ। स च पक्षी तदग्रत एव पुरीषमुत्ससर्ज। अथ पातसमकालमेव तत्सुवर्णीभूतं दृष्ट्वा व्याधो विस्मयमगमत्—‘अहो, मम शिशुकालादारभ्य शकुनिबन्धव्यसनिनोऽशीतिवर्षाणि समभूवन्। न च कदाचिदपि पक्षिपुरीषे सुवर्णं दृष्टम्।’ इति विचिन्त्य तत्र वृक्षे पाशं बबन्ध। अथासावपि पक्षी मूर्खस्तत्रैव विश्वस्वचित्तो यथापूर्वमुपविष्टः। तत्कालमेव पाशेन बद्धः। व्याधस्तु तंपाशादुन्मुच्य पञ्जरके संस्थाप्य निजावासं नीतवान्। अथचिन्तयामास—‘किमनेन सापायेन पक्षिणाहं करिष्यामि। यदि कदाचित्कोऽप्यमुमीदृशं ज्ञाला राज्ञे निवेदयिष्यति, तन्नमं प्राणसंशयो मे भवेत्। अतः स्वयमेव पक्षिणं राज्ञे निवेदयामि।’ इति विचार्य तथैबानुष्ठितवान्। अथ राजापि तं पक्षिणं दृष्ट्वा विकसितनयनवदनकमलः परां तुष्टिमुपागतः। प्राह चैवम्—‘हंहो रक्षापुरुषाः, एनं पक्षिणं यलेन रक्षत।अशनपानादिकं चास्ययथेच्छं प्रयच्छत।’ अथ मन्त्रिणाभिहितम्—किमनेनाश्रद्धेयव्याधवचनप्रत्ययमात्रपरि गृहीतेनाण्डेजेन। किं कदाचित्पक्षिषुरीषे सुबर्णंसंभवति। तन्मुच्यतां पञ्जरबन्धादयंपक्षी। इतिमन्त्रिवचनाद्राज्ञा मोचितोऽसौपक्ष्युन्नतद्वारतोरणे समुतविश्य सुवर्णमयीं विष्ठां विधाय, पूर्वंतावदहं मूर्खः’ इति श्लोकं पठित्वा यथासुखमाकाशमार्गेण प्रायात्। अतोऽहं ब्रवीमि—,पूर्वं तावदहं मूर्खः, इति॥ अथ ते पुनरपि प्रतिकूलदैवतया हितमपि रक्ताक्षवचनमनादृत्य भूयस्तं प्रभूतमांसादिविविधाहारेण पोषयामासुः। अथ रक्ताक्षः स्वर्गमाहूय रहः प्रोवाच—‘अहो, एतावदेवास्मद्भूपतेः कुशलं दुर्गंच। तदुपदिष्टं मया यत्कुलक्रमागतः सचिवो ऽभिधते। तद्वयमन्यत्पर्वतदुर्गंसंप्रति समाश्रयामः। उक्तं च यतः—
अनागतं यः कुरुते स शोभते
सशोच्यते यो न करोत्यनागतम्।
वनेऽत्र संस्थस्य सम्मनता न्नरा
विलस्य वाणी नकदापि मे श्रुता’॥१६२॥
तेप्रोचुः—‘कथमेतम्।, रक्ताक्षः कथयति—
कथा १२
कस्मिंश्चिद्वनोद्देशे खरनखरो नाम सिंहः प्रतिवसति स्म। स कदाचिदितश्चेतश्च परिभ्रमन्क्षुत्क्षामकण्ठो न किंचिदपि सत्त्वमाससाद। ततश्चास्तमनसमये महतीं गिरिगुहाम्मासाद्य प्रविष्टश्चिन्तयामास—‘नूनमेतस्यांगुहायां रात्रौ केनापि सत्त्वेनागन्तव्यम्। तन्निभृतो भूत्वा तिष्ठामि। एतस्मिन्नन्तरे तत्स्वामी दधिपुच्छो नाम शृगालः समायातः। स च यावत्पश्यति तावत्सिंहपदपद्धति र्गुहायां प्रविष्टा न च निष्क्रमणं गता। ततश्चाचिन्तयत्—‘अहो विनष्टोऽस्मि। नूनमस्यामन्तर्गतेन सिंहेन भाव्यम्। तत्किंकरोमि। कथं ज्ञास्यामि। ‘एवं विचिन्त्य द्वारस्थः फूत्कर्तुमारब्धः—अहो बिल ‘अहो बिल ‘इत्युक्त्वा तुष्णींभूय भूयोऽपि तथैव प्रत्यभावत—‘भोः, किं न स्मरसि यन्मया त्वया सह समयः कुतोऽस्ति। यन्मया बाह्यसमागतेन त्वं वक्तव्यः। त्वया चाहमाकारणीय इति तयदि मां नाह्वयसि ततोऽहं द्वितीयं विलं यात्यामि।, अथ तच्छ्रुत्वासिंहश्चिन्तितवान्—‘नूनमेषां सहास्यंसदा समाधानं करोतिपरमद्य मद्भयान्न किंचिद्रुते। अथवा साध्विदमुच्यते—
भयसंत्रस्तमनसां हस्तपादादिकाः क्रियाः।
प्रवर्तन्ते न वाणी च वेपथुश्चाधिको भवेत्॥१६३॥
तदहमस्याह्वानं करोमि येन तदनुसारेण प्रविष्टोऽयं मे भोज्यतां यास्यति।’ एवं संप्रधार्य सिंहस्तस्याह्वानमकोत्। अथ सिंहशब्देन सा गुहा प्रतिरवसंपूर्णान्यानपिदूरस्थानरण्यजी वांस्त्रासयामास
शृगालोऽपि पलायमान इमं श्लोकमपठत्—
‘अनागतं यः कुरुते स शोभते
स शोच्यते यो न करोत्यनागतम्।
वनेऽत्र संस्थस्य समागता जरा
बिलस्य वाणी न कदापि मे श्रुता॥१६४॥
तदेवं मत्वायुष्माभिर्मया सह गन्तव्यम्, इति। एवमभिधायात्मानु यायिपरिवारानुगतो दूरदेशान्तरं रक्ताक्षोजागाम।
अथ रक्ताक्षेगते स्थिरजीव्यतिहृष्टमना व्यचिन्तयत्—‘अहो, कल्याणमस्माकमुपस्थितं यद्रक्ताक्षो गतः स दीर्घदर्शी। एते च मूढमनसः। ततो मम सुखघात्याः संजाताः। उक्तं च यतः—
न दीर्घदर्शिणोयस्य मन्त्रिणः स्युर्महीपतेः।
क्रमायाता ध्रुवं तस्य न चिरात्स्यात्परिक्षयः॥१८५॥
अथवा साध्विदमुच्यते—
मन्त्रिरूपा हि रिपवः संभाव्यन्ते विचक्षणैः।
ये सन्तं नयमुत्सृज्य सेबन्तेप्रतिलोमतः’॥१९६॥
एवं विचिन्त्य स्वकुलीय एकैकां वनकाष्ठिकां गुहादीपनार्थं दिने दिने प्रक्षिपति। न च ते मूर्खा उलूका विजानन्ति’ यदेषकुलायम स्महाहाय वृद्धिं नयति अथवा साध्विदमुच्यते—
अमित्रं कुरुते मित्रं मित्रं द्वेष्टि हिनस्ति च।
शुभं वेत्त्यशुभं पापं भद्रं दैवहतो नरः॥१९७॥
अथ कुलायव्याजेन दुर्गद्वारे कृते काष्ठनिचये संजाते सूर्योदयेऽन्धतां प्राप्तेषूलूकेषु सत्सु स्थिरजीवी शीघ्रं गत्वा मेघवर्णमाह—‘स्वामिन्, दाहसाध्या कृता रिपुगुहा। तत्सपरिवारः समेत्यैकैकां वनकाष्ठिकां ज्वलन्तीं गृहीत्वा गुहाद्वारेऽस्मत्कुलाये प्रक्षिप, येन सर्वे शत्रवः कुम्भीपाकनरकप्रायेण दुःखेन म्रियन्ते।’ तच्छ्रुत्वा प्रहृष्टो मेघवर्ण आह—“तात, कथयात्मवृत्तान्तम्। चिरादद्य दृष्टोऽसि।’ स आह—‘वत्स, नायं कथनस्य कालः। यतः कदाचित्तस्य रिपोः कश्चित्प्रणिधिर्ममेहागमनं निवेदयिष्यति, तज्ज्ञानादन्धोऽन्यत्रापसरणं करिष्यति। तत्त्वर्यताम्। उक्तं च—
शीघ्रकृत्येषु कार्येषु विलम्बयति यो नरः।
तत्कृत्यं देवतास्तस्य कोपाद्विघ्नन्त्यसंशयम्॥१९८॥
तथा च।
यस्य यस्य हि कार्यरय फलितस्य विशेषतः।
क्षिप्रमक्रियमाणत्वंकालः पिवति तत्फलम्॥१९९॥
तद्गहायामायातस्य ते हतशत्रोः सर्वंसविस्तारं निर्व्याकुलतया कथयिष्यामि।, अथासौ तद्वचनमाकर्ण्य सपरिजन एकैकां ज्वलन्तीं वनकाष्ठिकां चञ्चवग्रेण गृहीत्वा तद्रहाद्वारं प्राप्य स्थिरजीबिकुलाये प्राक्षिपत्। ततः सर्वे ते दिवान्धा रक्ताक्षवाक्यानि स्मरन्तो द्वारस्यावृतत्वादनिःसरन्तो गुहामध्ये कुम्भीपाकन्यायमापन्ना मृताश्च। एवं शत्रुन्निःशेषतां नीत्वा भूयोऽपि मेघवर्णस्तदेव न्यग्रोधपादपदुर्गं जगाम। ततः सिंहासनस्थो भूत्वा सभामध्ये प्रमुदितमनाः स्थिरजीविनमपृच्छत्—‘तात, कथं त्वया शत्रुमध्ये गतेनैतावत्कालो नीतः। तदत्रकौतूहलमस्माकं वर्तते। तत्कथ्यताम्। यतः।
वरमग्नौप्रदीप्ते तु प्रपातः पुण्यकर्मणाम्।
न चारिजनसंसर्गो मुहूर्तमपि सेवितः‚॥२००॥
तदाकर्ण्यस्थिरजीव्याह—‘भद्र, आगामिफलवाञ्छया कष्टमपि सेवको न जानाति। उक्तं च यतः—
उपनतभयैर्यो यो मार्गोहितार्थकरो भवे-
रस स निपुणया बुद्ध्यासेव्यो महान्कृपणोऽपि वा।
करिकरनिभौ ज्याघाताङ्कौ महार्थविशारदौ
रचितवलयैः स्त्रीवद्बद्धौ करौ हि किरीटिना॥२०१॥
शक्तेनापि सदा नरेन्द्रविदुषा कालान्तरापेक्षिणा
वस्तव्यं खलु वाक्यवज्रविषमे क्षुद्रेऽपि पापे जने।
दर्वीव्यग्रकरेण धूममलिनेनायासयुक्तेन च
भीमेनातिबलेन मत्स्यभवने किं नोषितं सूदवत्॥२०२॥
यद्वा तद्वा विषमपतितंसाधु वा गर्हितं वा
कालापेक्षी हृदयनिहितं बुद्धिमान्कर्म कुर्यात्।
किं गाण्डीवस्फुरदुरुघनास्फालनक्रूरपाणि–
र्नासील्लीलानटनविलसन्मेखली सव्यसाची॥२०३॥
सिद्धिं प्रार्थयता जनेन विदुषा तेजो निगृह्य स्वकं
सत्त्वोत्साहवतापि दैवविधिषु स्थैर्यंप्रकार्यं क्रमात्
देवेन्द्रद्रविणेश्वरान्तकसमैरप्यन्वितो भ्रातृभिः
किं क्लिष्टः सुचिरं त्रिदण्डमवहच्छ्रीमान्न धर्मात्मजः॥२०४
रूपाभिजनसंपन्नौ कुन्तीपुत्रौ बलान्वितौ।
गोकर्मरक्षाव्यापारे विराटमेष्यतां गतौ॥२०५॥
रूपेणाप्रतिमेन यौवनमुणैः श्रेष्ठे कुले जन्मना
कान्त्या श्रीरिव यात्र सापि विदशां कालक्रमादागता।
सैरन्ध्रीति सगर्वितं युवतिभिः साक्षेपमज्ञातया
द्रौपद्याननु मत्स्यराजभवने घृष्टं न किं चन्दनम्॥२०६॥
मेघवर्ण आह—‘तात, असिधाराव्रतमिदं मन्ये यदरिणा सह संबासः।’ सोऽब्रवीत्—‘देव, एवमेतत्। परं न तादृङ्मूर्खसमा—गमः क्वापि मया दृष्टः। न च महाप्रज्ञमनेकशास्त्रेष्वप्रतिमबुद्धिं रक्ताक्षं विना धीमान्। यत्कारणं तेन मदीयं यथावस्थितं चित्तं ज्ञातम्। ये पुनरन्ये मन्त्रिणस्ते महामूर्खा मन्त्रिमात्रव्यपदेशोपजीविनोऽतत्त्वकुशला यैरिदमपि न ज्ञातम्। यतः।
अरितोऽभ्यागतो भृत्यो दुष्टस्तत्सङ्गतत्परः।
अपसर्प्यस धर्मत्वान्नित्योद्वेगी च दूषितः॥२०७॥
आसने शयने याने पानभोजनवस्तुषु।
दृष्टादृष्टप्रमत्तेषु प्रहरन्त्यरयोऽरिषु॥२०८॥
तस्मात्सर्वप्रयत्नेन त्रिवर्गनिलयं बुधः।
आत्मानमादृतो रक्षेत्प्रमादाद्धि विनश्यति॥२०९॥
साधु चेदमुक्यते—
संतापयन्ति कमपथ्यभुजं न रोगा
दुर्मन्त्रिणं कमुपयान्ति न नीतिदोषाः।
कं श्रीर्न दर्पयति कं न निहन्ति मृत्युः
कं स्त्रीकृता न विषयाः परिपीडयन्ति॥२१०॥
लुब्धस्य नश्यति यशः पिशुनस्य मैत्री
नष्टक्रियस्य कुलमर्थपरस्य धर्मः।
विद्याफलं व्यसनिनः कृपणस्य सौख्यं
राज्यं प्रमत्तसचिवस्य नराधिपस्य॥२११॥
तद्राजन्, असिधाराव्रतं मयाचरितमरिसंसर्गादिति यद्भवतोक्तम्, तन्मया साक्षादेवानुभूतम्। उक्तं च—
अपमानं पुरस्कृत्य मानं कृत्वा तु पृष्ठतः।
स्वार्थमभ्युद्धरेत्प्राज्ञः स्वार्थभ्रंशो हि मूर्खता॥२१२॥
स्कन्धेनापि वहेच्छत्रुं कालमासाद्ये बुद्धिमान्।
महता कृष्णसर्पेण माण्डूका बहवो हताः"॥२१३॥
मेघवर्ण आह—‘कथमेतत्।’ स्थिरजीवी कथयति—
कथा १३
अस्ति वरुणाद्रिसमीप एकस्मिन्प्रदेशे परिणतवया मन्दविषो नाम कृष्णसर्पः। स एवं चित्ते संचिन्तितवान्—‘कथं नाम मया सुखोपायवृत्त्यावर्तितव्यम्’ इति। ततो बहुमण्डूकं ह्रदमुपगम्य धृतिपरीतमिवात्मानं दर्शितवान्।अथ तथा स्थिते तस्मिन्नुदकप्रान्तगतेनैकेन मण्डूकेन पृष्टः—‘माम, किमद्य यथापूर्वमाहारार्थं न विहरसि। सोऽब्रवीत्—‘भद्र, कुतो मे मन्दभाग्यस्याहाराभिलाषः। यत्कारणमद्य रात्रौ प्रदोष एव मयाहारार्थं विहरमाणेन दृष्ट एको मण्डूकः। तद्ग्रहणार्थं मया क्रमः सज्जितः। सोऽपि मां दृष्ट्वा मृत्युभयेन स्वाध्यायप्रसक्तानां ब्राह्मणानामन्तरमपक्रान्तो न विभावितो मया कापि गतः। तत्सदृशमोहितचित्तेन मया कस्यचिद्ब्राह्मणस्य सूनोर्ह्रदतटजलान्तःस्थोऽङ्गष्ठो दष्टः। ततोऽसौ सपदि पञ्चत्वमुपागतः। अथ तस्य पित्रा दुःखितेनाहं शप्तः—यथा दुरात्मन्, त्वया निरपराधो मत्सुतो दष्टः। तदनेन दोषेण त्वं मण्डूकानां वाहनं भविष्यसि। तन्प्रसादलब्धजीविकया वर्तिष्यसे इति। ततोऽहं युष्माकं वाहनार्थमागतोऽस्मि। तेन च सर्वमण्डूकानामिदमावेदितम्। ततस्तैः प्रहृष्टमनोभिः सर्वैरेव गत्वा जलपादनाम्नोदर्दुरगजस्य विज्ञप्तम्। अथासावपि मन्त्रिपरिवृतोऽत्यद्भुतमिदमिति मन्यमानः ससंभ्रमं हदादुत्तीर्य मन्दविषस्य फणिनः फणप्रदेशमधिरूढः। शेषा अपि यथाज्येष्ठं तत्पृष्ठोपरि समारुरुहुः। किं बहुना तदुपरि स्थानमप्राप्तवन्तस्तस्यानुपदं धावन्ति। मन्दविषोऽपि तुष्ट्यर्थमनेकप्रकारान्गतिविशेषानदर्शयत्। अथ जलपादो लब्धतदङ्गसंस्पर्शसुखस्तमाह—
‘न तथा करिणा यानं तुरगेण रथेन वा।
नरयानेन वा यानं यथा मन्दविषेण मे’॥२१४॥
अथान्येद्युर्मन्दविषश्छद्मना मन्दं मन्दं विसर्पति। तच्च दृष्ट्वा जलपादोऽब्रवीत्—‘भद्र मन्दविष, यथापूर्वं किमद्य साधु नोह्यते।’ मन्दविषोऽब्रवीत्—‘देव, अद्याहारवैकल्यान्न मे वोढुं शक्तिरस्ति।’ अथासावब्रवीत्—‘भद्र, भक्षय क्षुद्रमण्डूकान्।’ तच्छ्रुत्वा प्रहर्षिनसर्वगात्रो मन्दविषः ससंभ्रममब्रवीत्—‘ममायमेवविप्रशापोऽस्ति। तत्तवानेनानुज्ञावचनेन प्रीतोऽस्मि।’ ततोऽसौ नैरन्तर्येण मण्डूकान्भक्षयन्कतिपयैरेवाहोभिर्बलवान्संवृत्तः। प्रहृष्ट श्चान्तर्लीनमवहस्येदमब्रवीत्—
मण्डूका विविधा ह्येते छलपूर्वोपसाधिताः।
कियन्तं कालमक्षीणाभवेयुः स्वादिता मम’॥२१५॥
जलपादोऽपि मन्दविषेण कृतकवचनव्यामोहितचित्तः किमपि नावबुध्यते। अथ मन्दविषोऽन्तर्लीनमवहस्य पुनरपि मण्डूका विविधास्वादा इति तमेवमब्रवीत्। अथ जलपादस्तच्छ्रुत्वा सुतरां व्यग्रहृदयः किमनेनाभिहितम्’ इति तमपृच्छत्—‘भद्र, किं त्वयाभिहतमिदं विरुद्धं वचः। अथासावाकारप्रच्छादनार्थं ‘न किंचित्’ इत्यब्रवीत्। तथैव कृतकवचनव्यामोहितचित्तोजलपादस्तस्यदुष्टाभिसंधिं नावबुध्यते। किं बहुना। तथा तेन सर्वेऽपि भक्षिता यथा बीजमात्रमपि नावशिष्टम्। अतोऽहं ब्रवीमि—‘स्कन्धेनापि बहेच्छत्रुम्’ इति॥ अथ राजन्, यथा मन्दविषेण बुद्धिबलेन मण्डूका निहताः, तथा मयापि सर्वेऽपि वैरिण इति। साधु चेदमुच्यते—
वने प्रज्वलितो वह्निर्दहन्मूलानि रक्षति।
स मूलोन्मूलमं कुर्याद्वायुर्यो मृदुशीतलः॥२१६॥
मेघवर्ण आह—‘तात, सत्यमेवैतत्। ये महात्मानो भवन्ति ते महासत्त्वाआपद्रता अपि प्रारब्धं न सर्जन्ति। उक्तं च यतः—
महत्त्वमेतन्महतां नयालंकारधारिणाम्।
न मुञ्चन्ति यदारब्धं कृच्छ्रेऽपि व्यसनोदये॥२१७॥
तथा च।
प्रारभ्यते न खलु विघ्नभयेन नीचैः
प्रारभ्य विघ्नविहता विरमन्ति मध्याः।
विघ्नैः सहस्रगुणितैरपि हन्यमानाः
प्रारब्धमुत्तमगुणा न परित्यजन्ति॥२१८॥
तत्कृतं निष्कण्टकं मम राज्यं शत्रून्निःशेषतां नयता त्वया। अथवा युक्तमेतन्नयवेदिनाम्। उक्तं च यतः—
ऋृणशेषं चाग्निशेषं शत्रुशेषं तथैव च।
व्याधिशेषं च निःशेषं कृत्वा प्राज्ञो न सीदति’॥२१९॥
सोऽब्रवीत्—‘देव, भाग्यवांस्त्वमेवासि, यस्यारब्धं सर्वमेवसंसिध्यति। तन्न केवल शौर्यंकृत्यं साधयति, किंतु प्रज्ञया यत्क्रियते तदेव विजयाय भवति। उक्तं च—
शस्त्रैर्हता न हि हता रिपवो भवन्ति
प्रज्ञाहतास्तु रिपवः सुहता भवन्ति।
शस्त्रं निहन्ति पुरुषस्य शरीरमेकं
प्रज्ञा कुलं च विभवं च यशश्चहन्ति॥२२०॥
तदेवं प्रज्ञापुरुषकाराभ्यां युक्तस्यायत्नेन कार्यसिद्धयः संभवन्ति। प्रसरति मतिः कार्यारम्भे दृढीभवति स्मृतिः
स्वयमुपनयन्नर्थान्मन्त्रो न यच्छति विसवम्।
स्फुरति सफलस्तर्कश्चित्तंसमुन्नतिमश्नुते
भवति च रतिः श्लाघ्येकृत्ये नरस्य भविष्यतः॥२२१॥
तथा च। नयत्यागशौर्यसंपन्ने पुरुषे राज्यमिति। उक्तं च—
त्यागिनि शूरे विदुषि च संसर्गरुचिर्जनो गुणी भवति।
