०० कथामुखम्

तत्र कथामुखम् ब्रह्मा रुद्रः कुमारो हरिवरुणयमा वह्निरिन्द्रः कुबेर- चन्द्रादित्यौ सरस्वत्युदधियुगनगा वायुरुव भुजङ्गाः । सिद्धा नद्योऽश्विनौ श्रीदितिरदितिसुता मातरश्चण्डिकाद्या वेदास्तीर्थानि यज्ञा गणवसुमुनयः पान्तु नित्यं ग्रहाश्च ॥ १ ॥ मनवे वाचस्पतये शुक्राय पराशराय ससुताय । चाणक्याय च विदुषे नमोऽस्तु नयशास्त्रकर्तृभ्यः ॥ २ ॥ सकलार्थशास्त्र सारं जगति समालोक्य विष्णुशर्मेदम् । तन्त्रैः पञ्चभिरेतच्चकार सुमनोहरं शास्त्रम् ॥ ३ ॥

२ पञ्चतन्त्रे- तद्यथाऽनुश्रूयते - अस्ति दाक्षिणात्ये जनपदे महिलारोप्यं नाम नग- रम् । तत्र सकलार्थिकल्पद्रुमः प्रवरमुकुटमणिमरीचिमञ्जरीचचित- चरणयुगलः सकलकलापारङ्गतोऽमरशक्तिर्नाम राजा बभूव । तस्य त्रयः पुत्राः परमदुर्मेधसो बहुशक्तिरु! शक्तिरनन्तशक्तिश्चेति नामानो बभूवुः । अथ राजा ताशास्त्रविमुखानालोक्य सचिवानाहूय प्रोवाच- ‘भोः, ज्ञातमेतद्भवद्भिर्यन्ममैते पुत्राः शास्त्रविमुखा विवेकरहिताश्च तदे- तान्पश्यतो मे महदपि राज्यं न सौख्यमावहति । अथवा साध्विदमुच्यते- अजातमृतमूर्खेभ्यो मृताजातौ सुतौ वर॑म् । यतस्ती स्वल्पदुःखाय यावज्जीवं जडो दहेत् ॥ ४ ॥ .वरं गर्भस्रावो वरमृतुषु नैवाभिगमनं वरं जातः प्रेतो वरमपि च अर्थशास्त्र के कन्येव जनिता ।

वरं वन्ध्या भार्या वरमपि च गर्भेषु वसति- र्न चाविद्वान्रूपद्रविणगुणयुक्तोऽपि तनयः ॥ ५ ॥ किं तया क्रियते धेन्वा या न सूते न दुग्धदा । कोऽर्थः पुत्रेण जातेन यो न विद्वान्न भक्तिमान् ॥ ६ ॥ वरमिह वा सुतमरणं मा मूर्खत्वं कुलप्रसूतस्य । . येन विबुधजनमध्ये जारज इव लज्जते मनुजः ॥ ७ ॥ गुणिगणगणनारम्भे न पतति कठिनी ससंभ्रमा यस्य । तेनाम्बा यदि सुतिनी वद वन्ध्या कीदृशी भवति ॥ ८ ॥ ३ तदेतेषां यथा बुद्धिप्रकाशो भवति तथा कोऽप्युपायोऽनुष्ठीयताम् । अत्र च मद्दत्तां वृत्ति भुञ्जानानां पण्डितानां पञ्चशती तिष्ठति । ततो ‘यथा मम मनोरथाः सिद्धि यान्ति तथाऽनुष्ठीयताम्’ इति । तत्रेकः प्रोवाच ‘देव, द्वादशभिर्वर्षैर्व्याकरणं श्रूयते । ततो धर्मशास्त्राणि मन्वादीनि, अर्थ- शास्त्राणि चाणक्यादीनि कामशास्त्राणि वात्स्यायनादीनि । एवं च ततो 1 धर्मार्थ कामशास्त्राणि ज्ञायन्ते । तनः प्रतिबोधनं भवति ।’ अथ तन्मध्यतो सुमतिर्नाम सचिवः प्राह - ‘अशाश्वतोऽयं जीवितव्यविषयः । प्रभूत- कालज्ञेयानि शब्दशास्त्राणि । तत्संक्षेपमात्रं शास्त्रं किश्विदेतेषां प्रबोध- नाथं चिन्त्यतामिति । उक्तं च यतः– अनन्तपारं किल शब्दशास्त्र स्वल्पं तथाऽऽयुबंहवश्व विघ्नाः । सारं तते ग्राहमपास्य फल्गु हंसैर्यथा क्षीरमिवाम्बुमध्यात् ॥ ९ ॥ तदत्रास्ति विष्णुशर्मा नाम ब्राह्मणः सकलशास्त्रपारङ्गमश्छात्र- संसदि लब्धकीर्तिः । तस्मे समर्पयतु एतान् । स नूनं द्राक्प्रबुद्धान्करिष्यति’ इति । स राजा तदाकर्ण्य विष्णुशर्माणमाहूय प्रोवाच- ‘भो भगवन्, मदनुग्रहार्थमेतानर्थशास्त्रं प्रति द्राग्यथानन्यसदृशान्विदधासि तथा कुरु । तदाहं त्वां शासनशतेन योजयिष्यामि ।’ अथ विष्णुशर्मा तं राजान- मूचे – ‘देव, श्रूयतां मे तथ्यवचनम् । नाहं विद्याविक्रयं शासनशतेनापि

तो त- च- त्र- नू, । न- पि के ने न 3- र AVA र की प त ए र SAA क + कथामुखम् ५ करोमि । पुनरेतांस्तव पुत्रान्मासषट्केन यदि नीतिशास्त्रज्ञान्न करोमि, ततः स्वनामत्यागं करोमि ।

किं बहुना । श्रूयतां ममैष सिंहनादः ।
नाहमर्थलिप्सुर् ब्रवीमि ।
ममाशीतिवर्षस्य व्यावृत्त-सर्वेन्द्रि-यार्थस्य
न किञ्चिद् अर्थेन प्रयोजनम् ।
किंतु त्वत्-प्रार्थना-सिद्ध्य्-अर्थं सरस्वती-विनोदं करिष्यामि ।
तल्लिख्यताम् अद्यतनो दिवसः ।
यद्य् अहं षण्मासाभ्यन्तरे तव पुत्रान्
नय-शास्त्रं प्रत्य् अनन्य-सदृशान् न करिष्यामि,
ततो नार्हति देवो देवमार्ग संदर्शयितुम् ।’

अथासौ राजा तां ब्राह्मणस्यासम्भाव्यां प्रतिज्ञां श्रुत्वा ससचिवः प्रहृष्टो विस्मयान्वितस्तस्मे सादरं तान्कुमारान्समर्प्य परां निर्वृत्तिमाज- गाम । विष्णुशर्मणापि तानादाय तदर्थं मित्रभेद-मित्रप्राप्ति- काकोलू- कीय - लब्धप्रणाश- अपरीक्षितकारकाणि चेति पञ्चतन्त्राणि रचयित्वा पाठितास्ते राजपुत्राः । तेऽपि तान्यधीत्य मासषट्केन यथोक्ताः संवृत्ताः । ततः प्रभृत्येतत्पञ्चतन्त्रकं नाम नीतिशास्त्रं वालावबोधनार्थं भूतले • प्रवृत्तम् । किं बहुना -

अघीते य इदं नित्यं नीतिशास्त्रं शृणोति च । कदाचनं ॥ १० ॥ न पराभवमाप्नोति शक्रादपि इति कथामुखं समाप्तम् । 11011