गुणवति धनं धनाच्छ्रीः श्रीमत्याज्ञा ततो राज्यम्’॥२२२॥
मेघवर्ण आह—‘नूनं सद्यःफलानि नीतिशास्त्राणि, यत्त्वयानुकृत्येनानुप्रविश्यारिमर्दनः सपरिजनो निःशेषितः।’ स्थिरजीव्याह—
‘तीक्ष्णोपायप्राप्तिगम्योऽपि योऽर्थः
तस्याप्यादौ संश्रयः साधुयुक्तः।
उस्तुङ्गाग्रः सारभूतो वनानां
मान्याभ्यर्च्यश्छिद्यते पादपेन्द्रः॥२२३॥
अथवा स्वामिन्, किं तेनाभिहितेन यदनन्तरकाले क्रियारहितमसुखसाध्यं वा भवति। साधु चेदमुच्यते—
अनिश्चितैरध्यवसायभीरुभिः
पदे पदे दोषशतानुदर्शिभिः।
फलैर्विसंवादमुपागता गिरः
प्रयान्ति लोके परिहासवस्तुताम्॥२२४॥
न च लघुष्वपि कर्तव्येषु धीमद्भिरनादरः कार्यः। यतः।
शक्ष्यामि कर्तुमिदमल्पमयनसाध्य—
मत्रादरः क इति कृत्यमुपेक्षमाणाः।
केचित्प्रमत्तमनसः परितापदुःख–
मापत्प्रसङ्गसुलभं पुरुषाः प्रयान्ति॥२२५॥
तदद्य जितारेर्मद्विभोर्यथापूर्वं निद्रालाभो भविष्यति। उच्यते चैतत्—
निःसर्पे बद्धसर्पे वा भवने सुप्यते सुखम्।
सदा दृष्टभुजङ्गे तु निद्रा दुःखेन लभ्यते॥२२६॥
तथा च।
विस्तीर्णव्यवसायसाध्यमहतां स्त्रिग्धोपभुक्ताशिषां
कार्याणां नयसाहसोन्नतिमतामिच्छापदारोहिणाम्।
मानोत्सेकपराक्रमव्यसनिनः पारं न यावद्गताः
सामर्षे हृदयेऽवकाशविषया तावत्कथं निर्वृतिः॥२२७॥
तदवसितकार्यारम्भस्य विश्राम्यतीव मे त्दृदयम्। तदिदमधुना निहतकण्टकं राज्यं प्रजापालनतत्परो भूत्वा पुत्रपौत्रादिक्रमेणाऽचलच्छत्रासनश्रीश्चिरं भुङ्क्ष्व। अपि च।
प्रजा न रञ्जयेद्यस्तु राजा रक्षादिभिर्गुणैः।
अजागलस्तनस्येव तस्य राज्यं निरर्थकम् ॥२२८॥
गुणेषु रागो व्यसनेष्वनादरो
रतिः सुभृत्येषु च यस्य भूपतेः।
चिरं स भुङ्क्ते चलचामरांशुकां
सितातपत्राभरणां नृपश्रियम्॥२२९॥
न च त्वया प्राप्तराज्योऽहमिति मत्वा श्रीमदेनात्मा व्यंसयितव्यः। यत्कारणं चला हि राज्ञो विभूतयः, वंशारोहरणवद्राज्यलक्ष्मीर्दुरारोहा, क्षणविनिपातरता प्रयत्नशतैरपि धार्यमाणा दुर्धग, प्रशस्ताराधिताप्यन्ते विप्रलम्भिनी, वानरजातिरिव विद्रुतानेकचित्ता, पद्मपत्रोदकमिवाघटितसंश्लेण, पवनगतिरिवातिचपला अनार्यसंगतिरिवास्थिरा, भुजगी इवदुरुपचारा, संध्याभ्रलेखेव मुहूर्त्तरागा, जलबुदब्रुदावलीव स्वभावभङ्गरा, शीरप्रकृतिरिव कृतघ्ना, स्वमलब्धद्रव्यराशिरिव क्षणदृष्टनष्टा। अपि च।
यदैव राज्ये क्रियतेऽभिषेक-
स्तदैव बुद्धिर्व्यसनेषु योज्या।
घटा हि राज्ञामभिषेककाले
सहाम्भसेवापदमुद्गिरन्ति॥२३०॥
न च कश्चिदनधिगमनोयो नामास्त्यापदाम्। उक्तं च—
रामस्य व्रजनं बलेर्नियमनं पाण्डोः सुतानां वनं
वृष्णीनां निधनं नलस्य नृपते राज्यात्परिभ्रंशनम्।
नाट्याचार्यकमर्जुनस्य पतनं संचिन्त्य लङ्केश्वरे
सर्वंकालवशाज्जनोऽत्रसहते कः कं परित्रायते ॥२३१॥
क्व स दशरथः स्वर्गे भूत्वामहेन्द्रसुहृद्गतः
क्वस जलनिधेर्वेलां बद्ध्वा नृपः सगरस्तथा।
क्वस करतलाज्जातो वैन्यः क्व सूर्यतनुर्मनु-
र्ननु वलवताकालेनैते प्रबोध्य निर्मीलिताः॥२३२॥
मांधाता क्व गतस्त्रिलोकविजयी राजा क्वसत्यव्रतो
देवानां नृपतिर्गतः क्व नहुषः सच्छास्त्रवान्केशवः।
मन्यन्ते सरथाः सकुञ्जरवराः शक्रासनाध्यासिनः
कालेनैवमहात्मना त्वनुकृता कालेन निर्वासिताः॥२२३॥
अपि च ।
स च नृपतिस्ते सचिवास्ताः प्रमदास्तानि काननवनानि।
स च ते च ताश्च तानि च कृतान्तदृष्टानि नष्टानि॥२३४॥
एवं मतकरिकर्णञ्चलां राज्यलक्ष्मीमवाप्य न्यायैकनिष्ठो भूत्वोप भुङ्क्ष्व॥
इति श्रीविष्णुशर्मविरचिते पञ्चतन्त्रके काकोलूकीयं नाम तृतीयं तन्त्रं समाप्तम्।
<MISSING_FIG href="../books_images/U-IMG-1721553358क.PNG"/>
लब्धप्रणाशम्
<MISSING_FIG href="../books_images/U-IMG-1721545316लो.PNG"/>
अथेदमारभ्यते लब्धप्रणाशं नाम चतुर्थंतन्त्रम्। यस्यायमादिमः श्लोकः—
समुत्पन्नेषु कार्येषु बुद्धिर्यस्य न हीयते।
स एव दुर्गंतरति जलस्थो वानरो यथा॥१॥
तद्यथानुश्रूयते—अस्ति कस्मिंश्चित्समुद्रोपकण्ठे महाञ्जम्बूपादपः सदाफलः। तत्र च रक्तमुखो नाम वानरः प्रतिवसति स्म। तत्र च तस्यतरोरधः कदाचित्करालमुखो मकरः समुद्रसलिलान्निष्क्रम्य सुकोमलवालुकासनाथेतीरोपान्ते न्यविशत्। ततश्च रक्तमुखेन स प्रोक्तः—‘भोः, भवान्समभ्यागतोऽतिथिः। तद्भक्षयतु मया दत्तान्यमृततुल्यानि जम्बूफलानि। उक्तं च—
प्रियो वा यदि वा द्वेष्यो मूर्खो वा यदि पण्डितः।
वैश्वदेवान्तमापन्नः सोऽतिथिः स्वर्गसंक्रमः॥२॥
न पृच्छेच्चरणं गोत्रंन च विद्यां कुलं न च।
अतिथिं वैश्वदेवान्ते श्राद्ध चमनुरब्रवीत्॥३॥
दूरमार्गश्रमश्रान्तं वैश्वदेवान्तमागतम्।
अतिथिं पूजयेद्यस्तु स याति परमां गतिम्॥४॥
अपूजितोऽतिथिर्यस्य गृहाद्याति विनिश्वसम्।
गच्छन्ति विमुखास्तस्य पितृभिः सह देवताः॥५॥
एवमुक्त्वा तस्मै जम्बूफलानि ददौ। सोऽपि तानि भक्षयित्वा तेन सह चिरं गोष्ठी सुखमनुभूय भूयोऽपि स्वभवनमगात्। एवं नित्यमेव तौ वानरमकरौ जम्बुच्छायास्थितौ विविधशास्त्रगोष्ठ्या कालं नयन्तौ सुखेन तिष्ठतः। सोऽपि मकरो भक्षितशेषाणि जम्बूफलानि गृहं गत्वा स्वपन्याः प्रयच्छति। अथात्यतमे दिवसे तया स पृष्टः—‘नाथ, क्वैवंविधान्यमृतफलानि प्राप्नोषि।’ स आह—‘भद्रे, ममास्ति परमसुत्दृद्रक्तमुखो नाम वानरः। स प्रीतिपूर्वमिमानि फलानि प्रयच्छति।’ अथ तयाभिहितम्। यः सदैवामृतप्रायाणीदृशानि फलानि भक्षयति, तस्य त्दृयममृतमयं भविष्यति। तद्यदि मया भार्यया ते प्रोजनम् ‘ततस्तस्य हृदयं मह्यं प्रयच्छ। येन तद्भक्षयिखा जरामरणरहिता त्वया सह भोगान्भुनज्मि।, स आह—‘भद्रे, मा मैवं वद। यतः स प्रतिपन्नोऽस्माकं भ्राता। अपरं फलदाता। ततो व्यापादयितुं न शक्यते। तत्त्यनैनं मिथ्याग्रहम्। उक्तं च—
एकं प्रसूयते माता द्वितीय वावप्रसूयते।
वाग्जातमधिकं प्रोचुः सोदर्यादपि बन्धुवत्’॥६॥
अथ मकर्याह—त्वयाकदापि मम वचनं नान्यथा कृतम्। तन्नूनंसावानरी भविष्यति’ यतस्तस्या अनुरागतः सकलमपि दिनं तत्र गमयसि। तत्त्वं ज्ञातो मया सम्यक्। किं बहुना। यदि तस्यहृदयं न भक्षयामि’ तन्मया प्रायोपवेशनं कृतं विद्धि। एवं तस्यास्तन्निश्चयं ज्ञात्वाचिन्ताव्याकुलितहृदयः स प्रोवाच
तत्किं करोमि। कथं स मे बध्यो भवति। इति विचिन्त्य वानर पार्श्वममगमत्। वानरोऽपि चिरायान्तं तं सोद्वेगमवलोक्य प्रोवाच ‘भो मित्र किमद्य चिरवेलायां समायातोऽसि। कस्मात्साह्लदं नालपसि। न सुभाषितानि पठसि।, स आह—‘मित्र, अहं तव भ्रातृजायया निष्ठुरतरैर्वाक्यैरभिहितः—भोः कृतघ्न मा मे त्वं स्वमुखं दर्शय, यतस्त्वं प्रतिदिनं मित्रमुपजीवसि। न च तस्य पुनः प्रत्युपकारं गृहदर्शनमात्रेणापि करोषि। तत्तेप्रायश्चित्तमपि नास्ति। उक्तं च—
ब्रह्मघ्ने च सुरापेच चौरे भग्नव्रते शठे।
निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः॥७॥
तत्त्वं मम देवरं गृहीत्वाद्यप्रत्युपकारार्थं गृहमानय। नो चेत्त्वया सह मे परलोके दर्शनम्। तदहं तयैवं प्रोक्तस्तव सकाशमागतः तदद्य तया सह त्वदर्थे कलहायतो ममेयती वेला विलग्ना। तदागच्छ मे गृहम्। तत्र भ्रातृपत्नीरचितचतुष्का प्रगुणितवस्त्रमणिमाणिक्याद्युचिताभरणा द्वारदेशबद्धवन्दन माला सोत्कण्ठा तिष्ठति मर्कट आह—भो मित्र, युक्तमभिहितं मद्भातृपत्न्या। उक्तं च—
वर्जयेत्कौलिकाकारं मित्रं प्राज्ञतरो नरः।
आत्मनः संमुखं नित्यं य आकर्षति लोलुपः॥८॥
तथा च।
ददाति प्रतिगृह्णाति गुह्यमाख्यति पृच्छति।
भुङ्क्तेभोजायते चैव षड्विधं प्रीतिलक्षणम्॥६॥
परं वयं वनचराः, युष्मदीयं च जलान्ते गृहम्। तत्कथं शक्यते तत्र गन्तुम्। तस्मत्तामपि मे भ्रातृपत्नीमत्रानय येन प्रणम्य तस्या आशीर्वादं गृहामि।, स आह—भो मित्र’ अस्ति समुद्रान्तरे सुरम्ये पुलिनप्रदेशेऽस्मद्गृहम्। तन्मम पृष्ठमारूढः सुखेनाकुतो भयो गच्छ।, सोऽपि तच्छ्रुत्वा सानन्दमाह—‘भद्र ‘यद्येवं तत्किं विलम्ब्यते। त्व र्यताम्। एषोऽहं तत्र पृष्ठमारूढः। तथानुष्ठितेऽगाधेजलधौ गच्छन्तं मकरमालोक्य भयत्रस्तमना वानरः प्रोवाच—‘भ्रातः शनैः शनैर्गम्यताम्। जलकल्लोलैः प्लाव्यते मे शरीरम्।’ तदाकर्ण्यमकरश्चिन्तयामास—‘असावगाधं जलं प्राप्तो मे वशः संजातः। मत्पृष्ठगतस्तिलमात्रमपि चलितुं न शक्नोति। तस्मात्कथयाम्यस्य निजाभिप्रायम्, येनाभीष्टदेवतास्मरणं करोति।’ आह च—‘मित्र, त्वंमया बधाय सनानीतो भार्यावाक्येन विश्वास्य। तत्स्मर्यतामभीष्टदेवता।’ स आह—‘भ्रातः, किं मया तस्यास्तत्रापि चापकृतं येन मे बधोपायश्चिन्तितः। मकर आह—‘भोः, तस्यास्तावत्तव हृदयस्यामृतमयफलरसास्वादनमृष्टस्यभक्षणे दोहदः संजातः। तेमैतदनुष्ठितम्।’ प्रत्युत्पन्नमतिर्वानर आह—‘भद्र, यद्येवं तत्किं त्वया मम तत्रैवन व्याहृतम्। येन स्वदृदयं जम्बूकोटरे सदैव मया सुगुप्तं कृतम्, सद्भातृपत्न्याअर्पयामि। त्वयाहं शून्यहृदयोऽत्र कस्मादानीतः।’ तदाकर्ण्य मकरः सानन्दमाह—‘भद्र, यद्येवं तदर्पय मे हृदयम्। येन सा दुष्टपत्नीतद्भक्षयित्वानशनादुत्तिष्ठति। अहं त्वां तमेत्र जम्बूपादपं प्रापयामि।’ एवमुक्त्वा निवर्त्य जम्बूतलमगात्। वानरोऽपि कथमपि जल्पितविविधदेवतोजपूजारपूस्तीरमासादितवान्। ततश्च दीर्घतरचङ्क्रमणेन तमेवजम्बूपादपमारूढश्चिन्तयामास—‘अहो, लब्धास्तावत्प्राणाः। अथवा साध्विदमुच्यते—
न विश्वसेदविश्वस्ते विश्वस्तेऽपि न विश्वमेत्।
विश्वासाद्भयमुत्पन्नं मूलान्यपि निकृन्तति॥१०॥
तन्ममैतदद्यपुनर्जन्मदिनमिवसंजातम्। इति चिन्तयमानं मकर आह—‘भो मित्र, अर्पय तद्हृदयंयथा ते भ्रातृपत्नी भक्षयित्वान शनादुत्तिष्ठति।’ अथ विहस्यनिर्भर्त्सयन्वानरस्तमाद धिग्धिङ्मूर्खविश्वासघातकः, किं कस्यचिद्धृदयद्वयं भवति। तदाशु गम्यताम्। जम्बूवृक्षस्याधस्तान्न भूयोऽपि त्वयात्रागन्तव्यम्। उक्तं च यतः—
सकृद्दुष्टं च यो मित्रं पुनः संघातुमिच्छति।
स मृत्युमुपगृह्णाति गर्भमश्वतरी यथा॥११॥
तच्छूत्वामकरः सबिलक्षंचिन्तितवान्—अहो, मयातिमूढेन किमस्य स्वचित्ताभिप्रायनिवेदितः, तयद्यसौ पुनरपि कथंचिद्विश्वासं गच्छति, तद्भूयोऽपि विश्वासयामि।’ आह च—‘मित्र, हास्येन मया तेऽभिप्रायो लब्धः। तस्या न किंचित्तव हृदयेन प्रयोजनम्। तदागच्छ प्राघुणिकन्यायेनास्मद्गृहम्। तव भ्रातृपत्नीसोत्कण्ठा वर्तते।’ वानर आह—‘भो दुष्ट, गम्यताम्। अधुना नाहमागमिष्यामि। उक्तं च—
बुभुक्षितः किं न करोति पापं
क्षीणा जना निष्करुणा भन्ति।
आख्याहि भद्रे प्रियदर्शनस्य
न गङ्गदत्तःपुनरेति कूपम्’॥१२॥
मकर आह—‘कथमेतत्। स आह—
कथा १
कस्मिंश्चित्कूपे गङ्गदत्तोनाम मण्डूकराजः प्रतिवसति स्म। स कदाचिद्दायादैरुद्वेजितोऽघट्टघटीमारुह्य निष्क्रान्तः। अथ तेन चिन्तितम्—‘यत्कथं तेषां दायादानां मया प्रत्यपकारः कर्तव्यः। उक्तं च—
आपदि येनापकृनं येन च हसितं दशासु विषमासु।
अपकृत्य तयोरुभयोः पुनरपि जातं नरं मन्ये॥१३॥
एवं चिन्तयन्विले प्रविशन्तं कृष्णसर्पमपश्यत्। तं दृष्ट्वा भूयोऽप्प चिन्तयत्—‘यदेनं तत्र कूपे नीत्वा सकलदायादानामुच्छेदं करोमि। उक्तं च
शत्रुभिर्योजयेच्छत्रुंबलिना बलवत्तरम्।
स्वकार्याय यतो न स्यात्काचित्पीडात्र तत्क्षये॥१४॥
तथा च।
शत्रुमुन्मूलयेत्प्राज्ञस्तीक्ष्णं तीक्ष्णेन शत्रुणा।
व्यथाकारं सुखार्थाय कण्टकेनेव कण्टकम्॥१५॥
एवं स विभाव्य बिलद्वारं गत्वा तमाहूतवान्—‘एह्येहि प्रियदर्शन, एहि। तच्छ्रुत्वा सर्पश्चिन्तयामास—‘य एष मामाह्वयति, स स्वजातीयोन भवति। यतो नैषासर्पवाणी। अन्येन केनापि सह मम मर्त्यलोके संधानं नास्ति। तदत्रैव दुर्गे स्थितस्तावद्वेद्मि कोऽयं भविष्यति। उक्तं च—
यस्य न ज्ञायते शीलं न कुलं न च संश्रयः।
न तेन संगतिं कुर्यादित्युवाच बृहस्पतिः॥१६॥
कदाचित्कोऽपि मन्त्रवाद्यौषधचतुरो वा मामाहूय बन्धने क्षिपति। अथवा कश्चित्पुरुषो वैरमाश्रित्य कस्य चिद्भक्षणार्थे मामाह्वयति।’ आह च—‘भोः, को भवान्। स आह—‘अहं गङ्गदत्तो नाम मण्डूकाधिपतिस्त्वत्सकाशे मैत्र्यर्थमभ्यागतः।’ तच्छ्रुत्वा सर्प आह—‘भोः, अश्रद्धेयमेतत्, यत्तृणानां वह्निना सह संगमः।उक्तंच—
यो यस्य जायते ..ध्यःस स्वप्नेऽपि कथंचन।
न तत्समीपमभ्येति तत्किमेवं प्रजल्पसि’॥१७॥
गङ्गदत्त आह—‘भोः, सत्यमेतत्। स्वभाववैरी त्वमस्माकम्। परं परपरिभवात्प्राप्तोऽहं ते सकाशम्। उक्तं च—
सर्वनाशे च संजाते प्राणानामपि संशये।
अपि शत्रुं प्रणम्यापि रक्षेत्प्राणधनानि च॥१८॥
सर्प आह—‘कथय कस्मात्ते परिभवः।’ स आह—‘दायादेभ्यः। ‘सोऽप्याह क्व तआश्रयो वाप्यां कूपेतडागेह्रदे वा। तत्कथय स्वाश्रयम्। तेनोक्तम्—‘पाषाणचयनिबद्धेकूपे। सर्प आह—‘अहो, अपदा वयम्। तन्नास्ति तत्र मे प्रवेशः। प्रविष्टस्य च स्थानं नास्ति। यत्र स्थितस्तव दायादान्व्यापादयामि। तद्गम्यताम्। उक्तं च—
यच्छक्यं ग्रसितुं सस्यंग्रस्तं परिणमेच्च यत्।
हितं च परिणामे यत्तदाद्यंभूतिमिच्छता॥१६॥
गङ्गदत आह—भोः, समागच्छ त्वम्। अहं सुखोपायेन तत्र तवप्रवेशं कारयिष्यामि। तथा तस्य मध्ये जलोपान्ते रम्यतरं कोटरमस्ति। तत्र स्थितस्त्वंलीलया दायादान्व्यापादयिष्यसि।‚ तच्छ्रुत्वा सर्पोव्यचिन्तयत्—‘अहं तावत्परिणतवयाः, कदाचित्कथंचिन्मूषकमेकं प्राप्नोमि। तत्सुखावहो जीवनोपायोऽयमनेन कुलाङ्गारेण मे दर्शितः। तद्गत्वा तान्मण्डूकान्भक्षयामि, इति। अथवा साध्विदमुच्यते—
यो हि प्राणपरिक्षीणः सहायपरिवर्जितः
स हि सर्वसुखोपायां वृत्तिमारचयेद्बुधः॥२०॥
एवं विचिन्त्य तमाह—‘भोः गङ्गदत्त, यद्येवं तदग्रे भव। येन तत्र गच्छावः।’ गङ्गदत्त आह—‘भोः प्रियदर्शन, अहं त्वां सुखोपायेन तत्र नेष्यामि, स्थानं च दर्शयिष्यामि। परं त्वयास्मत्परिजनो रक्षणीयः। केवलं यानहं तव दर्शयिष्यामि त एव भक्षणीयाः’ इति। सर्प आह—सांप्रतं त्वं मे मित्रं जातम्। तन्नभेतव्यम्।तव वचनेन भक्षणीयास्ते दायादाः। एवमुक्त्वा बिलान्निष्क्रम्य तमालिङ्ग्य च तेनैव सह प्रस्थितः। अथ कूपमासाद्यारघट्टाघाटिकामार्गेण सर्पस्तेनात्मना स्वालयं नीतः। ततश्च गङ्गदत्तेनन कृष्णसर्पं कोटरे धृत्वा दर्शितास्ते दायादाः। ते च तेन शनैःशनै र्भक्षिताः। अथ मण्डूकाभावे सर्पेणाभिहितम्—‘भद्र, निःशेषितास्ते रिपबः। तत्प्रयच्छान्यन्मे किंचिद्भोजनम्। यतोऽहं त्वयात्रानीतः। गङ्गदत्त आह—‘भद्र, कृतं त्वया मित्रकृत्यम्। तत्सांप्रतमनेनैव घटिकायन्त्रमार्गेण गम्यताम्’ इति। सर्प आह—‘भो गङ्गदत्त, न सम्यगभिहितं त्वया। कथमहं तत्र गच्छामि मदीयबिलदुर्गमन्येन रुद्धं भविष्यति। तस्मादत्रस्थस्य मे मण्डूकमेकैकं स्ववर्गीयं प्रयच्छ। नो चेत्सर्वानपि भक्षयिष्यामि’ इति। तच्छ्रुत्वा गङ्गदत्तो व्याकुलमना व्यचिन्तयत्—‘अहो, किमेतन्मया कृतं सर्पमानयता तद्यदि निषेधयिष्यामि तत्सर्वानपि भक्षयिष्यति। अथवा युक्तमुच्यते—
योऽमित्रं कुरुते मित्रं वीर्याभ्यधिकमात्मनः।
स करोति न संदेहः स्वयं हि विषभक्षणम्॥२१॥
तत्प्रयच्छाम्यस्यैकं दिनं प्रति सुत्दृदम्। उक्तं च—
सर्वस्वहरणे युक्तं शत्रुं बुद्धियुता नराः।
तोषयन्त्यल्पदानेन वाडवं सागरो यथा॥२२॥
तथा च।
यो दुर्बलोऽणूनपि याच्यमानो
बलीयसा यच्छति नैव साम्ना।
प्रयच्छते नैव च दर्श्यमानं
स्वारीं स चूर्णस्य पुनर्ददाति॥२३॥
तथा च।
सर्वनाशे समुत्पन्ने अर्धं त्यजति पण्डितः।
अर्धेनकुरुते कार्यं सर्वनाशो हि दुस्तरः॥२४॥
न स्वल्पस्यकृते भूरि नाशयेन्मतिमान्नरः।
एतदेव हि पाण्डित्यं यत्स्वल्पाद्भूरिरक्षणम्॥२५॥
एवं निश्चित्य नित्यमेकैकमादिशति। सोऽपि तं भक्षयित्वातस्य परोक्षेऽन्यानपि भक्षयति। अथवा साध्विदमुच्यते—
यथाहि मलिनैर्वस्त्रैर्यत्र तत्रोपविश्यते।
एवं चलितवित्तस्तु वित्तशेषं न रक्षति॥२६॥
अथान्यदिने तेनापरान्मण्डूकान्भक्षयित्वा गङ्गदत्तसुतो यमुनादतो भक्षितः। तं भक्षितं मत्वा गङ्गदत्तस्तारस्वरेण धिग्धिक्प्रलापपरः कथंचिदपि न विरराम। ततः स्वपल्याभिहितः—
‘किं क्रन्दसि दुराक्रन्द स्वपक्षक्षयकारक।
स्वपक्षत्य क्षये जाते को नस्त्राता भविष्यति॥२७॥
तदद्यापि विचिन्त्यतामात्मनो निष्क्रमणम् अस्य वधोपायंच’। अथ गच्छता कालेन सकलमपि कवलितं मण्डूककुलम्। केवलमेको गङ्गदत्तस्तिष्ठति। ततः प्रियदर्शनेन भणितम्—‘भो गङ्गदत्त, बुभुक्षितोऽहम्। निःशेषिताः सर्वे मण्डूकाः तद्दीयतां मे किंचिद्भोजनं यतोऽहं त्वयात्रानीतः।’ स आह—‘भो मित्र न त्वयात्र विषये मयावस्थितेन कापि चिन्ता कार्या। तद्यदि मां प्रेषयसि ततोऽन्यकूपस्थानपि मण्डूकान्विश्वास्यात्रानयामि। स आह—‘मम तावत्त्वमभक्ष्यो भ्रातृस्थाने। तद्यद्येवं करोषि तत्सांप्रतं पितृस्थाने भवसि। तदेव क्रियताम्, इति। सोऽपि तदा कर्ण्यारघट्टधाटिकामाश्रित्य विविधदेवतोपकल्पितपूजोपयाचितस्तस्मात्कूपाद्विनिष्क्रान्तः। प्रियदर्शनोऽपि तदाकाङ्क्षया तत्र स्थः प्रतीक्षमाणस्तिष्ठति। अथ चिरादनागते गङ्गदत्ते प्रियदर्शनोऽन्यकोटरनिवासिनीं गोधामुवाच—‘भद्रे, क्रियतां स्तोकं साहय्यम्।यतश्चिरपरिचितस्ते गङ्गदत्तः। तद्गत्वा तत्सकाशं कुत्रचिज्जलाशयेऽन्विष्य मम संदेशं कथय। येनागम्यतामेकाकिनापि भवता द्रुततरं यद्यन्ये मण्डूका नागच्छन्ति। अहं त्वयाविना नात्रवस्तुं शक्नोमि। तथा यद्यहं तत्र विरुद्धमाचरामि तत्सुकृतमन्तरे मया विधृतम्।‘गोधापि तद्वचनाद्गङ्गदत्तं द्रुततरमन्विष्याह—‘भद्र गङ्गदत्त स तव सुहृत्प्रियदर्शनस्तव मार्गंसमीक्षमाणस्तिष्ठति। तच्छीघ्रमागम्यताम्’ इति। अपरं च तेन तवविरूपकरणे सुकृतमन्तरे धृतम्। तन्निःशङ्केन मनसा समागम्यताम्।’ तदाकर्ण्य गङ्गदत्त आह—
बुभुक्षितः किं न कोति पापं
क्षीणा नरा निष्करुणा भवन्ति।
आख्याहि भद्रे प्रियदर्शनस्य
न गङ्गदत्त्तःपुनरेति कूपम्॥२६॥
एवमुक्त्वा स तांविसर्जयामास। तद्भो दुष्टजलचर, अहमपि गङ्गदत्तइव त्वद्गृहे न कथंचिदपि यास्यामि।’ तच्छ्रुत्वा मकरआह ‘भो मित्र नैतद्युज्यते। सर्वथैव मे कृतघ्नतादोषमपनय मद्गृहागमनेन। अथवाऽहमनशनात्प्राणत्यागं तवोपरि करिष्यामि।,
वानर आह—‘मूढ, किमहं लाम्बकर्णो मूर्खः। दृष्टापायोऽपि स्वयमेव तत्र गत्वात्मानं व्यापादयामि।
आगत श्चगतश्चैव दृष्ट्वा सिंहपराक्रमम्।
अकर्णहृदयो मूर्खोयोगत्वा पुनरागतः॥२६॥
मकर आह—‘भद्र स को लम्बकर्णः। कथं दृष्टापायोऽपि मृतः। तन्मे निवेद्यताम्।’ वानर आह—
कथा २
कस्मिंश्चिद्वनोद्देशे करालकेसरो नाम सिंहः प्रतिवसति स्म। तस्य च धूसरको नाम शृगालः सदैवानुयायी परीचारकोऽस्ति। अथ कदाचित्तस्य हस्तिना सह युध्यमानस्य शरीरे गुरुतराः प्रहाराः संजाताः, यैः पदमेकमपि चलितुं न शक्नोति। तस्याचलनाच्च धूसरकःक्षुत्क्षामकण्ठोदौर्बल्यं गतः अन्यस्मिन्नहनि तमवोचत्—‘स्वामिन्बुभुक्षया पीडितोऽहम्। पदात्पदमपि चलितुं न शक्नोमि तत्कथं ते शुश्रूषांकरोमि।’ सिंह आह—भोः, गच्छ। अन्वेषय किंचित्सत्त्वम्’ येनेमामबस्थां गतोऽपि व्यापादयामि। तदाकर्ण्य शृगालोऽन्वेषयन्कंचित्समीपवर्तिनं ग्राममासादितवान्। तत्र लम्बकर्णो नाम गर्दभस्तडागोपान्ते प्रविरलदूर्वाङ्कुरान्कृच्छ्रादाखादयन्दृष्टः। ततश्च समीपवर्तिना भूत्वा तेनाभिहितः—‘माम, नमस्कारोऽयं मदीयः संभाव्यताम्। चिराद्दष्ठोऽसि। तत्कथय किमर्थं दुर्बलतां गतः। स आह—‘भो भगिनीपुत्र, किं कथयामि। रजकोऽतिनिर्दयोऽतिभारेण मां पीडयति। घासमुष्टिमपि न प्रयच्छति। केवलं दूर्वाङ्कुरान्धूलिमिश्रितान्भक्षयामि। तत्कुतो मे शरोरे पुष्टिः।‘श्रृगाल आह—‘माम यद्येवं तदस्ति मरकतसदृशष्पप्रायो नदीसनाथो रमणीयतरः प्रदेशः। तत्रागत्य मया सह सुभाषितगोष्ठीसुखमनुभवंस्तिष्ठ।’ लम्बकर्ण आह—‘भो भगिनीसुत, युक्तमुक्तं भवता। परं वयं ग्राम्याः पशवोऽरण्यचारिणां वध्याः। तत्किं तेन भव्यप्रदेशेन’। श्रृगाल आह—‘माम, मैवंवद। मद्भुजपञ्जरपरिरक्षितः स देशः। तन्नास्ति कस्यचिदपरस्य तत्र प्रवेशः। तदर्थे त्वामहं तत्र नयामि।’ अथ श्रृगालवचनानि श्रुत्वालुब्धस्तमवोचत्—‚भद्र, यद्येवंतदग्रेभव, येनागच्छामि।
तथानुष्ठिते शृगालेन सहसिंहाऽन्तिकमागतः। सिंहोऽपि व्यथाकुलितस्तं दृष्ट्वा यावत्समुत्तिष्ठति, तावद्रासभः पलायितुमारब्धवान्। अथ तस्य पलायमानस्य सिंहेन तलप्रहारो दत्तः। स च मन्दभाग्यस्यव्यवसाय इव व्यर्थतांगतः। अत्रान्तरे श्रृगालः कोपाविष्टस्तमुवाच—,भोः किमेवंविधः प्रहारस्ते। यद्गर्दभोऽपि तव पुरतो बलाद्गच्छति। तत्कथंगजेन सह युद्धं करिष्यसि। तद्दृषंते बलम्। अथ विलक्षस्मितं सिंह आह—,भोः किमहं करोमि। मया न क्रमः सज्जीकृत आसीत्। अन्यथा गजोऽपि मत्क्रमाक्रान्तोन गच्छति।’ शृगालआह—अद्याप्येकवारं तवान्तिकेतमानेष्यामि। परं त्वयासज्जीकृतक्रमेण स्थातव्यम्।’ सिंह ग्राह—‘भद्र, यो मां प्रत्यक्षं दृष्ट्वा गतः स पुनः कथमत्रागमिष्यति। तदन्यत्किमपि सत्त्वमन्विष्यताम्।’ शृगाल आह—किं तवानेन व्यापारेण। त्वंकेवलं सज्जितक्रमस्तिष्ठ।’ तथानुष्ठिते शृगालोऽपि यावद्रासभमार्गेण गच्छति, तावत्तत्रैव स्थाने चरन्दृष्टः। अथ शृगालं दृष्ट्वा रासभः प्राह—‘भो भगिनीसुत, शोभनस्थाने त्वहाहं नीतः द्राङ्मृत्युवशं गतः। तत्कथय किं तत्सत्त्वम्, यस्यातिरौद्रवज्रसदृशकरप्रहारादहं मुक्तः।’ तच्छ्रुत्वा प्रहसञ्शृगाल आह—‘भद्र, त्वद्वयस्यस्त्वामायान्तं दृष्ट्वा सानुरागनन्दितुं समुत्थितः। त्वंच कातरत्वान्नष्टः। स पुनर्न शक्तस्त्वांविना स्थातुम्। तेन तु नश्यतस्तेऽवलम्बनार्थं हस्तः क्षिप्तः। नान्यकारणेन। तदागच्छ। सत्वत्कृते प्रयोपवेशनोपविष्टस्तिष्ठति। एतद्वदति—यल्लम्बकर्णो यदि मे सुहन्न भवति तदहमग्नौ जले वा प्रविशामि। पुनस्तस्यवियोगं सोढुं न शक्नोमि। तत्प्रसादं कृत्वा तत्रागम्यतामिति। नो चे तव मित्रहत्या भविष्यति। अथासौतद्वचनं श्रद्धेयतया श्रुत्वा भूयोऽपि तेन सह प्रस्थितः। अथवा साध्विदमुच्यते—
जानन्नपि नरो दैवात्प्रकरोति विगर्हितम्।
कर्म किं कस्यचिल्लोके गर्हितं रोचते कथम्॥३०॥
अत्रान्तरे सज्जितक्रमेण सिंहेन स लम्बकर्णो व्यापादितः। ततस्तं हत्वा श्रृगालं रक्षकं निरूप्य स्वयं स्नानार्थं नद्यांगतः। शृगालेनापि लौल्योत्सुक्यात्तस्य कर्णहृदयं भक्षितम्। अत्रान्तरे सिंहो यावत्स्नात्वा कृतदेवार्चनः प्रतर्पितपितृगणः समायाति तावत्कर्णहृदयरहितो रासभस्तिष्ठति। तं दृष्ट्वा कोपपरीतात्मा सिंहः शृगालमाह—
‘पाप, किमिदमनुचितं कर्म समाचरितम्। यत्कर्णहृदयभक्षणेनायमुच्छिष्टतां नीतः।’ शृगालः सविनयमाह—‘स्वामिन्, मा मैवं वद। यत्कर्णहृदयरहितोऽयं रासभ आसीत्, तेनेहागत्य त्वामवलोक्य भूयोऽप्यागतः।’ अथ तद्वचनं श्रद्धेयं मत्वा सिंहस्तेनैव सह संविभज्य निःशङ्कितमनास्तं भक्षितवान्। अतोऽहं ब्रवीमि—‘आगतश्च गतश्चैव’ इति॥ तन्मूर्ख, कपटं कृतं त्वया। परं कुपिहिरोवं सत्यवचनेन विनाशितम्। अथवा साध्विदमुच्यते—
‘स्वार्थमुत्सृज्य यो दम्भी सत्यं ब्रूते सुमन्दधीः।
स स्वार्थाद्भ्रश्यतेनूनं युधिष्ठिर इवापरः॥३१॥
मकर आह—‘कथमेतत्’। स आह—
कथा३
कस्मिंश्चिदधिष्ठाने कुम्भकारः प्रतिवसति स्म। स कदाचित्प्रमादादर्धभग्नघटकर्परतीक्ष्णाग्रस्योपरि महता वेगेन धावन्पतितः। ततः कर्परकोठ्या पाटितललाटो रुधिरप्लाविततनुः कृच्छ्रादुत्थाय स्वाश्रयं गतः। ततश्चापथ्यसेवनात्स प्रहारस्तस्य करालतां गतः कृच्छ्रेण नीरोग्यतां नीतः। अथ कदाचिद्दुर्भिक्षपीडिते देशे स कुम्भकारः क्षुत्क्षामकण्ठः कैश्चिद्राजसेवकैः सह देशान्तरं गत्वा कस्यापि राज्ञः सेवको वभूव। सोऽपि राजा तस्य ललाटे विकरालं प्रहारक्षतं दृष्ट्वा चिन्तयामास—‘यद्वीरः पुरुषः कश्चिदयम्। नूनं तेन ललाटपट्टे संमुखप्रहारः। अतस्तं संमानादिभिः सर्वेषां राजपुत्राणां मध्ये विशेषप्रसादेन पश्यति स्म। तेऽपि राजपुत्रास्तस्य तं प्रसादातिरेकं पश्यन्तः परमेर्ष्याधर्मं वहन्तो राजभयान्न किंचिदूचुः। अथान्यस्मिन्नहनि तम्य भूपतेर्वीरसंभावनायां क्रियमाणायां, विग्रहे, समुपस्थिते, प्रकल्प्यमानेषु गजेषु, संनह्यमानेषु वाजिषु, योधेषु प्रगुणीक्रियमाणेषु तेन भूभुजा स कुम्भकारः प्रस्तावानुगतं पृष्टो निर्जने—‘भो राजपुत्र, किं ते नाम।का च जातिः। कस्मिन्संग्रामे प्रहारोऽयं ते ललाटे लग्नः। स आह—‘देव, नायं शस्त्रप्रहारः। युधिष्ठिराभिधः कुलालोऽहं प्रकृत्या\। मद्गेहेऽनेककर्पराण्यासन्। अथ कदाचिन्मद्यपानं कृत्वा निर्गतःप्रधावन्कर्परोपरि पतितः। तस्य प्रहारविकारोऽयं मे ललाट एवं विकरालतां गतः।’ तदाकर्ण्य राजा सब्रीडमाह—‘अहो, वञ्चितोऽहं राजपुत्रानुकारिणानेन कुलालेन। तद्दीयतां द्रागेतस्य चन्द्रार्धः।’ तथानुष्ठिते कुम्भकार आह—‘मा मैवंकुरु। पश्य मे रणे हस्तलाघवम्।‘राजा प्राह—‘भोः, सर्वगुणसंपन्नो भवान्। तथापि गम्यताम्। उक्तं च—
शूरश्चकृतविद्यश्चदर्शनीयोऽसि पुत्रक।
यस्मिन्कुले त्वमुत्पन्नो गजस्तत्र न हन्यते॥३२॥
कुलाल आह—‘कथमेतत्।’ राजा कथयति—
कथा ४
कस्मिंश्चिदुद्देशे सिंहदम्पती प्रतिवसतः स्म। अथ सिंही पुत्रद्वयमजीजनत्। सिंहोऽपि नित्यमेव मृगान्व्यापाद्य सिंह्यैददाति। अथान्यस्मिन्नहनि तेन किमपि नासादितम्। वने भ्रमतोऽपि तस्य रविरस्तं गतः। अथ तेन स्वगृहमागच्छता शृगालशिशुः प्राप्तः। स च बालकोऽयमित्यवधार्य यत्नेन दंष्ट्रामध्यगतं कृत्वा सिंह्या जीवन्तमेव समर्पितवान्। ततः सिंह्याभिहितम्—भोः कान्त, त्वयानीतं किंचिदस्माकं भोजनम्।’ सिंह आह—‘प्रिये, मयाद्यैनं शृगालशिशुं परित्यज्य न किंचित्समासादितम्। स च मया बालोऽयमिति मत्वा न व्यापादितो विशेषात्स्वजातीयश्च। उक्तं च—
स्त्रीविप्रलिङ्गिबालेषु प्रहर्तव्यं न कर्हिचित्।
प्राणत्यागेऽपि संजाते विश्वस्तेषु विशेषतः॥३३॥
इदानीं त्वमेनं भक्षयित्वा पथ्यं कुरु। प्रभातेऽम्यरिंकत्किचिदुपार्जयिष्यामि।’ सा आह—‘भोः कान्त, त्वया बालकोऽयं विचिन्त्य न हतः। तत्कथमेनमहं स्वोदरार्थे विनाशयामि। उक्तं च—
अकृत्यं नैव कर्तव्यं प्राणत्यागेऽपि संस्थिते।
न च कृत्यं परित्याज्यं एष धर्मः सनातनः॥३४॥
तस्मान्ममायं तृतीयः पुत्रो भविष्यति। इत्येवमुक्त्वा तमपि स्वस्तनक्षीरेण परां पुष्टिमनयत्। एवं ते त्रयोऽपि शिशवः परस्परमज्ञातजातिविशेषा एकाचारविहारा बाल्यसमयं निर्वाहयन्ति। अथ कदाचित्तत्र वने भ्रमन्नरण्यगजः समायातः। तं दृष्ट्वा तौ सिंहसुतौ द्वावपि कुपिताननौ तं प्रति प्रचलितौ यावत्, तावत्तेन शृगालसुतेनाभिहितम्—‘अहो, गजोऽयं युष्मत्कुलशत्रुः। तन्न गन्तव्यमेतस्याभिमुखम्।’ एवमुक्त्वा गृहं प्रधावितः। तावपि ज्येष्ठबान्धवभङ्गान्निरुत्साहतां गतौ। अथवा साध्विदमुच्यते—
एकेनापि सुधीरेण सोत्साहेन रणं प्रति।
सोत्साहं जायते सैन्यं भग्नेभङ्गमवाप्नुयात्॥३५॥
तथा च।
अत एव हि वाञ्च्छन्ति भूपा योधान्महाबलान्।
‘शूरान्वीरान्कृतोत्साहान्वर्जयन्ति च कातरान्॥३६॥
अथ तौ द्वावपि गृहं प्राप्य पित्रोग्रतो विहसन्तौ ज्येष्ठभ्रातृचेष्टितमूचतुः। यथा गजं दृष्ट्वा दूरतोऽपि नष्टः। सोऽपि तदाकर्ण्य कोपाविष्टमनाः प्रस्फुरिताधरपल्लवस्ताम्रलो वनस्त्रिशिखां भृकुटिं कृत्वा तौ निर्भर्त्सयन्परुषतरवचनान्युवाच। ततः सिंह्यैकान्ते नीत्वा प्रबोधितोऽसौ—‘वत्स, मैवं कदाचिज्जल्प। भवदीयलघुभ्रातरावेतौ।’ अथासौ प्रभूतकोपविष्टस्तामुवाच—‘किमहमेताभ्यां शौर्येण रूपेण विद्याभ्यासेन कौशलेन वा द्दीन येनो मामुपहसतः। तन्मयावश्यमेतौ व्यापादनीयौ।’ दताकर्ण्य सिंही तस्य जीवितमिच्छन्त्यन्तर्विहस्य प्राह—
‘शूरोऽसि कृतविद्योऽसि दर्शनीयोऽसि पुत्रक।
यस्मिन्कुले त्वमुत्पन्नो गजस्तत्र न हन्यते॥३७॥
तत्सम्यक्शृणु। वत्स, त्वं शृगालीसुतः कृपया मया स्वस्तनक्षीरेण पुष्टिं नीतः। तद्यावदेतौ मत्पुत्रौ शिशुत्वात्त्वांशृगालं न जानीतः, तावद्द्रुततरं गत्वा स्वजातीयानां मध्ये भव। नो चेदाभ्यां हतो मृत्युपथं समेष्यसि।’ सोऽपि तद्वचनं श्रुत्वा भयव्याकुलमनाः शनैशनैरपसृत्य स्वजात्या मिलितः। तस्मात्त्वमपि यावदेते राजपुत्रास्त्वां कुलालं न जानन्ति, तावद्द्रुततरमपसर। नो चेदेतेषां सकाशाद्विडम्बनां प्राप्य मरिष्यसि।’ कुलालोऽपि तदाकर्ण्यसत्वरं प्रनष्टः। अतोऽहं ब्रवीमि—‘स्वार्थमुत्सृज्य यो दम्भी’ इति॥ धीङ्मूर्ख, यत्त्वया स्त्रियोऽर्थ एतत्कार्यमनुष्ठातुमारब्धम्।
ततो भद्र, आगतेन त्वयामां प्रति वधोपायप्रयासः प्रारब्धः, परं स्ववाग्दोषेणैव प्रकटीभूतः। अथवा साध्विदमुच्यते**—**
आत्मनो मुखदोषेण वध्यन्ते शुकसरिकाः।
वकास्तत्र न बध्यन्ते मौनं सर्वार्थसाधनम्॥३८॥
तथा च।
सुगुप्तं रक्ष्यमाणोऽपि दर्शयन्दारुणं वपुः।
व्याघ्रचर्मप्रतिच्छन्नो वाक्कृते रासभो हतः॥३६॥
मकर आह—‘कथमेतत्, वानरः कथयति—
कथा ५
कस्मिंश्चिदधिष्ठाने शुद्धपटो नाम रजकः प्रतिवसति स्म। तस्य च गर्दभ एकोऽस्ति। सोऽपि घासाभावादतिदुर्बलतां गतः। अथ तेन रजकेनाटव्यां परिभ्रमतामृतव्याघ्रो दृष्टः। चिन्तितं च—‘अहो, शोभनमापतितम्। अनेन व्याघ्रचर्मणा, प्रतिच्छाद्य रासभं रात्रौ यवक्षेत्रेषूत्स्रक्ष्यामि। येन व्याघ्रं मत्वासपीपवर्त्तिनः क्षेत्रपाला एनं ननिष्कासयिष्यति।तथानुष्ठिते रासभो यथेच्छया यवभक्षणं करोति। प्रत्यूषे भूयोऽपि रजकः स्वाश्रयं नयति। एवं गच्छता कालेन स रासभः पीवरतनुर्जातः। कृच्छ्राद्बन्धनस्थानमपि नीयते। अथान्यस्मिन्नहनि स मदोद्धतो दूराद्रासभीशब्दमशृणोत् तच्छ्रवणमात्रेणैव स्वयं शब्दायितुमारब्धः।अथ ते क्षेत्रपाला रासभोऽयं व्याघ्रचर्मप्रतिच्छन्न इति ज्ञात्वालगुडशरपाषाणप्रहारैस्तं व्यापादितवन्तः। अतोऽहं ब्रवीमि—‘सुगुप्तं रक्ष्यमाणोऽपि, इति अथैवं तेन सह वदतो मकरस्यजलचरेणैकेनागत्याभिहितम्—‘भो मकर त्वदीया भार्याऽनशनोपविष्टा। त्वयि चिरयति प्रणयाभिभवाद्विपन्ना।’ एवं तद्वज्रपातसदृशवचनमाकर्ण्यातीव व्याकुलितहृदयः प्रलपितमेवं चकार—‘अहो, किमिदं संजातं मे मन्दभाग्यस्य। उक्तं च—
माता यस्य गृहे नास्ति भार्या च प्रियवादिनी।
अरण्यं तेन गन्तव्यं यथारण्यं तथा गृहम्॥४०॥
तन्मित्र’ क्षम्यताम्। मया तेऽपराधः कृतः। संप्रत्यहं तु स्त्रीवियोगाद्वैश्वानरप्रवेशं करिष्यामि।’ तच्छ्रुत्वा वानरः प्रहसन्प्रोवाच—‘भोः, ज्ञातो मया प्रथममेव यत्त्वं स्त्रीवश्यः स्त्रीजितश्च। सांप्रतंप्रत्ययः संजातः। तन्मूढ’आनन्देऽपि जाते त्वं विषादं गतः। तादृग्भार्यायां मृतायामुत्सवः कर्तुं युज्यते। उक्तं च यतः—
या भार्या दुष्ट चारित्रासततं कलहप्रिया।
भार्यारूपेण सा ज्ञेया विदग्धैर्दारुणा जरा॥४१॥
मकर आह—‘भो मित्र’ अस्त्वेतत्। परं किं करोमि ममानर्थद्वयमेतत्संजातम्। एकस्तावद्गृहभङ्गः ‘अपरस्त्वद्विधेन मित्रेण सह चित्तविश्लेषः। अथवा भवत्येवं दैवयोगात्। एवं तस्य कथयतः पुनरन्येन जलचरेणागत्य निवेदितम्—‘यदहो‚ त्वदीयं गृहमप्यपरेण महामकरेण गृहीतम्।’ तच्छ्रुत्वासात्रतिदुःखितमनास्तं गृहान्निःसारयितुमुपायं चिन्तयन्नवाच—‘अहो, पश्यतां मे दैवोपहतत्वम्।
मित्रं ह्यमित्रतां यातमपरं मे प्रिया मृता।
गृहमन्येन च व्याप्तं किमद्यापि भविष्यति॥४२॥
अथवा युक्तमिदमुच्यते—
क्षते गहारा निपतन्त्यभीक्ष्ण-
मन्नक्षयेवर्धति जाठराग्निः।
आपत्सु वैराणि समुद्भवन्ति
वामे विधौ सर्वमिदं नराणाम्॥४३॥
तत्किंकरोमि। किमनेन सह युद्धं करोमि। किंवा साम्नैवसंबोध्य गृहान्निःसारयामि। किं वा भेदं दानं वा करोमि। अथ वामुमेव वानरमित्रं पृच्छामि। उक्तं च—
यः पृष्ट्वा कुरुते कार्यं प्रष्टव्यान्स्वहित्वान्गुरुन्।
न तस्य जायते विघ्नः कस्मिंश्चिदपि कर्मणि’॥४४॥
एवं संप्रधार्य भूयोऽपि तमेवजम्बूवृक्षमारूढं कपिमपृच्छत्—‘भो मित्र, पश्य मे मन्दभाग्यताम्। यत्संप्रति गृहमपि मे बलवत्तरेण मकरेण रुद्धम्। तदहं त्वांप्रष्टुमभ्यागतः। कथय। किं करोमि।
सामादीनामुपायानां मध्ये कस्यात्र विषयः।’ स आह—‘भोः कृतघ्न पापकारिन्, मया निषिद्धोऽपि किं भूयो मामनुसरसि। नाहं तव मूर्खस्योपदेशमपि दास्यामि। तच्छ्रुत्वा मकर प्राह—‘भो मित्र, सापराधस्य मे पूर्वस्नेहमनुस्मृत्य हितोपदेशं देहि।’ वानर आह—नाहं ते कथयिष्यामि। यद्भार्यावाक्येन भवताहं समुद्रे प्रक्षेप्तुंनीतः। तदेवं न युक्तम्। यद्यपि भार्या सर्वलोकादपि वल्लभा भवति, तथापि न मित्राणि बान्धवाश्च भार्यावाक्येन समुद्रे प्रक्षिप्यन्ते। तन्मूर्ख, मूढत्वेन नाशस्तवमया प्रागेव निवेदित आसीत्। यतः।
सतां वचनमादिष्टं मदेन न करोति यः।
स विनाशमवाप्नोति घण्टोष्ट्र इव सत्वरम्॥४५॥
मकर आह—‘कथमेतत्।, सोऽब्रवीत्—
कथा ६
कस्मिंश्चिदधिष्ठाने उज्ज्वलको नाम रथकारः प्रतिवसति स्म। स चातीव दारिद्र्योपहतश्चिन्तितवान्—‘अहो, धिगियंदरिद्रतास्मद्गृहे। यतः सर्वोऽपि जनः स्वकर्मणैत्र रतस्तिष्ठति। अस्मदीयः पुनर्व्यापारोनात्राधिष्ठानेऽर्हति। यतः सर्वलोकानां चिरंतनाश्चतुर्भुमिका गृहाः सन्ति। मम च नात्र। तत्किंमदीयेन रथकारत्वेन प्रयोजनम्।’ इति चिन्तयित्वा देशान्निष्क्रान्तः। यावत्किंचिद्वनं गच्छति तावद्गह्वराकारवनगहनमध्ये सूर्यास्तमनवेलायांस्वयूथाद्भ्रष्टां प्रसवेदनया पीड्यमानामुष्ट्रीमपश्यत्। स च दासेरकयुक्तामुष्ट्रींगृहीत्वास्वस्थानाभिमुखः प्रस्थितः। गृहमासाद्य रज्जुं गृहीत्वा तामुष्ट्रिकां बबन्ध। ततश्च तीक्ष्णंपरशुमादाय तस्याःकृते पल्लवानयनार्थं पर्वतैकदेशे गतः। तत्र च नूतनानि कोमलानि बहूनि पल्लवानि छित्त्वाशिरसि समारोप्य तस्याग्रे निचिक्षेप। तया च तानि शनैः शनैर्भक्षितानि। पश्चात्पल्लवभक्षणप्रभावादहर्निशं पीवरतनुरुष्ट्री संजाता। सोऽपि दासेरको महानुष्ट्रः संजातः। ततः स नित्यमेव दुग्धं गृहीत्वास्वकुटुम्बं परिपालयति। अथ रथकारेण वल्लभत्वाद्दासेरकग्रीवायां महती घण्टा प्रतिबद्धा। पश्चाद्रथकारो व्यचिन्तयत्—‘अहो, किमन्यैर्दुष्कृतकर्मभिः यावन्ममैतस्मादेवोष्ट्रीपरिपालनादस्य कुटुम्बस्य भव्यं संजातम्। तत्किमन्येन व्यापारेण। एवं विचिन्त्य गृहमागत्य प्रियामाह—‘भद्रे, समीचीनोऽयं व्यापारः। तव संमतिश्चेत्कुतोऽपि धनिकात्किचिद्द्रव्यमादाय मया गुर्जरदेशे गन्तव्यं कलभग्रहणाय। तावत्त्वयैतौ यत्नेन रक्षणीयौ। यावदहमपरामुष्ट्रीं नीत्वा समागच्छामि। ततश्च गुर्जरदेशं गत्वोष्ट्रीं गृहीत्वा स्वगृहमागतः। किं बहुना। तेन तथा कृतं यथा तस्य प्रचुरा उष्ट्राः करभाश्चसंमिलिताः। ततस्तेन महदुष्ट्रयूथं कृत्वा रक्षापुरुषो धृतः। तस्य वर्षं प्रति वृत्त्याकरभमेकं प्रयच्छति। अन्यश्चहर्निशं दुग्धपानं तस्य निरूपितम्। एवं रथकारोऽपि नित्यमेवोष्ट्रीकरभव्यापारं कुर्वन्सुखेन तिष्ठति। अथ ते दासेरका अधिष्ठानोपवनआहारार्थे गच्छन्ति। कोमलवल्लीर्यथेच्छया भक्षयित्वा महति सरसि पानीयं पीत्वा सायंतनसमये मन्दं मन्दं लीलया गृहमागच्छन्ति। स च पूर्वदासेरको मदातिरेकात्पृष्ठ आगत्य मिलति। ततस्तैः कलभैरभिहितम्—‘अहो, मन्दमतिरयं दासेरको यथा यूथाद्भष्टःपृष्ठे स्थित्वा घण्टां वादयन्नागच्छति। यदि कस्यापि दुष्टसत्त्वस्य मुखे पतिष्यति, तन्नूनं मृत्युमवाप्स्यति।अथ तस्य तद्वनं गाहमानस्य कश्चित्सिंहो घण्टारवमाकर्ण्य समायातः। यावदवलोकयति, तावदुष्ट्रीदासेरकाणां यूथं गच्छति। एकस्तु पुनः पृष्ठे क्रीडां कुर्वन्वल्लीश्चरन्यावत्तिष्ठति तावदन्ये दासेरकाः पानीयं पीत्वा स्वगृहे गताः। सोऽपि वनान्निष्क्रम्य यावद्दिशोऽवलोकयति, तावन्न कंचिन्मार्गं पश्यति वेत्ति च। यूथाद्भष्टोमन्दं मन्दं बृहच्छब्दं कुर्वन्यावत्कियद्दूरं गच्छति, तावत्तच्छब्दानुसारी सिंहोऽपि क्रमं कृत्वा निभृतोऽग्रे व्यवस्थितः। ततो यावदुष्ट्रःसमीपमागतः, तावत्सिंहेन लम्भयित्वा ग्रीवायां गृहीतो मारितश्च। अतोऽहं ब्रवीमि—‘सतां वचनमादिष्टम्’ इति॥ अथ तच्छ्रुत्वा मकरः आह—‘भद्र,
प्राहुः साप्तपदं मैत्र्यं जनाः शास्त्रविचक्षणाः।
मित्रतां च पुरस्कृत्य किंचिद्वक्ष्यामि तच्छृणु॥४६॥
उपदेशप्रदातॄणां नराणां हितमिच्छताम्।
परस्मिन्निह लोके च व्यसनं नोपपद्यते॥४७॥
तत्सर्वथा कृतघ्नस्यापि मे कुरु प्रसादमुपदेशप्रदानेन। उक्तं च—
उपकारिषु यः साधुः साधुत्वे तस्य को गुणः।
अपकारिषु यः साधुः स साधुः सद्भिरुच्यते’॥४८॥
तदाकर्ण्य वानरः प्राह—‘भद्र, यद्येवं तर्हि तत्र गत्वा तेन सह युद्धं कुरु। उक्तं च—
हतस्त्वं प्राप्स्यसि स्वर्गंजीवन्गृहमथो यशः।
युध्यमानस्य ते भावि गुणद्वयमनुत्तमम्॥४९॥
उत्तमं प्रणिपातेन शूरं भेदेन योजयेत्।
नीचमल्पप्रदानेन समशक्तिं पराक्रमैः॥५०॥
मकरः प्राह—‘कथमेतत्।’ सोऽब्रवीत्—
कथा ७
आसीत्कस्मिंश्चिद्वनोद्देशे महाचतुरको नाम शृगालः। तेन कदाचिदरण्ये स्वयं मृतो गजः समासादितः। तस्य समन्तात्परिभ्रमति, परं कठिनां त्वचंभेत्तुं न शक्नोति। अथात्रावसरे इतश्वेतश्च विचरन्कश्चित्सिंहस्तत्रैव प्रदेशे समाययौ।अथ सिंहं समागतं दृष्ट्वा स क्षितितलविन्यस्तमौलिमण्डलः संयोजितकरयुगलः सविनयमुवाच—‘स्वामिन्, त्वदीयोऽहं लागुडिकः स्थितस्त्वदर्थे गजमिमं रक्षामि।
तदेनं भक्षयतु स्वामी।’ तं प्रणतं दृष्ट्वा सिंहः प्राह—‘भोः, नाहमन्येन हतं सत्वंकदाचिदपि भक्षयामि। उक्तं च—
वनेऽपि सिंहा मृगमांसभक्ष्या
बुभुक्षिता नैव तृणं चरन्ति।
एवं कुलीना व्यसनाभिभूता
न नीतिमार्गं परिलङ्घयन्ति॥५१॥
तत्तवैव गजोऽयं मया प्रसादीकृतः।’ तच्छ्रुत्वा शृगालः सानन्दमाह—‘युक्तमिदं स्वामिनो निजभृत्येषु। उक्तं च यतः—
अन्त्यावस्थोऽपि महान्स्वामिगुणान्न जहाति तु शुद्धतया।
न श्वेतभावमुज्य्फति शङ्खः शिखिभुक्तिमुक्तोऽपि’॥५२॥
अथ सिंहे गते कश्चिद्व्याघ्रः समाययौ। तमपि दृष्ट्वासौ व्यचिन्तयत्—‘अहो, एकस्तावद्दुरात्मा प्रणिपातेनापवाहितः। तत्कथमिदानीमेनमपवाहयिष्यामि। नूनं शूरोऽयम्। न खलु भेदं विना साध्योभविष्यति। उक्तं च यतः—
न यत्र शक्यते कर्तुं साम दानमथापि वा।
भेदस्तत्र प्रयोक्तव्यो यतः स वशकारकः॥५३॥
किंच सर्वगुणसंपन्नोऽपि भेदेन बध्यते। उक्तं च यतः—
अन्तःस्थेन विरुद्धेन सुवृत्तेनातिचारुणा।
अन्तर्भिन्नेन संप्राप्तं मौक्तिकेनापि बन्धनम्॥५४॥
एवं संप्रधार्य तस्याभिमुखो भूत्वा गर्वादुन्नतकन्धरः ससंभ्रममुवाच ‘माम, कथमत्र भवान्मृत्युमुखे प्रविष्टः। येनैष गजः सिंहेन व्यापादितः। स च मामेतद्रक्षणे नियुज्य नद्यांस्नानार्थं गतः। तेन च गच्छता मम समादिष्टम्—‘यदि कश्चिदिह व्याघ्रः समायाति, तत्त्वया सुगुप्तं ममावेदनीयम्। येन वनमिदं मया निर्व्याघ्रं कर्तव्यम्। यतः पूर्वं व्याघ्रेणैकेन मया व्यापादितो गजः शून्ये भक्षयित्वोच्छिष्टतांनीतः। तद्दिनादारभ्य व्याघ्रान्प्रति प्रकुपितोऽस्मि।’ तच्छ्रुत्वा व्याघ्रः संत्रस्तमाह—‘भो भागिनेय, देहि मे प्राणदक्षिणाम्। त्वया तस्यात्र चिरायायातस्यापि मदीया कापि वार्ता नाख्येया।, एवमभिधाय सत्वरं पलायांचक्रे। अथ गते व्याघ्रेतत्र कश्चिद्द्वीपी समायातः। तमपि दृष्ट्वासौ व्यचिन्तयत्—‘दृढदंष्ट्रोऽयं चित्रकः। तदस्यपार्श्वादस्यगजस्य यथा चर्मच्छेदो भवति तथा करोमि।, एवं निश्चित्य तमप्युवाच—‘भो भगिनीसुत, किमिति चिरद्दृष्टोऽसि। कथं च बुभुक्षित इव लक्ष्यसे। तदतिथिरसि मे। एष गजः सिंहेन हतस्तिष्ठति। अहं चास्य तदादिष्टो रक्षपालः। परं तथापि यावत्सिंहो न समायाति‚ तावदस्य गजस्य मांसं भक्षयित्वा तृप्तिं कृत्वा द्रुततरं व्रज।, स आह—‘माम, यद्येवं तन्न कार्यं मे मांसाशनेन, यतः ‘जीवन्नरोभद्रशतानि पश्यति। उक्तं च—
यच्छवयं ग्रसितुं ग्रासं ग्रस्तं परिणमेच्चयत्।
हितं चं परिणामे यत्तदाद्यं भूतिमिच्छता॥५५॥
तत्सर्वथा तदेव भुज्यते यदेव परिणमति। तदहमितोऽपयास्यामि।, शृगाल आह—‘भो अधीर, विश्रब्धो भूत्वा भक्षय त्वम्। तस्यागमनं दूरतोऽपि तवाहं निवेदयिष्यामि।, तथानुष्ठिते द्वीपिना भिन्नां त्वचं विज्ञाय जम्बूकेनाभिहितम्—‘भो भगिनीसुत, गम्यताम्। एष सिंहः समायाति।, तच्छ्रुत्वा चित्रको दूरं प्रनष्टः। अथ यावदसौ तद्भेदकृतद्वारेण किंचिन्मांसं भक्षयति तावदतिसक्रुद्धोऽपरः शृगालः समाययौ। अथ तमात्मतुल्यपराक्रमं दृष्ट्वैनं श्लोकमपठत्—
‘उत्तमंप्रणिपातेन शूरं भेदेन योजयेत्।
नीचमल्पप्रदानेन समशक्तिं पराक्रमैः॥५६॥
तदभिमुखकृतप्रयाणः स्वदंष्ट्राभिस्तं विदार्य दिशोभागं कृत्वा स्वयं सुखेन चिरकालं हस्तिमांसं बुभुजे। एवं त्वमपि तं रिपुं स्वजातीयं युद्धेन परिभूय दिशोभागं कुरु नचेत्पश्चाद्बद्धमूलादस्मात्त्वमपि विनाशमवाप्स्यसि। उक्तं च यतः—
संभाव्यं गोषु संपन्नंसंभाव्यं ब्राह्मणे तपः।
संभाव्यं स्त्रीषु चापल्यं संभाव्यं जातितो भयम्॥५७॥
अन्यच्च।
सुभिक्षाणि विचित्राणि शिथिलाःपौरयोषितः।
एको दोषो विदेशस्य स्वजातिर्यद्विरुध्यते॥५८॥
मकर आह—‘कथमेतत्।’ वानरोऽब्रवी—
कथा ८
अस्ति कस्मिंश्चिदधिष्ठाने चित्राङ्गो नाम सारमेयः। तत्र च चिरकालं दुर्भिक्षं पतितम्।अन्नाभावात्सारमेयादयो निष्कुलतां गन्तुमारब्धाः। अथ चित्राङ्गः क्षुत्क्षामकण्ठस्तद्भयाद्देशान्तरं गतः। तत्र च कस्मिंश्चित्पुरे कस्यचिद्गृहमेधिनो गृहिण्याः प्रमादेन प्रतिदिनं गृहं प्रविश्य विविधान्नानि भक्षयन्परां तृप्तिं गच्छति। परं तद्गृहाद्वहिर्निष्क्रान्तोऽन्यैर्मदोद्धतसारमेयैः सर्वदिक्षु परिवृत्य सर्वाङ्ग दंष्ट्राभिर्विदार्यते। ततस्तेन विचिन्तितम्—‘अहो, वरं स्वदेशो यत्र दुर्भिक्षेऽपि सुखेन स्थीयते। न च कोऽपि युद्धं करोति। तदेवं स्वनगरं व्रजामि।‚इत्यवधार्य स्वस्थानं प्रति जगाम। अथासौ देशान्तरात्समायातः सर्वैरपि स्वजनैः पृष्टः—‘भोचित्राङ्ग’ कथयास्माकं देशान्तरवार्ताम्। कीदृग्देशः। किं चेष्टितं लोकस्य। क आहारः। कश्च व्यवहारस्तत्र’इति। स आह—‘किं कथ्यते विदेशस्यस्वरूपविषयः।
सुभिक्षाणि विचित्राणि शिथिलाःपौरयोषितः।
एको दोषो विदेशस्य स्वजातिर्यद्विरुध्यते॥५६॥
सोऽपि मकरस्तदुपदेशं श्रुत्वा कृतमरणनिश्चयो वानरमनुज्ञाप्य स्वाश्रयं गतः। तत्र च तेन स्वगृहप्रविष्टेनाततायिना सह विग्रहं कृत्वा दृढसत्त्वावष्टम्भनाच्च तंव्यापाद्य स्वाश्रयं च लब्ध्वा सुखेन चिरकालमतिष्ठत्। साध्विदमुच्यते—
अकृत्यं पौरुषं या श्रीः किं तयापि सुभोग्यया।
जरद्रवः समश्नाति दैवादुपगतं तृणम्॥६०॥
इति श्रीविष्णुशर्मविरचिते पञ्चतन्त्रके लब्धप्रणाशं नाम चतुर्थंतन्त्रं समाप्तम्।
अपरीक्षितकारकम्।
अथेदमारभ्यतेऽपरीक्षितकारकं नाम पञ्चमं तन्त्रम्’ यस्यायमादिमः श्लोकः—
कुदृष्टं कुपरिज्ञातं कुश्रुतं कुपरीक्षितम्।
तन्नरेण न कर्तव्यं नापितेनात्र यस्कृतम्॥१॥
तद्यथानुश्रुयते—अस्ति दाक्षिणात्ये जनपदे पाटलिपुत्रं नाम नगरम्। तत्र मणिभद्रो नाम श्रेष्ठी प्रतिवसति स्म। तस्य च धर्मार्थकाममोक्षकर्माणि कुर्वतो विधिवशाद्धनक्षयः संजातः। ततो विभवक्षयादपमानपरम्परया परं विषादं गतः। अथान्यदा रात्रौ सुप्तश्चिन्तितवान्—‘अहो धिगियं दरिद्रता। उक्तं च—
शीलं शौचं क्षान्तिर्दाक्षिण्यं मधुरता कुले जन्म।
न विराजन्ते सर्वे वित्तविहीनस्य पुरुषस्य॥२॥
मानो वा दर्पो वा विज्ञानं विभ्रमः सुबुद्धिर्वा।
सर्वंप्रणश्यति समं वित्तविहीनो यदा पुरुषः॥३॥
प्रतिदिवसं याति लयं वसन्तवाताहतेव शिशिरश्रीः।
बुद्धिर्बुद्धिमतमपि कुदुम्बभारचिन्तया सततम्॥४॥
नश्यति विपुलमतेरपि बुद्धिः पुरुषस्य मन्दविभवस्य।
घृतलवणतैलतण्डुलवस्त्रेन्धनचिन्तया सततम्॥५॥
गगनमिवं नष्टतारं शुष्कमिव सरः श्मशानमिवरौद्रम्।
प्रियदर्शनमपि रूक्षं भवति गृहं धनविहीनस्य॥६॥
न विभाव्यन्ते लघवो वित्तंविनाःपुरोऽपि निवसन्तः।
सततं जातविनष्टाः पयसामिव बुद्बुदाः पयसि॥७॥
सुकुलं कुशलं सुजनं विहाय कुलकुशलशीलविकलेऽपि।
आढ्ये कल्पतराविव नित्यं रज्यन्ति जननिवहाः॥८॥
विफलमिहपूर्वसुकृतं विद्यावन्तोऽपि कुलसमुद्भूताः।
यस्य यदा विभवः स्यात्तस्यतदा दासतां यान्ति॥९॥
लघुरयमाह न लोकः कामं गर्जन्तमपि पतिं पयसाम्।
सर्वमलज्जाकरमिह यत्कुर्वन्तीह परिपूर्णाः’॥१०॥
एवं संप्रधार्य भूयोऽप्यचिन्तयत्—‘तदहमनशनं कृत्वा प्राणानुत्सृजामि। किमनेन नो व्यर्थजीवितव्यसनेन।’ एवं निश्चयं कृत्वा सुप्तः। अथ तस्य स्वप्नेपद्मनिधिः क्षपणकरूपी दर्शनं गत्वा प्रोवाच—‛भोः श्रेष्ठिन्, मा त्वं वैराग्यं गच्छ। अहं पद्मनिधिस्तवपूर्वपुरुषोपार्जितः। तदनेनैव रूपेण प्रातस्त्वद्गृहमागमिष्यामि। तत्त्वयाहं लगुडप्रहारेण शिरसि ताडनीयः, येन कनकमयो भूत्वाऽक्षयो भवामि। अथ प्रातः प्रबुद्धः सन्स्वप्नंस्मरंश्चिन्ताचक्रमारूढस्तिष्ठति—‘अहो, सत्योऽयं स्वप्नःकिंवा असत्यो भविष्यति, न ज्ञायते। अथवा नूनं मिथ्या भाव्यम्, यतोऽहं केवलं वित्तमेव चिन्तयामि। उक्तं च—
व्याधितेन सशोकेन चिन्ताग्रस्तेन जन्तुना।
कामार्त्तेनाथ मत्तेन दृष्टः स्वप्नोनिरर्थकः॥११॥
एतस्मिन्नन्तरे तस्यभार्यया कश्चिन्नापितः पादप्रक्षालनायाहूतः।अत्रान्तरे च यथानिर्दिष्टः क्षपणकः सहसा प्रादुर्बभूव। अथ स तमालोक्य प्रहृष्टमना यथासन्नकाष्ठदण्डेन तं शिरस्यताडयत्। सोऽपि सुवर्णमयो भूत्वा तत्क्षणाद्भूमौ निपतितः। अथ स श्रेष्ठी निभृतं स्वगृहमध्ये कृत्वानापितं संतोष्य प्रोवाच—‘तदेतद्धनं वस्त्राणि च मया दत्तानि गृहाण। भद्र, पुनः कस्यचिन्नाख्येयो वृत्तान्तः।’ नापितोऽपि स्वगृहं गत्वा व्यचिन्तयत्—‘नूनमेते सर्वेऽपि नग्नकाः शिरसि दण्डहताः काञ्चनमया भवन्ति। तदहमपि प्रातः प्रभूतानाहूय लगुडैः शिरसि हन्मि येन प्रभूतं हाटकं मे भवति।’ एवं चिन्तयतो महता कष्टेन निशातिचक्राम। अथ प्रभातेऽभ्युत्थाय बृहल्लगुडमेकं प्रगुणीकृत्य क्षपणकविहारं गत्वाजिनेन्द्रस्य प्रदक्षिणत्रयं विधाय जानुभ्यामघनिं गत्वा वक्त्रद्वारन्यस्तोत्तरीयाञ्चलस्तारस्वरेणेमं श्लोकपपठत्—
‘जयन्ति ते जिना येषां केवलज्ञानशालिनाम्।
आजन्मनः स्मरोत्पत्तौ मानसे नोषरायितम्॥१२॥
अन्यच्च—
सा जिह्वाया जिनं स्तौति तच्चित्तंयज्जिने रतम्।
तावेव च करौ श्लाघ्यौ यौ तत्पूजाकरौ करौ॥१३॥
तथा च।
ध्यानव्याजमुपेत्य चिन्तयसि किंह्युमुन्मीन्य चक्षुः क्षणं
पश्यार्त्तंकृपणं प्रभो जनमिमं त्रातापि नो रक्षसि।
मिथ्या कारुणिकोऽसिनिर्घृण नरस्त्वत्तःकुतोऽन्यः पुमा
नित्येवं विकृतैर्जनैरभिहितो बुद्धो जिनः पातु वः॥१४॥
एवं संस्तुत्य ततः प्रधानक्षपणकमासाद्य क्षितिनिहितजानुचरणः, नमोऽस्तु, वन्दे’ इत्युच्चार्य लब्धधर्मवृद्ध्याशीर्वादः सुखमालिकानुग्रहलब्धव्रतादेश उत्तरोयनिबद्धग्रन्थिः सप्रश्रयमिदमाह—‘भगवन्, अद्य विहरणक्रिया समस्तमुनिसमेतेनास्मद्गृहेकर्तव्या।’ स आह—‘भोः श्रावक, धर्मज्ञोपि किमेतद् वदसि। किं वयं ब्राह्मणसमानाः यत आमन्त्रणं करोषि। वयं सदैव तत्कालपरिचर्ययाभ्रमन्ताोभक्तिभाजं श्रावकमवलोक्य तस्य गृहे गच्छामः। तेन कृच्छ्रादभ्यर्थितास्तद्गृहेप्राणधारणमात्रामशनक्रियां कुर्मः। तद्गम्यताम्। नैवं भूयोऽपि वाच्यम्।’ तच्छ्रुत्वा नापित आह—‘भगवन् वेद्भिअहं युष्मद्धर्मम्। परं भवतो बहुश्रावका आह्वयन्ति सांप्रतं पुनः पुस्तकाच्छादनयोग्यानि कर्पटानि बहुमूल्यानि प्रगुणीकृतानि। तथा पुस्तकानां लेखनाय लेखकानां च चित्तं संचितमास्ते। तत्सर्वथा कालोचितं कार्यम्।’ ततो नापितोऽपि स्वगृहं गतः। तत्र च गत्वा खादिरमयं लगुडं सज्जीकृत्य कपाटयुगलं द्वारि समाधाय सार्धप्रहरैकसमये भूयोऽपि विहाग्द्वारमाश्रित्य सर्वान्क्रमेण निष्क्रामतो गुरुप्रार्थनया स्वगृहमायायत्। तेऽपि सर्वे कर्पटवित्तलोभेन भक्तियुक्तानपि परिचितश्रावकान्परित्यज्य प्रहृष्टमनसस्तस्य पृष्ठतो ययुः। अथवा साध्विदमुच्यते—
एकाकी गृहसंत्यक्तः पाणिपात्रोदिगम्बरः।
सोऽपि संबाह्यते लोके तृष्णयाः पश्य कौतुकम्॥१५॥
जीर्यन्ते जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः।
चक्षुःश्रोत्रे च जीर्येते तृष्णैका तरुणायते॥१६॥
अपरं गृहमध्ये तान्प्रवेश्य द्वारंनिभृतं विधाय लगुडप्रहारैः शिरस्य ताडयन्। तेऽपि ताड्यमाना एकंमृताः, अन्ये भिन्नमस्ताकाःफूत्कर्तुप्तपवपक्रमिरे। अत्रान्तरे तमाक्रन्दमाकर्ण्य कोटरक्षपालैरभिहितम्—‘भो भोः, किमयं महान्कोलाहलो नगरमध्ये। तद्गम्यतांगम्यताम्।’ ते च सर्वे तदादेशकारिणस्तत्सहिता वेगात्तद्गृहं गता यावत्पश्यन्ति, तावद्रुधिरप्लावेनदेहाः पलायमाना नमका दृष्टाः। पृष्टाश्च—‘भोः, किमेतत्।’ ते प्रोचुर्यथावस्थितं नापितवृत्तान्तम्। तैरपि स नापितो बद्धो हतशेषैःसह धर्माधिष्ठानं नीतः। तैर्नापितः पृष्टः—‘भोः, किमेतद्भवता कुकृत्यमनुष्ठितम्।’ स आह—‘किं करोमि। मया श्रेष्ठिमणिभद्रगृहे दृष्ट एवंविधो व्यतिकरः।’ सोऽपि सर्वंमणिभद्रवृत्तान्तं यथादृष्टमकथयत्। ततः श्रेष्ठिनमाहूय भणितवन्तः—‘भोः श्रेष्ठिन् किं त्वया कश्चित्क्षपणको व्यापादितः। ततस्तेनापि सर्वः क्षपणकवृत्तान्तस्तेषां निवेदितः।‘अथ तैरभिहितम्—‘अहो, शूलमारोप्यतामसौ दुष्टात्मा कुपरीक्षितकारी नापितः।’ तथानुष्ठिते तैरभिहितम्—
कुदृष्टं कुपरीज्ञातं कुश्रुतं कुपरीक्षितम्।
तन्नरेण न कर्तव्यं नापितेनात्र यत्कृतम्॥१७॥
अथवा साध्विदमुच्यते—
अपरीक्ष्यन कर्तव्यं कर्तव्यं सुपरीक्षितम्।
पश्चाद्भवति संतापो ब्राह्मण्यां नकुलार्थतः॥१८॥
मणिभद्र आह—‘कथमेतत्।’ ते धर्माधिकारिणः प्रोचुः—
कथा १
कस्मिंश्चिदधिष्ठाने देवशर्मा नाम ब्राह्मणः प्रतिवति स्म। तस्य भार्या प्रसूता सुतमजनयत्। तस्मिन्नेव दिने नकुली नकुलं प्रसूता। अथ सा सुतवत्सला दारकवत्तमपि नकुलं स्तन्यदानाभ्यङ्गमर्दनादिभिः पुपोष। परं तस्य न विश्वसिति यत्कदाचिदेष स्वजातिदोषवशादस्य दारकस्य विरुद्धमाचरिष्यतीति। एवं जानाति स्वचित्ते। उक्तं च—
कुपुत्रोऽपि भवेत्पुंसां हृदयानन्दकारकः।
दुर्विनीतः कुरूपोऽपि मूर्खोऽपि ब्यसनी खलः॥१६॥
एवं च भाषते लोकश्चन्दनं किल शीतलम्।
पुत्रगात्रस्य संस्पर्शश्चन्दनादतिरिच्यते॥२०॥
सौहृदस्यन वाञ्छन्ति जनकस्य हितस्य च।
लोकाः प्रपालकस्यापि यथा पुत्रस्य बन्धनम्॥२१॥
अथ सा कदाचिच्छय्ययां पुत्रं शाययित्वा जलकुम्भमादाय पतिमुवाच—‘ब्राह्मण, जलार्थमहं तडागे यास्यामि, त्वया पुत्रोऽयं नकुलाद्रक्षणीयः।’ अथ तस्यां गतायां पृष्ठे ब्राह्मणोऽपि शून्यं गृहं मुक्त्वा भिक्षार्थं क्वचिन्निर्गतः। अत्रान्तरे दैववशात्कृष्णसर्पो बिलान्निष्क्रान्तः। नकुलोऽपि तं स्वभाववैरिणं मत्वा भ्रातूरक्षणार्थं सर्पेण सह युद्ध्वासर्पं खण्डशः कृतवान्। ततो रुधिगप्लावितवदनः सानन्दं स्वव्यापारप्रकाशनार्थं मातुः संमुखे गतः। मातापि तं रुधरक्लिन्नमुखमवलोक्य शङ्कितचित्ता ‘यदनेन दुरात्मना दारको भक्षितः’इति विचिन्त्य कोपात्तस्योपरि तं जलकुम्भं चिक्षेप एवं सा नकुलं व्यापाद्य यावत्प्रलपन्ती गृहं आगच्छति तावत्सुतस्तथैव सुप्तस्तिष्ठति। समीपे कृष्णसर्पं खण्डशः कृतमवलोक्य पुत्रवधशोकेनात्मशिरो वक्षःस्थलं च ताडयितुमारब्धा। अत्रान्तरे ब्राह्मणो गृहीतनिर्वापःसमायातो यावत्पश्यति, तावत्पुत्रशोकाभितप्ता ब्राह्मणी प्रपलति—‘भो भो लोभात्मन्, लोभाभिभूतेन त्वया न कृतं मद्वचः। तदनुभव सांप्रतं पुत्रमृत्युदुःखवृक्षफलम्। अथवा साध्विदमुच्यते—
अतिलोभो न कर्तव्यो लोभं नैव परित्यजेत्।
अतिलोभाभिभूतस्य चक्रं भ्रमति मस्तके॥२२॥
ब्राह्मण आह—‘कथमतेत्।’ सा प्राह—
कथा २
कस्मिंश्चिदधिष्ठाने चत्वारो ब्राह्मणपुत्राः परस्परं मित्रतां गता वसन्ति स्म। ते चापि दारिद्र्योपहताः परस्परं मन्त्रं चक्रुः—‘अहो धिगियं दरिद्रता। उक्तं च—
वरं वनं व्याघ्रगजादिसेवितं
जनेन हीनं बहुकण्टकावृतम्।
तृणानि शय्या परिधानवल्कलं
न बन्धुमध्ये धनहीनजीवितम्॥२३॥
तथा च।
स्वामी द्वेष्टि सुसेवितोऽपि सहसा प्रोज्झन्ति सद्वान्धवा
राजन्ते न गुणास्त्यजन्ति तनुजाः स्फारीभवन्त्यापदः।
भार्या साधु सुवंशजापि भजते नो यान्ति मित्राणि च
न्यायारोपितविक्रमाण्यपि नृणां येषां नहि स्याद्धनम्॥२४॥
शूरः सुरूपः सुभगश्च वाग्मी
शस्त्राणि शास्त्राणि विदांकरोति।
अर्थंविना नैव यशश्च मानं
प्राप्नोति मर्त्योऽत्र मनुष्यलोके॥२५॥
तानीन्द्रियाण्यविकलानि तदेव नाम।
सा बुद्धिरप्रतिहता वचनं तदेव।
अर्थोष्मणा विरहितः पुरुषः स एव
बाह्यः क्षणेन भवतीति विचित्रमेतत्॥२६॥
तद्गच्छामः कुत्रचिदर्थाय।, इति संमन्त्र्य स्वदेशं पुरं च स्वसुहृत्सहितं बान्धवयुतं गृहं च परित्यज्य प्रस्थिताः। अथवा साध्विदमुच्यते—
सत्यं परित्यजति मुञ्चति बन्धुवर्गं
शीघ्रं विहाय जननीमपि जन्मभूमिम्।
संत्यज्य गच्छति विदेशमभीष्टलोकं
चिन्ताकुलीकृतमतिः पुरुषोऽत्रलोके॥२७॥
क्रमेण गच्छन्तोऽवन्तीं प्राप्ताः। तत्र सिप्राजले कृतस्नाता महाकालं प्रणम्य यावन्निर्गच्छन्ति, तावद्भैरवानद्गोनाम योगी संमुखोबभूव। ततस्तं ब्राह्मणोचितविधिना संभाव्य तेनैव सह तस्य मठं जग्मुः। अथ तेन ते पृष्टाः—‘कुतो भवन्तः समायाताः क्क यास्यथ। किं प्रयोजनम्।ततस्तैरभिहितम्—,वयं सिद्धियात्रिकाः। यत्र धनाप्तिर्नृत्युर्वा भविष्यतीत्येष निश्चयः। उक्तं च—
दुष्पाप्याणि बहूनि च लभ्यन्ते वाञ्छितानि द्रविणानि।
अवसरतुलिताभिरलं तनुभिः साहसिकपुरुषाणाम्॥२८॥
तथा च।
पतति कदाचिन्नभसः खाते पातालतोऽपिजलमेति।
दैवमचिन्त्यं बलवद्बलवान्न तु पुरुषकारोऽपि॥२९॥
अभिमतसिद्धिरशेषा भवति हि पुरुषकारेण।
दैवमिति यदपि कथयसि पुरुषगुणः सोऽप्यदृष्टाख्यः॥३०॥
भयमतुलं गुरुलोकात्तृणमिव तुलयन्ति साधु साहसिकाः।
प्राणानद्भुतमेतच्चरितं चरितं ह्युदाराणाम्॥३१॥
तस्य कथं न चला स्याद्लक्ष्मी विष्णोर्नृसिंहकस्यापि।
मासांश्चतुचरो निद्रां यः सेवति जलगतः सततम्॥३३॥
दुरधिगमः परभागो यावत्पुरुषेण सहिसंन कृतम्।
जयति तुलामधिरूढो भास्वानिहजलदपटलानि॥३४॥
तत्कथ्यतामस्माकं कश्चिद्धनोपायो विवरप्रवेश शाकिनीसाधनश्मशान सेवन महामांसविक्रय साधकवर्ति प्रभृतीनामेकतम इति अद्भुतशक्तिर्भवाञ्श्रूयते। वयमप्यतिसाहसिकाः। उक्तं च—
महान्त एव महतामर्थंसाधयितुं क्षमाः।
ऋते समुद्रादन्यः को बिभर्ति वडवानलम्॥३५॥
भैरवानन्दोऽपि तेषां सिद्ध्यर्थं बहूपायं सिद्धार्तिचतुष्टयं कृत्वार्पयत्। आह च—‘गम्यतां हिमालयदिशि। तत्र संप्राप्तानां यत्र पतिष्यति, तत्र निधानमसंदिग्धं प्राप्त्यथ। तत्र स्थानं खनित्वा निधिं गृहीत्वा व्याघ्र..ताम्। तथानुष्ठिते तेषां गच्छतामेकतमस्य हस्ताद् र्तिर्निपपात अथासौ यावत्त्वंप्रदेशं खनति ताव..म्रमयीभूमिः। ततस्तेनाभिहितम्—‘अहो, गृह्यतां स्वेच्छया ताम्रम्। अन्ये प्रोचुः—‘भो मूढ, किमनेन क्रियते तत्प्रभूतमपि दारिद्र्यं न नाशयति। तदुत्तिष्ठ। अग्रतो गच्छामः।‘सोऽब्रवीत्—‘यान्तु भवन्तः। नाहमग्रेयास्यामि। एवमभिधाय ताम्रं यथेच्छया गृहीत्वा प्रथमो निवृत्तः। ते त्रयोऽप्यग्रे प्रस्थिताः। अथ किंचिन्मात्रं गतस्याग्रेसरस्य वर्तिर्निपपात। सोऽपि यावत्खनितुमारब्धस्तावद्रूप्यमयी क्षितिः। ततः प्रहर्षितः प्राह—‘अहो भो, गृह्यतां यथेच्छया रूप्यम्। नाग्रे गन्तव्यम्।’ तावूचतुः—‘भोः, पृष्ठतस्ताम्रमयी भूमिः, अग्रतो रूप्यमयी’। तान्नूनमग्रेव सुर्णमयी भविष्यति। तदनेन प्रभूतेनापि दारिद्र्यनाशो न भवति। तदा वामग्रे यात्यावः। एवमुक्त्वा द्वावप्यग्रे प्रस्थितौ। सोऽपि स्वशक्त्या रूप्यमादाय निवृत्तः। तयोरपि गच्छतो रेकत्याग्रे वर्तिः पपात। सोऽपि प्रहृष्टो यावत्खनति, तावत्सुवर्णभूमिं दृष्ट्वा द्वितीयं प्राह—‘भोः, गृह्यतां स्वेच्छया सुवर्णम्। सुवर्णादन्यन्न किंचिदुत्तमं भविष्यति। स प्राह—‘मूढ, न किंचिद्वेत्सि। प्राक्ताम्रम्, ततो रूप्यम्, ततः सुवर्णम्। तन्नूनमतः परं रत्नानि भविष्यन्ति। येषामेकतमेनापि दारिद्य्रनाशो भवति। तदुत्तिष्ठ। अग्रे गच्छावः। किमनेन भारभूतेनापि प्रभूतेन।’ स आह—‘गच्छतु भवान्। अहमत्र स्थितस्त्वां प्रतिपालयिष्यामि तथानुष्ठिते सोऽपि गच्छन्नेकाकीग्रीष्मार्कप्रतापसंतप्ततनुः पिपासाकुलितः सिद्धिमार्गच्युत इतश्चेतश्च बभ्राम। अथ भ्राम्यन्स्थलोपरि पुरुषमेकं रुधिरसावितगात्रं भ्रमच्चक्रमस्तकमपश्यत्। ततो द्रुततरं गत्वातमवोचत्—भोः, को भवान्। किमेवं चक्रेण भ्रमता शिरसि तिष्ठति। तत्कथय मे यदि कुत्रचिज्जलमस्ति।’ एवं तस्य प्रवदतस्तच्चक्रं तत्क्षणात्तस्य शिरसो ब्रह्मणमस्तके चटितम्। स आह—‘भद्र, किमेतत्। स आह—‘ममाप्येवमेवैतच्छिरसि चटितम्।’ स आह—‘तत्कथय वदैतदुत्तरिष्यति। महती मे वेदना वर्तते।’ स आह—‘यदा त्वमिवकश्चिद्धृतसिद्धिवर्तिरेवमागत्य त्वामालापयिष्यति, तदा तस्य मस्तके चटिष्यति। स आह—क्रियान्कालस्तवैवं स्थितस्य।’ स आह—‘सांप्रतं को राजा धरणीतले।’ स आह—वीणावत्सराजः’ स आह—‘अहं तावत्कालसंख्यां न जानामि। परं यदा रामो राजासीत्तदाहं दारिद्र्योपहतः सिद्धिवर्तिमादायानेन पथा समायातः। ततो मयान्योनरोमस्तकघृतचक्रो दृष्टः पृष्टश्च। ततश्चैतज्जातम्।’ स आह—‘भद्र, कथं तवैवं स्थितस्य भोजनजलप्राप्तिरासीत्। आह—‘भद्र, धनदेननिधानहरणभयात्सिद्धानामेतद्भयं दर्शितम्। तेन कश्चिदपि नागच्छति। यदि कश्चिदायाति स क्षुत्पिपासानिद्रारहितो जरामरणवर्जितः केवलमेवं वेदनामनुभवतीति। तदाज्ञापय मां स्वगृहाय।’ इत्युक्त्वा गतः। अथ तस्मिंश्चिरयति स सुवर्णसिद्धिस्तस्यान्वेषणपरस्तत्पदपङ्क्तया यावत्किचिद्वनान्तरमागच्छति, तावद्रुधिरप्लावितशरीरस्तांक्ष्णचक्रेण मस्तके भ्रमता सवेदनः कृणन्नपविष्टस्तिष्ठति। तत्समीपवर्तिना भूत्वासबाष्पं पृष्टः—‘भद्र, किमेतत्।’ स आह—‘विधिनियोगः।’ स आह—‘कथं तत्। कथय कारणमेतस्य।’ सोऽपि तेन पृष्टः सर्वंचक्रवृत्तान्तमकथयत्। तच्छ्रुत्वासौ तं विगर्हयन्निदमाह—‘भोः, निषिद्धस्त्वं मयानेकशो नशृणोषि मे वाक्यम्। किं क्रियते। विद्यावानपि कुलीनोऽपि बुद्धिरहितः। अथवा साध्विदमुच्यते—
वरं बुद्धिर्न सा विद्या विद्याया बुद्धिरुत्तमा।
बुद्धिहीना विनश्यन्ति यथा ते सिंहकारकाः॥३६॥
चक्रधर आह—कथमेतत्।’ सुवर्णसिद्धिराह—
कथा ३
कस्मिंश्चिदधिष्ठाने चत्वारो ब्राह्मणपुत्राः परस्परं मित्रभावमुपगता बसन्ति स्म। तेषां त्रयः शास्त्रपारं गताः, परंतु बुद्धिरहिताः। एकस्तु बुद्धिमान्, केवलं शास्त्रपराङ्मुखः। अथ तैः कदाचिन्मित्रैर्मन्त्रितम्—‘को गुणो विद्याया येन देशान्तरं गत्वा भूपतीन्परितोष्यार्थोपार्जना न क्रियते। तत्पूर्वदेशं गच्छामः।’ तथानुष्ठिते किंचिन्मार्गंगत्वा तेषां ज्येष्ठतरः प्राह—‘अहो, अस्माकमेकश्चतुर्थो मूढः केवलं बुद्धिमान्। न च राजप्रतिग्रहो बुद्ध्यालभ्यते विद्यां विना। तन्नास्मै स्वोपार्जिनं दात्यामि। तद्गच्छतु गृहम्।’ ततो द्वितीयेनाभिहितम्—‘भोः सुबुद्धे, गच्छ त्वं स्वगृहे, यतस्ते विद्या नास्ति। ततस्तृतीयेनाभिहितम्—‘अहो, न युज्यत एवं कर्तुं यतो वयं वाल्यात्प्रभृत्येकत्र क्रीडिताः। तदागच्छतु महानुभावोऽस्मदुपार्जितवित्तस्यसमभागी भविष्यतीति। उक्तं च—
किं तया क्रियते लक्ष्म्या या सम्पदिव केवला।
या न च्छायेव सामान्या पथिकैरुपभुज्यते॥३७॥
तथा च।
अयं निजः परो वेति गणना लघुचेतसाम्।
उदारचरितानां तु वसुधैव कुटुम्बकम्॥३८॥
तदागच्छत्वेषोऽपि’ इति। तथानुष्ठिते तैर्मार्गाश्रितैरटव्यां मृतसिंहत्यास्थीनि दृष्टानि ततश्चैकेनाभिहितम्—‘अहो, अद्यविद्याप्रत्ययः क्रियते। किंचिदेतत्सत्त्वं मृतं तिष्ठति। तद्विद्याप्रभावेण जीवनसहितं कुर्मः। अहमस्थिसंचयं करोमि।’ ततश्चैकेनौत्सुक्यादस्थिसंचयः कृतः। द्वितीयेन चर्ममांसरुधिरं संयोजितम्। तृतीयोऽपि यावज्जीवनं संचारयति तावत्सुबुद्धिना निषिद्धः—‘भोः, तिष्ठतु भवान्। एष सिंहो निष्पाद्यते। यद्येनं सजीवं करिष्यसि ततः सर्वानपि व्यापादयिष्यति।’ इति तेनाभिहितः स आह—‘धिङ् मूर्ख, नाहं विद्याया विफलतां करोमि।‘ततस्तेनाभिहितम् तर्हि प्रतीक्षस्व क्षणं यावदहं वृत्तमारोहामि। तथानुष्ठिते यावत्सजीवः कृतस्ताद्वत्तेत्रयोऽपि सिंहेनोत्थाय व्यापादिताः। स च पुनर्वृक्षादवतीर्यगृहे गतः। अतोऽहं ब्रवीमि—‘वरं बुद्धिर्न सा विद्या’ इति। अतः परमुक्तंच—
अपि शास्त्रेषु कुशला लोकाचारविवर्जिताः।
सर्वे ते हास्यतां यान्ति यथा ते मूर्खपण्डिताः॥३६॥
चक्रधर आह ‘कथमेतत्।’ सोऽब्रवीत्—
कथा ४
कस्मिदिधिष्ठाने चत्वारो ब्राह्मणाः परस्परं मित्रत्वमापन्ना वसन्ति स्म।बालभावेमतिरजायत—‘भोः, देशान्तरं गत्वा विद्याया उपार्जनं क्रियते।’ अथान्यस्मिन्दिवसे ब्राह्मणाः परस्परं निश्चयं कृत्वा विद्योपार्जनार्थं कान्यकुब्जे गताः। तत्र च विद्यामठे गत्वा पठन्ति। एवं द्वादशाब्दानि यावदेकचित्ततया विद्याकुशलास्ते सर्वे संजाताः, ततस्तैश्चतुर्भिर्मिलित्वोक्तम—‘वयं सर्वविद्यापारे गताः। तदुपाध्यायमुत्कलापयित्वा स्वदेशे गच्छामः। ‘तथैव क्रियताम्।’ इत्युक्त्वा ब्राह्मणा उपाध्यायमुत्कलापयित्वानुज्ञां लब्ध्वा पुस्तकानि नीत्वा प्रचलिताः। यावत्किचिन्मार्गं यान्ति तावद्द्वौपन्थानौ सतायातौ। उपविष्टाः सर्वे। तत्रैकः प्रोवाच—‘केन मार्गेण गच्छामः।’ एतस्मिन्समये तस्मिन्पत्तने कश्चिद्वणिक्पुत्रो मृतः। तस्य दाहार्थे महाजनो गतोऽभूत्। ततश्चतुर्णां मध्यादेकेन पुस्तकमवलोकितम्—
‘महाजनो येन गतः स पन्थाः।’
इति। ‘तन्महाजनमार्गेण गच्छामः।’ अथ ते पण्डिता यावन्महाजनमेलापकेन सह यान्ति तानद्रासभः कश्चित्तत्र श्मशाने दृष्टः। अथ द्वितीयेन पुस्तकमुद्धाट्यावलोकितम्—
‘उत्सवे व्यसने प्राप्ते दुर्भिक्षे शत्रुसंकटे।
राजद्वारे श्मशाने च यस्तिष्ठति स बान्धवः॥४०॥
तद्रहो अयमस्मदीयो बान्धवः।’ ततः कश्चित्तस्य ग्रीवायां लगति। कोऽपि पादौ प्रक्षालयति। अथ यावत्तेपण्डिता दिशामवलोकनं कुर्वन्ति‚ तावत्कश्चिदुष्टो दृष्टः। तैश्चोक्तम्—‘एतत्किम्।’ तावत्तृतीयेन पुस्तकमुद्धाट्योक्तम्—
‘धर्मस्य त्वरिता गतिः।’
‘एष धर्मस्तावत्।’ चतुर्थेनोक्तम्—
‘इष्टं धर्मेण योजयेत्।’
अथ तैश्च रासभ उष्ट्रग्रीवायां बद्धः। केनचिद्रजकत्याग्रे कथितम्। यात्वद्रजकस्तेषां मूर्खपण्डितानां प्रहारकरणाय समायातास्तावत्ते प्रनष्टाः। यावदग्रे किंचित्स्ताोकं मार्गं यान्ति, तावत्काचिन्नदी समासादिता। तत्तत्याजलमध्ये पलाशपत्रमायातं दृष्ट्वा पण्डितेनैकेनोक्तम्**—**
‘आगमिष्यति यत्पत्रं तदस्मांस्तारयिष्यति।’
एतत्कथयित्वा तत्पत्रस्योपरि पतितो यावन्नद्यानीयते तावत्तं नीयमानवलोक्यान्येन पण्डितेन केशान्तं गृहीत्वोक्तम्—
‘सर्वनाशे समुत्पन्नेअर्धंत्यजति पण्डितः।
अर्धेन कुरुते कार्यं सर्वनाशो हि दुःसुहः॥४१॥
इत्युक्त्वा तस्य शिरश्छेदो विहितः। अथ तैश्चपश्चाद्गत्वा कश्चिद्ग्राम आसादितः। तेऽपि ग्रामीणैर्निमन्त्रिताः पृथक्पृथग्गृहेषु नीताः। तत एकस्य सूत्रिका घृतखण्डसयुक्ता भोजने दत्ता। ततो विचिन्त्य पण्डितेनोक्तम्—‘यत्—
‘दीर्घसूत्री विनश्यति।’
एवमुक्त्वा भोजनं परित्यज्य गतः। तथा द्वितीयस्य मण्डका दत्ताः। तेनाप्युक्तम्—
‘अतिविस्तारविस्तीर्णं तद्भवेन्न चिरायुषम्।’
स च भोजनं त्यक्त्वा गतः। अथ तृतीयस्य वटिकाभोजनं दत्तम्। तत्रापि पण्डितेनोक्तम्—
‘छिद्रेष्वनर्था बहुलीभवन्ति।’
एवं तेऽपि त्रयः पण्डिताः क्षुत्क्षामकण्ठा लोकैर्हास्यमानास्ततः स्थानात्स्वदेशं गताः। सुवर्णसिद्धिराह—‘यत्त्वंलोकव्यवहारमजानन्मया वार्यमाणोऽपि न स्थितः, तत ईदृशीमवस्थामुपगतः। अतोऽहं ब्रबीमि—‘अपि शास्त्रेषु कुशलाः’ इति॥ तच्छ्रुत्वाचक्रधर आह—‘अहो, अकारणमेतत्। बहुबुद्धयोऽपि विनश्यन्ति दुष्टदैवेन नाशिताः। स्वल्पबुद्धयोऽप्येकस्मिन्कुले नन्दन्ति संतम्। उक्तं च—
अरक्षितं तिष्ठति दैवरक्षितं
सुरक्षितं दैवहतं विनश्यति।
जीवत्यनाथोऽपि वने विरर्जितः
कृतप्रसङ्गोपि गृहे न जीवति॥४२॥
तथा च—
शतबुद्धिः शिरस्थोऽयं लम्बते च सहस्त्रधीः।
एकबुद्धिरहं भद्रे क्रीडामि विमले जले॥४३॥
सुवर्णसिद्धिराह—‘कथमेतत्।’ स आह—
कथा ५
कस्मिंश्चिज्जलाशये शतबुद्धिः सहस्रबुद्धिश्च द्वौ मस्त्यौ निवसतः स्म। अथ तयोरेकबुद्धिर्नाम मण्डूको मित्रतां गतः। एवं ते त्रयोऽपि जलतीरे कंचित्कालं वेलायां च सुभाषितगोष्ठीसुखमनुभूयभूयोऽपि सलिलं प्रविशन्ति। अथ कदाचित्तेषां गोष्ठागतानां जालहस्ताधीवराःप्रभूतैर्मत्स्यैर्व्यापादितैर्मस्तके विधृतैरस्तमनवेलायां तस्मिञ्जलाशये समायताः। ततः सलिलाशयं दृष्ट्वामिथः प्रोचुः— ‘अहो, बहुमरस्योऽयं हृदोदृश्यते, स्वल्पसलिलश्च। तत्प्रभातेऽत्रागमिष्यामः।’ एवमुक्त्वा स्वगृहं गताः।मत्स्याश्चविषण्णवदना मिथो मन्नं चक्रुः। ततो मण्डूक आह—भोः शतबुद्धे, श्रुतंधीवरोक्तं भवता। तत्किमत्र युज्यते कर्तुम्। पलायनमवष्टम्भोवा। यत्कर्तुंयुक्तं भवति तदा दिश्यतामद्य।’ तच्छ्रुत्वा सहस्रबुद्धिः प्रहस्यआह—‘भो मित्र, मा भैषीः। यतो वचनस्मरणमात्रादेव भयं न कार्यम्। न भेतव्यम्।
उक्तं च—
सर्पाणांचखलानां च सर्वेषां दुष्टचेतसाम्।
अभिप्राया न सिध्यन्तितेनेदं वर्तते जगत्॥४४॥
तत्तावत्तेषामागमनमपि न संपत्त्यते। भविष्यति वा तर्हि त्वां बुद्धिप्रभावेणात्मसहितंरक्षयिष्यामि यतोऽनेकां सलिलगतिचर्यामहं जानामि।’ तदाकर्य शतबुद्धिराह—‘भोः, युक्तमुकं भवता।सहस्रबुद्धिरेव भवान्। अथवा साध्विदमुच्यते—
बुद्धेर्बुद्धिमतां लोके नास्त्यगम्यं हि किंचन।
बुद्ध्यायतो हता नन्दाश्राणक्येनासिपाखकः॥४५॥
तथा च—
न यत्रास्ति गतिर्वायो रश्मीनां च विवस्वतः।
तत्रापि प्रविशत्याशु बुद्धिर्बुद्धिमतां सदा॥४६॥
ततो वचनश्रवणमात्रोदपि पितृपर्यायागतं जन्मस्थानं त्यक्तुं न शक्यते। उक्तं च—
न तत्स्वर्गेऽपि सौख्यं त्याद्दिव्यस्पर्शनशोभने।
कुस्थानेऽपि भवेत्पुंसां जन्मनो यत्र संभवः॥४७॥
तन्न कदाचिदपि गन्तव्यम्। अहं त्वां सुबुद्धिप्रभावेण रक्षयिष्यामि।’ मण्डूक आह—‘भद्रौ मम तावदेकैव बुद्धिः पलायनपरा। तदहमन्यं जलाशयमद्यैव सभार्यो यात्यामि।’ एवमुक्त्वा स मण्डूको रात्रावेवान्यजलाशयं गतः। धीवरैरपि प्रभात आगत्य जघन्यमध्यमोत्तमजलचरा मत्स्यकूर्ममण्डूकर्कटादयो गृहीताः। तावपि शतबुद्धिसहस्रबुद्धी सभार्यौ पलायमानौ चिरमात्मानं गतिविशेषविज्ञानैः कुटिलचारेण रक्षन्तौ जाले पतितौ व्यापादितौ च। अथापराह्णसमये प्रहृष्टास्ते धीवराः स्वगृहं प्रति प्रस्थिताः। गुरुत्वाश्चैकेन शतबुद्धिः स्कन्धे कृतः। सहस्रबुद्धिः प्रलम्बमानो नीयते। ततश्च वापीकण्ठोपगतेन मण्डूक्रेन तौ तथा नीयमानौ दृष्ट्वाभिहिता स्वपत्नी—‘प्रिये, पश्य पश्य।
शतबुद्धिः शिरस्थोऽयं लम्बते च सहस्रधीः।
एकबुद्धिरहं भद्रे क्रीडामि विमले जले॥४८॥
अतोऽहं ब्रवीमि—‘शतबुद्धिः शिरस्थोऽयम्’ इति॥नैकान्ते बुद्धिरपि प्रमाणम्। सुवर्णसिद्धिराह—‘यद्यप्येतदन्ति तथापि मित्रवचनमनुल्लङ्घनीयम्। परं किं क्रियते। निवारितोऽपि मया न स्थितोऽतिलौल्याद्विद्याहंकाराच्च। अथवा साध्विदमुच्यते—
साधु मातुल गीतेन मया प्रोक्तोऽपि न स्थितः।
अपूर्वोऽयं मणिर्बद्धः संप्राप्तं गीतलक्षणम्॥४६॥
चक्रधर आह— ‘कथमेतत्।’ सोऽब्रवीत्—
कथा ६
कस्मिंश्चिदधिष्ठाने ऊद्धतो नाम गर्दभः प्रतिवसति स्म। स सदैव रजकगृहे भारोद्वहनं कृत्वा रात्रौ स्वेच्छया पर्यटति। ततः प्रत्यूषेबन्धनभयात्स्वयमेव रजकगृहमायाति। रजकोऽपि ततस्तं बन्धनेन नियुनक्ति। अथ तस्य रात्रौ पर्यटतः क्षेत्राणि कदाचिच्छृगालेन सह मैत्री संजाता। स च पीवरत्वाद्वतिभङ्ग कृत्वा कर्कटिकाक्षेत्रे शृगालराहितः प्रविशति। एवं तौ यदृच्छया चिर्भटिकाभरणं कृत्वा प्रत्यहंप्रत्यूषे स्वस्थानं व्रजतः। अथ कदाचित्तेन मदोद्धतेन रासभेन क्षेत्रमध्यस्थितेन शृगालोऽभिहितः—‘भो भगिनीसुत, पश्य पश्य। अतीव निर्मालारजनी। तदहं गीतं करिष्यामि। तत्कथय कतमेन रागेण करोमि।’ स आह—‘माम, किमनेन वृथानर्थप्रचालनेन यतश्चौरकर्मप्रवृत्तावावां, निभृतैश्चचौरजारैरत्र स्थातव्यम्। उक्तं च—
कामीयुत्कस्यजेगैर्यं निद्रालुश्चेत्सचौरिकाम्।
जिह्वातौल्यं रुजाक्रान्तो जीवितं योऽत्र वाञ्छति॥५०॥
अपरं त्वदयं गीतं न मधुरस्वरम्। शङ्खशब्दानुकारं दूरादपि श्रूयते। तदत्र क्षेत्रे रक्षापुरुषाः सुप्ताः सन्ति। तउत्थाय वधं बन्धं वा करिष्यन्ति। तद्भक्षय तावदमृतमयीश्चिर्भटीः मा त्वमत्र गीतव्यापारपरो भव।‘तच्छ्रुत्वा रासभ आह—‘भोः, बनाश्रयत्वात्वं गीतरसं न वेत्सि। तेनैतद्बवीषि। उक्तं च—
शरज्ज्योत्स्नाहते दूरं तमसि प्रियसंनिधौ।
धन्यानां विंशति श्रोत्रे गीतझङ्कारजासुधा’॥५१॥
शृगाल आह—‘माम, अस्त्येतत्। परं न वेस्सि त्वं गीतम्। केवलमुप्रदसि। तर्हि तेन स्वार्थभ्रंशकेन।’ रासभ आह—‘धिग्धिङ्मूर्ख, किमहं न जानामि गीतम्। तद्यथा तस्यभेदाः शृणु।
सप्त स्वरास्त्रयो ग्रामा मूर्च्छनाश्चैकविशतिः।
तालास्त्वेकोनपञ्चाशतिम्रो मात्रा लयास्त्रयः॥५२॥
स्थानत्रयं यतीनां च षडास्यानि रसा नव।
रागाः षटत्रिंशतिर्भावाश्चस्त्रारिंशत्ततःस्मृताः॥५३॥
पञ्चाशीत्यधिकं ह्येतद्गीताङ्गानां शतं स्मृतम्।
स्वयमेव पुरा प्रोक्तं भरतेन श्रुतेः परम्॥५४॥
नान्यद्गीतात्प्रियं लोके देवानामपि दृश्यते।
शुष्कस्नायुस्वराह्लादान्त्र्यक्षं जग्राह रावणः॥५५॥
तत्कथं भगिनीसुत, मामनभिज्ञंवदन्निवारयसि शृगाल आह—माम, यद्येवं तदहं तावद्दृतेर्द्वारस्थितः क्षेत्रपालमवलोकयामि। त्वं पुनः स्वेच्छया गीतं कुरु।’ तथानुष्ठिते रासभरटनमाकर्ण्य क्षेत्रपःक्रोधाद्दन्तान्घर्षयन्प्रधावितः। यावद्रासभ दृष्टस्तावल्लगुडप्रहारैस्तथा हतः, यथा प्रताडितो भूपृष्ठे पतितः ततश्च सच्छिद्रमुलूखलं गले बद्ध्वाक्षेत्रपालः प्रसुप्तः। रासभोऽपि स्वजातिस्वभावाद्रतवेदनः क्षणेनाभ्युत्थितः। उक्तं च—
सारमेयस्य चाश्वस्य रासभस्य विशेषतः।
मुहूर्तात्परतो न स्यात्प्रहारजनिता व्यथा॥५६॥
ततस्तमेवोलूखलमादाय इतिं चूर्णयित्वा पलायितुमारब्धः। अत्रान्तरे शृगालोऽपि दूरादेव तं दृष्ट्वा सस्मितमाह—
साधु मातुल गीतेन मया प्रोक्तोऽपि न स्थितः।
अपूर्वोऽयं मणिर्बद्धः संप्राप्तं गीतलक्षणम्॥५७॥
तद्भवानपि मया वार्यप्राणोऽपि न स्थितः। तच्छ्रुत्वाचक्रधर आह—भोमित्र, सत्यमेतत्। अथवा सध्विदमुच्यते—
यस्य नास्ति स्वयं प्रज्ञा मित्रोक्तं न करोति यः।
स एव निधनं याति यथा मन्थरकौलिकः॥५८॥
सुवर्णसिद्धिराह—,कथमेतत्। सोऽब्रवीत्—
कथा ७
कस्मिंश्चिदधिष्ठाने मन्थरको नाम कौलिकः प्रतिवसति स्म। तस्य कदाचित्पट्टकर्माणिकुर्वतःसर्वपट्टकर्मकाष्ठानि भग्नानि। ततः स कुठारमादाय वने काष्ठार्थं गतः। स च समुद्रतटं यावद्भ्रमन्प्रयातः, ततश्च तत्र शिंशपापादपस्तेन दृष्टः। ततश्चिन्तितवान्—‘महानयं वृक्षो दृश्यते। तदनेन कर्तितेन प्रभूतानि पट्टकर्मोपकरणानि भविष्यन्ति।’ इत्यवधार्य तस्योपरि कुठारमुत्क्षिप्तवान्। अथ तत्र वृक्षे कश्चिद्व्यन्तरः समाश्रित श्रासीत्। अथ तेनाभिहितम्—भोः मदाश्रयोऽयंपादपः सर्वथा रक्षणीयः, यतोऽहमत्र महासौख्येन तिष्ठामि समुद्रकल्लोलस्पर्शनाच्छीतवायुनाप्यायितः।’ कौलिक आह—‘भोः किमहं करोमि। दारुसामग्रीं विना मे कुटुम्बं बुभुक्षया पीड्यते। तस्मादन्यत्र शीघ्रं गम्यताम्। अहमेनं कर्तयिष्यामि।’ व्यन्तर आह—भोः, तुष्टस्तवाहम्। तत्प्रार्थ्यतामभीष्टं किंचित्। रक्षैनं पादपम्’ इति। कौलिक आह—‘यद्येवं तदहं स्वगृहं गत्वा स्वमित्रं स्वभार्यां च पृष्ट्वागमिष्यामि। ततस्त्वया देयम्।’ अथ ‘तथा’ इति प्रतिज्ञाते व्यन्तरेण स कौलिकः प्रहृष्टः स्वगृहं प्रति निवृत्तः। यावदग्रे गच्छति तावद्ग्रामप्रवेशे निजसुहृदं नापितमपश्यत्। ततस्तस्य व्यन्तरवाक्यं निवेदयामास—‘यदहो मित्र, मम कश्चिद्व्यन्तरः सिद्धः। तत्कथय किं प्रार्थये। अहं त्वां प्रष्टुमागतः।’ नापित आह—‘भद्र, यद्येवं तद्राज्यं प्रार्थय। येन त्वंराजा भवसि, अहं त्वन्मन्त्री च द्वावपीह सुखमनुभूय परलोकसुखमनुभवावः। उक्तं च—
राजा दानपरो नित्यमिह कीर्तिमवाप्य च।
तत्प्रभावात्पुनः स्वर्गे स्पर्धते त्रिदशैः सह’॥५९॥
कौलिक आह—‘अस्त्येतत्परम्, तथापि गृहिणीं पृच्छामि।’ स आह—भद्र, शास्त्रविरुद्धमेतद्यत्स्त्रिया सह मन्त्रः, यतस्ताः, स्वल्पमतयो भवन्ति।
कौलिक आह—‘तथापि प्रष्टव्या सा मया। यतः पतिब्रता सा। अपरं तामपृष्ट्वाहं न किंचित्करोमि। एवं तमभिधाय सत्वरं गत्वा तामुवाच—‘प्रिये, अद्यास्माकं कश्चिद्व्यन्तरः सिद्धः। स वाञ्छितं प्रयच्छति। तदहं त्वां प्रष्टुमागतः। तत्कथय किं प्रार्थये। एष तावन्मम मित्रं नापितो वदत्येवं यद्राज्यं प्रार्थयस्व।’ साह—‘आर्यपुत्र, का मतिर्नापितानाम्। तन कार्यं तद्वचः। उक्तं च—
चारणैर्बंन्दिभिर्नीचेर्नामितैर्बालकैरपि।
न मन्त्रं मतिमान्कुर्यात्सार्धं भिक्षुभिरेव च॥६०॥
अपरं महती क्लेशपरम्परैषा राज्यस्थितिः। संधिविग्रहयानासनसंश्रयद्वैधीभावादिभिः कदाचित्पुरुषस्य सुखं न प्रयच्छतीति। यतः—
यदैवराज्ये क्रियतेऽभिषेक–
स्तदैव याति व्यसनेषु बुद्धिः।
घटा नृपाणामभिषेककाले
सहाम्भसैवापदमुद्गिरन्ति॥६१॥
तथा च।
रामस्य व्रजनं वने निवसनं पाण्डोः सुतानां वनं
वृष्णीनां निधनं नलस्य नृपते राज्यात्परिभ्रंशनम्।
सौदासं तदवस्थमर्जुनवधं संचिन्त्य लङ्केश्वरं
दृष्ट्वा राज्यकृते विडम्बनगतं तस्मान्नतद्वाञ्छयेत्॥६२॥
यदर्थं भ्रातरः पुत्रा अपि वाञ्छन्ति ये निजाः।
बधं राज्यकृतां राज्ञां तद्राज्यं दूरतस्त्यजेत्॥६३॥
कौलिक आह—‘सत्यमुक्तं भवत्या। तत्कथय किं प्रार्थये।’ साह—‘स्वं तावदेकं परं नित्यमेव निष्पादयसि। तेन सर्वा व्ययशुद्धिः संपद्यते। इदानीं त्वमात्मनोऽन्यद्बाहुयुगलं द्वितीयं शिरश्चयाचस्व। येन पटद्वयं संपादयसि पुरतः पृष्ठतश्च। एकस्य मूल्येन गृहे यथापूर्वं व्ययं संपादयिष्यसि। द्वितीयस्य मूल्येन विशेषकृत्यानि करिष्यसि। एवं सौख्येन स्वजातिमध्ये श्लाघ्यमानस्य कालो यास्यति लोकद्वयस्योपार्जना भविष्यति।’ सोऽपि तदाकर्ण्य प्रहृष्टः प्राह—‘साधु पतिव्रते, साधु। युक्तमुक्तं भवत्या। तदेवं करिष्यामि। एष मे निश्चयः।‘ततोऽसौ गत्वा व्यन्तरं प्रार्थयांचक्रे—‘भोः, यदि ममेप्सितं प्रयच्छसि, तद्देहि मे द्वितीयं बाहुयुगलं शिरश्च। एवमभिहिते तत्क्षणादेव द्विशिराश्चतुर्बाहुश्च संजातः। ततो हृष्टमना यावद्गेहमागच्छति, तावल्लोकै राक्षसोऽयमिति मन्यमानैर्लगुडपाषाणप्रहारैस्ताडितो मृतश्च। अतोऽहं ब्रवीमि—‘यस्य नास्ति स्वयं प्रज्ञा’ इति॥चक्रधर आह—‘भोः सत्यमेतत्। सर्वोऽपि जनोऽश्रद्धेयामाशापिशाचिकां प्राप्य हास्यपदवीं याति। अथवा साध्विदमुच्यते केनापि—
अनागतवतीं चिन्तामसंभाव्यां करोति यः।
स एव पाण्डुरः शेते सोमशर्मपिता यथा॥६४॥
सुवर्णसिद्धिराह—‘कथमेतत्। सोब्रबीत्—
कथा ८
कस्मिंश्चिन्नगरे कश्चित्स्वभावकृपणो नाम ब्राह्मणः प्रतिवसति स्म तेन भिक्षार्जितैः सक्तुभिर्भुक्तशेषैः कलशः संपूरितः। तं च घटं नागदन्तेऽवलम्ब्य तस्याधस्तात्खट्वां निधाय सततमेकदृष्ट्या तमवलोकयति। अथ कदाचिद्रात्रौ सुप्तश्चिन्तयामास—‘यत्परिपूर्णोऽयं घटस्तावत्सक्तुभिर्वर्तते तद्यदि दुर्भिक्षं भवति तदनेन रूप्यकारणां शतमुत्पद्यते। ततस्तेन मयाजाद्वयं ग्रहीतव्यम्। ततः षाण्मासिकप्रसववशात्ताभ्यांयूथं भविष्यति। ततोऽजाभिः प्रभूता गा ग्रहीष्यामि। गोभिर्महिषीः, विक्रयात्मभूता अश्वाभविष्यन्ति। तेषां विक्रयात्मभूतं सुवर्णं भविष्यति। सुवर्णेनचतुःशालं गृहं संपद्यते। ततः कश्चिद्बाह्मणो मम गृहमागत्य प्राप्तवयस्कां रूपाकन्यां दास्यति। तत्सकाशात्पुत्रो मे भविष्यति तस्याहं सोमशर्मेति नाम करिष्यामि। ततस्तस्मिञ्जानुचलनयोग्ये संजातेऽहंपुस्तकं गृहीत्वाश्वशालायाः पृष्ठदेश उपविष्टस्तदवधारयिष्यामि। अत्रान्तरे सोमशर्मा मां दृष्ट्वा जनन्युत्सङ्गाज्जानुप्रचलनपरोऽश्वखुरासन्नवर्त्ती मत्समीपमागमिष्यति। ततोऽहं ब्राह्मणीं कोपाविष्टोऽभिधास्यामि—‘गृहाण तावद्वालकम्। सापि गृहकर्मव्यग्रतया स्मद्वचनं न श्रोष्यति। ततोऽहं समुत्थाय तां पादप्रहारेण ताडयिष्यामि। एवं तेन ध्यानस्थितेन तथैव पदप्रहारो दत्तो यथा स घटो भग्नः। सक्तुभिः पाण्डुरतां गतः। अतोऽहं ब्रवीमि—‘अनागतवतीं चिन्ताम्’ इति। सुवर्णसिद्धिराह—‘एवमेत्। कस्ते दोषः। यतः सर्वोऽपि लोभेन विडम्बितो बाध्यते। उक्तं च—
यो लौल्यात्कुरुते कर्म नैवोदर्कमवेक्षते।
विडम्बनामवाप्नोति स यथा चन्द्रभूपतिः॥६५॥
चक्रधर आह—‘कथमेतत।’ स आह—
कथा ९
कस्मिंश्चिन्नगरे चन्द्रो नाम भूपतिः प्रतिवसति स्म। तस्य पुत्रा वानरक्रीडारता वानरयूथं नित्यमेवामेकभोजनभक्ष्यादिभिः पुष्टिं नयन्ति स्म। अथ वानरयूथाधिपो यः, स औशनस बार्हस्पत्यचाणक्य–मतवित्तद्रनुष्ठाता च तान्सर्वानप्यध्यापयति स्म। अथ तस्मिन्गजगृहे लघुकुमारवाहनयोग्यं मेषयूथमस्ति। तन्मध्यादेको जिह्वालौल्यादहर्निशं निःशङ्कं महानसे प्रविश्ययत्पश्यति तत्सर्वं भक्षयति। ते च सूपकारा यत्किंचित्काष्ठं मृण्मम् भाजनं कांस्यपात्रं ताम्रपात्रं वा पश्यन्ति तेनाशु ताडयन्ति। सोऽपि वानरयूथपस्तद्दृष्ट्वा व्यचिन्तयत्—‘अहो’ मेषसूपकारकलहोऽयं वानराणां क्षयाय भविष्यति, यतोऽन्नास्वादलम्पटोऽयं मेषोमहाकोपाश्च सूपकारा यथासन्नवस्तुना प्रहरन्ति। तद्यदि वस्तुनोऽभावात्कदाचिदुल्मुकेन ताड़यिष्यन्ति तदोर्णामचुरोऽयं मेषः स्वल्पेनापि वह्णिनाना प्रज्वलिष्यति। तद्दह्यमानः पुनरश्वकुट्यां समीपवर्तिन्यां प्रवेक्ष्यति। सापि तृणप्राचुर्याज्ज्वलिष्यति। ततोऽश्वा वह्निदाहमवाप्त्यन्ति। शालिहोत्रेण पुनरेतदुक्तम्—यद्वानरवसयाश्वानांवह्निदाहदोषः प्रशाम्यति। तन्नूनमेतेन भाव्यमत्र निश्चयः।’ एवं निश्चित्य सर्वान्वानरानाहूय रहसि प्रोवाच—यत्—
‘मेषेण सूपकाराणां कलहो यत्र जायते।
स भविष्यत्यसंदिग्धं वानराणां क्षयावहः॥६६॥
तस्मात्स्यात्कलहोयत्र गृहे नित्यमकारणः।
तद्गृहं जीवितं वाञ्छन्दूरतः परिवर्जयेत्॥६७
तथा च—
कुलहान्तानि हर्म्याणि कुवाक्यान्तं च सौहृदम्।
कुराजान्तानि राष्ट्राणि कुकर्मान्तं यशो नृणाम्॥६८॥
यन्नयावत्सर्वेषां संक्षयो भवति, तावदेतद्राजगृहं संत्यज्य वनं गच्छामः।’ अथ तत्तस्य वचनमश्रद्धेयं श्रुत्वामदोद्धता वानराः प्रहस्य प्रोचुः—‘भोः, भवतो वृद्धभावाद्बुद्धिवैकल्यं संजातं येनैतद्ब्रवीषि। उक्तं च—
वदनं दशनैर्हीनं लाला स्रवति नित्यशः।
न मतिः स्फुरति क्वापि काले वृद्धे विशेषतः॥६६॥
न वयं स्वर्गसमानोपभोगान्नानाविधान्भक्ष्यविशेषान्राजपुत्रः स्वहस्तदत्तानमृतकल्पान्परित्यज्य तत्राटव्यां कषायकटुतिक्तक्षाररूक्षफलानि भक्षयिष्यामः।’ तच्छ्रुत्वाश्रुकलुषांदृष्टिं कृत्वास प्रोवाच—‘रे रे मूर्खाः, यूयमेतस्य सुखस्यपरिणामं न जानीथ। किं न पाकरसास्वादनप्रायमेतत्सुखं परिणामे विषवद्भविष्यति। तदहं कुलक्षयं स्वयं नावलोकयिष्यामि। सांप्रतं वनं यास्यामि। उक्तं च—
मित्रं व्यसनसंप्राप्तं स्वस्थानं परपीडितम्।
धन्यास्ते ये न पश्यन्ति देशभङ्गं कुलक्षयम्॥७०॥
एवमभिधाय सर्वांस्तान्परित्यज्य स यूथाधिपोऽटव्यां गतः। अथ तस्मिन्गतेऽन्यस्मिन्नहनि स मेषो महानसे प्रविष्टो यावत्सूपकारेणनान्यत्किंचित्समासादितम्, तावद्धज्वलितंताड्यमानो जाज्वल्यमानशरीरः शब्दायमानोऽश्वकूट्यांप्रत्यासन्नवर्तिन्यां प्रविष्टः। तत्र हरणमाचुर्य युक्तायां क्षितौ तस्य मनः प्रतुठतः सर्वत्रापि वह्निज्वालास्तथा समुत्थिता यथा केचिदश्वाः स्फुटितलोचनाः पञ्चत्वं गताः, केचिद्बन्धनानि त्रोटयित्वार्धदग्धशरीरा इतश्चेतश्च हेषायमाणा धावमानाः सर्वमपि जनसमूहमाकुलीचक्रुः।अत्रान्तरे राजा सविषादः शालिहोत्रज्ञान्वैद्यानाहूय प्रोवाच—‘भोः, प्रोच्यतामेषामश्वानां कश्चिद्दाहोपशमनोपाय।’ तेऽपि शास्त्राणि विलोक्य प्रोचुः—‘देव, प्रोक्तमत्र विषये भगवता शालिहोत्रेण। यत्—
कपीनां मेदसा दोषो वह्निदाहसमुद्भवः।
अश्वानां नाशमभ्येति तमः सूर्योदये यथा॥७१॥
तत्क्रियतामेतच्चकित्सतं द्राक्, यावदेते न दाहदोषेण विनश्यन्ति सोऽपि तदाकर्ण्य समस्तवानरवधमादिष्टवान्। किं बहुना सर्वेऽपि ते वानरा विविधायुधलगुडपाषाणादिभिर्व्यापादिता इति अथ सोऽपि वानरयूथपस्तं पुत्रपौत्रभ्रातृसुतभागिनेया दिसंक्षयं ज्ञात्वा परं विषादमुपागतः। स त्यक्ताहारक्रियो वनाद्वनं पर्यटति। अचिन्तयच्च—‘कथमहं तस्य नृपापसदत्यानृणताकृत्येनापकृत्यं करिष्यामि।’ उक्तं च—
मर्षयेद्धर्षणां योऽत्र वंशजां पर निर्मिताम्।
भयाद्वा यदि वा कामात्स ज्ञेयः पुरुषाधमः॥७२॥
अथ तेन वृद्धवानरेण कुत्रचित्पिपासाकुलेन भ्रमता पद्मिनीखण्डमण्डितं सरः समासादितम्। यावत्सूक्ष्मेक्षिकयावलोकयति तावद्वनचरमनुष्याणां पदपङ्क्तिप्रवेशोऽस्ति, म निष्क्रमणम्। ततश्चिन्तितम्—‘नूनमत्र जलान्ते दुष्टग्राहेण भाव्यम्।तत्पद्मिनीनालमादाय दूरस्थोऽपि जलं पिवामि।’ तथानुष्ठिते तन्मध्याद्राक्षसो निष्कम्य रत्नमालाविभूषितकण्ठस्तमुवाच—‘भोः अत्र यः सलिले प्रवेशं करोति स मे भक्ष्य इति। तन्नास्ति धूर्ततर स्त्वत्त्समोऽन्यो यत्पानी यमनेन विधिना पिवसि। ततस्तुष्टोऽहम्। प्रार्थयस्व हृदयवाञ्छितम्।’ कपिराह—‘भोःकियती ते भक्षणशक्तिः।’ स आह—‘शतसहस्रायुतलक्षाण्यपि जलमविष्टानि भक्षयामि॥ बाह्यतः शृगालोऽपि मां दूषयति।’ वानर आह—‘अस्ति मे केनचिद्भूपतिनासहात्यन्तं वैरम्। यद्येनां रत्नमालां मे प्रयच्छसि तत्सपरिवारपि तं भूपतिं वाक्प्रपञ्चेन लोभयित्वात्र सरसि प्रवेशयामि।’ सोऽपि श्रद्धेयं वचस्तस्य श्रुत्वा रत्नमालां दत्त्वा प्राह—‘भो मित्र, यत्समुचितं भवति तत्कर्तव्यम्’ इति। वानरोऽपि रत्नमालाविभूषितकण्ठो वृक्षपासादेषु परिभ्रमञ्जनैर्दृष्टः, पृष्टश्च—‘भो यूथप, भवानियन्तं कालं कुत्र स्थितः। भवतेदृग्रत्नमाला कुत्रलब्धा, या दीप्त्यासूर्यमपि तिरस्करोति।’ वानरः प्राह—‘अस्ति कुत्रचिदरण्ये गुप्ततरं महत्सरो धनदनिर्मितम्। तत्र सूर्येऽर्धोदिते रविवारे यः कश्चिन्निमज्जति, स धनदप्रसादादीदृग्नत्रापालाविभूषितकण्ठोनिःसरति। अथ भूभुजा तदाकर्ण्यस बानरः समाहूतः, पृष्टश्च—भो यूषाधिप किं स यमेतत्। रत्नमालासनाथं सरोऽस्ति क्वापि।’ कपिराह—स्वामिन्एषप्रत्यक्षायामत्कण्ठस्थितया रत्नमालया प्रत्ययस्ते। तद्यदि रत्नमालया प्रयोजनं तन्मया यह कमपि प्रेषय येन दर्शयामि। तच्छ्रुत्वा नृपतिराह—‘यद्येवंतदहं सपरिजनः स्वयमेष्यामि येन प्रभूता रत्नमालाःसंपद्यन्ते। वानर आह—‘एवं क्रियताम्।’ तथानुष्ठिते भूपतिना सह रत्नमालालोभेन सर्वे कलप्रभृत्याः प्रस्थिताः। वानरोऽपि राज्ञा दोलाधिरूढेन स्वोत्सङ्ग आरोपितः सुखेन प्रीतिपूर्वमानीयते। अथवा साध्विदमुच्यते—
तृष्णे देवि नमस्तुभ्यं यया वित्तान्विता अपि।
अकृत्येषु नियोज्यन्ते भ्राम्यन्ते दुर्गमेष्वपि॥७३॥
तथा च।
इच्छति शती सहस्रं सहस्री लक्षमीहते।
लक्षाधिपस्तथा राज्यं राज्यस्थः स्वर्गमीहते॥७४॥
जीर्यन्ते जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः।
जीर्यतश्चक्षुषीश्रोत्रे तृष्णैका तरुणायते॥७५॥
अथ तत्सरः समासाद्यवानरः प्रत्यूषसमये राजानमुवाच—‘देव, अत्रार्धोदितेसूर्ये प्रविष्टानां सिद्धिर्भवति। तत्सर्वोऽपिजन एकदैव प्रविशतु। त्वया पुनर्मया सह प्रवेष्टव्यं येन पूर्वदृष्टस्थानमासाद्य प्रभूतास्ते रत्नमाला दर्शयामि।’ अथ प्रविष्टास्ते लोकाः सर्वे भक्षिता राक्षसेन। अथ तेषु चिरायमाणेषु राजा बानरमाह—‘भो यूथाधिप, किमिति चिरायते मे जनः। तच्छ्रुत्वावानरः सत्वरं वृक्षमारुह्य राजानमुवाच—‘भो दुष्टनयपते, राक्षसेनान्तःसलिलस्थितेन भक्षितास्ते परिजनः। साधितं मया कुलक्षयजं वैरम्। तद्गम्यताम्। त्वंस्वामीति मत्वानात्र प्रवेशितः। उक्तं च—
कृते प्रतिकृतिं कुर्याद्धिसिते प्रतिहिंसितम्।
न तत्र दोषं पश्यामि दुष्टेदुष्टं समाचरेत्॥७६॥
तत्त्वया मम कुलक्षयः कृतः, मया पुनस्तव’ इति। अथैतदाकर्ण्य राजा कोपाविष्टः पदातिरेकाकी यथायतमार्गेण निष्क्रान्तः। अथ तस्मिन्भूपतौ गते राक्षसस्तृप्तो जलान्निष्क्रम्य सानन्दमिदमाह—
हतः शत्रुः कृतं मित्रं रत्नमाला न हारिता।
नालेनपिबता तोयं भवता साधु वानर॥७७॥
अतोऽहं ब्रवीमि—‘यो लौल्यात्कुरुते कर्म’ इति। एवमुक्त्वाभूयोऽपि स चक्रधरमाह—‘भो मित्र, प्रेषय मां येन स्वगृहं गच्छामि।’ चक्रधर आह—‘भद्र, आपदर्थे धनमित्रसंग्रहः क्रियते। तन्मामेवंविधं त्यक्त्वाक यास्यसि। उक्तं च—
यस्त्यक्त्वा सापदं मित्रं याति निष्ठुरतां सुहृत्।
कृतघ्नस्तेन पापेन नरके यात्यसंशयम्॥७८॥
सुवर्णसिद्धिराह—‘भोः, सत्यमेतद्यदि गम्यस्थाने शक्तिर्भवति। एतत्पुनर्मनुष्याणामगम्यस्थानम्। नास्ति कस्यापि त्वामुन्मोचयितुंशक्तिः। अपरं यथा यथा चक्रभ्रमवेदनया तब मुखविकारं पश्यामि, तथा तथाहमेतज्जानामि यद्दाग्गच्छामि मा कश्चिन्ममाप्यनर्थो भवेदिति यतः।
यादृशी वदनच्छाया दृश्यते तव वानर।
बिकालेन गृहीतोऽसि यः परैति स जीवति॥७९॥
चक्रधर आह—‘कथमेतत्। सोऽब्रवीत्—
कथा १०
कस्मिंश्चिन्नगरे भद्रसेनो नाम राजा प्रतिवसति स्म। तस्य सर्वलक्षणसंपन्ना रत्नवती नाम कन्यास्ति। तां कश्चिद्राक्षसो जिहीर्षति। परं कृतरक्षोपधानां हर्तुं न शक्नोति। एवमतिक्रामति काले कदाचित्स राक्षसो मध्यनिशायां गृहकोणे स्थितः। सापि राजकन्या स्वसखीमुवाच—‘सखि, पश्यैष विकालसमये नित्यमेत्र मां कदर्थयति। अस्ति तस्य दुरात्मनः प्रतिषेधोपायः कश्चित्। तच्छ्रुत्वाराक्षसोऽपि व्यचिन्तयत्—‘नूनं यथाहं तथान्योऽपिकश्चिद्विषाकालनामास्याहरणाय नित्यमेवागच्छति। परं सोऽप्यनां हर्तुं न शक्नोति। तत्तावदश्वरूपं कृत्वाश्वमध्यगतो निरीक्षयामि किंरूपः स किंप्रभावश्चेति।’ एवं राक्षसोऽश्वरूपं कृत्वाश्वानां मध्ये तिष्ठति। तथानुष्ठिते निशीथसमये राजगृहे कश्चिदश्वचौरः प्रविष्टः। स च सर्वानश्वानवलोक्य तं राक्षसमन्यतमं विज्ञायाधिरूढः। अत्रान्तरे राक्षसश्चिन्तयामास—‘नूनमेष विकालनामा मां चौरं मत्वाकोपान्निहन्तुमागतः। तत्किं करोमि।’ एवं चिन्तयन्सोऽपि तेन खलीनं मुखे निधाय कशाघातेन ताडितः। अथासौ भयत्रस्तमनाः प्रधावितुमारब्धः। चौरोऽपि दूरं गत्वाखलीनाकर्षणेन तं स्थिरं कर्तुंमारब्धवान्। स तु केवलं वेगाद्वेगतरं गच्छति अथ तं तथागणितखलीनाकर्षणं मत्वा चौरचिन्तयामास—‘अहो, नैवंविधा वाजिनो भबन्त्यगणितखलीनाः। तन्नूनमनेनाश्वरूपेण राक्षसेन भवितव्यम्। तद्यदि कंचित्पांशुलं भूमिदेशमवलोकयामि ‘तदात्मानं तत्र पातयामि। नान्यथा मे जीवितव्यमस्ति।’ एवं चिन्तयत इष्टदेवतां स्मरतस्तस्य सोऽश्वो वटवृक्षस्य तले निष्क्रान्तः। चौरोऽपि वटप्ररौहमासाद्य तत्रैव विलग्नः। ततो द्वावपि तौ पृथग्भूतौ। परमामन्दभाजौजीवितविषये लब्धप्रत्याशौ संपन्नौ अथ तत्र वटे कश्चिद्राक्षससुहृद्वानरः स्थित आसीत्। तेन राक्षसं त्रस्तमालोक्य व्याहृतम्—‘भो मित्र, किमेवं पलाय्यतेऽलोकमयेन। तद्भक्ष्येऽयं मानुषः। भक्ष्यताम्। ‘सोऽपि वानरवचो निशम्य स्वरूपमाधाय शङ्कितमनाः स्खलिवगतिर्निवृत्तः। चौरोऽपि तं वानराहूतं ज्ञात्वाकोपात्तस्य लाङ्गलं लम्बमानं मुखे निधाय चर्वितवान्। वानरोऽपि तं राक्षसाभ्यधिकं मन्यमानो भयान्न किंञ्चिदुक्तवान् केवलं व्याथार्तो निमीलितनयनस्तिष्ठति। राक्षसोऽपि तथाभूतमवलोक्य श्लोकमेनमपठत्—
‛यादृशी वदनच्छाया दृश्यते सब वानर।
विकालेन गृहीतोऽसि यः परैति स जीवति’॥८०॥
प्रनष्टश्च। तत्प्रेषय मां येन गृहं गच्छामि। त्वंपुनरनुभुङ्क्ष्वात्र स्थित एव लोभवृक्षफलम्। चक्रधरः प्राह—‘भोः, अकारणमेतत्। दैववशात्संपद्यतेनृणां शुभाशुभम्। उक्तं च—
दुर्गस्त्रिकूटः परिखा समुद्रो
रक्षांसि योधा धनदाच्च वित्तम्।
शास्त्रं च यस्योशनसा प्रणीतं
स रावणो दैववशाद्विपन्नः॥८१॥
सुवर्णसिद्धिराह—‘भोः, सत्यमेतत्। दैवानुकूलतया सर्वंकन्याणं संपद्यते। तथापि पुरुषेण सतां वचनं कार्यम्। न पुनरेवमेव योवर्तते स त्वमित्र विनश्यति। तथा च।
एकोदराः पृथग्ग्रीवा अन्योन्यफलभक्षिणः।
असंहता विनश्यन्ति भारण्डा इव पक्षिणः॥८२॥
चक्रधर आह—‘कथमेतत्। ‘सोऽब्रवीत्—
कथा ११
कस्मिंश्चित्सरोवरे भारण्डनामा पक्ष्येकोदरः पृथग्ग्रीवः प्रतिवसति स्म। तेन च समुद्रतीरे परिभ्रमताकिंचित्फलममृतकल्पंतरङ्गाक्षिप्तं संप्राप्तम्। सोऽपि भक्षयन्निदमाह—‘अहो, बहूनि मयाऽमृतप्रायाणि समुद्रकल्लोलाहृतानि फलानि भक्षितानि।परमपूर्वोऽस्यास्वादः। तत्किं पारिजातहरिचन्दनतरुसंभवम्। किं वा किचिदमृतमयफलमव्यक्तेनापि विधिनापतितम्।’ एवं तस्य ब्रुवतोद्वितीयमुखेनाभिहितम्—भोः, यद्येवं तन्ममापि स्तोकं प्रयच्छ, येन जिह्वासौख्यमनुभवामि।’ ततो विहस्य प्रथमवक्तोव्यणाभिहितम्—‘आवयोस्तावदेकमुदरम्, एका तृप्तिश्च भवति। ततः किं पृथग्भक्षितेन। घरमनेन शेषेण प्रिया तोष्यते।’ एवमभिधाय तेन शेषं भारण्ड्याः प्रदत्तम्। सापि तदास्याद्यप्रहृष्टतमा बभूव। द्वितीयं मुखं तद्दिनादेव प्रभृति सोद्वेगं सविषादं च तिष्ठति। अथान्येद्युद्वितीयमुखेन विषफलं प्राप्तम्। तद्दृष्ट्वापरमाह—भो निस्त्रिंश पुरुषाधम निरपेक्ष, मया विषफलमासादितम्। तत्तवापमानाद्भक्षयामि। अपरेणाभिहितम्—‘मूर्ख, मा मैवं कुरु। एवं कृते द्वयोरपि विनाशो भविष्यति। अथैवं वदता तेनापमानेन फलं भक्षितम्। किं बहुना। द्वापि विनष्टौ। अतोऽहं ब्रवीमि’एकोदराः पृथग्ग्रीवाः’ इति॥ चक्रधर आह—‘सत्यमेतत्। तद्गच्छ गृहम्। परमेकाकिना न गन्तव्यम्। उक्तं च—
एकःस्वादु न भुञ्जीत नैकः सुप्तेषु जागृतात्।
एको न गच्छेदध्वानं नैकश्चार्थान्प्रचिन्तयेत्॥८३॥
अपि च।
अपि कापुरुषो मार्गे द्वितीयः क्षेमकारकः।
कर्कटेन द्वितीयेन जीवितं परिरक्षितम्॥८४॥
सुवर्णसिद्धिराह—‘कथमेतत्।’ सोऽब्रवीत्—
कथा १२
कस्मिंश्चिदधिष्ठाने ब्रह्मदत्तनामा ब्राह्मणः प्रतिवसति स्म। स च प्रयोजनवशाद्ग्रामे प्रस्थितः स्वमात्राभिहितः—‘यद्वत्स, कथमेकाकी व्रजसि। तदन्विष्यतां कश्चिद् द्वितीयः सहायः।’ स आह—अम्ब, मा भैषीः। निरुपद्रवोऽयं मार्गः। कार्यवशादेकाकी गमिष्यामि।’ अथ तस्य तं निश्वयं ज्ञात्वासमीपस्थवाप्याः सकाशात्कर्कटमादाय मात्रा भिहितः—‘वत्स, अवश्यं यदि गन्तव्यं तदेष कर्कटोऽपि सहायो भवतु। तदेनं गृहीत्वागच्छ।’ सोऽपि मातुर्वचनादुभाभ्यां पाणिभ्यां तं संगृह्यकर्पूरपुटिकामध्ये निधाय पात्रमध्ये संस्थाप्य शीघ्रं प्रस्थितः। अथ गच्छन्ग्रीष्मोष्मणा संतप्तः कंचिन्मार्गस्थं वृक्षमासाद्य तत्रैव प्रसृप्तः। अत्रान्तरे वृक्षकोटरान्निर्गत्य सर्पस्तत्समीपमागतः। सोऽपि कर्पूरसुगन्धसहजप्रियत्वात्तं परित्यज्य वस्त्रं विदार्याभ्यन्तरगतां कर्पूरपुटिकामतिलौल्यादभक्षयत्। सोऽपि कर्कटस्तत्रैव स्थितः सन्सर्पप्राणानपाहरत्। ब्राह्णणेऽपि यावत्प्रबुद्धः पश्यतितावत्समीपेकृष्णसर्पोनिजपार्श्वेकर्पूरपुटिकोतोपरि मृतस्तिष्ठति। तं दृष्ट्वा व्यचिन्तयत्—‘कर्कटेनायंहतः’ इति प्रसन्नोभूत्वाब्रवीत्—‘भोः, सत्यमभिहितं मम मात्रा यत्पुरुषेण कोऽपि सहायः कार्यः, नैकाकिना गन्तव्यम्। यतोमया श्रद्धापूरितचेतसा तद्वचनमनुष्ठितम् तेनाहं कर्कटेन सर्पव्यापादनाद्रक्षितः। अथवा साध्विदमुच्यते—
क्षीणः स्रवतिशशी रविवृद्धौ वर्धयति पाथसां नाथम्।
अन्ये विपदि सहाया धनिनां श्रियमनुभवन्त्यन्ये॥८५॥
मन्त्रे तीर्थे द्विजे देवे दैवज्ञेभेषजे गुरौ।
यादृशी भावना यस्य सिद्धिर्भवति तादृशी॥८६॥
एवमुक्त्वासौ ब्राह्मणो यथाभिप्रेतं गतः। अतोऽहं ब्रवीमि—‘अपि कापुरुषो मार्गे’ इति। एवं श्रुत्वा सुवर्णसिद्धिस्तमनुज्ञाप्य स्वगृहंप्रतिनिवृत्तः॥
इति श्रीविष्णुशर्मविरचते पञ्चतंत्रकेऽपरीक्षितकारकं नाम पञ्चमं तन्त्रं समाप्तम्।
समाप्तमिदं पञ्चतन्त्रकम्।
शुभं भूयात्।
<MISSING_FIG href="../books_images/U-IMG-1721443514Screenshot2024-07-20081201.png"/>
टिप्पणी
काकोलूकीयम्।
काकस्य उलूकस्य च परस्परं शाश्वतिको विरोधो वर्ण्यते यस्मिन् तन्त्रे तत्काकोलूकीयं नाम तन्त्रम्।हुताशनोऽग्निः॥१॥ अनेक शाखाभिः सनाथः युक्तः न्यग्रोहतीति न्यग्रोधः वटवृक्षः। पादपो वृक्षः। वायसः काकः।
समासादयति प्राप्नोति। व्यापाद्य हत्वा। निर्वायर्संकाकरहितम्। पक्ष कदनं पक्ष व्याघातः। प्रति विधानं प्रतिकारः।
अरातयः शत्रवः॥१०॥
दृषत्कुम्भः पाषाणवटः॥१४॥ आखुर्पूषकः।बलवतः समक्षेनति रेववैतसी वृत्तिः, कुटिला वृत्तिर्हि भौजङ्गी। कूर्मः कच्छपः स यथा स्वाङ्गानि संकोच्य तिष्ठति तथा मर्षयेत् सहेत॥२०॥
रभसं व्याकुलत्वं सहसा कार्यकारित्वं वा॥६१॥
कल्पितवान् समर्थितवान्। पाबकोऽग्निः।
स्वेदयोग्यं स्वेद्यम्।अम्भसा जलेन॥२६॥
सर्पिषः घृतस्य॥२७॥
कण्ठीरवः सिंहः॥२८॥
कीचको नाम विराटस्य भ्राता द्रौपदीं चक्रमे, भीमश्च तं तच्छद्मना जघानेति भारती कथा॥२९॥
राज्याभिषेक काले राजा सकल पृथ्वी जलै रानीतैरभिषिच्यते, इति व्यवहारविदः।
यानं शत्रुं प्रति सेनया सह प्रयाणम्॥३४॥
साम्नाशत्रुशमनं संधिः। अभियोगेन रिपुधर्षणं विग्रहः। मृगपतिः सिंहः। उत्पतितुं शीलमस्येति उत्पतिष्णुः॥४५॥
मेदिनीं राष्ट्रभूमिम्॥४२॥
अहंकृतिरहंकारः।
अपसरणं भयात्पलायनम्।
शुना कुक्कुरेण॥४४॥
स्वस्थाने स्थितिरासनम् नीत्यङ्गम्।
संधिविग्रहयानासन संश्रय द्वेधीभाव इत्येते षड्गुणाः।
मयेन भीत्या संत्रस्तं व्याकुलितं मानसं यस्य॥४६॥
गम्यः प्राप्यः॥४७॥ सुभटाः निपुणाः योद्धारः। परितो भित्तिः प्राकारः, परितो जलसंपूर्णागभीरा कुल्याः दुर्गरक्षार्थं परिखा उच्यते॥४६॥ क्ष्मापृथिवी। एकसंश्रयाः एकत्रस्थिताः। एकज एकाकी। प्रसह्य बलाद। धर्षयितुं तिरस्कर्त्तुं, उत्पाटयितुमिति यावत्॥५२॥
द्विषन्तः शत्रवः॥५४॥
निर्वाते वातरहिते स्थाने॥५५॥
श्रेयसी साध्वी। अर्थात् संगतिमात्रेण सहायवन्तो जनाः प्रवला भवन्ति निःस्सहायास्तुपरहिता स्तण्डुला इव नश्यन्ति
वेणुः वंशवृक्षः॥५८॥ संपर्कःसंगः॥५६॥
बलवत आश्रयणं संश्रयः।
लोभं दर्शयद्भिरविश्वस्तैर्विश्वास्य शत्रोरुच्छेदप्रकारो द्वैवीभावः। श्लेष्मा कफः। गुडेन श्लेष्मा वर्धमानोऽपि वैद्यैरुपचारविशेषाद्दूरी क्रियते।
इत्येवं सकलोऽपि षाड्गुण्यप्रकारो विस्तरेणोक्तः।उच्चाठयिष्यसि विनाशयिष्यसि।
न विदितः सम्यग्ज्ञातः संश्रयः संस्थानप्रकाराोयस्य सः।
तारयतीति तीर्थम्। परमत्र तीर्थशब्दः नीतिशास्त्रस्यपारिभाषिकः प्रयोगः, शत्रोः प्रजाया वा अयुक्त मपथ्यंकर्म तीर्थशब्देन गृह्यते इत्यग्रेवक्ष्यति ग्रन्थकृत्॥६४॥ स्वपक्षेऽष्टादशतीर्थानि भेदगतानि रिपुक्षयं कुर्वन्ति ततश्च पञ्चदशतीर्थानि स्वपक्षे वैरयुक्तानि चेत्स्वपक्षंघ्नन्ति॥६५॥
तान्येतानि तीर्थानि मन्त्र्यादि प्रोत्कटभृत्यान्तानि। पञ्चदश च देव्यादि विलासिन्यन्तानि इति। एते सर्वेपि अधिकारिणाोजना यथाधिकारं विद्यार्थिभ्योऽध्यापकैः स्पष्टीकरणीयाः।
वैद्यो यथा, मुद्राराक्षसे अभयदत्तमाना; सांवत्सरिकाचार्यः ज्योतिषी, यथाराक्षसस्य मुद्राराक्षसेजीवसिद्धिः, चरा दूताकानारूपधारिणः प्रणिधयः। आहितुण्डिकः सर्पजीवी यथा मुद्राराक्षसे राक्षसस्यकुसुमपुरप्रणिधिः। उन्मत्तः उन्मादयुक्तस्य जनस्य वेशधारी, यथा भासस्य प्रतिज्ञानाटिकायाम्। यथेदानीमपि नानाकाषाय धारिणः प्रभुमण्डलस्य “खुफिया पुलिस” इत्याख्या गुप्तचरां गृहादगृहं द्वाराद्वारंपर्यटन्ति। साध्यते वशी क्रियते। विष्करः हुद हुद, खुट बढई इति भाषायाम्। बैनतेयो गरुड़ः
जह्याद् त्यजेत्। अत्रे समुद्रे॥७०॥
विहंगमानां पक्षिणाम्।
कृकालिका उलूकपत्नी। साधिते विविधतीर्थोदक इत्यतः आनीतायामग्रमहिष्यामिति यावदभिषेकक्रिया संम्भारः क्रियते। सम्भाराःद्रव्याणि।
विलीयन्ते नश्यन्ति, व्यर्थंगच्छन्ति। कारण्डवहारीतौ पक्षिविशेषौ।
दिवान्ध उलूकः दिनेदर्शनाभावात्। करालवक्तः भीषणमुखः
कथा १।
उग्रं भीषणम्। पार्थिवो राजा। क्षेमं कल्याणम्। प्रभूतवर्षाणि यावत् बहुवत्सरपर्यन्तम्।
प्रहितः प्रेषितः। निपातिताः हताः
कथा २।
नोऽस्माकम् \। क्षुद्रस्तुच्छः।अलस आलस्ययुक्तः। कापुरुषः कुत्सितः मनुष्यः।
अहानि दिनानि। अस्तमनवेला सायंकालः। आवसथस्थानं निवास स्थानम्। पीवरा स्थूला मांसला
तनुः शरीरं यस्य स। मिध्यापरुषाणि मृषा दुर्वचनानि। उत्सर्गः त्यागः दानम्॥६१॥ दशवत्सरानुपभोगं कुर्वतो जनस्य अनधिकृतमधि कृतमेव भवति।
तिरश्चांपशूणाम् विहेगानां पक्षिणाम्। धर्मोपदेशना धर्म कथा,धर्म चर्चा।
दशांन् तीक्ष्णपुच्छविषान्कीटान्मशकांश्च अपहन्तितत्॥९६॥
पुलाको निकृष्टधान्यम्। पूतिका वस्त्रयः दीमक इति भाषायाम्।
अन्तरायो विघ्नः॥१००॥
व्रतवैकल्यं व्रतवैपरीत्यम् व्रतभङ्ग इति यावत्।
२२. परमार्थं परमं तत्वम्। ऋतम् सत्यम्॥१०७॥ कर्णो पान्तिके कर्ण समीपे। उत्सङ्गः क्रोडम्। उत्सङ्ग वर्त्तिनौसमीपवर्त्तिनौ
२३. बीभत्सं जुगुप्साकरम्। अनायतिक्षमं आयतौ उत्तरकाले क्षमः स मर्थो न भवति सः। शक्ति हीन इति यावत्। परिवादः निन्दा।
२४. सौम्यानिलः सुखप्रदो वायुः। अग्निहोत्रपरिग्रहो विहितो यागादिविधि। पर्जन्योमेघः। गगनम्
]